लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२५
[[लेखकः :|]]
अध्यायः ३२६ →

श्रीनारायण उवाच-
शृणु लक्ष्म्येकदा जालन्धरो वृन्दापतिः स्वयम् ।
असुरैः सह शुक्रस्य पूजनार्थं समाययौ ।। १ ।।
तत्राऽऽययुः पूजनार्थमाषाढपूर्णिमातिथौ ।
दैत्याश्च दानवाः सर्वे राहुकेत्वादयोऽपि च ।। २ ।।
शुक्राचार्यः पूजितस्तैर्नमस्कृतश्च भावुकैः ।
दत्वाशीर्वचनं तेभ्यः पप्रच्छ कुशलादिकम् ।। ३ ।।
दत्तासनेषु सर्वे ते निषेदुः संसदीष्टकृत् ।
जलंधरोऽतिसंहृष्टोऽपश्यद्राहुं शिरो विना ।। ४ ।।
पप्रच्छाऽब्धिसुतस्तत्राश्चर्यपूर्वं तु भार्गवम् ।
केनेदं कर्तितं राहोश्छिरो ब्रूहि कथं कदा ।। ५ ।।
इत्याकर्ण्य शिवं स्मृत्वा शुक्राचार्यः उवाच तम् ।
हिरण्यकशिपोः पुत्रः प्रह्लादस्तस्य पुत्रकः ।। ६ ।।
विरोचनस्तस्य पुत्रो बलिराजो महाबलः ।
वर्तते च रसातलराज्यं कुर्वन् प्रभक्तराट् ।। ७ ।।
असुराणां तु सैन्यानि प्रबलान्यस्य संवशे ।
वर्तन्ते इति जानन्ति सुराः सर्वे सवासवाः ।। ८ ।।
अथैकदा तु दुर्वासा वैकुण्ठात् समवातरत् ।
भुवं नारायणदत्तपुष्पमालां करे दधन् ।। ९ ।।
ददर्शेन्द्रं विहरन्तं हस्तिना व्योममार्गके ।
ऋषिर्देवपतिं ज्ञात्वेन्द्राय मालां ददौ तदा ।। 1.325.१० ।।
विगणयन्निव मालां करे धृत्वा तु वासवः ।
स्थापितवान् करिकुंभे शुण्डादण्डेन तां करी ।। ११ ।।
धृत्वा पत्तलके कृत्वा मर्दयामास तत्क्षणम् ।
दुर्वासाः क्रोधमापन्नः शशाप गर्वहारकः ।। १२ ।।
लक्ष्मीनाशो भवत्विन्द्र! मालानाशफलं तव ।
इत्युक्ते स पपातेन्द्रो हस्तिपृष्ठाद् भुवस्तले ।। १३ ।।
लक्ष्मीः सर्वा विनष्टाऽभूत् प्रविवेश समुद्रके ।
सहस्रवर्षपर्यन्तमश्रीका देवतादयः ।। १ ४।।
दुःखिनस्ते सुराः सर्वे रमेशं शरणं ययुः ।
विना लक्ष्मीं दुःखिताः स्म इति स्वार्थपरायणाः ।। १५ ।।
विष्णुदर्शितमार्गेण सन्धिं चक्रुस्तदाऽसुरैः ।
स्वकार्यसिद्धये शूराश्छलधर्मपरायणाः ।। ३६ ।।
विष्णुसहायका देवा मिलिता ह्यसुरैः सह ।
लक्ष्म्यर्थं चामृताद्यर्थं चक्रुः सिन्धोः प्रमन्थनम् ।। १७।।
रत्नानि ते पितुर्यानि तानि सर्वाणि ते सुराः ।
जगृहुर्यत्नतो दृप्ताः पपुरप्यमृतं छलात् ।। १८। ।
अमृताश्च सुरा जाता गर्विष्ठा विष्णुपोषिताः ।
अमृतपानसंलब्धाऽमृतभावबलान्विताः ।। १९ ।।
तत आरभ्य दैत्यादीन् दुःखयन्ति सुराः सदा ।
पराभवश्चासुराणां सदा भवति सर्वथा । । 1.325.२० ।।
राहुरयं तदमृतपानार्थं देवरूपधृक् ।
सूर्यचन्द्रान्तरे विष्टोऽमृतं संपरिवेषितम् । । २१ ।।
विष्णुना पिबति यावत् तावत्ताभ्यां निवेदितः ।
