लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३३
[[लेखकः :|]]
अध्यायः ३३४ →

श्रीलक्ष्मीरुवाच-
कथं कदा तुलसी सा शंखचूडप्रियाऽभवत् ।
गणेशेन कुतः शप्ता कदा तद्वद केशव ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! हरेराज्ञामादाय पद्मसंभवा ।
लक्ष्मीः पद्मावती जाता नदी तीर्थस्वरूपिणी । । २ ।।
एकदा सा सुरूपाऽभूद् यौवनोज्ज्वलभास्वरा ।
कन्या स्वर्गसमा वरारोहा कामेन विह्वला । । ३ ।।
तीर्थेऽटमाना तपसा नारायणपरायणा ।
ददर्श गंगातीरे सा गणेशं यौवनान्वितम् । । ४ ।।
अतीव सुन्दरं चित्तहरं चन्दनगन्धितम् ।
सद्भूषाभिर्दीपितं च वक्त्रशोभातिहृच्छ्रयम् । । ५ ।।
सुरूपपुष्टावयवं निष्कामं कामनावती ।
तुलस्युवाच भो विप्र ध्यायसि कां सुरूपिणीम् । । ६ ।।
कथं लम्बमुदर ते करिवक्त्रं कथं तव ।
कथं वक्त्रं त्वेकदन्तं हरेर्ध्यानं करोषि किम् । । ७ ।।
त्यज ध्यानं महापुष्ट सायंकाल उपस्थितः ।
एकाकिना न वस्तव्यं सायंकाले निशामुखे ।। ८ ।।
इत्युक्त्वा करसंयोगं तस्योदरे चकार सा ।
कामबाणैः प्रदग्धा सा प्रजहास पुनः पुनः ।। ९ ।।
कपोलयोर्गण्डयोश्च वक्षस्युदरमण्डले ।
ततोऽप्यधःप्रदेशेऽपि पस्पर्श करमुद्रया । । 1.333.१० ।।
बभूव ध्यानभंगोऽस्य तदा सा तु रतिप्रिया ।
जघान तर्जन्यग्रेण लिंगं च जघनं मुधा ।। ११ ।।
ध्याननाशे गणेशस्याऽभवद् रोषोऽनिवारणः ।
नेत्रे उन्मील्य रमणीं त्वपश्यत् कामनावतीम् ।। १ २।।
नवयौवनसम्पूर्णां काभवेगप्रपूरिताम् ।
दीनां नर्मपरां कामदावानलातितापिताम् । । १३ ।।
लम्बोदरस्तु तां वीक्ष्याऽविचारयत् क्षणं कृपः ।
आर्तानां दुःखहारित्वं सज्जनानां हि साधुता । । १ ४। ।
कथं मया तिरस्कार्या कामदावानलार्दिता ।
तिरस्कारे महद् दुःखं फलं चानिष्टमाप्नुयाम् । । १५ ।।
ग्रहणेऽपि महादोषः सगर्भात्वं भवेदिति ।
तस्मादेनं विचार्यैव परं विनयपूर्वकम् । । १६ ।।
सान्त्वयामि शान्तिवाक्यैः कामवेगप्रपीडिताम् ।
एहि कन्ये तापसि त्वं नारायणपरायणे! । । १ ७। ।
तिष्ठ निषीद सुस्थाने विहरात्र सुखेन वै ।
किं तेऽपेक्ष्यं भोजनं वा जलं वाऽन्यद् वदात्र मे । । १८ । ।
अहं लम्बोदरो देवः कुरूपोऽस्मि च वृन्दलः ।
जले स्नानं कुरु देवि! विष्णुं स्मर स्थिरा भव । । १९ । ।
धैर्यं धारय भद्रं ते मम स्पर्शे भविष्यति ।
एह्यस्मिन् सरसि स्नानं कुर्वो विहरणं ततः । । 1.333.२० । ।
तव तापो भवेच्छान्तस्तथा स्नानादिकं कुरु ।
का त्वं वत्से कस्य कन्या लक्ष्मीरूपाऽसि किं शुभे । २ १ । ।
