लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३१
← अध्यायः ३३० | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३३१ [[लेखकः :|]] |
अध्यायः ३३२ → |
श्रीनारायण उवाच-
शृणु लक्ष्मि । तुलस्यास्तु माहात्म्यं विष्णुसदृशम् ।
यच्छ्रुत्वापि भवेन्मुक्तिर्विष्णोः सान्निध्यदायिनीम् ।। १ ।।
या तु यस्य कृते नित्या सा नान्यस्य भवेद् ध्रुवा ।
विष्णोः पत्नी पुनर्विष्णुं प्राप्ता वृन्दा च वृक्षिणी ।। २ ।।
श्रीलक्ष्मीरुवाच--
ननु वृन्दाऽभवद् यत्र भस्मीभूता तु तत्स्थले ।
अदृश्या सा कियत्कालं स्थिता विष्णुमचिन्तयत् ।। ३ ।।
स्त्रीजातिर्वास्तवी शुद्धा ताश्च सर्वाः पतिव्रताः ।
सर्वा जातिश्चैकविधा त्वादौ सृष्टा हि वेधसा । । ४ ।।
ताः सर्वाः प्रकृतेरंशाः पवित्राः पण्डिताः श्रियः ।
कथं धर्मो विनाशं वै गतः पतिव्रतात्मकः ।। ५ ।।
विष्णुः पतिर्हि नारीणां स च धर्मः सनातनः ।
नरा विष्णोः सदंशाश्च कथं धर्मः क्षयं गतः ।। ६ ।।
प्राक् सृष्टौ प्रकृतीनां हि पुंसां संसेवने तदा ।
धर्म एव परश्चासीत् कथं स वै क्षयं गतः ।। ७ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां बहुसंशयनाशिनीम् ।
पूर्वः स्त्रियः सदा शुद्धाः शुद्धान्तःकरणास्तथा ।। ८ ।।
नार्या नरः सदा सेव्यः सृष्टिवृद्ध्यर्थमेव यत् ।
एष धर्मः पुरा ह्यासीत् सनातनतमस्तदा ।। ९ ।।
यं कमपि संसेव्य गर्भवत्योऽभवन् यदा ।
तदा नार्या नरमात्रसेवा धर्मः सनातनः । । 1.331.१० ।।
नासीद्वै कामना तत्र तृष्णा रागमयी तदा ।
केदारकन्याशापेन स हि धर्मः क्षयं गतः । । ११ ।।
तदा कोपेन धात्रा च स्त्रियो रागान्विताः कृताः ।
तत आरभ्य धर्मः सः स्त्रीणामन्योऽभवत् कृतः । । १ १। ।
सरागः कामतृप्त्यर्थं स्त्रीभिर्यो गम्यते नरः ।
तत्र रागो ह्यधर्मोऽभूद् युगभेदेन पद्मजे ।। १३ ।।
यदि स्त्रिया न रागोऽस्ति पुंसोऽपि नैव रागिता ।
गर्भार्थमेव योगश्चेद् धर्मो बीजप्रदानकम् ।। १ ४।।
यदि भोगेच्छया योगः स त्वधर्मः प्रकीर्तितः ।
युगभेदेन लोकानां रागतृष्णे बभूवतुः ।। १५ ।।
तेन कामप्रवृतिश्चाधर्मरूपाऽभवद् यतः ।
ततः पतिव्रताधर्मो धर्माभासमयोऽभवत् ।। १६ । ।
पूर्वधर्मो विनष्टश्च धर्मान्तरमभून्नवम् ।
एतत्सर्वं तु वृन्दाया निमित्तेनाऽप्यभूत्पुरा । । १७ । ।
कथयामि समासेन यथाऽभूत्तन्निबोध मे ।
पुरा तु ब्रह्मणः पुत्रो मनुः स्वायंभुवोऽभवत् ।। १८ ।।
तस्य पत्नी शतरूपाऽभवत् सा तु पतिव्रता ।
प्रियव्रतोत्तानपादौ तयो पुत्रौ बभूवतुः ।। १९ ।।
उत्तानपादपुत्रश्चाऽभवद् ध्रुवस्तु वैष्णवः ।
तत्पुत्रो नन्दसावणिः केदारश्चेति तत्सुतः ।। 1.331.२० ।।
सप्तद्वीपपतिश्चायं केदारो वैष्णवोऽभवत् ।
