लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३२६
[[लेखकः :|]]
अध्यायः ३२७ →

श्रीलक्ष्मीरुवाच-
नारायण हरे विष्णो मम भ्रात्रा तदुत्तरम् ।
विष्णुं दृष्ट्वाऽऽचरितं किं विष्णुना किं च मे वद ।। १ ।।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पिता पुत्री सुतस्तथा ।
सर्वेऽपि चंचला लोलास्तत्र किं किं न जायते ।। २ ।।
विष्णुं दृष्ट्वाऽतिसंक्रुद्धो बलगर्वसमन्वितः ।
युद्धोद्यतं देवसैन्यं विलोक्याऽतिरुषा ज्वलन् ।। ३ ।।
दैत्यानाज्ञापयामास समरार्थे जलंधरः ।
भो भो दैत्यवराः सर्वे युद्धार्थममरैः सह ।। ४ ।।
निर्गच्छन्तु महाशस्त्रा युद्धं कुर्वन्तु दुस्तरम् ।
यथा पुनर्नाऽऽगच्छेयुर्देवास्तथाऽन्तकृन्महत् ।। ५ ।।
तदा मौर्या लक्षसंख्या धौम्राश्च शतसंख्यकाः ।
असुराः कोटिसंख्याकाः कालकेयाश्च कोटयः ।। ६ ।।
कंका लक्षास्तथा शुंभनिशुंभपरिरक्षिताः ।
तालजंघा महादैत्याः कोटिशस्तत्र निर्ययुः ।। ७ ।।
राक्षसा दानवाश्चापि कोट्यर्बुदपदातयः ।
सन्धीभूय तदाऽऽयाताः सुरनाशार्थनिश्चयाः ।। ८ ।।
रणध्वजास्तदा व्योम्नि व्यदृश्यन्त तु नेत्रवत् ।
भेर्यश्च रणशृंगाणि चक्रुशुर्भयदानि हि ।। ९ ।।
जलंधराज्ञया दैत्या युयुधिरे सुरैः सह ।
अस्त्रैर्बाणैश्च भूशुण्डीशतघ्नीभिश्च दूरतः ।। 1.326.१० ।।
धावन्तोऽत्रित आगम्य गदाभिः शूलतोमरैः ।
पट्टिशैः परशुभिश्च खड्गैश्च मूशलादिभिः ।। ११ ।।
वृक्षैश्च पर्वतैश्चापि वज्रैश्च शक्तिभिस्तथा ।
नाराचैश्चार्धचन्द्रैश्च सीताभिश्च परस्परम् ।। १२ ।।
निजघ्नुर्दैत्यसंघास्ते चक्रैश्च देवता अपि ।
युयुधुस्ते महावीराः कुर्वन्तः सिंहवद् रवान् ।। १३ ।।
केचिद् बाणैर्हताश्चान्ये हताः क्षताश्च तोमरैः ।
केचित्परशुशूलैश्च हता रणवनान्तरे ।। १४।।
दैत्यानां कदनं जातं महद् दृष्ट्वा जलंधरः ।
नादयित्वा रणशृंगं स्वयं चाक्रुश्य वै बलात् ।। १५ ।।
सबलान्दानवान् कृत्वाऽवातरद् रणमूर्धनि ।
अतो दैत्या महावीर्याः समुत्साहास्तदाऽभवन् ।। १६ ।।
समापेतुश्च संग्रामे त्वन्धा भूत्वाऽतिदारुणाः ।
मारयन्तु च्छेदयन्तु द्वैधीकुर्वन्तु देवताः ।। १७।।
मर्दयन्तु कूर्चयन्तु चूर्णयन्तु तिलांशवत् ।
माऽपसर्पन्तु संग्रामाद् होमं कुर्वन्तु चात्मनाम् ।। १८ ।।
शूराणां रणयज्ञो वै पुनर्नायाति नाऽऽप्यते ।
रक्तं पिबन्तु देवानां भुञ्जन्तु तत्प्रियास्ततः ।। १९ ।।
इत्याक्रोशो महानासीत्तदानीं दैत्यमण्डले ।
प्रहारा सबला ह्यासन् दैत्यानां सुरनाशकाः ।।1.326.२०।।
