लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२९
[[लेखकः :|]]
अध्यायः ३३० →

श्रीलक्ष्मीरुवाच-
विष्णो नारायण कृष्ण विष्णुना किं कृतं ततः ।
वृन्दायाश्छलनार्थाय कथं जालन्धरो मृतः ।। १ ।।
श्रीनारायण उवाच -
जालंधरबलं लक्ष्मि! वृन्दास्वामिव्रतेऽभवत् ।
वृन्दायाः पातिव्रत्यस्य भंगाय विष्णुराचरत् ।। २ ।।
विष्णुस्तत्र गतो रात्रौ समुद्यानकृताश्रयः ।
वृन्दां स दर्शयामास स्वप्नं वैधव्यसूचकम् ।। ३ ।।
जालंधरशिरः पुंसा कर्तितं शंकरेण वै ।
गृध्रेणाऽऽकृष्टनयनं छिन्नकर्णाग्रनासिकम् । । ४ ।।
प्रयान्तं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ।
कृष्णपुष्पाभूषणाढ्यं क्रव्यादगणसेवितम् ।। ५ ।।
मुक्तकेशी आलास्या कृष्णवर्णाऽरुणाम्बरा ।
काली चखाद कण्ठाऽधो मुण्डं गतं तु दक्षिणाम् ।। ६ ।।
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह ।
दैत्यक्षयगुणोपेतं वृन्दा स्वप्नं ददर्श ह ।। ७ ।।
ततः प्रबुद्धा वृन्दा विप्रेभ्यः स्वप्नं न्यवेदयत् ।
श्रुत्वा तु ब्राह्मणाः प्राहुरत्युग्रं स्वप्नमेव तत् ।। ८ ।।
अचिन्त्यफलदं तद्वै सर्वाऽनिष्टकरं महत् ।
देहि दानं द्विजातिभ्यो ह्यचिन्त्यभयनाशकम् ।। ९ ।।
धेनूर्वासांसि रत्नानि गजाँश्चाऽऽभरणानि च ।
तया दानानि दत्तानि ह्यनिष्टशान्तिदानि वै ।। 1.329.१० ।।
अथापि दक्षिणांगानां स्फुरणान्यभवँस्तदा ।
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं तथा ।। ११ ।।
तदप्यनिष्टं विज्ञाय शोकसागरमज्जिता ।
कुत्रचिन्नाप सा शर्म भवनाट्टालभूमिषु ।। १२ ।।
विष्णुना माययाऽऽकृष्टा जगामोद्यानमातुरा ।
सखीद्वययुता तत्र न प्राप कुत्रचित्सुखम् ।। १३ ।।
वनाद्वनान्तरं भ्रममाणा ददर्श भीषणौ ।
राक्षसौ सिंहवदनौ प्रेरितौ विष्णुना निजौ ।। १४।।
सेवकौ मायया क्लृप्तौ दृष्ट्वा साऽतीव विह्वला ।
पलायनपरा रक्षाकर्तारं प्रति धावति ।। १५ ।।
यावत्। तत्र वने दृष्टो मुनिर्विष्णुकृतस्तदा ।
रक्षकं तं तु सा मत्वाऽऽसाद्य तच्छरणं तदा ।। १६ ।।
तत्कण्ठं बाहुभ्यां धृत्वा रक्ष रक्षेत्युवाच तम् ।
मुनिना स्वबलेनापि हुंकारेण च तावुभौ ।। १७।।
विद्रावितौ राक्षसौ च रक्षिता तद्भयात् सती ।
अथ वृन्दा स्वस्थचित्ता नत्वा वचनमब्रवीत् ।। १८।।
आर्तिनिवारक साधो रक्षिता खलजाद्भयात् ।
जानासि चेद् वद विप्र जलन्धरः पतिर्मम ।। १९ ।।
युद्धाय वै गतो रुद्रं प्रति तस्याऽधुनाऽस्ति का ।
दशा स्थितिस्तथा स्वास्थ्यं जयो वाऽन्यद् वदात्र मे ।। 1.329.२० ।।
मुनिः प्राह भरद्वाजात्मजोऽहं प्रब्रवीमि ते ।
महानिद्रा दशा पुनरनुत्थाना स्थितिस्तव ।। २१ ।।
पत्युः स्वर्गगतं स्वास्थ्यं जयः परत्र वै गतः ।
इत्याकर्ण्य महाघोरं रुरोद चातिविह्वला ।। २२।।
तावत् कपीशावायातौ वृन्दाया अग्रतः स्थितौ ।
