लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३५
[[लेखकः :|]]
अध्यायः ३३६ →

श्रीलक्ष्मीरुवाच-
ततस्तुलस्याः किं जातं बदर्याख्ये वने प्रभो! ।
तत्सर्वं वद मे नाथ कृष्णनारायणाऽऽर्तिहन्! ।। १ ।।
श्रीनारायाण उवाच -
शृणु पश्चाद् यथाजातं प्रवदामि निबोध मे ।
त्वया तु विस्मृतं सर्वं स्मारयामि यथातथम् ।। २ ।।
शुभे सा शयने सुप्ता स्वप्नं ददर्श वै क्षणम् ।
तुलसी पश्यति स्वप्ने सुदामानं समागतम् ।। ३ ।।
स एव शंखचूडाख्यः स्वप्ने विलोकितस्तया ।
गृहीतश्च करे धृत्वा करं प्रचूम्बितश्च सः ।। ४ ।।
अदृश्यतां गतो द्राक्च स तु मोहवशा ततः ।
उन्निद्रा ह्यभवत्तूर्णं क्षणमुद्विग्नतां गता ।। ५ ।।
क्षणं सा दहनं प्राप्ता क्षणं प्राप्ता प्रमत्तताम् ।
क्षणं सा चेतनां प्राप्ता क्षणं प्राप्ता विषण्णताम् ।। ६ ।।
उत्तिष्ठति क्षणं तल्पात् प्रयाति निकटं क्षणात् ।
भ्राम्यति क्षणमुद्वेगाद् विशत्येव गृहं क्षणात् ।। ७ ।।
क्षणमेव समुद्वेगादस्वाप्सीत्पुनरेव सा ।
पुनर्ददर्श निद्रायां सुवेषं पुरुषं तु तम् ।। ८ ।।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ।
कथयन्तं रविकथां चुम्बयन्तं मुहुर्मुहुः ।। ९ ।।
तस्यास्तल्पे सुशयानं समाश्लिष्यन्तमादरात् ।
पुनरेव तु गच्छन्तं समुवाच ततः सती ।। 1.335.१० ।।
क्व यासि प्राणवत् स्निग्ध! तिष्ठेत्येवमुवाच तम् ।
पुनस्तु चेतनां लब्ध्वा विललाप तदर्थिनी । । ११ ।।
एवं तपोवने तत्र सा स्थितिमाप भाविनीम् ।
एतस्मिन् समये शंखचूडो योगी तु पुष्करे ।। १२ ।।
जैगीषव्यान्मुनेः सिद्धिं तपसः प्राप्य मन्त्रजाम् ।
ब्रह्मणो वरदानं च लब्ध्वाऽऽज्ञया तु वेधसः ।। १३ ।।
यत्र सा तुलसी त्वास्ते बदरीं तां समाययौ ।
आगच्छन्तं युवानं च कामदेवसमप्रभम् ।। १४। ।
श्वेतचम्पकवर्णाभं सर्वाऽऽभूषणभूषितम् ।
सुरूपं सुदृढांगं च शंखचूडं विलोक्य सा ।। १५ ।।
सकुण्डलं सतिलकं गलकण्ठीयुतं नवम् ।
सुदामानं विनिश्चित्य शंखचूडममन्यत ।। १६ ।।
सलज्जा तं त्वीक्षमाणा नम्रमुखी बभूव सा ।
वाससा मुखमाच्छाद्य नवसंगमलज्जिता ।। १७ ।।
सदृष्टिस्तन्मुखाम्भोजे बभूव पुलकान्विता ।
शंखचूडोऽपि तां तत्र सुस्थितां वाससाऽऽवृताम् ।। १८ ।।
तुलसीयमिति स्मृत्वा ददर्शाऽऽयतलोचनाम् ।
करपादतलाऽऽरक्तां परिवृतां स्वतेजसा ।। १९ ।।
पीनांगीं कांचनवर्णां प्रोद्भिन्ननवयौवनाम् ।
सिन्दूररेखां दधतीं कबरीं मालतीयुताम् । । 1.335.२ ० ।।
कंकणाढ्यप्रकोष्ठां च ललितां सुदतीं सतीम् ।
एवं विलोक्य निश्चित्योवाच तां भावगर्भितम् ।। २१ ।।
