लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२४
[[लेखकः :|]]
अध्यायः ३२५ →

श्रीनारायण उवाच-
अहं लक्ष्मि! प्रसन्नः संभवाम्येषा कृपा मम ।
पुरुषोत्तममासे मे प्राप्तौ कृपैव कारणम् ।। १ ।।
अन्यमासेष्वतितुष्टं कर्तुमिच्छति मां यदि ।
तुलसीपत्रमात्रेणाऽप्यतितुष्टो भवाम्यहम् ।। २ ।।
मञ्जरीसहयुक्तेन पत्रेण पूजयेज्जनः ।
मञ्जरीयुक्तपत्राभ्यां मञ्जरीयुक्तपत्रकैः ।। ३ ।।
शतेन वा दशशतैर्लक्षेण वा प्रपूजयेत् ।
दृष्ट्वा दृष्ट्वा च तुष्यामि तुलसीं त्वामिव प्रिये ।। ४ । ।
श्रीलक्ष्मीरुवाच-
कथं नारायण कृष्ण पुरुषोत्तम केशव! ।
तुलसीं मन्यसे तोषकारिणीं मामिव प्रभो ।। ५ ।।
वद सर्वं यथावृत्तं यदि गोप्यं न विद्यते ।
गोप्यं चापि यदि पात्रं मताऽस्मि चेन्नु मे वद् ।। ६ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां पूर्ववृत्तां विस्तारशालिनीम् ।
यथा वृन्दा मम तोषकारिणी स्वीकृता मया ।। ७ ।।
संशयं तत्र कुरु मा श्रुत्वा चेर्ष्यां च मा कुरु ।
सर्वदा तु त्वया रक्ष्यं सौहार्दं वृन्दया सह ।। ८ ।।
पतिव्रताया धर्मोऽस्ति दुःखं न गण्यते क्वचित् ।
सपत्नीजं सुखं पतिपरा तु गणयेत् सदा ।। ९ ।।
श्रुत्वा श्रुत्वा पतिसुखं स्वान्यनारीसुयोगजम् ।
स्वात्मानन्दं परं मत्वा तुष्यति स्त्री पतिव्रता ।। 1.324.१० ।।
सहस्राणां सहस्राणि पत्नीनां मे भवन्ति वै ।
वृन्दापि च मया पत्नी कृता साऽपि रता मयि । । ११ ।।
शृण्वाख्यानं यथा जातं तथा ते वच्मि सर्वथा ।
कार्यसिद्धिं मिषं कृत्वा वृन्दा पत्नी मया कृता । । १२ ।।
वृन्दा पत्नी ममैवाऽऽसीद् गोलोके राधिकासमा ।
राधिकया समं दृष्ट्वा रमन्तं मां पतिं स्वकम् ।। १३ ।।
ईर्ष्यया हृदये तापं प्राप्ता रतिविरोधिनी ।
मह्यं वक्तुमशक्ता सा नोवाच हृदयस्थितम् ।। १४।।
ततः क्षणान्तरे रन्तुं मयाऽऽहूताऽपि नाऽगता ।
तेन दोषेण दुष्टेयं न मा सेवितुमर्हति ।। १ ५।।
इति संकल्पितं यावन्मया तावत्तु सा ततः ।
अवाप तदधोलोके गता चाऽसुरभावनाम् ।। १ ६।।
जलंधरं पतिं प्राप्य दुरितं स्वं समाप्य सा ।
जलंधरमृतेर्हेतुरूपां भुक्तां मया यदा ।। १ ७।।
तदा पूता पुनर्मां सा प्राप्ता मे पूर्वपत्निका ।
शृणु विस्तरतो लक्ष्मि! तदाख्यानं यथाऽभवत् ।। १८ ।।
आद्ये कृतयुगे लक्ष्मि! शंकरो लोकशंकरः ।
सतीपतिर्महादेवो लीलया व्यचरद्वने ।। १९ ।।
दिगम्बरस्वरूपेण वनिनां पावनेच्छया ।
सिंहारण्ये चचारेशः सिंहवन्निर्भयो हरः ।। 1.324.२० ।।
शिवरात्रिदिनं ज्ञात्वा महेन्द्रश्च बृहस्पतिः ।।