तस्यैव कं कबन्धं च गृहीत्वा करयोरुभौ ।। २३ ।।
एतद् दृष्ट्वा पुनर्वृन्दा रुरोदाऽतीव सुस्वना ।
जलंधरं मृतं दृष्ट्वा ह्याक्रन्दत् कुररीव सा ।। २४।।
अहो भग्नं मम दैवं सर्वं नष्टं धनं मम ।
याऽहं वैधव्यमापन्ना मांगल्यं वै गतं मम ।।२५।।
शंभुना नैव योद्धव्यं गमने प्रार्थितं मया ।
तथापि वीरभावत्वात् त्वया नाथ मतं न मे ।।२६।।।
मयाऽद्यापि च मर्तव्यं तव देहेन वीरक ।
इति कृत्वा यदा वृन्दा दग्धुमिच्छति तच्छवम् ।।२७।।
स्वोत्पादिताऽनलेनैव तावत्स मुनिपुंगवः ।
धैर्यं प्रदाय कृपया तामाह जीवयामि तम् ।।२८।।
इत्युक्त्वा स मुनिर्विष्णुर्जीवयित्वा तु तत्पतिम् ।
मायाशवं सजीवं वै स्वात्मकं तं जलंधरम् ।।२९।।
रचयित्वा कारयित्वा दर्शयित्वा ततः स हि ।
महोत्सवं वने तत्र चकार जीवकारणात् ।।1.329.३० ।।
वृन्दाऽपि निजभर्तारं जीवितं प्राप्य तत्क्षणम् ।
जहौ शोकं समालिंग्य प्रचुचुम्ब तदाननम् ।।३ १ ।।
रेमे तत्रैव कामेन शय्यायां वै पुनः पुनः ।
मायाजालंधरो विष्णुरवर्णयद् रणांगणम् ।। ३२।।
प्रिये रुद्रेण रौद्रेण च्छिन्नं चक्रेण मे शिरः ।
तव दूतेन तच्छीघ्रमानीतं तव सन्निधौ ।।३३।।
मुनिनाऽनेन मन्त्रेण जीवितं ते सतीत्वतः ।
गृहाण देवि ताम्बूलं सुरते रम कौशलम् ।।३४।।
इत्युक्त्वा च महाविष्णुः रेमे मुहुर्मुहुस्तया ।
वृन्दांगस्वेदतो भूम्यां प्रादुर्भूतातिपावनी ।।३५।।
वृन्दा सा तुलसी प्रोक्ता वृन्दावनं च तत्स्थलम् ।
जालंधरस्य च पीठं राज्यं जालंधरात्मकम् ।। ३६।।
एवं तत्र प्रसिद्धं वै समभूत् प्राक् समुद्रजे ।
अत्र विष्णुर्वृन्दया वै रेमेऽतिसुरतक्रियाम् ।।३७।।
सतीपतिव्रताधर्मभंगेन स्वामिनस्ततः ।
जलंधरस्य तेजश्च बलं च क्षीणतां यथा ।।३८।।
यथा प्रयाति रमते तथा तथा तु तत्र वै ।
जलंधरो भवत्येव क्षीणः प्रतिक्षणं प्रिये ।।३९।।
युद्धं पञ्चदिनान्येव ततोऽप्यभूद् भयंकरम् ।
विष्णुश्चोद्यानभवने भुंक्ते वृन्दां पुनः पुनः ।।1.329.४०।।
गरुडं गुप्तरूपेण संप्रेषयत्यहर्निशम् ।
जलंधरो मृतो न वा विज्ञातुं केशवो हरिः ।।४१।।
पञ्चमे तु दिने कृत्वा सुरतं शयने यदा ।
निद्रां गताऽभवद् वृन्दा गरुडस्तावदाययौ ।।४२।।
गृहान्तरे गतो विष्णुश्चतुर्भुजोऽभवद् यतः ।
गरुडः सर्ववृत्तान्तं विष्णवे च न्यवेदयत् ।।४३।।
नाऽद्ययावन्मृतो दैत्यो मुमुर्षुरस्ति मा चिरम् ।
अद्य श्वो वा परश्वो वा मरिष्यति न संशयः ।।४४।।
इत्याद्युक्त्वा गरुडश्च यावद् याति बहिर्गृहात् ।
तावत्तु वृन्दया दृष्टः शीघ्रं सोत्थाय शंकया ।।४५।।
पश्यत्यन्तर्गृहे तावद् दृष्टो विष्णुश्चतुर्भुजः ।
कोऽयं कोऽयं पुमानन्यो मद्गृहान्तः समागतः ।।४६।।
इत्याक्रुश्य स्वपतिं सा यावन्मार्गयति गृहे ।
तावद् विष्णुस्तदा जालंधरो भूत्वा समागतः ।।४७।।
वद वृन्दे कथं कोऽत्र क्वाऽस्तीत्युक्त्वापि केशवः ।