तद्रक्षार्थं सदा विष्णोः सुदर्शनमभूद् गृहे ।। २१ । ।
गवां लक्षं स्वर्णशृगं वस्त्राणि विविधानि च ।
सुवर्णानां तथा लक्षं नित्यं दाने ददाति सः ।। २२।।
मणिहीरकमुक्तानां दानं करोति नित्यशः ।
लक्षं लक्षं द्विजानां स भोजयामास नित्यशः । । २३ ।।
जलभोजनपात्राणि सुवर्णानां ददाति सः ।
यज्ञसूत्रांऽगुलीयकासनानि स्वर्णजानि च । । २४।।
दाने ददाति राजाऽसौ दीनाऽनाथ द्विजातये ।
लक्षविप्राः सूपकारा द्वे लक्षे परिवेषकाः ।। २५ ।।
शतलक्षप्रभोक्तारः प्रतिपर्वाऽस्य सन्ति वै ।
घृतकुल्या मधुकुल्या दधिकुल्या मनोहराः ।। २६।।
गुडकुल्या दुग्धकुल्या भवन्त्यस्य दिवानिशम् ।
साधूनां पूजनं नित्यं साध्वीनां पूजनं तथा ।। २७।।
करोति नित्यसत्कारं वृद्धानां पूजनादिकम् ।
गवां सुराणां विप्राणां करोति नित्यपूजनम् ।। २८ ।।
फलमूलाशनो राजा मदर्पणपरायणः ।
सर्वं मदर्पणं कृत्वा गृह्णाति पद्मजे! सदा ।। २९ ।।
मामेव नित्यं जपति स्मरति श्रीयुतं च माम् ।
भजते सर्वदा लक्ष्मीनारायणममुं हि माम् ।। 1.331.३० ।।
एकदा द्वादशीप्रातः पारणायां नृपगृहे ।
विप्राणां भोजनायैव दशलक्षमुपस्थितम् ।। ३१ ।।
द्रागेव यज्ञहवनं कारयित्वा नृपेण हि ।
भोजिता मिष्टवस्त्वाद्यैरन्नैर्व्यञ्जनपायसैः ।। ३२।।
पूरिकाभिर्विविधाभिर्दुग्धादध्यादिभिस्तथा ।
सद्द्विजैस्तृप्तिमापन्नैर्दक्षिणापूर्णमानसैः ।। ३३ ।।
शुभाशिषः प्रदत्तास्ते लक्ष्मीर्वसतु वै गृहे ।
अथ मध्याह्नहोमे तु हवनं बहुधा घृतैः ।। ३४।।
तिलैः फलैः पायसान्नैः पुष्पैः पत्रैश्च कारितम् ।
तदा विष्णोर्हि कृपया वृन्दा वृन्दवनस्थिता ।। २५ ।।
तपसिस्था तु पत्यर्थं विष्णोरर्थं पतिव्रता ।
जलधरविनाशाद्धि रूपान्तरेण संस्थिता ।। ३६ ।।
नारायणाज्ञया केदारस्य यज्ञमुपस्थिता ।
कमला कलया जाता यज्ञकुण्डसमुद्भवा ।। ३७ ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।
कामुकी दिव्यशोभाढ्या कन्या कमललोचना ।। ३८ ।।
जातमात्रा युवती सा वृन्दाऽऽदेशकरी प्रभोः ।
कन्याऽस्मि ते महाराजेत्युवाच नृपतिं हि सा ।। ३९ ।।
राजा संपूज्य तां पुत्रीं तस्थौ पत्नीं समर्प्य च ।
सापिप्रसू तु तां राज्ञीं केदारं जनकं जगौ ।।1.331.४० ।।
तत आरभ्य लक्ष्म्या वै प्रतापेनाऽस्य भूपतेः ।
राजेन्द्राणां पञ्चलक्षं नित्यं केदारसंसदि ।।४ १ ।।
अमूल्यरत्नमाणिक्यं मुक्ताहारं मणीश्वरम् ।
गजरत्नमश्वरत्नं केदाराय करं ददौ ।। ४२ ।।
एवं स्मृद्धिमयं राज्यं साप्तद्वीपमयं ह्यभूत् ।
कन्या तु विष्णुकामाढ्या तपस्येव मनो दधे ।।४३ ।।
प्रसूं तातं नमस्कृत्य ययौ वृन्दावनं पुनः ।
यमुनान्तिकमेवेयं यत्र प्राग् भस्मतां गता ।।।४४।।
