लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३२
[[लेखकः :|]]
अध्यायः ३३३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि कथां वृन्दासुयोगिनीम् ।
तुलसी भगवत्पत्नी वृन्दावने तु वृक्षिका ।। १ ।।
जाता यथा तथा कालान्तरे विष्णुविवाहिता ।
यथावृत्तं कथयामि तव वृत्तं निबोध मे ।। २ ।।
गोलोके मम धाम्न्येवाऽभवद् वृत्तं निबोध मे ।
यस्य श्रवणमात्रेण सर्वपापात् प्रमुच्यते । । ३ ।।
लक्ष्मीः सरस्वती गंगा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ । । ४ ।।
गंगैकदा सकामा सकटाक्षाऽपश्यदच्युतम् ।
पुनः पुनस्त्वपश्यत्सरस्वत्युद्वेजनाय च । । ५ ।।
कृष्णो जहास बहुधा मुधा गंगां निरीक्ष्य वै ।
रेमे स गंगया सार्धं न तु सरस्वतीं हरिः ।। ६ ।।
रमयामास कामेन व्याप्तां चेच्छावतीमपि ।
लक्ष्मीः क्षमावती नैव मनुते तापमान्तरम् ।। ७ ।।
सरस्वती चंचला च न सेहे तापमान्तरम् ।
लक्ष्मीस्तां बोधयामास सान्त्वयामास दुःखिनीम् ।। ८ ।।
तथापि क्रोधमापन्ना वाणी शान्ता बभूव न ।
कम्पिता कोपवेगेन गंगां साऽऽह पतिं च वै ।। ९ ।।
सर्वासु समताबुद्धिः सद्भर्तुः कामिनीः प्रति ।
असद्भर्तुस्तु विषमा स्वार्थिनश्च खलस्य च ।। 1.332.१० ।।
ज्ञातः स्नेहश्च ते गंगां प्रति लक्ष्मीं प्रति ध्रुवः ।
मयि न्यूनो दृश्यते वै रमणे सहवासने ।। ११ ।।
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ।
श्रुत्वा तु भगवान् कृष्णस्तूष्णीं गृहाद् बहिर्ययौ ।। १ २।।
गते नारायणे गंगामुवाच शब्ददेवता ।
रे निर्लज्जे सकामे त्वं हरिं रोधयसि गृहे । । १३ ।।
रूपयौवनगर्वाढ्यां ताडयामि फलं लभ ।
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे! ।। १४।।
इति निर्भर्त्स्य गंगाया जिघृक्षुं केशमुद्यताम् ।
मध्ये गत्वा तदा पद्मा वारयामास वाङ्मयीम् ।। १५।।
क्रुद्धा पद्मां प्रशशाप वृक्षरूपा भविष्यसि ।
गंगां शशाप सक्रुद्धा सरिद्रूपा भविष्यसि ।। १६ ।।
शापं श्रुत्वा तु ते देव्यौ विज्ञाय विष्णुचेष्टितम् ।
न शेपतुस्तु तां वाणीं गंगा पद्मामुवाच ह ।। १ ७।।
पद्मे स्वभावतश्चेयं चंचला वाग्विलासिनी ।
वाच्याऽवाच्ये न जानाति शपाम्येनां कथं न वै ।। १८ ।।
सरिद्रूपा त्वं च वाणी भव वन्ध्या ऋतुं विना ।
अराजस्वल्यमेवाऽस्यै सदा भवत्वकामदम् ।। १ ९।।
इति शापं तु सा प्राप्ता तदा सरस्वती प्रिये! ।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ।। 1.332.२० ।।
कलहं सान्त्वयित्वा च दुःखितास्ता उवाच सः ।
मदिच्छयैव संजातं शोकं मा कुरुत प्रियाः ।। २१ ।।
लक्ष्मि! त्वं कलया याहि शुभं धर्मध्वजगृहम् ।
अयोनिसंभवा कन्या भूत्वा पश्चान्मिषेण वै ।। २२ ।।
संभूय तुलसी पश्चाच्छंखचूडस्य कामिनी ।
भूत्वा विवाह विधिना मत्पत्नी संभविष्यसि ।। २३ ।।
कलया त्वं सरित्पद्मावतीनाम्ना भविष्यसि ।
अथ गंगे! सरिद्रूपा पापघ्नी देहिनां भव ।। २४।।
सागराणां तु मोक्षार्थं सागरस्य प्रिया भव ।
भव सरस्वति! ब्रह्मसदने ब्रह्मकामिनी ।। २५।।
सरस्वतीनदीरूपा राजस्वल्यविवर्जिता ।
भव मोक्षकरी नित्यब्रह्मचर्यपरा भव ।। २६ ।।
अहमन्ते भवतीनां योगक्षेमौ यथायथम् ।