न प्रहारस्तदा कश्चित् सुराऽनाशी प्रवर्तते ।
यत्र वै दृश्यते तत्र दृश्यन्ते देवता हताः ।।२१ ।।
अरराटी तदा त्वासीद्विष्णोर्हृदन्तरे क्षणम् ।
वासवोऽपि विदुद्राव सुराः शेषा विदुद्रुवुः ।। २२।
पलायनपरान् दृष्ट्वा विष्णुस्तेषु विवेश ह ।
सबलान् सर्वथा कृत्वा हतशेषान् सुरान् हरिः ।।२३।।
युद्धार्थमाह्वयाञ्चक्रे गरुडस्थः पुनः पुनः ।
जीवयिष्ये सुरान्सर्वान्नाशयिष्ये तु दानवान् ।। २४।।।
मा पलायन्तु संग्रामादहं योत्स्येऽग्रगो भवन् ।
इत्युक्त्वा भगवान् विष्णुः स्वस्य सुदर्शनात्तदा ।।२५।।
सुदर्शनानां लक्षाणि रचयामास तत्क्षणम् ।
प्रेरयामास तान्येव हन्तुं सेनां तु दानवीम् ।। २६।।
अग्नींश्च लक्षशः कृत्वा प्रेरयामास चासुरीम् ।
सेनां हन्तुं हरिश्चापि सुदर्शनं समैरयत् ।।२७।।
अग्निचक्राण्यसुरान् संप्रदेहुर्भस्मसाद्यथा ।
एतद्विलोक्य देवाश्च निजघ्नुर्वै पलायितान् ।।२८।।
आह्वयन्तोऽतिधृष्टाश्च जयेच्छवोऽतिदारुणाः ।
विष्णुर्जलेन संप्रोक्ष्य मृतानुत्थापयत्तथा ।। २९।।
तेऽपि जघ्नुर्वेगिशस्त्रैरस्त्रैश्च दानवाँस्तदा ।
विष्णुः पश्यति सर्वत्र दानवा त्रस्ततां गताः ।।1.326.३० ।।
छिन्ना नष्टाः कर्तिताश्च दृश्यन्तेऽरण्यवत्तदा ।
शेषा विदुद्रुवुः स्वर्गात् परित्यज्य रणांगणम् ।। ३१।।
एवं पराजयस्तत्राऽसुराणामभवन्महान् ।
असोढा तस्य सामुद्रो देववृन्दभयंकरः ।।३२।।।
योद्धुमभ्याययौ शुक्रं निर्दिश्याऽऽसुरजीवनम् ।
शुक्रश्च विद्यया दैत्यान्दग्धानजीवयद् द्रुतम् ।।३३।।
जलंधरो महानादं चकार कर्णदीर्णकम् ।
भयंकरेण नादेन तदा चाऽऽपूरितं जगत् ।।३४।।
विष्णोश्चापि प्रणादेन चकम्पे सकलं जगत् ।
धनुष्युभौ समादाय टंकाररवकारिणौ ।।३५।।
युयुधाते स्वसृपतिशालाकौ हि विपक्षगौ ।
आकाशं कुर्वतो बाणैस्तदा निरवकाशवत् ।।३६।।
विष्णुर्बाणैरसुरस्य ध्वजं छत्रं धनुश्शरान् ।
चिच्छेद च हृदये तं बाणेनाऽताडयद् दृढम् ।।३७।।
तावदुत्प्लुत्य दैत्येन्द्रो गदापाणिर्हरिं प्रति ।
पद्भ्यां धावन् बलान्मूर्ध्नि गरुडं हतवान् रुषा ।।३८।।
विष्णुं जघान शूलेन हृदयेऽतिप्रसह्य वै ।
विष्णुः खड्गेन तीक्ष्णेन गदां चिच्छेद शूलकम् ।। ३९ ।।
तावद् दैत्यः पुनश्चान्यद् धनुः कृत्वा शरान्वितम् ।
विष्णुं जघान हृद्ये खड्गं चिच्छेद् चापि वै ।।1.326.४० ।।
विष्णुश्चार्धेन खड्गेन छित्वा तं बाणमागतम् ।
शार्ङ्गे शीघ्रं समादाय प्रैरयद् बाणमुल्बणम् ।।४ १ ।।
दैत्यस्तं सीतया प्रच्याव्य रुट्छिन्नाधरो बली ।
शरान्तरेण ३ शार्ङ्गं धनुश्चिच्छेद वैष्णवम् ।।४२ ।।