का त्वं कामिनि! कस्याऽसि कन्यका मुनिमोहिनी ।
मौनं त्यक्त्वोपागतं मां सम्भाषां कुरु चेन्मताम् । । २२ ।।
श्रुत्वा नम्रस्मितमुखी सकामं तमुवाच सा ।
धर्मध्वजसुता चाहं तपस्यायां स्थिताऽस्मि च ।। २३ ।।
यत्र गच्छसि गच्छ त्वं कोऽस्यसमयप्रश्रकृत् ।
न पृच्छति कुले जात एकाकिनीं रहोगताम् । । २४।।
नारीजने दृष्टमात्रे न योक्तव्यं हृदा क्वचित् ।
आपत्तिस्तत्र जायेत यद्यनिच्छावतो भवेत् ।। २५।।
हृदये क्षुरधाराभा जिह्वायां मधुराक्षरा ।
आपातपूर्व मधुरा पश्चादन्तकवद्ग्रहा ।। २६ । ।
इन्द्रवल्लीफलतुल्या बहिःसौम्याऽऽन्तरेऽशुभा ।
स्वार्थे स्वाम्यधीनभावा पश्चादन्याश्रया सदा ।। २७।।
बाह्ये छलाद् विरक्तेव स्वान्तर्भोगादिलालसा ।
बाह्ये नेत्यभिवचना सकामाऽन्तर्नवं नवम् ।।२८।।
बाह्ये स्वात्मसती त्वादिविज्ञापनाऽतियत्नतः ।
सुदुःसाहसरूपा च सर्वदोषाश्रया तथा ।। २९।।
तपोमार्गार्गला शश्वन्मुक्तिद्वारकपाटिका ।
हरेर्भक्तौ व्यवधानात्मिका निगडरूपिणी ।।1.335.३ ०।।
इन्द्रजालसमारूपा मिथ्यावादविवादिनी ।
न नरैर्विश्वसितव्या या न विश्वासभूमिका ।।।३ १।।
इत्युक्त्वा भावगर्भं सा विररामाऽतिभावुकी ।
शंखचूडश्च तां प्राह प्राग्विश्वाससुभूमिकाम् ।। ३२।।
इच्छावतीं परिज्ञाय स्वप्नभुक्तां विलोक्य च ।
शृणु धात्रा कृतं द्वेधा नारीरूपं जगत्त्रये ।।३३।।
कृत्यास्वरूपं यत् तत्तु वंचकं दुःखकृत् सदा ।
सतीरूपं प्रशस्तं वै न त्वदुक्ताऽगुणाश्रयम् ।।३४।।
लक्ष्मीसरस्वतीदुर्गासावित्रीमाणिकीप्रभाः ।
पार्वतीराधिकाकृष्णारमापद्माजयादिकाः ।।३५।।
एताश्चान्यास्तदंशाश्च मान्याः साध्व्यः पतिव्रताः ।
शतरूपा देवहूतिः स्वधा स्वाहा च कंभरा ।।३६।।
दक्षिणा रोहिणी छाया संज्ञा शची च वारुणी ।
कुबेराणी पवनानी ह्यदितिश्च दितिस्तथा ।।३७।।
लोपामुद्राऽनसूया च मुक्ता तुलसी कैटभी ।
अहल्याऽरुन्धती मेना तारा मन्दोदरी दया ।।३८।।
दमयन्ती वेदवती वृन्दा गंगा यमी मनुः ।
पुष्टिस्तुष्टिः स्मृतिर्मेधा षष्ठी काली वसुन्धरा ।।३९।।
चण्डी मूर्तिः स्वस्ति श्रद्धा शान्तिः कान्तिश्च तुष्टिका ।
एता नार्यः प्रतियुगं साध्व्यो जाताः सुराश्रिताः ।।1.335.४०।।
न पृच्छति कुले जातः कृत्यासमां परस्त्रियम् ।
जातिस्मरां त्वां तुलसीं विदित्वा त्वागतोऽस्म्यहम् ।।४१ ।।
सुदामाऽहं हरेर्दासः पुराऽस्य दनुवंशजः ।
शंखचूडो जातिस्मरो ब्रह्मण आज्ञयाऽऽगतः ।।४२।।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ।
तुलसी तत्समाकर्ण्य प्रवक्तुमुपचक्रमे ।।४३।।