द्रागेव विष्णुना चक्रधारयाऽयं निषूदितः । । २२ । ।
अमृत गण्डूषमात्रं गलेऽस्य लग्नतां गतम् ।
तेन नाऽयं मृतो राहुर्द्वेधा छिन्नोऽपि कण्ठतः ।। २३ । ।
द्वौ जातौ राहुरित्यत्र कबन्धोऽयं हि जीवति ।
केतुरिति शिरस्त्वस्य सशिखं चापि जीवति ।। २४।।
एवं तेन पराभूता विष्णुना दैत्यदानवाः ।
पिता ते च कृतो रिक्तो रत्नान्याहृत्य सर्वथा ।। २५।।
एवं शुक्रोदितं राहोः शिरश्छेदं च मन्थनम् ।
रत्नोपहरणं दैत्यपराभवादिकं सुरैः ।। २६ । ।
तदाकर्ण्य महाशक्तो जलंधरः प्रतापवान् ।
चुक्रोध रोषरक्ताक्षः श्रुत्वा च पितृधर्षणाम् ।। २७ ।।
दूतं तदैव चाहूय घस्मराख्यं शशंस तत् ।
सम्मान्याऽभयमादत्वा प्रेषयामास शिक्षयन् ।। २८ । ।
घस्मर गच्छ देवेन्द्रं निवेदय मदीरितम् ।
गृहाण शरणं यद्वा युद्धार्थं सुस्थिरो भव ।। २९ । ।
अन्यदपि च प्राग्जातं पितुर्मे धर्षणादिकम् ।
जलंधरो न सहते वैरमार्जनमिच्छति ।। 1.325.३० ।।
इत्याद्यादाय वाक्यानि जगाम घस्मरो द्रुतम् ।
वर्गाच्च घस्मरः सर्वं देवेन्द्रं वाक्यमब्रवीत् । । ३१ ।।
जलंधरो महावीरो दैत्येश्वरोऽब्धिपुत्रकः ।
तस्य वीरस्य दूतोऽहं घस्मरस्तन्निदेशकृत् ।। ३२ ।।
प्रेषितस्तेन वीरेण चागतस्तव सन्निधौ ।
यदाह शत्रुजिद्राजाऽव्याहताज्ञः शृणुष्व तत् । । ३३ ।।
कस्मात् त्वं मम पितरं समुद्रं मन्दराद्रिणा ।
मथितवान् नीतवाँश्च सर्वरत्नानि मत्पितुः ।। ३४।।
शरणं मे गृहाण त्वं रत्नानि मे प्रयच्छ च ।
अन्यथा ते भयं प्राप्तं राज्यनाशो भविष्यति । । ३५ । ।
इति दूतवचः श्रुत्वा प्रोवाच द्युसदां पतिः ।
यन्मया विहता शैलास्त्वत्पित्रा कुक्षिरक्षिताः ।। ३६ ।।
अन्येऽपि मद्द्विषस्तेन रक्ष्यन्तेऽन्तः कथं वद ।
न मे शत्रुवरो भूत्वा द्रोही स्थास्यति कश्चन ।। ३७ ।।
पूर्वं हृतानि रत्नानि हरिष्ये प्राणतोऽधुना।
शंखासुरं मम शत्रुं ररक्ष त्वत्पिता कथम् ।। ३८ ।।
यं शंखं चाऽनुजो मे वै हतवान् विष्णुरव्ययः ।
गच्छ दूत वद जालंधरं मन्थनकारणम् ।। ३९ ।।
निर्दोषं न महेन्द्रो वै दण्ड्यं करोति कंचन ।
निर्दोषस्त्वं यदिद्वेषं करोषि मम नूतनम् ।।1.325.४० ।।
फलं शीघ्रं प्रदास्येऽहं सज्जो भवाऽसुरेश्वर! ।
इत्युक्तो घस्मरो वै सः शीघ्रं तत्र जगाम हि ।। ४१ ।।
जलंधरोऽस्ति यत्राऽब्धौ तत्रावेदितवानिदम् ।
इन्द्रोक्तं वचनं श्रुत्वा रोषताम्राक्ष एव सः ।।।४२ ।।
दृष्ट्वाऽधरोऽकरोद् देवान् जेनुमुद्योगमासुरैः ।
सर्वदिग्भ्यः समाजग्मुरासुरा दैत्यदानवाः ।। ४३ ।।
कोट्यब्जाऽर्बुदसंख्याका दिवं जग्मुर्जिगीषया ।
शुंभनिशुंभनामानौ कृत्वा सेनाधिनायकौ । ।४४।।