पूज्या वन्द्या जगन्माता भासि मे ब्रूहि किं कथम् ।
कृष्णपत्नि! ध्यानभंगस्तपस्वितपसां क्षयः । । २२ । ।
कृष्णः करोतु कल्याणं हन्तुं विघ्नं द्वयोर्हि नौ ।
मा चञ्चलं मनः कार्यं चाञ्चल्यं व्रतभंगकृत् । ।२३ । ।
ध्यानिनां व्रतिनां रागः कामना व्रतभंगदा ।
खर्जनं चेन्द्रियाणां तु सहनीयं विशेषत ।। २४। ।
संकल्पो मारयितव्यो विशेषेण तपस्विना ।
त्वमसि तापसी सुभ्रु! व्रती चाहं समाधिमान् । । २५ । ।
आवां शक्तो मनो जेतुं निरोद्धुं काममेव च ।
तस्माल्लक्ष्मि! कृष्णपत्नि! मा कृष्णं कर्म चाचर । । २६ । ।
भव धैर्यवती बाले गणेशोऽहं गण जय ।
गणेशवचनं श्रुत्वा तमुवाच स्मरार्दिता । । २७ । ।
धर्मात्मजस्य कन्याऽहं पत्यर्थं च तपस्विनी ।
तपःफलं स्वामिलब्धिस्त्वं स्वामी भव मे पतिः । । २८ । ।
तुलसीवचनं श्रुत्वा तामुवाच हरिं स्मरन् ।
मातर्दारग्रहे नास्ति मदिच्छा यद्धि दुःखकृत्। । ।२९ । ।
दारग्रहो महाजालं बन्धनं कलहगृहम् ।
कामसेवा हरेः प्राप्तौ विरोधिनी न मुक्तिदा । । 1.333.३० । ।
तपस्यानाशिका मोक्षद्वारे कपाटिका मता ।
गलपाशकरी गर्भकारागृहनिवासदा ।। ३१ । ।
तत्त्वज्ञानविनाशा संशयाधाना जनुप्रदा ।
साहसानां परा माता सर्वमायाकरण्डिका । । ३२ ।।
दोषाश्रया न कर्तव्या कामसृतिविनाशिनी ।
निवर्तस्व महामाये! मार्गयाऽन्यं तु कामुकम् ।। ३३ । ।
कामुकेनैव कामुक्याः संगमोऽर्थप्रदो भवेत् ।
श्रुत्वैवं तुलसी कन्या संतप्ता कामनातुरा ।। ३४।।
गणेशं प्राह गृह्णासि भजमानां न वै यतः ।
अभजमाना ते पत्नी भाविनी मम शापतः । । ३५ ।।
गणेशस्तां तदा प्राहाऽसुरग्रस्ता भविष्यसि ।
पश्चाद् वृक्षमयी भविष्यसि ममापि शापतः ।। ३ ६ । ।
श्रुत्वा शापं तुलसी सा रुरोद प्राह तां गणः ।
मा रोदीहि मम पूज्ये! पुष्पसारा भविष्यसि ।। ३ ७ ।।
पत्रसारा सदा स्निग्धा विष्णौ कृष्णे भविष्यसि ।
भविष्यति त्वया त्वर्च्ये विष्णुर्मुक्तिप्रदः सदा ।। ३८ ।।
नाहं भोक्ष्ये तव पत्रं मञ्जरीं काष्ठमित्यपि ।
कृष्णभोग्या भव सुभ्रु! कल्याणं ते भविष्यति ।। ३ ९।।
इत्युक्त्वा स गणेशस्तु ययौ बदरिकावनम् ।
तुलस्यपि ययौ दूयमानाऽन्तरा तु पुष्करम् ।। 1.333.४० ।।
तत्र कृत्वा तपः पश्चाच्छंखचूडप्रियाऽभवत् ।
ततः शंकरशूलेन स ममाराऽसुराधिपः ।।४ १ ।।
सा कलांशेन वृक्षत्वं प्राप्ता नारायणप्रिया ।
नारायणेन विधिवद् विवाहिता च कन्यका ।।४२ ।।
पुनः प्राप्ता कृष्णनारायणं गोलोकवासिनम् ।
इति ते कथिता लक्ष्मि! तुलस्याः पुनरावृतिः ।४३ ।।