पुनर्बाणैश्चातितीक्ष्णैर्विष्णुं जघान वक्षसि ।
छिन्नधन्वा हरिः कौमुदकीं चिक्षेप वै गदाम् ।।४३ ।।
सा विद्युद्वदप्रधृष्या सामुद्रोऽपि तथाबलः ।
गदया ताड्यमानोऽपि न चचाल हि किञ्चन ।।४४।।
दैत्यस्त्रिशूलमनलावर्षिं वै हरयेऽक्षिपत् ।
हरिर्नन्दकखड्गेन चिच्छेद तत् त्रिशूलकम् ।।४५।।
दैत्यः शक्तिं वज्रजन्यां लम्बां योजनमात्रकाम् ।
अष्टधारां च सहस्रघण्टां शैलादिनाशिनीम् ।। ४ ६।।
समादाय प्राहिणोद्वै विनाशाय हरेस्तदा ।
हाहाकारो महानासीत् सुरेषु वै भयंकरः ।।४७।।
दैत्यस्य चान्तिमं वज्रं तदभूच्छक्तिरूपकम् ।
नाशयामि यदि चेद्वै नायं युद्धं करिष्यति ।।४८।।
तस्माद् गरुडचञ्च्वा तं गृहीत्वा स्ववशे ततः ।
दास्ये प्राप्य विजयं च येन युद्धं भवेत्पुनः ।। ४९ ।।
इति विचार्य हरिणा पक्षिचञ्च्वा धृता हि सा ।
आयान्ती रक्षिता स्वस्य पक्षिपक्षैकपिच्छके ।। 1.326.५० ।।
दृष्ट्वाऽऽश्चर्यं महत्प्राप्तोऽसुर आगत्य चाम्बरात् ।
निपत्य हृद्ये विष्णुं जघान दृढमुष्टिना ।।५ १ ।।
गरुडस्य गले तद्वज्जघान पादलत्तया ।
तदा तु विष्णुना दैत्यो धृतो शिरसि वै दृढम् ।।५२ ।।
गरुडेन तु दैत्यः स धृतश्चञ्च्वा तु पादयोः ।
उत्तोल्य क्षिप्तः पतितो दूरे वै शतयोजनम् ।। ५३ ।।
पुनरुत्थाय चायातो व्योममार्गेण चाब्धिजः ।
तावद्विष्णुश्चातिरुष्टो जघान हृदि तं पुनः ।।५ ४।।
स च विष्णुं जघानैव हृदि मुष्ट्या पुनः पुनः ।
गरुडोपरि तत्रैव युयुधाते महाबलौ ।।।५५।।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्मरणोन्मुखैः ।
गणयित्वा न मरणं दैत्यस्तु युयुधे बली ।।५६।।
मर्तव्यं वा विजेतव्यं लाभो द्वयेऽपि मेऽस्ति हि ।
क्व वै विष्णोः करान्मृत्युः क्व वा विष्णुविजेतृता ।।५७।।
द्वयोर्लाभो महानस्ति यद्भावि भवतु ध्रुवम् ।
इत्यालोच्य मतिं तस्य मृत्युं शंभुकृतं तथा ।। ५८ ।।
प्रहस्य भगवान्प्राह धन्यस्त्वं रणदुर्मदः ।
ममाऽग्रेऽप्यविनाशिनो विनाशाय पतंगवत् ।।५९ ।।
यस्त्वं जीवं तथा प्राणान्समर्प्य रणमूर्धनि ।
समायातः क्षात्रधर्मं पालयन् शंकरात्मजः ।।1.326.६० ।।
ममाऽस्त्रैस्त्वं न वै भीतो यैर्वीरा बहवो हताः ।
न दृष्टस्त्वत्समो वीरो गलग्राहप्रयुद्धकृत् ।। ६१ । ।
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ।
अदेयमपि देयं ते त्वादृशाय रणांगणे ।। ६२ । ।
वरस्य समयं ज्ञात्वा जलंधरोऽपि बुद्धिमान् ।
प्रत्युवाच हरिं लक्ष्मि! स्ववशं गमयन् प्रभुम् ।। ६३ ।।
यदि तुष्टोऽसि भगवन्! वरं ददासि चेद् यदि ।
