लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३४
[[लेखकः :|]]
अध्यायः ३३५ →

श्रीलक्ष्मीरुवाच-
नारायणप्रिया कुत्र सम्भूता तुलसी ततः ।
कस्य वा सा कुले जाता कस्य दैत्यस्य सा वधूः ।। १ ।।
केन वा तपसा प्राप पुनर्नारायणं पतिम् ।
विस्तरेण हरे! ब्रूहि मत्कथां विस्मृतां मया ।। २ । ।
श्रीनारायण उवाच--
वच्मि मनोः समारभ्य शृणु लक्ष्मि! कथां तव ।
विस्मृता प्रश्नरूपेण स्मारितां कथयामि ते ।। ३ ।।
विष्णोरंशो मनुर्दक्षसावर्णिः संबभूव ह ।
तत्सुतो धर्मसावर्णिवैष्णवश्चाथ तत्सुतः ।। ४ ।।
विष्णुसावर्णिरित्युक्तस्तस्यापि वैष्णवः सुतः ।
देवसावर्णिरेतस्य राजसावर्णिरंगजः ।। ५ ।।
तस्य पुत्रो वृषध्वजो बभूव शिवभक्तिमान् ।
पुत्रादपि परः स्नेहो वृषध्वजे शिवस्य यत् ।। ६ ।।
राजा नारायणं लक्ष्मीं मेने नापि सरस्वतीम् ।
यज्ञं दिवाकरं देवान् न मेने मत्तवद् यदा ।। ७ ।।
भ्रष्टश्रीर्भव भूपेति त्वशपत् तं रविस्तदा ।
राजा शिवस्य शरणं रक्षणार्थं ययौ द्रुतम् ।। ८ ।।
शंभुस्त्रिशूलमादाय रविं प्रहर्तुमागतः ।
भयात् पलायितः सूर्यो ब्रह्माणं शरणं ययौ ।। ९ ।।
ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं प्रययौ द्रुतम् ।
नारायणं प्रणेमुस्ते चक्रुः सर्वं निवेदनम् ।। 1.334.१० ।।
नारायणस्तु कृपया ह्यभयं दत्तवाँस्तदा ।
शिवस्त्रिशूलहस्तश्च तेषां पृष्ठं ययौ क्रुधा ।। १ १।।
नारायणं नमस्कृत्य निषसादाऽर्पितासने ।
शिवं नारायणः प्राह ब्रूह्यागमनकारणम् ।। १ २।।।
महादेवस्ततः प्राह कृष्णनारायणं हरिम् ।
सूर्यः शशाप मे भक्तं वृषध्वजमसुप्रियम् ।। १ ३।।
भक्तवासल्यशोकेन सूर्यं हन्तुमहं गतः ।
स ब्रह्माणं पुरस्कृत्य त्वां शरण्यं समागतः ।। १४।।
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ।
निरापदस्ते निःशंका जरामृत्यू जितौ तु तैः ।। १५।।
किन्तु नारायण! सूर्यशापेन श्रीहतस्य वै ।
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।। १६ ।।
नारायणो हरं प्राह वृषध्वजोऽत्र चागतः ।
हंसध्वजस्तु तत्पुत्रो राजापि वृद्धतां गतः ।। १७।।
तत्पुत्रौ वैष्णवौ त्वद्य धर्मध्वजकुशध्वजौ ।
वर्तेते तौ श्रिया भ्रष्टौ तयोस्तु भार्ययोर्हर! ।। १८।।
लक्ष्मीर्द्वेधा मम पत्नी पुत्रीद्वयं भविष्यति ।
सम्पद्युक्तौ च मद्भक्तौ नृपश्रेष्ठौ भविष्यतः ।। १ ९।।
वैकुण्ठे घटिकार्धं वै भूमौ युगैकविंशतिः ।
व्यतीतो भवते कालस्तस्माच्छंभो न चित्रता ।। 1.334.२ ० ।।
इत्युक्तास्ते ययुः सर्वे यथास्थानं स्वकं स्वकम् ।
वृषध्वजो निजं राज्यमागत्य निधनं गतः ।।२ १ ।।