विद्याप्रभावबोधाय मया त्वं हि परीक्षितः ।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ।।४४।।
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।
वैष्णवाया सुता देया दशवाजिफलं भवेत् ।।४५।।
वराय गुणहीनाय वृद्धायाऽज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ।।४६।।
अत्यन्तकोपयुक्तस्य चात्यन्तदुर्मुखाय च ।
पंगुलायाऽङ्गहीनाय चान्धाय बधिराय च ।।४७।।
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
व्यसनिने न वै देया कुभीपाकगतो भवेत् ।।४८।।
एतस्मिन्नन्तरे ब्रह्मा तत्राऽऽजगाम पद्मजे! ।
मूर्ध्ना ननाम तुलसी शंखचूडो ननाम च ।।४९।।
ब्रह्मा प्राह च गान्धर्वं विवाहं कुरुतं युवाम् ।
अविरोधसुखं चास्तु युवयोः संगमे सदा ।।1.335.५०।।
स्त्रीरत्नं नररत्नं च मिलित्वाऽऽनन्दवद् भवेत् ।
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ।।।५१।।
यथा मयि च सावित्री भवानी च भवे यथा ।
यथा धरा वराहे च यथा मेना हिमालये ।।५२।
अनसूया यथा चात्रौ दमयन्ती नले यथा ।
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ।।५३।।।
दितिर्यथा कश्यपे च वसिष्ठेऽरुन्धती यथा ।
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ।।५४।।
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ।।५५।।
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।
देवसेना यथा स्कन्दे धर्मे मूर्तिर्यथा सती ।।५६।।
पत्नीव्रते पतिव्रता गोपाले कंभरा यथा ।
वृन्देयं तुलसी त्वं वै शंखचूडे तथा भव ।।५७।।
पारवती प्रभा कृष्णनारायणे तथा भव ।
बहुकालं सुखं भुक्त्वा शंखचूडस्य मोक्षणे ।।५८।।
पश्चात्त्वं तुलसीवृक्षो भविष्यसि न संशयः ।
तदा विवाहविधिना कृष्णो नेष्यति त्वां ततः ।।५९।।
इत्येवमाशिषं दत्वा योजयित्वा च दम्पतिम् ।
गान्धर्वेण विवाहेन ययौ सत्यं तु विश्वसृट् ।।1.335.६ ०।।
स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव च ।
रोमे तुलस्याः शयने शंखचूडो हरेः प्रियः ।।६ १।।
मूर्छां सम्प्राप तुलसी नवसंगमसंगता ।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ।।६२।।
अंगप्रत्यंगसंश्लेषपूर्वकं स्त्रीमनोहरम् ।
तत्सर्वं सुखशृगारं चकार रसिकेश्वरः ।।६३।।
सापि दासी तवास्मीति सिषेवे बहुवत्सरान् ।
वनेष्वद्रिष्वापगास्वब्धिष्वम्बरे च रैवते ।।६४।।
मेरौ हैमेऽस्य सेवां सा चक्रे शंखस्तया ययौ ।
चन्द्रभागातटे राज्यमस्थापयत् तपोबलः ।।६५।।
नृपान् कृत्वा वशे चोर्वी संबुभुजे तया सह ।
दैत्यानां राक्षासानां च दानवानां सहायवान् ।।६६ ।।
