लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२८
[[लेखकः :|]]
अध्यायः ३२९ →

श्रीलक्ष्मीरुवाच-
कृत्यायोनौ निहितस्य शुक्राचार्यस्य वै ततः ।
किमभूत् तत्र युद्धं च कीदृशं चेति मे वद ।। १ ।।
श्रीनारायण उवाच-
यावज्जालंधरनाशो भवेत् तावत्तु कृत्यया ।
स्वयोनौ मर्दितः शुक्रो निर्गन्तुं नाऽशकत् तदा ।। २ ।।
योगमन्त्रबलेनायं मुमुर्षुरपि संयमात् ।
कथंचिज्जीवनं धृत्वा प्रसुप्तस्तत्र मूर्छितः ।। ३ ।।
जालंधरे विनष्टे च कृत्यया मूत्रितो बहिः ।
मूर्छितश्चिरकालान्ते जागरं स च लब्धवान् ।। ४ ।।
अथ प्रासंगिकं युद्धं शृणु लक्ष्मि! परस्परम् ।
द्वन्द्वात्मकं ततो जातं महतोर्महतोरति ।। ५ ।।
अभ्यधावत नन्द्याख्यं कालनेमिर्महासुरः ।
शुंभो लम्बोदरं चापि निशुंभस्तु षडाननम् ।। ६ ।।
निशुंभः पञ्चभिर्बाणैर्विव्याध शिखिनं हृदि ।
कार्तिकेयस्ततो बाणैः पञ्चभिस्त्वतिसूल्बणैः ।। ७ । ।
विव्याध वाजिनस्तस्य सारथिं ध्वजमेव च ।
शरेणैकेन तीक्ष्णेन निशुंभं प्रजघान ह ।। ८ ।।
जगर्ज च निशुंभोऽपि गर्जन्तं तु षडाननम् ।
जघान बहुभिर्बाणैविव्याध वर्म धारितम् ।। ९ ।।
कार्तिकेयस्तदा क्रद्धः शक्तिं जग्राह पाणिना ।
प्रसह्य बलवान् वेगात् प्राहिणोत् प्राणघातिनीम् ।। 1.328.१० ।।
निशुंभोऽपि समयज्ञः स्वशक्त्या तां व्यपातयत् ।
तावत् स्कन्दो द्वितीयां तां तदा प्राणान्तकारिणीम् ।। ११ ।।
प्राहिणीदतिवेगात् सा हृल्लग्ना तमपातयत् ।
अथ नन्दीश्वरस्तत्र कालानेमिं महासुरम् ।। १२ ।।
अविध्यत शरैस्तीक्ष्णैः पञ्चभिः सप्तभिस्तथा ।
चतुर्भिश्च हयान् द्वाभ्यां केतुं चैकेन सारथिम् ।। १३ ।।
कालनेमिस्ततो बाणैर्धनुश्चिच्छेद नन्दिनः ।
शिलीमुखैस्तथा नन्दीश्वरं विव्याध मस्तके ।। १४।।
नन्दीशोऽपि त्रिशूलेन जघान हृदि कालकम् ।
कालको हतसर्वस्वः शूलभिन्नहृदन्तरः ।। १५।।
उत्पाट्य शिखरं चाद्रेर्नन्दिनं समताडयत् ।
नन्दिः शक्तिं समादाय जघान कालवक्षसि ।। १ ६।।
कालः पपात मूर्छायां हस्तपादौ प्रसार्य वै ।
अथ हस्त्याननः शुभ विव्याध हृदि पत्रिणा ।। १७।।
अश्वान् विव्याधाऽष्टभिश्चैकेन विव्याध सारथिम् ।
शुभस्तदातिवेगाद्वै बाणेनैकेन मूषकम् ।। १८ ।।
विव्याध मस्तके चूचू कृत्वा ह्यालुरपासरत् ।
गणेशस्तं परित्यज्य पदातिर्गणनायकः ।। १९ ।।
शक्त्या विव्याध शुभ च पृथ्व्यामपातयत् तदा ।
अथ मूर्छा विहायैव कालनेमिर्निशुभकः ।। 1.328.२० ।।
उभौ गणेशं हन्तु ३ समाजग्मतुरुल्बणौ ।
गृहीत्वा पातयामासतुश्च विव्यधतुः शरैः ।।२ १ ।।
तं पीडितमवालोक्य वीरभद्रोऽभ्यधावत ।
जग्राह द्वौ कुक्षयोश्च मर्दयामास वै मुहुः ।। २२ ।।