मद्भगिन्या मया सार्धं मद्गेहे सगणो वस ।। ६४।।
तच्छ्रुत्वा च तथास्त्विति जगाद् भगवान् हि तम् ।
ततो लक्ष्म्या तथा परिवारेण सहितः प्रभुः ।। ६५ ।।
जलंधरगृहं गत्वा जलंधरेण पूजितः ।
उवास वचनाद् बद्धः प्रतीक्षन् पुनरर्दनम् ।।६ १। ।।
जलंधरेण मेदिन्यां पुरं जालंधरं कृतम् ।
राज्यं च बहुलं पृथ्व्यामासमुद्रान्तमास्थितम् ।। ६७।।
स्वर्गादौ दानवाः सर्वे नियुक्ता अधिकारिणः ।
पातालादौ कृता दैत्या अधिकारपराः स्वयम् ।।६८ । ।
पृथ्व्यां पश्चिमवार्धेश्च मध्ये द्वीपे ह्युवास सः ।
देवगन्धर्वसिद्धेषु यत्किंचिद्रत्नमाचितम् ।।६ ९।।
स्वायत्तीकृत्य तत्सर्वं बुभुजेऽकण्टकं तलम् ।
देवगन्धर्वसिद्धेशान् सर्परक्षोनरेश्वरान् ।।1.326.७ ० ।।
स्वद्वीपे नागरान् कृत्वा शशास भुवनत्रयम् ।
देवा युद्धे मृता ये ये तान्पर्यजीवयद्धरिः ।।७ १ ।।
दैत्या ये ये हतास्ताँश्च शुक्रः संपर्यजीवयत् ।
देवाः पुनर्गता मेर्वाद्यरण्यादौ यथा पुरा ।।७२ ।।
फलं लब्धं न वै किञ्चित्तुषावघातवद्ध्यभूत् ।
सर्वत्र भुवनेष्वासीद् वार्ता विष्णुः पराजितः ।।७३ ।।
भक्त्याधीनो भवत्येव वशी नान्येन केनचित् ।
लक्ष्म्या च शालकेनापि स्नेहेन स वशीकृतः ।।७४।।
देवकार्यं विहायैव शालकगृहमाश्रितः ।
देवा निराश्रया जाता दुःखिताः शरणं विना ।।७५।।
देव्योऽपि दुःखमापन्ना असुरैर्भूरि चार्दिताः ।
किं कर्तव्यं क्व गन्तव्यं विष्णुर्वृन्दालतां श्रितः ।।७६ ।।
अथ दैत्यविनाशो वै शीघ्रं स्यादित्यचिन्तयत् ।
अन्तरात्मगताद् देवात् कृष्गानारायणात्प्रभोः ।।७७।।
देवा देव्यश्च ये जालंधरद्वीपे तु नागराः ।
अभवँस्ते तथा चान्ये यथा ज्ञायेत् नाऽसुरः ।।७८ ।।
तथा विचार्य श्रेष्ठास्ते जग्मुः शंकरसन्निधौ ।
तुष्टुवुः शंकरं स्वेषां दुःखस्य विनिवृत्तये ।।७ ९।।
अथाऽऽहूय महादेवो नारदं कुशलक्रियम् ।
प्रेषयामास तत्पूर्यां देवकार्यचिकीर्षया ।।1.326.८० ।।
नारदोऽपि ययौ शीघ्रं जालंधरपुरे तदा ।
देवान्पूर्वं मिलित्वा च ज्ञात्वा दुःखं ततः पुनः ।।८ १ ।।
देवकृतं पूजनं च गृहीत्वाऽतिथिसत्क्रियाम् ।
श्रुत्वा सूर्यशशिधर्मवह्निनिःसारणादिकम् ।।८२।।
विष्णोः पराजयं श्रुत्वा जलंधरस्य चानयम् ।
सुरानाश्वासयित्वा ज्ञापयित्वा कार्यसिद्धये ।।८ ३ ।।
यथाबुद्धि देवकार्यं करिष्ये ह्यभिधाय च ।
नत्वा देवान् ययौ जलन्धरसभामृषिः स्वयम् ।।८४।।
आगतं मुनिं जलंधरो नत्वाऽऽसनं ददौ ।
संपूज्य विधिवद् दैत्यः प्रहस्याऽऽह तु नारदम् ।।८५।।
कुशलं ते मुनिश्रेष्ठ! कुत आगम्यते इतः ।