हंसध्वजोऽपि कालेन ततो वै निधनं गतः ।
अथोग्रतपसा भूपौ धर्मध्वजकुशध्वजौ ।। २२।।
नारायणं प्रसाद्यैव वरं प्रापतुरीप्सितम् ।
लक्ष्मीर्द्वेधा युवयोर्वै पुत्री भविष्यति ध्रुवम् ।।२३ ।।
तत्प्रतापेन सम्पन्नौ राज्यश्रेष्ठौ भविष्यथः ।
अथ तौ कारयामासतुश्च लक्ष्म्याः समर्चनम् ।।२४।।
व्रतं चापि प्रसन्नाऽभूल्लक्ष्मीः प्राह वरं च तौ ।
धनवन्तौ पुत्रवन्तौ पृथ्वीशेशौ श्रिया युतौ ।। २५।।
नारायणस्य कृपया भवतं नृपपूजितौ ।
इत्याशिषा परिप्लुताववदतां तथास्त्विति ।। २६।।
श्रिया युतावितिवाक्यं यथार्थं कुरु पद्मजे ।
इत्याचिन्त्य च लक्ष्मीः सा द्वेधा रूपमथाऽकरोत् ।। २७।।
कुशध्वजगृहे कन्या जाता कालेन श्रीकरी ।
कुशध्वजप्रिया पुत्रीं सुषुवे कमलांशजाम् ।। २८।।
जातमात्रा वेदवती ध्वनिं चकार कन्यका ।
तेन वेदवती नाम्ना ख्यातिमाप तदैव ह ।। २९।।
पितरौ सा नमस्कृत्य ययौ तपसे सद्वनम् ।
पुष्करे तपसा साध्वी शुश्राव व्योमभारतीम् ।। 1.334.३० ।।
जन्मान्तरे तु ते भर्ता भविष्यति हरिः स्वयम् ।
इति श्रुत्वा पुना रुष्टा चकार तु पुनस्तपः ।। ३१ ।।
गन्धमादनमाश्रित्य स्थिता चिरं तताप च ।
ददर्श पुरतस्तत्र ब्राह्मणं रावणाभिधम् ।। ३२ ।।
सा त्वतिथिं नमस्कृत्य पाद्यं फलं जलादिकम् ।
ददौ तस्मै सोऽपि दुष्टो मनोविकृतिमाप वै ।। ३३ ।।
तां करेण समाकृष्य संभोगं कर्तुमुद्यतः ।
वेदवती कोपदृष्ट्या स्तंभितं त चकार ह ।। ३४।।
शशाप च मदर्थे त्वं विनश्यसि सबान्धवः ।
इत्युक्त्वा सा सती देहं विलीयाऽदृश्यतां गता ।। ३५।।
सा तु वेदवती पृथ्व्याः पुत्री जनकनन्दिनी ।
सीतादेवी प्रसंजाता यदर्थे रावणो हतः ।। ३६ ।।
सेयं लक्ष्मीस्त्वमेवाऽऽसीः कल्पान्तरेषु सर्वथा ।
सीतारूपा भवसि त्वमहं रामो भवामि च ।। ३७।।
राक्षसानां विनाशाय तथाक्लृप्तं मयास्ति वै ।
त्वां विना तामसानां तु नान्यद् विनाशकारणम् ।। ३८।।
महातपस्विनी लक्ष्मीर्लेभे रामं पतिं हरिम् ।
जातिस्मरा स्म स्मरति विषेहे दुःखमेव सा ।। ३९ ।।
रामः पितुर्वचनेन शतरथस्य काननम् ।
जगाम सीतया साकं लक्ष्मणेनाऽनुजेन वै ।।1.334.४० ।।
संददर्श तत्र वह्निं रामो ब्राह्मणरूपिणम् ।
वह्निरुवाच भगवान् रावणान्तकरो ह्ययम् ।।४ १ ।।
सीताहरणद्वारेण समयः समुपागतः ।
अहमग्निः सुरैः प्रस्थापितोऽस्मि विप्ररूपधृक् ।। ४२ ।।
सीतां मयि तु सन्न्यस्य छायां सीतां गृहाण वै ।
दास्यामि सीतां समये मत्प्रसू वै परीक्षणे ।।४३ ।।
रामस्तद्वचनं श्रुत्वा द्रागेव कृतवाँस्तथा ।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ।।४४।।
एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् ।