वहिष्यामि न मन्तव्यौ शोकमोहौ मम प्रियाः! । । २७। ।
तिस्रो भार्यास्त्रयः शालास्त्रयो भृत्याश्च बान्धवाः ।
ध्रुवं शुभविरुद्धाश्च न ह्येते मंगलप्रदाः ।। २८ ।।
स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ।
निष्फलं जन्म वै तेषामशुभं च पदे पदे । । २९ ।।
मुखदुष्टा योनिदुष्टा यस्य भार्या कलिप्रिया ।
अरण्ये तेन वस्तव्यं न स्त्रिया वै कदाचन । । 1.332.३० ।।
वरो व्याघ्राकुले वासो न दुष्टप्रमदागृहे ।
वरा व्याधिविषज्वाला न दुष्टस्त्रीमुखानलः ।। ३१ ।।
पुंसस्तु स्त्रीजितस्येह जीवितं निष्फलं भवेत् ।
बह्वीनां तु सपत्नीनां नैकत्र श्रेयसी स्थितिः ।। ३२ ।।
एकभार्यः सुखी क्वापि न त्वनेकवधूवरः ।
जीवन्मृतोऽशुचिर्दुःखी बहुभार्यापतिः खलु । । ३३ ।।
गच्छ गंगे! शिवस्थानं ब्रह्मस्थानं सरस्वति! ।
अत्र तिष्ठतु कमला सर्वंसहा मम कृते ।। ३४।।
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ।
इह स्वर्गसुखं तस्य धर्मो मोक्षः परत्र च ।। ३५।।
इत्युक्त्वा विररामैव कृष्णस्ता रुरुदुस्तदा ।
ऊचुश्च कम्पिताः साश्रुनेत्रा वियोगदुःखिताः ।। ३ ६।।
तिसृषु नाथ! यद् योग्यं प्रायश्चित्तं प्रदेहि तत् ।
प्रसादं कुरु त्वस्मभ्यं शापान्तश्च यथा भवेत् ।। ३७ ।।
नदीरूपा वयं गत्वा द्रक्ष्यामस्ते पदं कदा ।
कतिकालं स्थितिस्तत्र प्राप्स्यामस्त्वां कदा पुनः । । ३८ ।।
लक्ष्म्यहं तुलसीनाम्नी धर्मध्वजसुता सती ।
वृक्षरूपा तथा भूत्वा कदा प्राप्स्यामि ते पदम् । । ३९ ।।
गंगा सरस्वतीशापाद् गंगाशापात्सरस्वती ।
शापमुक्ते कदा स्यातां कदा वा त्वां लभिष्यतः । ।1.332.४ ० ।।
तस्मात् क्षमस्व हे नाथ मा प्रेषय स्थलान्तरम् ।
इत्युक्त्वा कमला कान्तपदं धृत्वा रुरोद ह ।।४ १ ।।
उवाच तां प्रभां कृत्वा वक्षसि करुणाकरः ।
तिस्रोऽपि त्वन्यरूपैस्तु भुवं यान्तु यथावचः ।। ४२ ।।
दिव्यरूपाः सदा त्वत्र तिष्ठन्त्विति कृपा मम ।
यन्निमित्तानि कार्याणि कर्तव्यानि भवन्ति वै ।। ४३ ।।
तानि निर्वर्त्य च ततो व आनिष्येऽत्र वै स्वयम् ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ।।४४।।
सरस्वती सरिद्रूपा गच्छन्तु भुवनान्तरम् ।
कलेश्चतुःसहस्रे तु गते वर्षे सरिद्वराः ।।४५।।
युगे युगे भूयो भूयो मद्गेहे त्वागमिष्यथ ।
विपत्तिः सम्पदां हेतुर्दुःखं सुखस्य कारणम् ।।४६।।
विना विपत्तेर्महिमा सम्पदां जायते नहि ।
पूर्वे विपत् प्रभोक्तव्या तेन मूल्यं हि सम्पदाम् ।।४७।।
पापिनां पापनाशार्थं मयैताः सरितः कृताः ।
मद्भक्तानां सतां स्नानाद् युष्मत्पापविनाशनम् ।४८।।
असंख्यतीर्थपूतत्वं मद्भक्तस्पर्शदर्शनात् ।
मद्भक्ताः पृथिवीं सर्वां पावयन्ति पदक्रमैः ।।४९।।
मद्भक्ता यत्र तिष्ठन्ति क्षालयन्ति पदाम्बुजम् ।
तत्स्थानं तु महातीर्थं तारकं पापिनां भवेत् ।।1.332.५०।।
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।।
व्रतघ्नो नास्तिकः पूतो भवेन्मद्भक्तसेवनात् ।।५ १ ।।
विश्वासघ्नो धर्महन्ता मिथ्याकलंकदस्तथा ।
मित्रघ्नो न्यासकर्ता च पूतो मद्भक्तदर्शनात् ।।५ २।।
अदीक्षितोऽसंस्कृतश्चाऽशुचिरन्यविनिन्दकः ।