प्रक्षिप्तौ पृथ्व्यां तौ द्वौ मृतप्रायौ महासुरौ ।
कूष्माण्डा भैरवास्तावत् प्रेता भूताः पिशाचकाः ।। २३ ।।
विनायकाश्च वेताला वीराः पक्षाश्च राक्षसाः ।
योगिन्यः कृत्यका डाकिन्यश्च सैन्यानि संययुः ।।२४।।
ततः किलकिलाशब्दः सिंहनादाः सघर्घराः ।
डमरूजप्रणादाश्चाऽकम्पयन् पृथिवीं तदा ।।२५ ।।
भक्षयन्ति दानवाँश्च मारयन्ति त्रिशूलकैः ।
छेदयन्ति गलाँस्तेषां मर्दयन्ति महासुरान् ।।२६ ।।
जघ्नुर्दैत्यान्दानवाँश्च शिखरैः पर्वतोपमैः ।
हस्तिभिर्वाजिभिश्चैव रथैः शस्त्रीकृतैस्तदा ।।।२७।।
दानवैश्चापि दैत्यैश्च शस्त्रीकृतैर्जडाऽजडैः ।
पद्भ्यां पद्भ्यां प्रगृह्यैव ताडयन्ति स्म ताँश्च तैः ।।२८।।
एवं भूतादिसेनाभिः कृतं वै कदनं महत् ।
ये योद्धारोऽभवन्दैत्यादयस्ते शस्त्रतां गताः ।।२२ ।।
तैरेव शस्त्रतां प्राप्तैर्नष्टाः स्वसैन्यपुंगवाः ।
यत्र भूता राक्षसाश्च वेतालाश्च विनायकाः ।।1.328.३ ० ।।
योद्धारस्तत्र किंकिं न संभाव्यते घटाऽघटम् ।
जलंधरस्य तत्सैन्यं छिन्नं भिन्नं विनाशितम् ।।३ १ ।।
मर्दितं नाशितं चापि चूर्णितं शकलीकृतम् ।
नाऽवशिष्टो यदा तत्र दृश्यतेऽसुरदानवः ।। ३२।।
तदाऽतिखेदमापन्नश्चाश्रूणि व्यासृजन्मुहुः ।
जलंधरो महावीरः शुक्रनाशातिशोकवान् ।। ३३।।
उज्जीवकस्य नाशेन सर्वं नष्टं ममाद्य वै ।
मयापि चात्र मर्तव्यं कृत्वा युद्धपराक्रमम् ।।३४।।
इति निश्चित्य सहसा कृत्यां जग्राह पादयोः ।
विदारणाय तावत्साऽमुञ्चच्छुक्रं स्वमूत्रगम् ।। ३५।।
रथे निक्षिप्य स तत्र विशश्राम क्षणं यदा ।
तावच्छुक्रः समवाप संज्ञां ततोऽथ विद्यया ।। ३६ ।।
संजीविन्या पुनर्दैत्यानुत्थापयन् जगर्ज च ।
तावद्वै वीरभद्रस्तं शुक्राचार्यं जलंधरम् ।। ३७।।
रथं सर्वं समानीय गह्वरं प्रविवेश ह ।
शुक्राचार्यं तु कृत्याभ्यो दत्वा नीत्वा जलंधरम् ।। ३८।।
आनीनाय हरस्याग्रे वीरभद्रो जगर्ज ह ।
तावज्जलंधरो रूपाण्यनेकानि विधाय तु ।। ३९।।
मूलरूपेण तत्स्थानादपासरन्मृतेर्भिया ।
भूतप्रेतपिशाचैश्च कूष्माण्डैर्गणनायकैः ।।1.328.४० ।।
छिन्ना भिन्ना हता दैत्या ये तु शुक्रेण जीविताः ।
प्रविध्वस्तां ततः सेनां दृष्ट्वा जलंधरस्तदा ।।४१ ।।
रथेनाऽतिपताकेन गणानभिययौ पुनः ।
मेघवद्बाणवृष्टिं स मुमोच शिवसैन्यके ।।४२ ।।
जलंधरशरमेघैश्छन्नं व्योमाऽभवत्तदा ।
शैलादिः पञ्चभिर्विद्धो गणेशः पञ्चसायकैः ।। ४३ ।।
वीरभद्रश्च विंशत्या कार्तिकेयस्तु सप्तभिः ।
विद्धस्तेन तु दैत्येन कार्तिकेयोऽपि सत्वरम् ।। ४४ ।।
शक्त्या विव्याध तं वीरं पातयामास भूतले ।
जलंधरस्ततः क्षणात् समुत्थाय रुषा ज्वलन् । । ४५ । ।
गदया ताडयामास कार्तिकेयमपोथयत् ।