निर्जगाम स्वयं वीरो जलंधरोऽपि वार्धिजः ।
प्राप नाकं नन्दनस्थो दध्मौ शंखं रणाय सः ।।४५ ।।
वीरदैत्याः प्रणेदुश्चाऽऽवृत्याऽमरावतीपुरीम् ।
विज्ञायेन्द्रोऽपि युद्धाय दंशितैश्च सुरोत्तमैः ।। ४६।।
सह पुर्या निर्ययौ वै कोटिकोट्यब्जयोधिभिः ।
तयोः समभवद् युद्धं सुराऽसुरप्रसेनयोः । ।४७।।
बाणैरस्त्रैस्तथा मन्त्रैर्मायाभिश्चैन्द्रजालिकैः ।
पाषाणैः पर्वतैर्वृक्षैरुल्काभिश्च शतच्छदैः ।।४८ ।।
वज्रैश्चक्रैः शतघ्नीभिर्नाराचैस्तोमरैर्द्रुमैः ।
मुशलैः परिघैः खण्डैः खड्गैः कुन्तैश्च शक्तिभिः ।।४९।।
गदाभिः परशुभिश्च हस्तिभिश्च रथैः करैः ।
पल्लताभिर्मुष्टिभिर्बाहुभिः कफोणिकादिभिः ।।1.325.५ ० ।।
तेऽन्योन्यं जघ्नतुः सेने संमर्दोऽभूदसंख्यकः ।
रक्तनद्योऽभवन् भूमौ कृतवार्धिगमोर्मयः ।।५ १ ।।
पतितैः पात्यमानैश्च गजवाजिप्रपत्तिभिः ।
व्यराजत रणे भूमिः सन्ध्याभ्रपटलं यथा ।।।५२।।
मृतान् मृतान् रणे दैत्यान्दानवान् गजवाजिनः ।
संजीविन्याऽजीवयद्वै शुक्रो मन्त्रितवारिभिः ।।५३ । ।
सुरानपि मृताँस्तत्राऽजीवयच्च बृहस्पतिः ।
दिव्यौषधैर्द्रोणगिरेरानीतैर्विविधैर्मुहुः । ।५४। ।
मृतोत्थितान् सुरान् दृष्ट्वा जालंधरोऽतिरोषवान् ।
शुक्रं प्राह कथं चैता मृता जीवन्ति देवताः । । ।५५ । ।
मन्ये सञ्जीविनीविद्या सुरेष्वपि गता तव ।
श्रुत्वा शुक्रश्च तं जलंधरं प्राह सुनिश्चितम् ।।५६ ।।
विद्या सञ्जिविनी नैव सुरेष्वद्यापि संगता ।
किन्त्वौषधीः समानीय द्रोणशैलाद् बृहस्पतिः ।।५७।।
सुरान् जीवयति द्राक्च तस्माद् द्रोणाद्रिमानय ।
स्वाधीनं तं कुरु यद्वा समुद्रान्तः प्रवेशय ।।५८।।
यदलाभे सुरा नष्टा जीविष्यन्ति न वै पुनः ।
तथा कृते विजयस्ते भविष्यत्यन्यथा नहि ।।५९।।
श्रुत्वा जलंधरो गत्वा द्रुतं चोत्पाट्य पर्वतम् ।
द्रोणाचलं समानीय प्राक्षिपत्सागरान्तरे ।।1.325.६० ।।
ततो देवान् जघानाऽस्त्रैर्जलंधरो मुदान्वितः ।
हतान्देवाज्जीवयितुमोषध्यर्थं बृहस्पतिः ।। ६ १।।
जगाम द्रोणभूमिं च तत्राद्रिं न ददर्श सः ।
निराशः स गुरुर्बुद्ध्या ज्ञात्वाऽद्रिं दैत्यसंहृतम् ।। ६२।।
देवान्प्राह समागत्य पलायध्वं सुरा इतः ।
द्रोणाद्रिर्नाशितो जलंधरेण वाऽन्यतो हृतः ।।६३ ।।
रुद्रजन्यो ह्ययं दैत्यो जेतुं क्षमो न साम्प्रतम् ।
पलायध्वं पलायध्वं ये मृतास्ते गता यतः ।।६४।।
कथंचिच्छेषपत्रैस्तान् जीवयिष्ये मृतानहम् ।
इत्युक्ताश्च सुराः सर्वे रणं त्यक्त्वा पलायिताः ।।६५।।
देवान्पलायितान् दृष्ट्वा दैत्या जलंधरान्विताः ।