हरिणा संगृहीता सा हर्यंगा वै हरेर्वधूः ।
तुलसी सर्वपापानि प्रक्षालयति पद्मजे ।। ४४।।
पत्रं पुष्पं फलं मूलं शाखा त्वक् स्कन्धसंज्ञितम् ।
तुलसीसंभवं सर्वं पावनं मृत्तिकादिकम् । ।४५ ।।
यस्य शवस्य दाहोऽपि तुलसीकाष्ठसंभत्रः ।
न तस्य पुनरावृत्तिर्मोक्षगस्य कदाचन ।।४६ ।।
महापापातिपापादिसंभृतोऽपि नरो यदि ।
तुलसीकाष्ठदग्धः स्यान्मृत्युवेगात्प्रमुच्यते ।।४७।।
तुलसीस्पर्शकर्ताऽपि सर्वपापात्प्रमुच्यते ।
यस्य मृतो हरेर्नाम दाहे च तुलसीसमिध् ।। ४८।।
श्राद्धे च भगवद्दानं न तस्य पुनरागतिः ।
यद्दाहे काष्ठनिचये काष्ठमेकमथो भवेत् ।।४९ ।।
तस्य पापानि नश्यन्ति मुक्तिगो जायते तु सः ।
गंगांभसा सुमिश्राणि वारीणि यान्ति पुण्यताम् ।।1.333.५० ।।
हरेर्नाम्ना प्रमिश्राणि वाक्यानि यान्ति पुण्यताम् ।
तुलसीकाष्ठमिश्राणि दारूणि यान्ति पुण्यताम् ।।५१ ।।
तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलिता चिता ।
दह्यन्ते तस्य पापानि कल्पकोटिभवानि च ।।५२।।
तुलसीकाष्ठनिक्षिप्तं शवं दृष्ट्वा यमानुगाः ।
पलायन्ते नरं त्यक्त्वा नयन्ति विष्णुपार्षदाः ।।५ ३ ।।
तुलसीकाष्ठसंयुक्तो मुक्तो याति हरेः पदम् ।
सुस्वर्गेऽप्सरसो देवा वर्धयन्ति क्षिपन्ति च ।।५४।।
पुष्पाञ्जलिं प्रगन्तारं तुलसीशववासिनम् ।
विष्णुश्चास्याऽतिसंतुष्टो भवते तुलसीजुषः ।।५५।।
तुलसीकाष्ठसंभूतोऽनलो यत्र प्रवर्तते ।
सा भूमिः पापसंनाशकारिणी तीर्थरूपिणी ।।५६ ।।
यत्र होमो भवेद् वृन्दाकाष्ठैः क्वचित्तु पर्वणि ।
तुहोस्तस्य भवेत् काष्ठे काष्ठेऽग्निष्टोमजं फलम् ।।५७।।
तुलस्या धूपदानेन कृष्णस्य मन्दिरे लभेत् ।
शतयज्ञसमं पुण्यं फलं गोशतदानजम् ।।५८ ।।
तुलसीकाष्ठदाहेन रन्धितं केशवाय यः ।
नैवद्यं ददते तस्य मेरुतुल्यं फलं भवेत् ।।।५९ ।।
तुलसीपावकेनापि दीपं ददाति विष्णवे ।
तस्य दीपसहस्राणां पुण्यमाज्यकृतं भवेत् ।। 1.333.६० ।।
तुलसीकाष्ठसंभूतद्रवचन्दनदायिने ।
विष्णुपदं ददातीशो विष्णुः स्वसाम्यतां ददेत् ।। ६१ ।।
तुलसीघृष्टजातेन चन्दनेनाऽर्चयेद्धरिम् ।
तस्य कृपा हरेर्बोध्या भुक्तिमुक्तिप्रदायिनी ।। ६२।।
तुलसीचन्दनैर्लिप्तः कुरुते हरिपूजनम् ।
हरेर्धाम्नि तुलस्या सम्मानितो रमते तु सः ।। ६३ ।।
पितॄणां पिण्डदानेऽपि तुलसीदलमेव यः ।
समर्पयति तस्याऽत्र पुण्यं भोगसुखप्रदम् ।।६४।।
पितॄणां चापि सन्तृप्तिर्दले पत्रे शताब्दिकी ।
तुलसीमृत्तिकास्नानं तीर्थस्नानं हि तत्स्मृतम् ।।६५ ।।