वीरभद्रस्तदा शक्त्या पोथयामास वार्धिजम् ।।४६ । ।
जलंधरः समुत्थाय पुप्लुवे परिघायुधः ।
अभिधावन्द्रुतं गत्वा वीरभद्रं जघान सः ।।४७ । ।
वीरभद्रः पपातोर्व्यां जलंधरो जगर्ज ह ।
कोलाहलो महानासीत् भूतानां रुद्रसन्निधौ ।।४८ । ।
श्रुत्वा रौद्रो महारुद्रोऽभ्यगात् संग्राममाहसन् ।
दैत्या हि भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ।।४९ ।।
जलंधरस्तदा दैत्यो मृत्यर्थं कृतनिश्चयः ।
अभ्यधावत् स चण्डीशं मुञ्चन् बाणान् सहस्रशः ।।1.328.५ ० ।।
ये तु शुक्रेण पुनरुज्जीविता दैत्यपुंगवाः ।
हताऽवशेषास्ते चान्येऽभ्यधावन् शंकरं प्रति ।।५ १ ।।
शुंभनिशुंभघस्मरकालनेमिबलाहकाः ।
प्रचण्डखड्गरोमाणौ रोषात्संदृष्टदच्छदाः ।।५२ । ।
बाणैः संछोदयामासू रुद्रं रुद्रगणाँश्च ते ।
बाणान्धकारसंछन्नमभवद्व्योम सर्वतः ।।५ ३ ।।
हरस्तज्जालमाच्छिद्य बाणैराववृते नभः ।
खड्गरोमशिरः कायादच्छिनच्छंकरस्तदा । । ५४।।
बलाहकं मारयित्वा घस्मरं चाप्यमारयत् ।
महावीरं प्रचण्डं च चकर्त त्रिशिखेन सः ।।५५ ।।
एवं वै बहवस्तत्र हताः पुनर्न चोत्थिताः ।
जलधरं महाशक्तिं प्राहिणोच्छंकरः स्वयम् । । ५६ ।।
स रूपान्तरमास्थाय व्यलीयताऽम्बरे क्षणम् ।
शक्तिः सा निष्फला पृथ्व्यामन्यान्दैत्यान् व्यपोथयत् ।। ५७ ।।
तदा शेषा महादैत्या भयात् प्रदुद्रुवुः रणात् ।
जलंधरस्तु तान्वीक्ष्य प्रोवाच धिग्वदन् पुनः ।।५८ ।।
किं युष्माभिर्मातृदुग्धपानकृद्भिः पलायितैः ।
पृष्ठतश्च हतैः किं वै स्वर्गो मोक्षो न वाऽऽप्यते ।।५९ ।।
रणमृत्युः प्रशूराणां स्वर्गदो मोक्षदोऽपि च ।
आभिमुख्येऽस्तु निधनं शस्त्रैरमृतदायकैः ।।1.328.६० ।।
मा वैमुख्ये मृत्युरस्तु यो ददेन्नारकीं गतिम् ।
सूर्यस्य मण्डलं भित्त्वा यायाद् रणी परं पदम् ।। ६१ ।।
परिव्राट् स महायोगी यो रणे सम्मुखे हतः ।
अनिवार्यस्य वै मृत्योर्भयं कार्यं न वै बुधैः ।। ६२ ।।
उत्पत्त्या सह देहस्य मृत्युर्लग्नोऽस्ति वै ध्रुवः ।
तन्मृत्योर्भयमुत्सृत्य युध्यध्वं समरेऽसुराः ।।६ ३ ।।
इत्युक्त्वा अपि दैत्यास्ते भीता वै शंकरात्तदा ।
नाऽऽययूरणसंग्रामे चुक्रोधाति जलंधरः ।। ६४।।
प्रोवाच शंकरं यत्ते बलं तद् दर्शयात्र माम् ।
इत्युक्त्वा बाणसप्तप्या जघान जनकं हरम् ।। ६५ ।।
तानप्राप्तान् महादेवो चिच्छेद् निशितैः शरैः ।
अथाऽभ्यधावज्जलधृग्गदां चिक्षेप शंकरे ।। ६६।।
शिवः शक्त्या तु तां द्वेधा ह्यकरोद् व्योममार्गगाम् ।
ततो दैत्यो हरं मुष्ट्या हन्तुमभ्युद्ययौ तदा ।। ६७।।
शंकरेण त्रिशूलेन योजने स विपोथितः ।
अथ जलंधरो मत्वा रुद्रं बहुबलाश्रयम् । । ६८ ।।
मायां ससर्ज गन्धर्वाऽप्सरसां रुद्रमोहिनीम् ।
