लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३०
← अध्यायः ३२९ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३३० [[लेखकः :|]] |
अध्यायः ३३१ → |
श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दूतो गत्वा शीघ्रं जलंधरम् ।
उवाच वृन्दाज्वलनं श्रुत्वा रुरोद वार्धिजः ।। १ ।।
येन यत् क्रियते कर्म तथा तेनैव भुज्यते ।
मया तु वञ्चिता गौरी हरिणा वञ्चिता वधूः ।। २ ।।
स्वसृपतिं गृहे नैव स्थापयेत्सर्वथा जनः ।
धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ।। ३ ।।
गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान् ।
नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद् बुधः ।। ४ ।।
मायामाश्रित्य मे पत्नी विष्णुना वञ्चिता ध्रुवम् ।
किं प्रयामि हरिं जेतुमथवा हरमुल्बणम् ।। ५ ।।
यदि यामि हरिं जेतुं हरः पृष्ठे हनिष्यति ।
उपस्थितं परित्यज्याऽन्याऽनुगो वै विनश्यति ।। ६ ।।
उभौ मे सुबलौ शत्रू जयः सन्दिग्धतां गतः ।
अर्धः पराजितश्चाऽहं या पत्नी भस्मतां गता ।। ७ ।।
तस्मात् पशुपतिं जित्वा पश्चाद् विष्णुं प्रयामि वै ।
शंभुं जित्वा भविष्यामि लोके सर्वेश्वरेश्वरः ।। ८ ।।
अथवा शिवनाराचैर्मृतो यास्यामि तत्पदम् ।
इति विचार्य तत्रैव ययौ योद्धुं पिनाकिना ।। ९ ।।
रणे जालंधरोऽपश्यत् कबन्धचयभीषणम् ।
शवरुचिरमांसौघमज्जमेदोऽस्थिदुर्गमम् ।। 1.330.१० ।।
रणे विलोकयामास वृषस्थं पार्वतीपतिम् ।
बाणाँस्तीक्ष्णानतिस्थूलाँल्लोहस्तंभाँस्तथा बहून् ।। ११ ।।
मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे ।
ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा ।। १२।।
रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ।
शरीरं कीलितं बाणैः किंशुकवर्णतां गतः ।। १३ ।।
रुधिरं बहु सुस्राव जालंधरशरीरतः ।
देवास्तु सबला जाता दानवास्तु चकम्पिरे ।। १४।।
हरस्तीक्ष्णशरेणाशु विव्याध हृदि सिन्धुजम् ।
पपात शरभिन्नांगो मूर्छितः सिन्धुजोऽभवत् ।। १५।।
तावद् रुद्रेण नाराचैर्हता जालंधरी चमूः ।
जलंधरस्तु मनसा शुक्रं सस्मार चात्यति ।। १६ ।।
स तु कृत्यावशे चाद्रिगह्वरे परतन्त्रकः ।
आगन्तुं नाशकत्तत्र रणो यत्र प्रवर्तते ।। १७।।
जलंधरः शनैर्मूर्छां परित्यज्योत्थितोऽभवत् ।
शीघ्रं मायामयीं गौरीं विदधे तादृशीं शुभाम् ।। १८।।
रथोपरि गतां बद्धां साऽऽक्रन्दां पार्वतीं शिवः ।
निशुंभशुंभदैत्यैश्च वध्यमानां ददर्श ह ।। १ ९।।
गौरीं तथाविधां दृष्ट्वा शिवोऽत्युद्विग्नमानसः ।
शिथिलांगो विषण्णात्मा ह्यवाङ्मुखस्तदाऽभवत् ।। 1.330.२० ।।
ततो जंलधरो वेगात् त्रिभिर्विव्याध सायकैः ।
आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ।।२ १ ।।