साक्षाच्छिवस्य पूजार्थं स्वर्गात् पृथ्वीं प्रजग्मतुः ।।२१।।
व्योममार्गाद्विलोक्यैव चरन्तं शिवमेव तौ ।।
सिंहारण्यं गुरुशक्राववातेरतुरादरात् ।।२२॥
तावच्छंभुस्तयोर्ज्ञानपरीक्षार्थं विचार्य च ।
रूपान्तरं विधायैव ह्यतिष्ठन्निकषा तयोः ।।२३।।
मार्गमारुद्ध्य तिष्ठन्तं जटासम्बद्धमस्तकम् ।।
महातेजस्विनं नग्नं पुरुषमद्भुताकृतिम् ।।२४।।
महाबाहुं महोरस्कं मार्गरोधकरं दृढम् ।
पुरन्दरोऽपृच्छदेनं निसर्गान्नेत्रभीषणम् ॥२५॥
कथं मार्गं समारुद्ध्य संस्थितोऽसि भयंकर ।
अत्र दृष्टोऽम्बरपथगामिभ्यां शंकरो हरः ।।२६।।
स क्वाऽस्ते वद वै शीघ्रं पूजाकामौ हि सेवकौ ।
इतिपृष्टः पुमान्नैवाऽवदत् किंचित् ततः पुनः ।। २७||
तथैवेन्द्रेण पृष्टोऽपि पुनर्मौनं समाश्रितः ।
नोवाच स महायोगी तूष्णीमास पुनः पुनः ॥२८॥
पृष्टोऽपि तापसो नैवोवाच चुक्रोध वासवः ।।
उवाच वचनं शंभुं निर्भर्त्स्योद्यम्य दक्षिणम् ।।२९॥
हस्तं कृत्वोर्ध्वमादाय वज्रं चाधिक्षिपन् हरिः ।।
रे मूढ पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ।।1.324.३०||
एष त्वां हन्मि वज्रेण कस्ते त्राणं करिष्यति ।
इत्युदीर्य क्रुधा हन्तुं यतते यावदेव ह ।।३१।।
तावच्छ्रीशंकरस्तस्य चकार स्तंभनं तदा ।
सवज्रकरयुक्तश्च सदेहो लोष्टकाष्ठवत् ।।३।।
स्तब्धो जातो महेन्द्रो वै समदह्यत मन्युना ।।
हरोऽपि विकरालाक्षो द्रुतमेव भयंकरः ।।३३।।
प्रजज्वाल प्रलयाग्निसमो दहन्निव स्थितः ।।
बृहस्पतिस्तदा शंभुं शात्वा सत्त्वधिया हि तम् ।।३४!!
बद्धांजलिर्ननामेशं पपात दण्डवद्भुवि ।।
सभयेन हृदयेन हरं स्तोतुं प्रचक्रमे ।।३५।।
नमोऽगम्यस्वरूपाय स्वतन्त्राय कपर्दिने ।
त्र्यम्बकाय महेशाय दिगम्बराय ते नमः ।।३६।।
नमो रौद्राय देवाय दीननाथाय शंभवे ।।
विरूपाक्षाय शान्ताय भक्तत्रात्रे नमो नमः ।।३७।।
विरूपायाऽतितेजस्विस्वरूपाय च ते नमः ।।
कालान्तकाय शर्वाय नमस्ते परमात्मने ।।३८॥
त्वमग्निस्त्वं महावायुर्व्योम त्वं सलिलं धरा ।।
सूर्यस्त्वं चन्द्रमास्त्वं च नक्षत्राणि त्वमेव ह ।।३९॥
ज्योतिश्चकं त्वयि चास्ते विष्णुर्ब्रह्मा त्वमेव वै ।।
इन्द्रो बृहस्पतिश्चान्ये त्वदाराधनतः सदा ।।1.324.४०।।
सुखिनः सम्पदां भोक्तारश्चोपद्रववर्जिताः ।
भवन्ति तत्कथं नाथ स्तंभोऽत्र सुरनायके ।।४ १।।
इति स्तुत्वा पपाताऽस्य हरस्य पादयोर्गुरुः ।।
पातयामास च शक्रं विनयेनाह वै पुनः ।।४२।।
प्रसन्नो भव लोकेश पाहीन्द्रं शरणागतम् ।
क्रोधं संहर शान्तश्च कृपां चेन्द्रोपरि प्रभो ।।४३।।