आविर्भूय च गन्धर्वा जगुः श्रुतिमनोहरम् ।। ६९ ।।
अप्सरसो ननृतुश्च मिष्टस्वरप्रगीतिभिः । '
तालवेणुमृदंगाँश्च वादयन्ति स्म चापराः ।। 1.328.७० ।।
तत्र शंभोस्तथा तस्य गणानां मोहमास ह ।
युद्धं विस्मृत्य शुश्रुवुस्तल्लीनाः शंभुशांकराः ।।७ १ ।।
दैत्यो लीनान् वीक्ष्य शुंभादीनवस्थाप्य तद्रणे ।
कामव्याप्तो जगामाशु यत्र गौरी गृहेऽभवत् ।।७२।।
दशहस्तश्च पञ्चास्यस्त्रिनेत्रश्च जटाधरः ।
रुद्राक्षवासुकिशूलचर्माऽम्बरादिभूषितः ।। ७३ ।।
आसुर्या मायया रुद्रो भूत्वा गृहान्तरं ययौ ।
आयान्तं रुद्रमालोक्य .पार्वती भववल्लभा ।।७४।।
सुरतेच्छुं च तं ज्ञात्वा गृहे पर्यंकगाऽभवत् ।
सूर्यचन्द्राग्निकनकविद्युद्वत् सूज्ज्वलां सतीम् ।। ७६ ।।
यावद् ददर्श तावत्स वीर्यं स्रावितवान् जडः ।
पार्वती तादृशं वीक्ष्य विचारयति चान्तरे ।।७६ ।।
नायं वै स्पृष्टवान् मां तु न वा पर्यंकमागतः ।
न मां ददर्श नग्नां वा कथं वीर्यममुञ्चत ।।७ ७ ।।
तस्मान्नायं महादेवः किन्त्वन्यो दानवो भवेत् ।
स्तन्यबिन्दुलवो जातः किं वाऽयं शांकरो भवेत् ।।७८ ।।
इति विचार्य सहस्रा भीतेवाऽदृश्यतां गता ।
तामदृष्ट्वा नष्टवीर्योऽगाद् योद्धुं शंभुना सह ।। ७९ ।।
पार्वत्यपि महाविष्णुं सस्मार मनसा मुहुः ।
कृष्णस्तत्र समायातः पार्वत्युवाच केशवम् ।।1.328.८ ० ।।
विष्णो! जलंधरो रुद्रो भूत्वाऽऽयातोऽत्र मद्गृहे ।
कामातुरो वञ्चयितुं तत् किं न विदितं तव ।।८१।।
विष्णुः प्राह विदितं मे कुर्यामाज्ञापयाऽत्र तत् ।
पार्वती प्राह लक्ष्मीश तादृशाय तु तादृशम् ।।८२।।
तेनैव दर्शितं कृत्यं कुरु तस्मिन् तथैव हि ।
वृन्दासतीत्वधर्मं त्वं विनाशय मदाज्ञया ।।८३।।
अन्यथा स महादैत्यो मरिष्यति न तद्बलात् ।
पातिव्रत्यं महान्धर्मः रक्षाकृन्मोक्षदस्तथा ।।८४।।
गोलोके सा तथैवासीत् तद्भोगे त्वं न दोषभाग् ।
सर्वे जीवास्तव पत्न्यः किमत्र त्वत्कृते प्रभो ।।८५।।
इति लक्ष्मि! स्वयं विष्णुः श्रुत्वा हरं निवेद्य च ।
जलंधरविनाशार्थं छलं कर्तुं ययौ प्रभुः ।।८६।।
यत्र जालन्धरे द्वीपे पुरे वृन्दा प्रतिष्ठति ।
पतिं प्रतीक्षते युद्धे जयिनं दर्शनातुरा ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जलंधरवृन्दाख्याने सेनापतीनां युद्धे मृत्युः, शुक्राचार्यकृत-जीवनं, शुक्राचार्यस्य कृत्यायोनौ निक्षेपः, ततो दैत्यानां नाशः, द्वन्द्वात्मकजलंधरवीरभद्रयुद्धं, जलंधरशंकरयुद्धं, गान्धर्वीमायामुत्पाद्य जलंधरो रुद्ररूपेण पार्वतीं छलयितुं जगाम, विष्णुर्वृन्दां छलयितुं जगामेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकत्रिशततमोऽध्यायः ।।३२८।।