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ।
प्रलयानलवद् घोरो बभूव शंकरस्तदा ।।२२।।
तावच्छुंभो रथात्तां तु व्योम्नि मायिकपार्वतीम् ।
नीत्वा मुमोच शूलाग्रे शूलोपरि पपात सा ।। २३ ।।
रुदती शंकरस्याऽग्रे शूलविद्धा ममार सा ।
मायागौरीं मृतां दृष्ट्वा शोकमोहप्लुतो हरः ।।२४।।
शशाप शुंभप्रमुखान् गौरी युष्मान् हनिष्यति ।
चण्डी भूत्वा च तान् सर्वान् जघान समरांगणे ।। २५।।
ब्रह्मा तत्र समागत्योवाच श्रीशंकरं तदा ।
जालंधरेण रचिता मायेयं पार्वती हर ।। २६।।
सत्या तु पार्वती मया विष्णुना चापि रक्षिता ।
कमलस्याऽऽन्तरे कोशे तिष्ठति सूक्ष्मतां गता ।। २७।।
युध्यस्य वैरिनिवहं जहि मायां तु पार्वतीम् ।
मत्वेति ब्रह्मणो वाक्यं महाविज्ञो महेश्वरः ।।२८।।
ज्ञात्वा तां दानवीं मायां मुमोच महतीं शिलाम् ।
बभञ्ज कपटां मूर्तिं चूर्णां चकार तत्क्षणम् ।।२९।।
अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ।
अन्यदाविश्चकाराऽऽशु भृशं मायामहाबलम् ।। 1.330.३० ।।
जालंधरोऽयुतभुजो बभूवाश्मद्रुमायुधः ।
रुरोध समरे शंभुं क्रुद्धोऽस्त्रशस्त्रवान् मुहुः ।। ३१ ।।
उवाच बलवद्वाक्यं तिरस्कुर्वन् हरं तदा ।
पश्य शंकर कीदृङमे बलं जानासि नैव किम् ।। ३२।।
को महेश्वर मद्बाणैरभेद्यो भुवनत्रये ।
बालभावेन विष्णुस्तु विष्णुर्गृहेऽभिरक्षितः ।। ३३ ।।
तपसा च स्वयं ब्रह्मा तोषितो वरदानदः ।
इन्द्राग्नियमवित्तेशा वायुवारीश्वरादयः ।। ३४।।
मदधीनीकृताः सर्वे वाहान्याहृतवानहम् ।
पर्वता धर्षिताः सर्वे निरुद्धा लीलयाऽऽपगाः ।। ३५ ।।
दिवौकसो वै विजिताः सुबद्धं वडवामुखम् ।
ऐरावतादयः क्षिप्ताः क्षिप्तश्चेन्द्रो रथाऽन्वितः ।। ३६।।
गरुडोऽपि मया बद्धो देव्यो नीता गृहं मम ।
मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणम् ।। ३७।।
इति श्रुत्वा विजहास महादेवः पुनः पुनः ।
जलंधरो जघानाशु हसन्तं विशिखैः शिवम् ।। ३८।।
ततः शूलेन निहतो रुद्रेणोरसि दानवः ।
दानवस्य मुखात्तत्र निःससार ज्वरः परः ।। ३९।।
सिंहमुखो नराकारो जम्भोऽभ्यधावदीश्वरम् ।
ईशो हुंकारमकरोत् तत्र शरभ आबभौ ।।1.330.४० ।।
शरभेण हतः सिंहो दानवो वृषभं तदा ।
बलात्पुच्छे गृहीत्वा च भ्रामयामास भूतले ।।४१ ।।
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ।
हस्तेनादाय दैत्यस्तं समधावद्धरं प्रति ।।४२।।
ततोऽयुतभुजो दैत्यो बबन्ध समरे शिवम् ।
शिवः स्वस्य कृपाणेन चिच्छेद करकाननम् ।।४२।।
छिन्नहस्तोऽपि युयुधे तदा तुष्टो महेश्वरः ।
उवाच वरदानार्थं दैत्यो वव्रे हरात्तदा ।।४४।।
शीघ्रं प्रयच्छ मे सिद्धिं मह्यं देह्यात्मनः पदम् ।
तथास्त्विति हरः प्राह जग्राहानलपूरितम् ।।४५।।
चक्रं सुदर्शनं सूर्यकोटितुल्यपराक्रमम् ।