शीघ्रं कुरु शमं यातु भालनेत्रानलो ह्ययम् ।
क्षन्तव्यश्चापराधोऽस्याऽजानता यः कृतोऽधुना ।।४४।।
श्रुत्वा च विनयं ज्ञात्वा सः क्रोधानलभालकः ।
शंकरः प्राह तं भक्तं बृहस्पतिं शनैर्वरम् ।।४५।। |
क्रोधोऽयं निर्गतो नेत्रानलो मूर्तोऽतिदारुणः ।।
बहिर्यातो न धर्तुं तं मन्ये योग्यं बृहस्पते ! ।।४६।।
नहि सर्प उज्झितां कञ्चुकीं धत्ते पुनश्च ताम् ।।
तिरस्कुर्वन्त मेवैनं करिष्ये भस्मसाद्धरिम् ।।४७।।
इति श्रुत्वा भयं प्राप्तो दीनो बृहस्पतिः पुनः ।।
प्रोवाच भगवान् भक्ता अनुकम्प्याः सदैव यत् ।।४८।।
भक्तवत्सलनामाऽसि सार्थकं कुरु शंकर ! ।
प्राहीन्द्रं चानलं क्षेप्तुमन्यत्राऽर्हसि वै जडे ।।४९।।
अथवेन्द्रगुरुं मां त्वं यथेष्टं भस्मसात् कुरु ।
परं देवपतिं मा त्वं दग्धुमर्हसि शंकर ! ।।1.324.५ ०
इति श्रुत्वाऽतिविनयं भक्तवत्सलनामधृक् ।
प्रणताऽऽर्तिहरः शंभुर्बृहस्पतिमुवाच ह ।।५।।
प्रीतस्तवाऽऽग्रहेणाऽत्र विनयेनाऽर्पणेन च ।
जीवदानं महेन्द्राय ददामि निर्भयो भव ।।५।।
इन्द्रो जीवेति संयातु त्वं च जीवात्विति प्रथाम् ।
सुखिनौ भवतां चोभौ कुरुतं मम पूजनम् ।।५३।।
यदर्थं वै समायातौ कृत्वा तत्पूजनं मम ।
प्रसन्नतां समागृह्याऽऽदाय निर्भयतां प्रथाम् ।।५४।।
यातं स्वर्गमहं क्रोधानलं भालाक्षिसंभवम् ।।
स्वयं करे गृहीत्वैव त्यक्ष्यामि लवणांभसि ।।५५ ।।
इति कृत्वाऽऽक्षिपन्नेत्रानलं वह्नयश्रुरूपिणम् ।।
पश्चिमेऽपांनिधौ पूजां गृहीत्वोभकृतां ततः ।।५६
तत्रैवाऽन्तर्दधे शंभुर्विद्युल्लेखेव भास्वरः ।
कृतार्थौ च गुरुशक्रौ स्वस्वस्थानं प्रजग्मतुः ॥५७।।
अथ क्षिप्तं भालनेत्रसमुत्थं चातिदारुणम् ।
जलं तेजोमलं चाविलं तु यल्लवणाम्भसि ॥५८॥
बालभावं समापन्नं सद्य एव व्यराजत ।।
बालशब्दं प्रकुर्वन् स बालो जलतरङ्गके ॥५९।।
दोलारूढ इव प्रास्ते जलकल्लोलसेवितः ।।
जातमात्रो युवा कश्चिद् वज्रांग इव चाद्भुतः ॥1.324.६०||
प्रहसन् स मुहुः शब्दं प्रकुर्वन् दिविभेदिनम् ।
पुनः पुनः प्रहसँश्च कुर्वन् हास्यपरम्पराम् ॥६१।।
नादितवान् दिश: सर्वाः स्वर्गं सत्यं व्यकम्पयत् ।।
प्राकम्पत क्षितिः सर्वाः प्रजाश्च बधिरीकृताः ।।६२।।
तेन हास्यातिशब्देन सबलेनाऽतलादयः ।
प्राकम्पन् दानवाश्चापि सर्वे लोकाश्च तत्रसुः ।। ६३।।
लोकपाला विह्वलाश्च चचाल सचराचरम् ।
अग्रगण्या सुरा लोकेश्वराश्चकम्पिरे द्रुतम् ।।६४।।
मिलित्वा सत्यलोकं ते ब्रह्माणं शरणं ययुः । ।
ऊचुर्भयान्विता: सर्वे पितर्भयमुपस्थितम् ।।६५ !