यदर्थमिह चायातो विज्ञापय करोमि तत् ।।८६ ।।
प्रसन्नात्मा नारदस्तच्छ्रुत्वा प्रोवाच चासुरम् ।
धन्यस्त्वं बलवान् राजा राजेन्द्रो वर्तसेऽधुना ।।८७।।
सर्वरत्नप्रभोक्ताऽसि तथाऽहं श्रुतवान् दिवि ।
पश्चाच्च श्रुतवान् भोगान् शंकरस्योत्तमोत्तमान् ।।८८ ।।
योजनाऽयुतविस्तीर्णे कल्पद्रुममहावने ।
कामधेनुशताऽऽकीर्णे चिन्तामणिसुदीपिते ८९।।
सर्वरुक्ममये दिव्ये सर्वत्राऽद्भुतशोभिते ।
यानवाहनदासैश्च दासीभिः परिचारिते ।।1.326.९० ।।
कैलाशशिखरे तत्र दृष्टवान् शंकरं ह्यहम् ।
सर्वांगसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ।।९ १ ।।
ऊनषोडशवर्षाभिर्युवतीभिः सुसेवितम् ।
चन्द्रपिण्डकृताभिर्वा सूर्यस्वर्णनिःसृताभिः ।।९२।।
नैकसुन्दरीभिः शिवो मोदते तत्र पर्वते ।
अथाऽविचारयं पश्चाच्छ्रुतं जालंधरं सुखम् ।।९३ ।।
कीदृग् भवेत्तथा स्मृर्द्धिरेतादृशी भवेन्न वा? ।
इति वितर्क्य साश्चर्यं समागतोऽस्मि ते गृहम् ।।९४।।
तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ।
द्वीपस्ते सुभगश्चास्ति ह्युद्यानवनमण्डितः ।।९५।।
परीतो जलखातेन शोभितोऽस्तीति सुन्दरम् ।
इत्युक्तवन्तं दैत्यः स दर्शयामास सर्वथा ।।९६।।
स्मृद्धिमन्तर्गृहा बाह्यगृहा गह्वरसंस्थिताम् ।
दृष्ट्वा शशंस मुनिराड् वितर्क्य देवलाभकृत् ।।९७।।
विष्णुप्रेरणया प्राह दैत्यं मोहं यथाऽऽविशेत् ।
अहो तव समृद्धेस्तु पारं नास्ति जलंधर ।।९८।।
त्रैलोक्याधिपतिगृहे भवेदेव न चित्रकम् ।
भवनानि विचित्राणि यानानि वाहनानि च ।। ९९।।
उपकरणानि रत्नपूजाश्च मणिशेवधिः ।
मौक्तिकानि हीरकाश्च सुवर्णशतभूमयः ।। 1.326.१० ०।।
गजाद्या वाजिनश्चापि नाऽन्यत्र सन्ति ते यथा ।
शक्तस्यैरावतश्चात्र सूर्यस्योच्चैःश्रवा हयः ।। १० १।।
कल्पमन्दारवृक्षाश्च निधयो धनदस्य च ।
ब्रह्मणो हंसयानं च विष्णोः गरुड इत्यपि ।। १०२।।
यमस्य महिषश्चापि विष्णोः सुदर्शनं तथा ।
शेषराजमणिश्चापि चन्द्रस्य चामृतं तथा ।। १ ०३।।
मन्वन्तराणां छत्राणि सुवर्णयष्टयस्तथा ।
चामराणि दिगीशानां देवीनां कंकणानि च ।। १ ०४।।
एवं सर्वाणि रत्नानि भान्ति तानि गृहे तव ।
प्रमदानां च दासीनां श्रेष्ठत्वं चापि तेऽस्ति वै ।। १०५ ।।
किन्तु नैकमपि जायारत्नं तै भाति तादृशम् ।
यादृशं शंकराऽग्रेऽस्ति तावान् न्यूनोऽस्ति वै भवान् ।। १०६ ।।
श्रेष्ठेन जायारत्नेन सूर्यचन्द्रनिभेन वै ।
भवनानि प्रशोभन्ते राज्ञो न स्मृद्धिभिस्तथा ।। १ ०७।।
किरातीभिस्तु लक्षाभिः शोभते न नृपगृहम् ।