जलंधरविनाशाय चिक्षेप भगवान् हरः ।।४६।।
जहार तच्छिरो वेगान्महदायतलोचनम् ।
द्विधा पपात तद्देहो ह्यंजनाद्रिरिवाचलः ।।४७।।
तस्य कण्ठात् समुद्भूता दैत्याः शतसहस्रशः ।
ते हतास्तेन चक्रेण जालंधरसमा युधि ।।४८ ।।
जालंधरकबन्धं तन्ननर्त रुधिरारुणम् ।
मेदसा सिन्धुपुत्रस्य पूरिता सकला मही ।।४९ ।।
तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ।
शोणितं यत्र शुष्कं तज्जातं वै शोणितं पुरम् ।।1.330.५ ० ।।
अथ मांसचयान् ब्राह्मी माहेश्वरी च वैष्णवी ।
वाराही चैव माहेन्द्री कौमारी चेति याश्च याः ।।५ १ ।।
योगिन्यस्ता सर्वदिक्षु नीत्वाऽकुर्वन् विनाशितान् ।
तस्य देहाद्बहिर्यातं तेजो लिल्ये हरे तदा ।।५२।।
योगिनीनां गणा जालंधरस्याऽदन्ति मांसकम् ।
पिबन्त्यसृक् तेनाद्यापि नोत्तिष्ठति रणे हतः ।।५ ३ ।।
जलंधरं हतं दृष्ट्वा सुराः प्रसन्नतां गताः ।
अभूवन् साधुवादाँश्च देवसिद्धमुनीश्वराः ।।५४।।
पुष्पवृष्टिं प्रकुर्वाणाः शिवकीर्तिं जगुः शुभाम् ।
देवश्च ननृतुः पर्योऽप्सरोभिश्चाभिपूजिताः ।।५५।।
प्रसेदुश्च दिशः सर्वा विबन्धनाः सुरादयः ।
सूर्यचन्द्रजलेशाद्या निर्मुक्तास्तस्य बन्धनात् ।।५६।।
विष्णुना च हरेणापि ब्रह्मणाऽधिकृताः पुनः ।
तेषां रत्नानि तेभ्यश्च प्रदत्तानि सुरेश्वरैः ।।५७ ।।
कृत्याभिः शुक्र उत्सृष्टो ययौ स्थानं स्वकं पुनः ।
देवराज्यमभूद् दैत्यनाशोर्ध्वं च प्रतिस्थलम् । ।५८ ।।
बुभुजुर्यज्ञभागांश्च देवा लोकेशतां गताः ।
देव्यश्चान्ये सुराश्चापि स्वस्वस्थानं सुखं स्थिताः ।।५९।।
द्रोणाचलं समुद्राश्च बहिरानीय जीवनीम् ।
ओषधिं प्राप्य देवानां गुरुर्बृहस्पतिस्तदा ।। 1.330.६० ।।
यत्र वै प्रमथाः शंभुगणा नष्टा युधि स्थले ।
तत्र प्रयोजयामासाऽस्थिमांसशवप्रभृतौ ।। ६१ ।।
सर्वे रुद्रगणा युद्धे हतास्ते जीविताः पुनः ।
निरवशेषतः सर्वे कैलासं प्रययुः सुखम् ।।६ २।।
पर्वतोऽपि यथाऽऽसीत्प्राक् तत्स्थले लोकहेतवे ।
स्थापितो विष्णुवाहेन काले योग्यं प्रजायते ।।६ ३ ।।
सर्वोऽपि भुंक्ते स्वं कर्म लक्ष्मि! तद् विद्ध्यसंशयम् ।
यावद् देहोऽस्ति कर्माणि सुखदुःखादि वर्तते ।।६४।।
इतिहासमिमं श्रुत्वा न दुःखैः परिभूयते ।
क्लेशा दूरे भवन्त्यस्य जाता अपि पुनः पुनः ।। ६५ ।।
यादृशो यस्य संयोगो बन्धनं चापि तादृशम् ।
वृन्दायां कृतयोगेन विष्णोश्चापि सुबन्धनम् ।। ६६।।
लोकरीत्याऽभवत् सर्वं शृणु लक्ष्मि! ततः पुनः ।
वृन्दया मोहितो विष्णुर्वृन्दायाः प्राप्तये पुनः ।। ६७ ।।
वृन्दामृतिस्थलं नैवाऽत्यजद्देवादिबोधितः ।
वृन्दापि तं ध्यायमाना सती जाता ह्यतः खलु ।।६८ ।।
विष्णुं वाञ्छति तत्रैव पुनर्वृन्दावने पुनः ।
सूक्ष्मरूपेण विष्णोर्वै शरीरात्तु बहिर्बहिः ।।६ ९ ।।