शंखभेरीजयघोषैर्विविशुस्त्वमरावतीम् ।।६६।।
स्वर्गं त्यक्त्वा भयाद् देवा देव्यश्च मेरुपर्वते ।
गह्वराणि समाश्रित्य न्यवसन् स्वरिरक्षया ।। ६७।।
अथ दैत्यो महादुष्टो जलंधरोऽतिमत्सरात् ।
देवस्थानेषु रिक्तेषु दैत्यान् समभिषेचयत् ।।६८।।
स्वर्गराज्यं वशे कृत्वा ययौ मेरुवनानि सः ।
देवानां नाशनार्थाय दैत्यसैन्यसमन्वितः । ।६९।।
त्रस्तास्ततः सुराः सर्वे विहाय गह्वराण्यपि ।
अनाहूता अपि जग्मुर्ब्रह्माणं प्रति दुःखिताः ।।1.325.७०। ।
तावत् तत्रापि तत्स्थानं रिक्तं दृष्टं सुरैस्तदा ।
सत्यलोकेऽपि दैत्यानां राज्यं दृष्ट्वा प्रदुद्रुवुः ।।७१ ।।
वैकुण्ठं जलतेजोन्तरावरणे स्थितं स्थलम् ।
जग्मुर्देवाश्च देव्यश्च ब्रह्मापि तत्र दृश्यते । ।७२। ।
तुष्टुवुस्ते हरिं लक्ष्मीनारायणं प्रजेश्वराः ।
सुररक्षक शान्तात्मन् दैत्यनाशक ते नमः । ।७३ ।।
मत्स्यात्मने च ते विष्णो वेदान्नीतवते नमः ।
अमृतमन्थनेऽद्रिं बिभ्रते कूर्माय ते नमः । ।७४।।
पृथ्वीं दन्ते बिभ्रते ते वराहाय नमो नमः ।
बलिं छलायते विप्रवामनाय च ते नमः ।।।७५।।
नमः परशुरामाय कापथक्षत्रनाशिने ।
रावणान्तकरायाऽऽशु रामचन्द्राय ते नमः । ।७६।।
कृष्णनारायणराधारमाश्रीपतये नमः ।
नमो बुद्धस्वरूपाय दैत्यमोहकराय ते ।।७७।।
नमः कपिलरूपाय तत्त्वज्ञानप्रदाय ते ।
नमो हंसस्वरूपाय विधात्रे ज्ञानदाय ते ।।७८। ।
वेदव्यासस्वरूपाय विद्याश्रवाय ते नमः ।
कलिदोषविनाशकृत्कल्किरूपाय ते नमः ।।७९।।
पार्वत्याश्च प्रभायाश्च माणिक्याः पतये नमः ।
कंभरायाः सुपुत्राय गोपालसूनवे नमः ।।1.325.८०।।
शरण्याय सुररक्षाकर्त्रे विद्यावते नमः ।
साधुरूपाय कृष्णाय वल्लभाय च ते नमः ।।८ १ ।।
ज्ञानाचार्याय दैवाय दासत्रात्रे च ते नमः ।
दैत्यदुःखितभक्तादिरक्षकाय नमो नमः ।।।८२।।
सर्वनेत्राय हृत्स्थाय रमानाथाय ते नमः ।
ध्वजपद्मांकुशवज्रयवचिह्नवते नमः ।।८३।।
स्वस्तिकजाम्ब्वष्टकोणोर्ध्वरेखाधारिणे नमः ।
धनुस्त्रिकोणकलशाऽर्धचन्द्रधारिणे नमः ।।८४।।
गोष्पदव्योममत्स्यादिधारिणे पत्तले नमः ।
दक्षपाणौ ध्वजचक्रधनुस्त्रिशूलस्वस्तिकाः ।।८५१।।
मीनदण्डयवरेखा यस्य तस्मै नमो नमः ।
बाहू नेत्रे जानुनी च नासिका च स्तनान्तरम् ।।८६।।
दीर्घाणि सन्ति ते पञ्च तस्मै कृष्णाय ते नमः ।
सुहृस्वजघनपृष्ठग्रीवाजङ्घावते नमः ।।८७।।
सूक्ष्मकेशाऽङ्गुलिपर्वरदाऽस्थिधारिणे नमः ।
कक्षा कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटकम् ।।८८।।
यस्योन्नतानि षट् सन्ति तस्मै श्रीहरये नमः ।
नेत्रप्रान्तौ नखास्तालु जिह्वोष्ठौ पादयोस्तले ।।८९।।