सुरराज्यानि हृतवाँस्तेष्वसुरानयोजयत् ।
हृताधिकारा देवास्तु चरन्ति भिक्षुका यथा ।।६७।।
स्थानं पूजां चामृतं च जहार शंखदानवः ।
निरुद्यमाः सुरा जाताश्चित्रपुत्तलिका इव ।।६८।।
ते तु सर्वे विषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।
वृत्तान्तं कथयामासुः रुरुदुश्च भृशं बहु ।।६९।।
तदा ब्रह्मा सुरैः सार्धं ययौ शंकरसन्निधौ ।
सर्व संकथयामास ब्रह्मा तं शंकरं ततः ।।1.335.७० ।।
ब्रह्मेशदेवताः सर्वे ययुर्वैकुण्ठमुत्सुकाः ।
सभामार्गे प्रविविशुः पार्षदादिसुशोभितम् ।।७१ ।।
चतुर्भुजान्पार्षदाँश्च द्वारपाननुनीय च ।
श्यामलान् शंखचक्रादिचिह्नितान् पीतवस्त्रकान् ।।।७२ ।।
षोडशद्वारसंस्थाँश्च समतीत्य हरेः पुरः ।
ययुस्ते देवसंघैश्च पार्षदैश्च चतुर्भुजैः ।।७३ ।।
सेवितं श्रीहरिं नारायणरूपैः सकौस्तुभैः ।
सभा संशोभते दिव्या नारायणनिवासिता ।।७४।।
पूर्णेन्दुमण्डलाकारा श्रेष्ठमणीन्द्रभासिता ।
रत्नहीरादिखचितामुक्तामाणिक्यभूषिता ।।७५।।
रत्नाढ्यदर्पणपार्श्वा विचित्रचित्रचित्रिता ।
पद्मरागकृतपद्मप्रप्रफुल्ला मनोहरा ।।७६।।
स्यमन्तककृतरम्यसोपानशतमण्डिता ।
स्वर्णसूत्रवस्त्रपत्रवेष्टितस्तभनिर्मितः ।।७७।।
सद्रत्नपूर्णकुंभाद्यैर्मालाजालैर्विराजिता ।
कस्तूरीकुंकुमपद्मजलचन्दनसूक्षिता ।।७८।।
सुगन्धिवासिता विद्याधरीगीतिप्रघोषिता ।
सहस्रयोजनायामा सिद्धर्षिपार्षदान्विता ।।७९।।
तत्र मध्ये विराजन्तमपश्यन् श्रीहरिं च ते ।
हरेः सिंहासनं दिव्यं राजते रत्नकानकम् ।।1.335.८०।।
तत्र स्थितं कृष्णनारायणं कुण्डलिनं शुभम् ।
किरीटिनं वनमालाचक्रपद्मादिभूषितम् ।।८ १ ।।
चतुर्भुजं घनश्यामं सर्वाभरणभूषितम् ।
चन्दनार्चितभालं च पश्यन्तं नृत्यगीतिकाम् ।।।८२।।
वाणीलक्ष्मीरमाप्रभामाणिकीपार्वतीपतिम् ।
गंगाजयाविजयामंगलाऽमृतादिसेवितम् ।।८३।।
राजाधिराजशोभाढ्म छत्रचामरराजितम् ।
विशिष्टं सुन्दरं कान्तं दृष्ट्वा प्रणम्य दण्डवत् ।।८४।।
तुष्टुवुः पुलकितांगाः भक्त्या गद्गदभावया।
ब्रह्मा वृत्तान्तमाहाऽथ श्रुत्वा तत्सर्वभाववित् ।।८५।।।
प्रहस्योवाच देवान् श्रीकृष्णनारायणः प्रभुः ।
शंखचूडस्य गोपस्य मद्भक्तस्य पुराविदः ।।८६।।
वृत्तान्तं सर्वं जानामि सुदामा मम पार्षदः ।
राधाशापात्प्राप योनिं दानवीं शंखचूडकः ।।८७।।
श्रीलक्ष्मीरुवाच-
कथं राधा ददौ तस्मै शापं भक्ताय मे वद ।
तवेच्छया भवन्त्येव भवपुष्टिलयादयः ।।८८ ।।
श्रीनारायण उवाच-
शृणु लक्ष्म्येकदाऽगच्छमहं वै रासमण्डलम् ।