जगाम तद्विनाशाय सीताया आग्रहेण वै । ।४५।।
लक्ष्मणोऽपि ययौ पश्चात् सीतां निनाय रावणः ।
विजयाख्यः पार्षदः स मृधे मृत्वा ययौ पुनः ।।४६ ।।
प्रेतत्वमथ च जयः सवर्णोऽपि रणान्तरे ।
मृत्वा जगाम वै प्रेतत्वं तृतीयजनेः कृते ।।४७।।
रामबाणेन लंकायां राक्षसा बहवो हताः ।
विभीषणोऽभवद्भक्तस्तस्मै राज्यं ददौ हरिः ।।४८।।
शुद्ध्यर्थं च ततो रामो वह्नौ परीक्षणं व्यधात् ।
तत्र हुताशनस्तस्मै वास्तवीं जानकीं ददौ ।।४९।।
छायां प्रोवाच भगवान् गच्छ त्वं पुष्करं प्रिये ।
तपस्यां तत्र कृत्वाथ स्वर्गलक्ष्मीर्भविष्यसि ।।1.334.५० ।।
सा तप्त्वाऽयुतवर्षाणि स्वर्गे लक्ष्मीर्बभूव ह ।
सैव लक्ष्मीर्यज्ञकुण्डे द्रौपदी संभविष्यति ।।५१ ।।
सत्ययुगे वेदवती कुशध्वजसुता तु सा ।
त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ।।५२।।
तच्छाया द्रौपदी देवी द्वापरान्ते तु भाविनी ।
कलौ तु माणिकी देवी नारायणपरायणा ।।५३ ।।
कृष्णनारायणारोहा भवत्येवं युगे युगे ।
इति तेऽभिहितं चैकरूपं शृणु द्वितीयकम् ।।५४।।
धर्मध्वजस्य पत्नी तु माधवीति च विश्रुता ।
गन्धमादनशिखरे गर्भवती बभूव सा । ।५५ ।।
कार्तिकीपूर्णिमायां सा सुषाव पद्मिनीं सुताम् ।
पादपद्मयुगे तां तु पद्मरागविराजिताम् ।।५६ ।।
राजराजेश्वरीं लक्ष्मीं सर्वावयवसुन्दरीम् ।
राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् ।।५७।।
चन्द्राननां पद्मपत्रनेत्रां बिम्बाधरां शुभाम् ।
करपादतलाऽऽरक्तां निम्ननाभिं वलित्रयाम् ।। ५८।।
श्वेतचम्पकवर्णाभां तुलसीं नामतः कृताम् ।
तुलना सीदति यत्राऽन्यासां सा तुलसी सुता ।।५९ ।।
जातमात्रा युवती सा जातिस्मेराऽतिसुन्दरी ।
मम नारायणः स्वामी भवितेति विनिश्चिता ।।1.334.६ ० ।।
कृष्णनारायणप्राप्त्यै जगाम बदरीवनम् ।
तत्र चिरं तया चीर्णं कृष्णद्ं परमं तपः ।। ६१ ।।
ग्रीष्मे पञ्चतपाः शीते जलस्था सा च कन्यका ।
वृष्टिधारां सहमाना वर्षासु त्वकरोत् तपः ।।६२।।
पूर्वं फलाशना पश्चात्पत्राशना जलाशना ।
बाय्वशना निराहारा चैकपादस्थिताऽभवत् ।।६३ ।।
ब्रह्मा समाययौ दृष्ट्वा तपश्चोग्रं चिरंतनम् ।
समागतं वरं दातुं तत्र बदरिकाश्रमे ।।६४।।
ब्रह्माणं सा प्रणनाम ब्रह्मा तां समुवाच ह ।
वरं वृणुष्व तुलसि! यत्ते मनसि वाञ्छितम् ।।६५।।
कृष्णभक्तिं च मुक्तिं वाऽप्यजरामरतामपि ।
शृणु तात! परे धाम्नि गोलोकेऽहं स्थिता पुरा ।।६६।।
कृष्णपत्नी किंकरी च तदंशा तत्सखी प्रिया ।
रमा वृन्दा तथा लक्ष्मीरहमेवाऽभवं तदा ।।६७।।
रमारूपां तदा वृन्दां गोविन्दासक्तमानसाम् ।