नवीनमञ्जरीपत्रैः पूजां विष्णोः करोति यः ।
सर्वपुष्पैः कृता तेन पूजा मोक्षप्रदायिनी ।।६ ६ ।।
गृहे तुलसी संरक्ष्या पाल्या पोष्या विशेषतः ।
दर्शनात्स्पर्शनात्तस्या ब्रह्महत्यादि लीयते ।। ६७।।
यत्र ग्रामे गृहे वाट्यामुद्याने तुलसी भवेत् ।
तत्र सर्वत्र वसति कृष्णनारायणो हरिः ।। ६८ ।।
तुलसी विद्यते यत्र गृहे तत्र न रुग्णता ।
भयं दुःखं न दारिद्र्यं न वियोगं कुटुम्बिनाम् ।। ६९ ।।
देवक्षेत्रे विशेषण तुलस्यारोपणे कृते ।
सर्ववृक्षारोपणानां पुण्यं पोषणजं लभेत् ।।1.333.७ ० ।।
मन्दिरे तुलसीदानं लक्ष्मीदानाधिकं भवेत् ।
तुलस्यारोपणेनात्र सुखं चान्ते हरेः पदम् ।।७ १ ।।
उत्पातान् भयदान् भाग्यहानिदान् दुर्निमित्तकान् ।
दूरीकरोति तुलसी ह्यकस्मात्समुपस्थितान् ।।७२।।
तुलसीपत्रगन्धादिमिश्रितो याति मारुतः ।
यत्र यत्र दशदिक्षु पवित्रयति देहिनः ।।७३ ।।
यत्र वृन्दामूलयोगस्तत्र ब्रह्मेशविष्णवः ।
यत्र वृन्दापत्रयोगस्तत्र देवादिमण्डलम् ।।७४।।
यत्र तन्मञ्जीयोगस्तत्रर्षिमुनयः स्मृताः ।
यत्र वारि तुलस्याश्च तत्र पितृगणः स्मृतः ।।७५।।
यत्र काण्डस्तुलत्या वै तत्र वैकुण्ठमेव ह ।
यत्र मणिस्तुलस्या वै तत्र लक्ष्मीयुतो हरिः ।।७६ ।।
यत्र वै तुलसीछाया पितृतृप्तिस्तु शाश्वती ।
तुलसीनिकरो यत्र तत्र दत्तं तु शाश्वतम् ।।७७।।
तस्या मूले सदा ब्रह्मा विष्णुः शाखासु तिष्ठति ।
मंजर्यादौ शंभुरस्ति तुलसी त्रिसुरात्मिका ।।७८ ।।
शिवालये तुलस्या रोपणं कार्यं जनैः सदा ।
तस्या यावन्ति बीजानि जायन्ते प्रतिवत्सरम् । ।७९ ।।
प्रतिबीजं युगमानं स्वर्गं तेषामखण्डितम् ।
एकादश्यां पूर्णिमायाममायां व्रतवासरे ।।1.333.८ ० ।।
संक्रान्तौ पुण्यकाले मन्दिरे तुलसीमर्पयेत् ।
रोपयेद् बहुभावेन वर्धयेज्जलसेचनैः ।।८ १ ।।
पूजयेद् दीपदानाद्यैर्दरिद्रो धनवान् भवेत् ।
शालग्रामशिला यत्र यत्र वा तुलसी भवेत् ।।८ २ ।।
तत्र स्नानं जपो दानं वाराणस्याः शताधिकम् ।
कुरुक्षेत्रात्प्रयागाच्च नैमिषेयाच्छताधिकम् ।।८ २ ।।
तुलसी तुलसी कृत्वा निधनं याति यो जनः ।
तुलसी तं महालक्ष्मि! नयति हरिमन्दिरम् ।।८४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने लक्ष्मीरूपपद्मावतीनद्या यौवनवेगेन युवतीरूपधराया गणेशं प्रतियानं, कामेन पत्यर्थमभ्यर्थनम्, गणेशकृतो वृक्षरूपिणी भव दैत्यपत्नी भवेत्यादिशापः, तुलसीमाहात्म्यं चेत्यादिनिरूपणनामा त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३३ ।।