प्राकट्यं याति विजने पुनर्विष्णौ विलीयते ।
विष्णोः शक्तिस्त्रिविधा या गौरी लक्ष्मीः रमा तथा ।।1.330.७ ० ।।
दृश्याऽदृश्यस्वरूपिण्यो वर्तन्ते या हरौ सदा ।
ताभिर्दृष्टा हरिस्तत्र वृन्दया चाति मोहितः ।। ७१ ।।
वृन्दा चापि पतिध्वंसे पत्यन्तरं समिच्छति ।
विष्णुनांगीकृता चेयं विष्णुमादातुमिच्छति ।।७२ ।।
निर्जने सा समूर्ता वै भूत्वा विष्णुं प्रसेवते ।
विष्णुं प्राह त्वया यस्मादंगीकृताऽस्मि सर्वथा ।।७३ ।।
तस्माद् गृहाण हस्तं मे विवाहविधिना प्रभो ।
पूर्वं गोलोकधामस्था पश्चाज्जलंधरप्रिया ।।७४।।
पुनस्त्वया कृता नैजा तस्माद् वह निजां तु माम् ।
विष्णुः प्राह भव केदारस्य पुत्री वहामि ताम् ।।७५. ।।
तद्वै विलोकितं दृष्टं गौर्या लक्ष्म्या रमाख्यया ।
ततस्ताभिश्च शक्तिभिर्दत्तानि तत्र वै तदा ।।७६ ।।
बीजानि देवताभ्यश्च क्षिप्तानि तत्स्थले च तैः ।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वृक्षास्त्रयोऽभवन् शुभाः ।।७७ ।।
धात्री च मालती चैव तुलसी चेति ते त्रयः ।
गौर्यंशा सा स्मृता धात्री लक्ष्म्यंशा मालती स्मृता ।।७८ ।।
रमा वृन्दा तु तुलसी समभूद् वृक्षरूपिणी ।
ताश्च नार्योऽभवँस्तत्र दिव्यरूपधरा अपि ।।७९ ।।
सुस्त्रीरूपिवनस्पती न्दृष्ट्वा विष्णुः प्रहर्षितः ।
विष्णुं दृष्ट्वा च तुलसी वृन्दाऽप्यतिप्रहर्षिता ।।1.330.८ ० ।।
एवं परस्परं सा स रागेणैव व्यलोकयत् ।
तं विष्णुं तुलसी धात्री रागेणैव व्यलोकयत् ।।८ १ ।।
त्वया लक्ष्म्या तदा बीजमीर्ष्ययैव समर्पितम् ।
तस्मात्तदुद्भवा नारी विष्णावीर्ष्यायुताऽभवत् ।।८२।।
अतः बर्बरीत्याख्यामवाप चातिगर्हिताम् ।
धात्रीतुलस्यौ तद्रागाद् विष्णुप्रीतिप्रदे सदा ।।८ ३ ।।
अभवतां च ते नीत्वा विष्णुर्वैकुण्ठमाप्तवान् ।
तत्रैव ते विवाह्यैव विष्णुर्वृन्दायुतोऽभवत् ।।८४।।
केदारस्य सुता भूत्वा वृन्दा विष्णुमवाप ह ।
वृन्दया ग्रथिता तत्र वने माला मनोहरा ।।।८५ ।।
मन्दारपारिजातानां पुष्पाणां वरवर्णिनी ।
देव्यो देवाः समायाता शुभे वृन्दावने स्थले ।।८६।।
मण्डपं कारयित्वा च यज्ञकुण्डं विधाय च ।
वह्निं प्रज्वाल्य तत्रैव होमं कृत्वा विधानतः ।।८७।।
देहशुद्धिं तुलस्याश्च कारयित्वा च मण्डनम् ।
वस्त्राभरणभूषादि सुगन्धस्नानमंगलम् ।।८८ ।।
कारयित्वा तु तुलसीं भोजयामास भावतः ।
विष्णुं शृंगारयित्वा च ब्रह्माद्या देवकोटयः ।।।८९ ।।
यानवाहनयुक्ताश्च देवीभिरनुयायिनः ।
सगायकगणयुक्ताः सवादित्रनिनादनाः ।। 1.330.९० ।।
सदिव्यवाहनाः सर्वे याता गौर्या गृहं तु ते ।
गौरीलक्ष्मीरमाद्याश्च विष्णुं पुपूजुरादरात् ।।९ १ ।।
लोकाचारं विधायैव मण्डपाऽन्तर्न्यवेशयन् ।
तत्रानीय नवां वृन्दां कन्यकां युवतीं तु ताः ।। ९२।।