विहाय मानिनीं राधां प्राणाधिकातिहृच्छ्रयाम् ।।८९।।
नीत्वा च विरजां पत्नीं बहुस्नेहानुपातिनीम् ।
राधा मां विरजायुक्तं विज्ञाय किंकरीमुखात् ।।1.335.९० ।।
सक्रोधा साऽऽययौ तत्र यत्राहं विरजायुतः ।
तत्र रमामि रासे वै विरजायां यदा तदा ।।९ १ ।।
दृष्ट्वा साऽतिप्रचुकोप यथाऽनिष्टं भवेत्तथा ।
विरजां सा तदा प्राह नदीरूपाऽत्र वै भव ।। ९२।।
अहं लीनोऽभवं तत्र विरजायां ततस्तु सा ।
विरजां तु नदीरूपां मां च ज्ञात्वा तिरोहितम् ।।९३।।
निववृते ततो रासमण्डलात् स्वालयं ययौ ।
अहं मे मण्डपे तत्र चाऽऽययौ मम मन्दिरे ।।९४।।
सा समागत्य तत्रैव सुदाम्नः सन्निधौ प्रिया ।
भृशं मां भर्त्सयामास सुदामा तां चुकोप ह ।।९५।।
स च तां भर्त्सयामास साऽपि क्रुद्धाऽभवच्च तम् ।
राधा मामाह रे मूढ! कामलम्पट! कृष्णकृत् ।।९६।।
यथा नाम तथा कुर्वन् रासेश्वरीं विराय वै ।
लज्जसे न कथं कृष्ण! स्त्रीहृतात्मन्! दुरोदर! ।।९७।।
नहि राज्ञीसमा त्वन्या शुनी भवति काचन ।
कथं शुन्या समं तेऽस्ति मैत्री श्वेव न लज्जसे ।। ९८।।
गच्छ गोलोकराज्यात् त्वं विरजाया गृहे वस ।
नाऽत्र तेऽस्ति मम कार्यं छलधर्माऽसि सर्वथा ।।९९।।
उत्तिष्ठाऽस्मादासनाद्वै गच्छ तां विरजां प्रति ।
लिह्यतां सा पुनर्नित्यं माऽऽयाहि मां प्रतिक्वचित् ।। 1.335.१०० ।।
इत्युक्तवतीं संक्रुद्धां राधां नोवाच माधवः ।
सुदामा प्राह रे मातः कथमेवं विकत्थसे ।। १०१ ।।
राज्ञः पूज्यस्य राज्ञ्या वै नाऽवमानं तथोचितम् ।
क्रोधं शमय भद्रं ते माऽवोचः पुनरेव तम् ।। १ ०२।।
तदा राधातिरुष्टा सा सुदामानं सुभक्तकम् ।
भर्त्सयामास रे मूर्ख! कृष्णपृष्ठाश्रयाऽधम! ।। १०३।।
नीचोऽसि किंकरोऽस्येवं कथं वारयसे नु माम् ।
त्वमस्य कुटिलं सर्वं नित्यं शिक्षयसि ध्रुवम् ।। १ ०४।।
शठ! एकान्तकामिन्या योगकारक! लम्पट! ।
गच्छाऽस्माद्भवनात् तूर्णं पृथ्व्यां वै दानवो भव ।। १ ०५१।।
बह्वीभिः रमते स्वामी वञ्चयित्वा पुनः पुनः ।
त्वं च नेत्रकटाक्षेण लक्ष्मीं पश्यसि कामतः ।। १ ०६।।
नाऽत्र तेऽस्ति निवासाय योग्यता वञ्चनाकृतः ।
इत्याद्युक्तः सुदामा वै कृष्णहार्दं समाश्रयन् ।। १०७।।
उवाच तां तदा राधां शठे! कामिनि! लम्पटे! ।
सेर्ष्ये! बिडालिके! छच्छुन्दरि! शुनि! न लज्जसे ।। १ ०८।।
गृहगोधेऽभिमानान्न गणयस्येव कांचन ।
पतिं सर्वेश्वरं चापि निर्भर्त्सयसि रण्डिके ।। १ ०९।।
वन्ध्ये! वन्ध्यफले! स्वार्थपरे! भानविवर्जिते! ।
अवाच्यवादिनि! सूर्मि! पूत्तलि! भषणि! भ्रमे! ।। 1.335.११ ०।।
काऽसि गोवालिनि! ताडनार्हेऽयोग्ये । हरेर्गृहे ।