महाहास्यकृतश्चायं शब्दो लोकभयंकरः ।।
त्रासकृत्सर्वथा भाति महाकालस्य किं भवेत् ।।६६।।
कश्चिद् ब्रह्माण्डयत्तुं वा समायातोऽसुरो महान् ।।
इति भाति प्रभो ! तस्मादस्मान् रक्षय पूर्वज ! ॥६७
श्रुत्वैवं सुरपालानां वाक्यं लोकपितामहः ।
भयं गतोऽपि सर्वेषां साहाय्यमभिगम्य च ।।६८॥
गन्तुमैच्छत् स्थलं यत्र रौद्रं हास्यं वितन्यते ।
शब्ददिशामभिलक्ष्याऽवातरन् वै सुरादयः ।।६९॥
शब्दमूलमवाचीस्थं क्षारसागरवारिषु ।
अभिसन्धाय जग्मुस्ते व्योम्नि वै पश्चिमां दिशम् ।।1.324.७०।।
तावद् बालयुवानं प्रहसन्तं चाति कर्कशम् ।
समुद्रस्य तरंगेषु विचरन्तं भयंकरम् ।।७१।।
ददृशुस्तावदायातो ज्ञात्वा वार्धिः पुमान् वरः ।।
ब्रह्मादीनागतान् दृष्ट्वा तेषां चक्रेऽतिथिक्रियाम् ।।७२।।
हास्यं विहाय बालोऽपि तत्राऽऽगमत् समाद्रवन् ।
समुद्रांके निषसाद पितः पितरिति गृणन् ।।७३ ।।
ब्रह्मणाऽब्धिस्तदा पृष्टः कुतोऽयं कस्य बालकः ।
ब्रह्माण्डत्रासकृद् यस्य हास्यं व्याप्नोति दिक्षु च ।।७४।।
शंकरस्य तु बालोऽयं वार्धिः प्राह पितामहम् ।।
तावद् बालः समुत्थाय दुद्राव वेधसं प्रति ।।७५।।
ब्रह्माणमग्रहीत् कण्ठे निधनाय यथा भवेत् ।।
विधेः कण्ठविधूननान्नेत्राभ्यामगमज्जलम् ॥७६।।
समुद्रेण समाकृष्य ब्रह्मा तस्माद्वियोजितः ।।
एवं बलान्वितो बालो हरपुत्रः सुरादिभिः ।।७७।।
विलोकितो जलाधारो जलंधराभिधः कृतः ।।
जलंधरः समुद्रोऽस्ति जालंधरोऽपि वार्धिजः ।।७८
जालंधर इति जातो जालंधरो जलंधरः ।
रुद्रपुत्रोऽस्त्यतो रौद्रो भविष्यति पराक्रमे ।।७९।।
शास्त्रज्ञः सर्वजेता च शस्त्रास्त्रज्ञो भविष्यति ।।
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ।।1.324.८०।।
अयं दैत्यगुणश्चाद्य लोक्यतेऽतस्तथाविधः ।।
दैत्येश्वरो दैत्यराजो भविष्यति न संशयः ।।८१।।
ब्रह्मा प्राह पुनर्भाग्यं तस्य दृष्ट्वा तु सागरम् ।।
कृणपत्नी तु या राधाद्वेषिणी तस्य धामनि ।।८२।।
गोलोके राधिकाकृष्णरत्यसहाऽभवत् खलु ।
सा गोलोकादू भगवता भूतलेऽत्र निराकृता ।।८३।।
कालनेमिगृहे जाता पुत्री साऽस्य प्रिया सती ।
पतिव्रता शुभा पत्नी भविष्यति न संशयः ||८४
जातमात्रो युवा चासावभिषिक्तो यथा भवेत् ।
दैत्यानां राज्यकर्ता वै तथा सर्वैर्विधीयताम् ।।८५।।
इत्याज्ञां ब्रह्मणः प्राप्य चाहूय शुक्रमेव ह।
आदिश्य सरितां नाथं तं राज्ये त्वभ्यषेचयन् ॥८६।।
पुनर्भयंकरं हास्यं मा कुर्विति प्रशिक्षया ।
शान्तयन्तः सुराः सवें ययुः स्वं स्वं निकेतनम् ॥८७।।
समुद्रः सुतमादाय स्वगेहमगमन्मुदा ।
अपोषयन्महोपायैः कालनेमिं समाह्वयत् ।।८८
वृन्दाभिधां सुतां तस्य तद्भार्यार्थमयाचत ।
कालनेम्यसुरो वार्धेर्याञ्चां मेनेऽतिवाञ्च्छिताम् ।।८९||
ददौ सुतां विधानेन जालंधराय तत्क्षणम् ।
तदोत्सवो महानासीद् विवाहे च तयोस्तदा ।।1.324.९०
समुद्रोऽपि सुखं प्राप पुत्रं दृष्ट्वा हि सस्त्रियम् ।
दैत्याः पाताललोकस्था जालंधरं समाश्रिताः ।।९१।।
भुवमागत्य राज्यानि स्थापयामासुरीश्वराः ।।
देवजयाय च सर्वे बभूवुर्दृढमानसाः ।।९२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालन्धरवृन्दाख्याने गोलोकस्थकृष्णपत्नीवृन्दायाः राधाकृष्णरतिं विलोक्य सपत्नीद्वेषदोषेण गोलोकादपगत्य कालनेमिपुत्रत्वं, शंकरदर्शनार्थं समागताभ्यां सिंहारण्ये शंकरं दृष्ट्वाऽवातरद्भ्यां बृहस्पतिमहेन्द्राभ्यां कस्त्वमितिप्रश्नोत्तराऽलब्धौ शंकरे वज्रप्रक्षेपायोत्तानितहस्तसहितेन्द्रस्य स्तंभनोत्तरं शंभुललाटनेत्रजक्रोधानलस्य समुद्रे प्रक्षेपाज्जालंधरोत्पत्तिः, वृन्दया सह विवाहश्चेत्यादिनिरूपणनामा
चतुर्विंशत्यधिकत्रिशततमोऽध्यायः ॥३२४।।