रतिस्थां राधिका क्रोधात् शशाप मां तु सेविकाम् ।।६८।।
तथैव वाणीं पद्मां मां शशाप चापि वै पुनः ।
याहि त्वं मानवीं योनिं स्मराम्येतत् पुराभवम् ।।६ ९।।
ततः पद्मावतीं मां च गणेशः शप्तवान् पुरा ।
वृक्षत्वं याहि चेत्येवं दैत्यपत्नी भवेत्यपि ।।1.334.७०।।
शापोत्तरं तु गोलोके कृष्णः प्राह मुदा हसन् ।
ममैव पार्षदो लक्ष्मि! सुदामा यो मदंशकः ।।७ १ ।।
सोऽपि राधाकृतशापाच्छंखचूडो भविष्यति ।
तस्य पत्नी भाविनी त्वं गणेशोक्तानुसारतः ।।७२।।
ततो मां त्वं तपस्तप्त्वा लभिष्यसि न संशयः ।
अहं नारायणं कान्तं पतिं मम पुरातनम् ।।७३ ।।
साम्प्रतं लब्धुमिच्छामि वरमेवं प्रदेहि मे ।
जातिस्मरा यथा वेद्मि तत्सर्वं कथितं तु ते ।।७४।।
तस्माद् ब्रह्मन् यथाशापं कुरु योग्यं यथा भवेत् ।
ब्रह्मोवाच तदा लक्ष्मीं सर्वं जानासि सुन्दरी ।।७५ ।।
जातिस्मरा स्वयं चासि धर्मध्वजस्य पुत्रिका ।
सुदामा शंखचूडोऽसौ जातोऽस्ति भूतलेऽसुरः ।।७६ ।।
अधुना तस्य पत्नी त्वं भव भाविनि शोभने ।
पश्चान्नारायणं कान्तं कृष्णमेव लभिष्यसि ।।७७।।
तुलसी त्वं वृक्षरूपा वृन्दावने भविष्यसि ।
प्रधाना सर्वपुष्पाणां पावनी संभविष्यसि ।।७८।।
त्वया विना तु सर्वेषां पूजा स्याद् विफला यथा ।
तथा कृष्णः प्राणतोऽपि वल्लभां त्वां विधास्यति ।।७९ ।।
वृन्दावने वृक्षरूपा वृन्दा वृन्दावनीति वै ।
भविष्यसि तव दलैः पूजयिष्यन्ति केशवम् ।।1.334.८०।।
जनास्तथा तेन सार्धं विहरिष्यसि सन्ततम् ।
राधासमा त्वं सुभगा गोविन्दस्य भविष्यसि ।।८ १ ।।
राधिकायाः प्राणतुल्या कृष्णप्राणा भविष्यसि ।
श्रुत्वैतत्तुलसी प्राह शीघ्रं स्यात्तत्तथा कुरु ।।८२।।
ब्रह्मा लक्ष्म्यै तदा प्राह जपार्थं मन्त्रमुत्तमम् ।
राधाकृष्णाय चात्मानं समर्पयामि ओं नमः ।।८ ३ । ।
इति षोडशवर्णाढ्यं दत्वा चादृश्यतां ययौ ।
सापि जजाप तं मन्त्रं पुण्ये बदरिकाश्रमे ।।८४।।
स्वल्पकालेन मन्त्रेण तपःसिद्धिरजायत ।
दिव्या प्रसन्नमनसा ददर्श कृष्णमग्रतः ।।८५।।
कृष्ण प्राह तुलसीं ते तपः सिद्धिरजायत ।
अद्यतः पार्षदभार्या भूत्वा मां प्राप्स्यसे प्रिये! ।।८६ ।।
इत्युक्त्वाऽदृश्यतां यातः साऽपि तत्याज तत्तपः ।
भुक्त्वा पीत्वा च सन्तुष्टा सुष्वाप शयने शुभे ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने मनुवंशीयवृषध्वजस्य सूर्यशापः, वैकुण्ठे प्रार्थनया तद्वंशे कुशध्वजगृहे सीताख्या लश्मीरभवत्, धर्मध्वजगृहे तुलस्याख्या लक्ष्मीरभवत्, बदर्यां तुलस्यास्तपस्तत्सिद्धिश्चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिकत्रिशत-
तमोऽध्यायः ।। ३ ३४।।