जाज्वल्यमाने! विधुरे! आम्नायवर्जितेऽशुभे! ।। १११ ।।
गच्छ गोलोकसीम्नस्त्वं बहिरेव पशुप्रथे! ।
महिषि! महिषीतुल्ये! गृहनाशकवर्तने! ।। १ १२।।
अधः पत भुवं याहि भवाऽरण्यनिवासिनी ।
शकृन्मेलनजातीया धर्महीनकुलंगमा ।। ११ ३।।
येन नैवं पुनस्त्वं त्वाऽऽचरिष्यसि कदाचन ।
दण्ड्ये! स्वामितिरस्कर्त्रि! तिरस्कारपरा भव ।। १ १४।।
इत्युक्तवन्तं भगवान् सान्त्वयामास केशवः ।
राधां च सान्त्वयामास शान्तिं नाप तथापि सा ।। ११५ ।।
सुदामानं बहिष्कर्तुं चकाराऽऽज्ञां सखीगणम् ।
सख्यश्चक्रुर्बहिः सुदामानं कृष्णगृहात्ततः ।। ११६ ।।
राधापि शापमापन्ना रुरोदातीव विह्वला ।
सुदामा तु तया शप्तो ययौ गोलोकसीमतः ।। १ १७।।
गोप्यो गोपा रुरुदुश्च वारयामासुरेव तम् ।
तां तथा वारयामासुः स च सा च परस्परम् ।। १ १८।।
तथापि न भवेद् भावि मिथ्या कृष्णेहया कृतम् ।
तत्पश्चाद् वै मया तत्र राधिका बोधिता प्रिये! ।। ११९ ।।
आयास्यति क्षणाऽर्धेन कृत्वा शापस्य पालनम् ।
गोलोकस्य क्षणार्धेन चैकमन्वन्तरं भवेत् ।। 1.335.१ २०।।
ततः स शंखचूडो ३ पुनरत्रैव यास्यति ।
त्वं च राधा रमारूपा पद्मा लक्ष्मीः सरस्वती ।। १२१।।
द्वापरान्ते मम पत्नी राधिका संभविष्यसि ।
अहमप्यागमिष्यामि ब्रह्मादीनां द्युवासिनाम् ।। १ २१।।
संकल्पपूरणार्थाय नयिष्ये धाम च स्वकम् ।
इति वृत्तं कथितं वो दैत्यशंखाभिधस्य च ।। १२३ ।।
स कण्ठे कवचं मन्त्रयुतं मे रक्षति ध्रुवम् ।
तेनाऽवध्यो भवतीति संसारविजयी ततः ।। १ २४।।
मम शूलं गृहीत्वाऽयं शिवो गच्छतु तं प्रति ।
अहं ब्राह्मणरूपेण याचिष्ये कवचं हि तत् ।। १२५।।।
सतीत्वभंगस्तत्पत्न्याः करिष्ये छलतो यदा ।
तदा मृत्युध्रुवस्तस्य भविष्यति न संशयः ।। १२६ ।।
तदाऽनेन त्रिशूलेन हन्तव्यः शंखचूडकः ।
हते पत्यौ तुलसी सा भविष्यति मम प्रिया ।। १२७।।
इत्याभिधाय शूलं च दत्वा हराय माधवः ।
गृहान्तरेऽविशद् देवा ययुर्नैजालयान् प्रति ।। १ २८।।
इति ते कथितं लक्ष्मि! सुदाम्नश्चरितं यथा ।
राधयाश्च कलहेन दानवत्वं पुराऽभवत् ।। १ २९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने तुलस्याः स्वप्ने शंखचूडात्मकस्य सुदाम्नो दर्शनं, शंखचूडस्य बदर्यां गमनं, तुलसीशंखचूडयोः संवादोत्तरं गान्धर्वविवाहः, शंखचूडपीडितदेवा वैकुण्ठं जग्मुः, नारायणः सुदामविरजाराधानां परस्परं पूर्वे जातं शापं
श्रावयामास, सुदामा शंखचूडो जातः, शंखचूडनाशार्थे हराय त्रिशूलदानमित्यादिनिरूपणनामा पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३५ ।।