तपसा वरयामास मां वरं च वरोत्तमम् ।
ब्रह्मा ददौ वरं तस्यै विष्णुं कृष्णं लभिष्यसि ।।४५ ।।
अथैकदा यमुनायास्तीरे स्वपिति सुन्दरी ।
धर्मः परीक्षितुं यातो वृन्दां तां तापसीं ततः ।।४६ ।।
ददर्श कन्या रहसि युवानं पुरुषं परम् ।
यथा षोडशर्षीयं कामेन कनकप्रभम् । ।४७। ।
सुगन्धाढ्यं साभरणं रमणीनां मनोहरम् ।
कामुकं कोटिकन्दर्पलावण्यं पार्वणाननम् ।।४८ ।।
पद्मपत्रनिभनेत्रं सस्मितं भावपूरितम् ।
पार्श्वतो गायनं कुर्वन् वीणां रम्यां च वादयन् । । ४९ ।।
ययावितस्ततः सोऽपि भावं हृदि प्रदर्शयन् ।
दृष्ट्वा तत्र निषसाद सुन्दरीं मानयन् बहु ।। 1.331.५० ।।
वृन्दाऽपि तं समुत्थायाऽऽतिथ्यं कृतवती तदा ।
अपूजयत्फलैर्मूलैः पुष्पपत्रैर्जलादिभिः । । ५१ ।।
पूजां गृहीत्वा मुदितः सस्नेहां तामुवाच सः ।
भवती कस्य कन्याऽसि तपश्चरसि दारुणम् । ।५२ ।
किमत्र कारणं कन्ये! किं ते नाम वदात्र मे ।
निर्जनेऽत्र वसस्येकाकिनी वाञ्छसि किं शुभे । । ५३ ।।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
वृन्दोवाच तु तं विप्रं केदारनृपकन्यका । । ५४।।
वृन्दा तपः करोम्यत्र चिन्तयामि हरिं पतिम् ।
यदि दातुं समर्थोऽसि देहि मे वरमुत्तमम् ।।५५।।
असमर्थोऽसि चेद्विप्र! पूजयाम्यन्यतः सर ।
धर्म उवाच तां वृन्दां परमात्मानमीश्वरम् । । ५६ । ।
का क्षमा तं पतिं कर्तुं विना लक्ष्मीं सतीं श्रियम् ।
राधां रमां पार्वतीं च शारदां च प्रभां तथा । । ५७ । ।
सरस्वतीं माणिकीं च शारदां विरजां च वा ।
चतुर्भुजः स वैकुण्ठे गोलोके तु द्विबाहुकः । ।।५८ ।।
अक्षराख्ये परे धाम्नि द्विभुजः स हि वर्तते ।
तस्य पत्न्यस्त्वसंख्याताः सन्ति मुक्तान्य एव ताः । । ५९ ।।
राधालक्ष्म्यादयस्ते तु भजन्तेऽनादियोषितः ।
कोटिकन्दर्पवीर्यादिसंपूर्णं कान्तसुन्दरम् ।। 1.331.६० ।।
यन्निमेषो भवेद् वृन्दे! ब्रह्मणः पतनेन वै ।
एकोर्ध्वसप्ततिसत्ययुगैस्त्विन्द्रस्य पातनम् । । ६१ ।।
चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् ।
निशाऽपि तावती तस्य शतायुष्ट्वं भवत्यपि ।। ६२ । ।
यावज्जीवनपर्यन्तं सेवन्ते सनकादयः ।
कल्पानां कोटिकोटिं च तन्न साध्योऽस्ति यन्महान् ।। ६३ ।।
सहस्रवक्त्रशेषश्च सेवते च जपत्यपि ।
दिवानिशं तु तं भक्त्या कल्पकोटिशतं शतम् ।।६४ ।।
तथापि नैव चाप्नोति दुराराध्यः परात्परः ।
ब्रह्मा ब्रह्मस्वरूपस्तं भजेज्जन्मनि जन्मनि ।। ६५ ।।
तेनाऽप्यसाध्यो भगवान् त्वया कथमवाप्यते ।
संहारकर्ता जगतां रुद्रोऽप्यन्तं न गच्छति । । ६६ ।।
स नाऽऽप्नोति तदा त्वं वै कथमाप्स्यसि बालिके! ।
ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी ।। ६७ । ।