पाणितले च रक्तानि यस्य सन्ति च ते नमः ।
उरः शिरो ललाटं च यस्य ततानि ते नमः ।।1.325.९० ।।
स्वर सत्त्वं च नाभिश्च गम्भीरं यस्य ते नमः ।
वामसक्थ्नि रमाचिह्नं यस्यास्ति ते नमो नमः ।।९ १।।
हृदये दक्षिणावर्तवते कृष्णाय ते नमः ।
सत्रिवलयशोभाढ्यनाभियुक्ताय ते नमः ।।९२।।
शीतभास्वररूपायाऽमृतप्रदाय ते नमः ।
अक्षरायाऽव्याकृतनाम्ने गोलोकाय ते नमः ।।९३।।
वैकुण्ठाय बद्रीशाय श्वेतद्वीपाय ते नमः ।
क्षीरस्थानाय जीवाय जीवातवे च ते नमः ।।९४।।
आत्मने च तदात्मने सर्वात्मने नमो नमः ।
वह्निस्थाय रविस्थाय हिरण्यस्थाय ते नमः । । ९५।।
सुराऽसुरनिवासाय भक्तार्तिहारिणे नमः ।
अपक्षाय विपक्षाय भक्तपक्षाय ते नमः ।। ९६ ।।
भगवँस्ते कथाधाम्ने वार्ताधाम्ने च ते नमः ।
सर्वविद्यानिवासाय ब्रह्मणे ते नमो नमः ।। ९७।।
भगवन् देवदेवेश पाहि नः शरणागतान् ।
जलंधरेण वै स्वर्गं निराकृत्य सुराँस्ततः ।। ९८ ।।
स्वायत्तीकृतमेवेति कथं त्वं सहसे प्रभो ।
सूर्यश्चन्द्रश्च वह्निश्च शेषो धर्मो निराकृताः ।। ९९।।
शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ।
वयं क्षुद्रा इव नाथ विचरामोऽटवीस्थलम् ।। 1.325.१०० ।।
इति स्तुत्वा विरेमुस्ते देवा इन्द्रादयस्ततः ।
करुणासागरः कृष्णो जगाद निर्भयं वचः ।। १०१ ।।
भयं त्यजत वो देवास्तं गच्छामि जलंधरम् ।
नाशयाम्यद्य तं शत्रुं देवानां दुःखदं परम् ।। १०२।।
इत्युच्चार्य समुत्थाय गरुडारूढ एव सः ।
यावद्गन्तुं प्रैरयत् स्ववाहनं तावदेव ह ।। १०३ ।।
लक्ष्मीर्भ्रातुर्निधनं वै भविष्यतीति दुःखिता ।
बाष्पनेत्रा प्रांजलिश्च प्रोवाच वल्लभं हरिम् ।। १०४ ।।
मम भ्राता शालकस्ते कथं वध्यः कृपानिधे ।
यद्यहं ते वल्लभास्मि मा तन्नाशं कुरु प्रभो ।। १ ०५।।
विष्णुः प्राह सुरेशानां रक्षणाय मया ननु ।
गन्तव्यं सर्वथा तत्र मारयिष्ये न तेऽनुजम् ।। १०६ ।।
रुद्रांशत्वाद् ब्रह्मवाक्यात् ते वाक्यान्न मम प्रिये ।
मारणीयोऽस्ति ते भ्राता मा विषादं कुरु प्रिये ।। १० ७।।
इत्युक्त्वा सान्त्वयित्वा तां ययौ यत्र जलंधरः ।
देवादीन् सह नीत्वैव कृष्णनारायणः प्रभुः ।। १०८ ।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने जलंधरवृन्दाख्याने आषाढपूर्णिमायां शुक्राचार्यपूजकाऽसुरसंघेषु राहुं विशिरसं दृष्ट्वा तत्कारणं समुद्रमथनामृतपाने पक्षपातादि विज्ञाय सुरविष्णुप्रभृतिनाशार्थं जलंधरकृतसुरासुरयुद्धोत्तरं सुरपराजये वैकुण्ठविष्णुस्तवनादिनिरूपणनामा पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ।। ३२५ ।।