होमं प्रकारयित्वैव प्रदक्षिणं विधाप्य च ।
अनलं तं नमस्कृत्य बृहस्पतिस्तयोर्द्वयोः ।। ९३ ।।
करे करं प्रदत्वैव वरमालां निधाप्य च ।
वृन्दादानं कृतवाँश्च तदा गौर्याद्यनुज्ञया ।।९४।।
जयशब्दाश्च देवानां देवीनां गीतमंगलम् ।
पुष्पवृष्टिवृद्धिवाचो जातास्तत्रोभयोः कृते ।। ९५।।
यौतकानि भोजनानि प्रदत्तानि ततश्च ते ।
वृन्दावनाद् ययुः सर्वे स्वस्वदेशं सुरादयः ।। ९६।।
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् ।
आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियम् ।।९७।।
ब्राह्मणो ज्ञानमाप्नोति क्षत्रियो राज्यवान् भवेत् ।
वैश्यस्तु सम्पदा युक्तः श्रुत्वा शूद्रः सुखी भवेत् ।। ९८ ।।
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानकैः ।
सन्तोषयेद् वाचकं तु तस्मिँस्तुष्टे फलं भवेत् ।। ९९।।
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ ।
अन्नदानं प्रदायाऽथ ब्राह्मणादीन् प्रपूजयेत् ।। 1.330.१० ०।।
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् ।
इति व्याजेन ते लक्ष्मि! तुलस्युत्पत्तिकारणम् ।। १०१ ।।
प्रकथितं च तत्छ्रुत्वा लभते पुण्यमुत्तमम् ।
स्वगृहे रोपिता चापि तुलसी पापनाशिनी ।। १०१ ।।
दर्शनाद् ब्रह्महत्यादि नश्यति नात्र संशयः ।
वैशाखे कार्तिके माघे तुलसीं बहु पूजयेत् ।। १०२ ।।
तुलस्या पूजयेद् विष्णुं सहस्रमञ्जरीस्तथा ।
अर्पयेद् विष्णवे प्रातः कोटियज्ञफलं भवेत्। ।। १ ०४।।
यत्र वृन्दा च हरिता तुलसी श्यामलप्रभा ।
जाता वृन्दावने तत्र विष्णुश्चातीव मोहितः ।। १०५ ।।
वासं चकार मोहं च नैव तत्याज केशवः ।
तदा तस्याऽऽत्मनस्तिस्रः शक्तयः प्रकटीकृताः । । १०६ ।।
महाद्भुतैः स्वतेजोभिर्भासयन्ति दिगम्बरम् ।
ताभिर्बीजानि तत्रैव न्यस्तानि स्वांशतस्तदा ।। १०७।।
वृन्दावने तदा धात्री मालती तुलसी तथा ।
अभवन् वृक्षरूपिण्यस्ता दृष्ट्वा तत्र केशवः ।। १०८ ।।
मुमोह तस्मिंस्तुलसी धात्री च रागमापतुः ।
धात्री तुलस्यौ तद्रागात् तस्य प्रीतिपदे सदा ।। १०९ ।।
ततो विष्णुश्च ते नीत्वा वैकुण्ठमगमत् पुनः ।
लक्ष्मीश्चेर्ष्याकरी तत्र बर्बरीति वियोजिता ।। 1.330.११० ।।
य इदं हि पठेन्नित्यं पाठयेच्छृणुयात्तथा ।
सद्गतिः स्वर्गवासश्च मोक्षस्तस्य तथा भवेत् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालंधरवृन्दाख्याने जालंधरेण मायया कपटगौरीनाशदर्शनं, मायया युद्धं, शंकरचक्रद्वारा जालंधरनाशः, वृन्दाया विष्णुतो वरणयाञ्चा, वृन्दायाः केदारराजपुत्रीत्वं, विष्णुना तुलसीविवाहः, वृन्दावने गौरीलक्ष्मीरमांशा
धात्रीमालतीवृन्दावृक्षरूपाः, लक्ष्म्या बर्बरीत्वं चेत्यादिनिरूपणनामा त्रिंशत्यधिकत्रिशततमोऽध्यायः ।। ३३० ।।