अजानन्निव संजातो न कश्चिन्मिलितस्तदा ।।४८।।
वृन्दा शंकान्विता जाता पुनरेवं दिनान्तरे ।
मृषा सुप्ता सुरतान्ते किमित्यवगमाय सा ।।४९।।
तावत्तत्र समायातो गरुडस्तं च माधवः ।
भूत्वा चतुर्भुजः प्राप्तो गृहान्तरं तु तावता ।।1.329.५० ।।
तावत्तया ह्ययं विष्णुरिति दृष्टस्तु निश्चितः ।
सा निर्भर्त्स्य रुषा युक्ता विष्णुं वचनमब्रवीत् ।।५१ ।।
धिगस्तु ते परदाराभिमर्शिन् कपटाकृते ।
धर्मपुत्रो हरिर्भूत्वा ह्यधर्मं कृतवान् स्वयम् ।।५२।।
फलं भुंक्ष्व ददाम्यत्र शापं ते त्वं तथा भव ।
यौ त्वया मायया चात्र दर्शितौ राक्षसौ मम ।।५३।।
तावेव तव भार्यां च हरिष्यतो हि राक्षसौ ।
त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् ।।५४।।
भ्रमाऽनेन च सर्पेण सह यस्तेऽत्र सेवकः ।
इति शप्तस्तया विष्णुर्जगामाऽदृश्यतां क्षणात् ।।५५।।
वृन्दा प्राह सखीं पश्य जिह्मं तद्विष्णुना कृतम् ।
पातिव्रत्यं गतं मे च कान्तः सन्देहतां गतः ।।५६।।
इत्युक्त्वा स्नानमकरोत् पार्श्वसरोवराम्बुना ।
तीरे पद्मासनं कृत्वा कृत्वा निर्विषयं मनः ।।५७।।
शुष्ककाष्ठचयं कृत्वा तत्र वृन्दा स्वयं तदा ।
चिन्तयाना विष्णुशाठ्यं प्राविशद्धव्यवाहनम् ।।५८।।
प्रजज्वाल तदा वृन्दा भस्मरूपाऽभवत् क्षणात् ।
तच्च भस्म तत्र जातं श्यामलं तुलसीवनम् ।।५९।।
वृन्दास्वेदस्तु संजातं हरितं तुलसीवनम् ।
तुलस्युद्वाहविधिना हरिं प्राप पतिं पुनः ।।1.329.६०।।
विष्णुं सा ध्यायमाना वै लीनेति विष्णुतन्मया ।
विष्णोस्तु वाञ्च्छया विष्णुं पुनः प्राप्ता तु तुलसी ।।६ १ ।।
वृक्षरूपापि सा देवी विष्णुना स्वीकृता सदा ।
गोलोके या स्वकीयाऽऽसीत् चत्र स्वर्णाऽप्सरःसुता ।।६२।।
कालनेमिगृहे पुत्री जाता विष्णुप्रिया तु सा ।
राधासापत्नदोषेण जलंधरप्रियाऽभवत् ।।६ ३ ।।
पुनर्विष्णुं समालिङ्ग्य विष्णुप्रिया ह्यजायत ।
वृन्दा तेजस्तदा तत्र विष्णुशक्तौ व्यलीयत ।।६४।।
वृन्दा तुलसी सा वृक्षरूपा पृथ्व्यां ह्यजायत ।
अन्ते वै यादृशी वृत्तिर्गतिश्चापि च तादृशी ।।६५ ।।
इति ते कथितं लक्ष्मि! वृन्दाधर्मप्रतारणम् ।
जलंधरविनाशाय विष्णुनाऽऽचरितं तदा ।।६६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जलंधरवृन्दाख्याने वृन्दाया विष्णुप्रदर्शिताऽशुभस्वप्नम्, सूर्योदयादावपशकुनानि, उद्याने कृत्रिमराक्षसाभ्यां भीताया वृन्दाया साधुरूपेण विष्णुना रक्षणम् कृत्रिमजालंधररूपस्य मृतस्य कृत्रिममुनिरूपेण समुज्जीवनम्, कृत्रिमजालंधरभूतेन
विष्णुना वृन्दायां रतिकरणम्, वृन्दास्वेदाद् वृन्दावृक्षः, ततो ज्ञात्वा वृन्दायाश्चिताप्रवेशेन भस्मनः तुलसीरूपता, विष्णोः राक्षसाभ्यां हृतस्त्रीनिमित्तं दुःखित्वशापश्चेत्यादिनिरूपणनामैकोनत्रिंशदधिकत्रिशततमोऽध्यायः ।। ३ २९।।