नारायणी विष्णुमाया वैष्णवी सा सनातनी ।
सरस्वती च यं स्तोतुमशक्ता परमेश्वरी ।। ६८ ।।
कथमिच्छसि कल्याणि! प्रकृतेः पारगं पतिम् ।
मां भजस्व महाभागे नृपाणामीश्वरं पतिम् ।। ६९ ।।
भुंक्ष्व सुखानि सर्वाणि मद्गृहे वरवर्णिनि! ।
सप्तसागरपारे तु काञ्चनी नगरी मम ।।।1.331.७ ० ।।
तत्रैवाऽऽगच्छ भद्रं ते रम रामे! मया सह ।
एह्यके मम संभोक्तुं मां युवानं मनः कुरु ।। ७१ ।।
इत्युक्ता सा नृपसुता कोपाद्धर्म्यमुवाच तम् ।
धैर्यं कुरु क्षितिस्वामिन्! तपः सत्यं च ते व्रतम् ।।७२।।
अपत्नीसहयोगस्तु त्वदर्थेऽधर्म इत्ययम् ।
तेनाऽभद्रं भवेत्। तादृक् समूलस्य विनाशकम् । ।७३ । ।
तपोनाशो भवेन्मेऽत्र तव नाशो भवेत्तथा ।
रहस्यं चापदं दृष्ट्वा मां त्वं धर्षितुमिच्छसि । ।७४। ।
किन्त्वत्र लोकपालाश्च धर्मो यमो हरिः शशी ।
सूर्यः पृथ्वी जलं वह्निर्बुद्धिः साक्षी तथाऽपरे । ।७५।।
सर्वप्राणिषु तिष्ठन्ति क्व गुप्तं क्व रहस्यकम् ।
क्षमस्व गच्छ भद्रं ते ह्यवध्यो ब्राह्मणो मतः । ।७६ । ।
शक्ताऽहं भस्मसात् कर्तुं गच्छ विप्र यथासुखम् ।
सर्वान्तरात्मा भगवान विष्णुः रक्षति मां द्विज! ।। ७७ । ।
अनाथबालवृद्धानां विष्णुः संरक्षकः सदा ।
एवमुक्तोऽपि कामेन संभोक्तुं याति यावता । ।७८ । ।
कोपाच्छशाप सा धर्मं ब्रह्मबन्धो क्षयं व्रज ।
क्षयं व्रज दुराचार हे धर्महन् क्षय व्रज ।।७ ९ ।।
तावत् तत्र समायाता ब्रह्म विष्णुमहेश्वराः ।
धर्मं दृष्ट्वा प्रशप्तं तं रुरुदुस्त्रिदशेश्वराः । । 1.331.८० ।।
निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना हतम् ।
धर्मं क्षमस्व वृन्दे त्वं जन्ममृप्युजराहरम् ।।८ १ । ।
धर्मं जीवय पितरं रक्ष धर्मं पतिव्रते! ।
इति विष्णुस्तदोवाच तथा ब्रह्माऽप्युवाच ताम् । ।८ २ ।।
ध्वान्तपूर्णं जगज्जातं विना धर्मेण वृन्दिके! ।
कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुन्धरा ।।८ ३ ।।
स्वस्ति तेऽस्तु च भद्रं ते जीवयैनं वृषं शुभे! ।
धर्मे करोषि तपसां कथं धर्मं विहंसि च ।। ८४।।
द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः ।
ब्रह्मणा प्रेरितश्चायं निर्दोषोपि विहंसितः ।। ८५।।।
तपसोपार्जितो धर्मो धर्मेण च फलं नृणाम् ।
कथ फलं स्यात् तपसा यदि धर्मः क्षयं गतः ।।८ ६ ।।
निष्फलं कर्मिणां कर्म विना धर्मेण धार्मिके ।
धर्मे प्रणष्टे तपसां तवाऽपूर्वं विनंक्ष्यति । ।८ ७ ।।
स्वधर्मोपार्जनं कर्तुमागताऽस्यत्र सुन्दरि! ।
विहंसि धर्ममज्ञात्वा धर्मं जीवय सत्वरम् । । ८८ ।।
इति श्रुत्वा तदा वृन्दा देवान्प्राह तपस्विनी ।
अहं देवा न जानामि धर्मं ब्राह्मणरूपिणम् । । ८९ । ।