अनिवेदितभोज्यत्र पूतो मद्भक्तसेवनात् ।।५३।।
मातरं पितरं भार्यां भ्रातरं तनयं सुताम् ।
गुरुं कुलं च भगिनीं स्वाश्रितं बान्धवादिकम् ।।५४।।
श्वश्रूं श्वशुरं वृद्धाँश्च पत्नीं पुष्णाति नैव यः ।
स भवेत् पातकी पूतो मद्भक्तस्पर्शदर्शनात् ।।५५।।
देवविप्रादिधनहृत् विक्रेता दुहितुस्तथा ।
रससांकर्यकर्तारः पूता मद्भक्तसेवनात् ।।५६ ।।
तेषां संगेन सरितः पूता भवन्तु सर्वदा ।
तेषां तु पादरजसा पूता पादोदकान्मही ।।५७।।
पुनन्ति सर्वतीर्थानि सतां स्नानाऽवगाहनात् ।
तेषां सन्दर्शनं स्पर्शं देवा वाञ्च्छन्ति सर्वथा ।।५८।।
लाभानां परमो लाभो वैष्णवानां समागमः ।
न तथा जलतीर्थानि न तथा पार्थिवाः सुराः ।।५९।।
न वा तैजसयज्ञाद्या न वै प्राणसमाधयः ।
ते पुनन्ति चिरं काले विष्णुभक्ताः क्षणादहो ।।1.332.६० ।।
गुरोर्वक्त्राद् विष्णुमन्त्रो यस्य कर्णे विशेद् वरः ।
वेदवेदांगशास्त्रज्ञो विष्णुभक्तोऽतिसूत्तमः ।।६१।।
यस्य जन्मनि संजाते नारका मोक्षणं गताः ।
भवन्ति स महान् भक्तो विष्णोः सर्वोत्तमोत्तमः ।।६२।।
तिर्यगादिषु जन्मसंग्रहणेनैव जन्तवः ।
मुक्ता भवन्ति यद्योगाद्विष्णोर्भक्तो महोत्तमः ।।६३।।
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।
मद्गुणश्लाघनीयश्च मन्निविष्टश्च मन्मयः ।।६४।।
मद्गुणश्रुतिमात्रेण सानन्द_ पुलकाञ्चितः ।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च ।।६५।।
न वाञ्च्छति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ।
मत्पादसेवनं ये तु वाञ्च्छत्येव दिवानिशम् ।।६६ ।।
एतादृशाश्च मे भक्ताः सन्तः साध्व्यो मदर्थिकाः ।
पावयिष्यन्ति सरितो मा शोकं कुरुत प्रियाः ।।६७।।
यान्तु सर्वाश्च तिष्ठन्तु जलवृक्षादिरूपतः ।
सरस्वती तदा दिव्या स्वयं तस्थौ हरेः पदे ।।६८ ।।
द्वितीयेन स्वरूपेण ब्राह्मी जाता सरस्वती ।
वागधिष्ठातृदेवी सा वेधःप्रियाऽत्र कीर्त्यते ।।६ ९।।
अथ जलस्वरूपेण ब्रह्मणा नोदिता हि सा ।
सरस्वती नदी जाता तीर्थरूपाऽतिपावनी ।।1.332.७० ।।
अथ गंगाऽण्डकृचले दिव्यरूपा जलात्मिका ।
ब्रह्मकमण्डलुस्थाना वामनांगुष्ठसंस्पृशा ।।७ १ ।।
भगीरथसमानीता शर्वजटोर्ध्वसंगिनी ।
समाजगाम कलया सरिल्लोकस्य पावनी ।।७२।।
दिव्यरूपा तु युवती स्वयं तस्थौ हरेः पदे ।
पद्मा च कलया पद्मावती जाता शुभाऽऽपगा ।।७ ३ ।।
द्वितीयेन स्वरूपेण लक्ष्मीर्धर्मध्वजगृहे ।
पुत्री जाता तुलसीतिनाम्नी कन्यास्वरूपिणी ।।७४।।
दिव्यरूपा तु तत्रैव लक्ष्मीर्वसति नित्यशः ।
इत्येवं कथितं लक्ष्मि! प्राग्भवं तव चेष्टितम् ।।७५।।
या वृन्दा सा रमा लक्ष्मीर्या लक्ष्मीः सा रमा च सा ।
या रमा सा वृन्दालक्ष्मीर्या लक्ष्मीः सा च वृन्दिका ।।७६ ।।
वृन्दावने वृक्षरूपाऽभवद् रमैव सैव सा ।
गणेशेनाऽथ संशप्ता शंखचूडप्रियाऽभवत् ।।७७।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने तुलसाविवाहाख्याने गोलोके श्रीकृष्णपत्नीनां रतिनिमित्तकपरस्परशापेन द्वेधा भूत्वा गंगासरस्वतीलक्ष्मीनां सरिद्रूपता लक्ष्म्यास्तुलसीरूपतेत्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ।। ३३ २।।