कृतः क्षयो मया कोपान्मां प्रधर्षितुमिच्छतः ।
जीवयामि ध्रुवं धर्मं मृतं सनातनं पुनः । । 1.331.९० ।।
किन्तु मृतः पुनर्नैव स एवात्र भविष्यति ।
देशकालादिभेदेन धर्मोऽन्योऽयं भविष्यति । । ९१ ।।
तपः सत्यं तु चेन्मेऽत्र सत्यं चेद् विष्णुपूजनम् ।
तेन पुण्येन तु विप्रोऽत्र सद्यो भवतु जीवितः । । ९१ ।।
मम सत्यव्रतं सत्यं तपः सत्यं च मे यदि ।
तेन पुण्येन विप्रोऽत्र सद्यो भवतु जीवितः । । ९३ । ।
धर्मपत्नी तदा मूर्तिरुवाच कमलापतिम् ।
यद्यस्मि धर्मपरमा धर्मो भवतु जीवितः ।। ९४।।
नारायणपदे नत्वा मूतिर्वृन्दा प्रचक्रतुः ।
वन्दनं धर्मजीवार्थं नारायणस्तदाऽऽह च ।। ९५।।
मूर्ते! वृन्दे! च धर्मोऽयं जीवतु भवतु कृते ।
चतुष्पादोऽथ त्रेतायां त्रिपादो द्वापरे द्विपात् ।। ९६।।
कलौ त्वस्तु त्वेकपादस्त्रेधा क्षयार्थशापवान् ।
इत्युक्त्वा स हरिर्धर्ममाह्वयामास शब्दतः ।। ९७ । ।
धर्मस्तु जीवनं प्राप्तो मूर्तिवृन्दाऽप्रसीदताम् ।
ध्रुवः पूजितश्च वृन्दा तत्र प्रशंसिता ।। ९८ ।।
वरदानार्थमाज्ञप्ता ययाचे विष्णुमेव सा ।
विष्णोरर्थं तपस्तप्तं पतिर्विष्णुश्च मे भवेत् । । ९९।।
मां विवाह्य तु वैकुण्ठं नयताद् विष्णुरेव ह ।
तथास्त्विति हरिः प्राह वृन्दा प्रसन्नतां गता ।। 1.331.१०० ।।
वृन्दाविवाहिता तत्र विष्णुना सह कन्यका ।। १०१ । ।
वैकुण्ठं च गता विष्णुं प्राप्य सा राजकन्यका ।
अथ वृन्दावनं रम्यं मोक्तुं वृन्दा न चेच्छति । । १०२ । ।
विष्णुः प्राह तदा वृन्दां तिष्ठात्र तुलसीमयी;
विवाहयिष्ये त्वागत्य बहुमानपुरःसरम् । ।१०३ ।।
एतद् वृन्दावनं रम्यं त्यक्तुमहं न चोत्सहे]
निमित्तान्तरमासाद्य स्थास्ये त्वत्र त्वया सह ।। १०४ । ।
विष्णोस्तुलसीवैवाह्यं लोके ख्यातिं गमिष्सि ।
तथा करिष्ये वृन्देऽहं वसाऽत्र तुलसीमयी । । १०५ ।।
अथ कालान्तरे राधाछाया त्वं वै भविष्यसि ।
तदा रापाणपुत्रीं त्वां विवहिष्यामि वै पुनः । । १०६ । ।
वसुदेवस्य पुत्रोऽहं कृष्णो राधापतिः स्वयम्
कृष्णनारायणस्तेऽत्र भविष्यामि पतिः प्रिये । । १० ७।।
विष्णुस्तां तुलसीं कृत्वा नांत्या वृन्दां सहाऽच्युतः ।
ययौ वैकुण्ठमेवाऽन्ये सुगः स्वं केतनं ययुः । । १०८ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालंधरवृन्दाख्याने वृन्दाया ध्रुवपौत्रकेदारपुत्रीत्वं वृन्दवने तपश्चर्या, धर्मकृतपरीक्षा, धर्मेण धर्षिताम्रियत्वेति धर्मं शशाप, त्रिदेवागमनं, धर्मोज्जीवनम्, धर्मस्य क्षयः शीलरूपान्तरता, वृन्दायास्तुलसीरूपेण स्थितिः,
वृन्दारूपेण वैकुण्ठगतिश्चेत्यादिनिरूपणनामैक- त्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३१ । ।