यथा त्वं दिग्यशा भासि न त्वत्पत्नी तथाऽस्ति वै ।। १ ०८।।
यद्वा किं शुभ्रदासीभिर्यशश्चेन्न विवाहिता ।
शुक्लां जायां विना सर्वं फेरुराजगृहोपमम् ।। १ ०९।।
न वै विवाहितां विना शोभा राज्ञो भवेत्क्वचित् ।
राज्यमाता भवेद् देवी दिव्या वंशविवर्धिनी ।। 1.326.११० ।।
नहि दासीप्रलक्षासु कुमारो नृपतेर्मतः ।
दासीजाः शतशश्चापि नाभिषेकाऽर्हणा मताः ।। १११ ।।
तदानेतुं कुमारीं त्वं स्त्रीरत्नं चार्हसि ध्रुवम् ।
अहं गच्छामि लोकेषु रत्नानां यत्र संग्रहः ।। ११ २।।
श्रुत्वैवं चाह देवर्षिं जलंधरोऽतिमानवान् ।
देवर्षे च यथासर्वरत्नानां श्रैष्ठ्यमस्ति मे ।। ११३ ।।
चतुर्दशसु लोकेषु तादृक् श्रेष्ठोत्तमोत्तमम् ।
भविता यदि विज्ञातं भवेद् दर्शय मे मतम् ।। १ १४।।
भवता सर्वतो दृष्टा नार्यो राज्ञ्यश्च कन्यकाः ।
वेधसां शंकराणां च विष्णूनां चापि कन्यकाः । । ११५ । ।
ऋषीणां चापि पितॄणां देवानां चापि कन्यकाः ।
मानवानां च नागानां दैत्यदानवरक्षसाम् ।। ११६ ।।
सर्वाश्च कन्यका मुने त्वया दृष्टाः समन्ततः ।
सर्वातिशयसौन्दर्यरूपयौवनसद्गुणाः । । ११७ ।।
यत्र वसन्ति तद्रत्नं प्रदर्शय नयामि तत् ।
चतुर्दशभुवनानां राज्ञीनां संसदि मम ।। ११८ ।।
पत्नीरूपं प्रकाश्येत सूर्य इव महोज्ज्वलम् ।
यत्समं न भवेदन्यदधिकं तु कथं भवेत् ।। ११९ ।।
तादृशं दर्शय विद्वन् नयामि विवहामि च ।
यदग्रे सर्वराज्ञ्यश्च पतङ्ग्य इव सर्वथा ।। 1.326.१२० ।।
भवेयुस्तादृशं कुमारिकारत्नं वहाम्यहम् ।
श्रुत्वैवं नारदः प्राह वर्तते तादृशं खलु ।। १२१ । ।
एकमेवात्र ब्रह्माण्डे कुमारीरत्नमुत्तमम् ।
यदग्रे सर्वनारीणां सौन्दर्यं भस्मितेन्धनम् ।। १२२ ।।
मयाऽपि यद्दिनाद्दृष्टं तद्दिनात् तदवाप्तये ।
प्रयत्यते पुनर्गत्वा निद्रां लभे न शर्मदाम् ।। १२३ । ।
हृदये चक्षुषोर्वृत्तौ स्वप्ने तथा च जागरे ।
मस्तकेऽपि च सा कन्या रमते स्मृतिमागता ।। १२४ ।।
किं सौन्दर्यं च किं रूपं कीदृशं यौवनं तथा ।
यन्नखाग्रेऽपि तेजोऽस्ति यत्र कृष्णायते शशी ।। १२५ ।।
यन्मुखे गण्डयोर्भागौ तथा चापि कपोलयोः ।
क्लृप्ताश्चत्वार एवात्र सूर्याः किं स्तश्च तादृशौ ।। १२६ ।।
कियन्मध्यकटिस्तस्याः कियत्कामस्थलं तथा ।
कियत्प्रोद्भिन्नभावाढ्यस्तनद्वयं कियत् कियत् ।। १२७ ।।
विद्युल्लता यथा तत्र तत्र वसन्ति वै किमु ।
मया न प्राप्यते राजँस्त्वया कथं स चाप्यते ।। १२८ ।।
तथापि कुरु यत्नं त्वं प्राप्स्यते तज्जयस्तव ।
प्राप्तव्यं वापि मर्तव्यमिति कृत्वा प्रयत्यताम् । । १२९ ।।
नाऽन्यथा तद्भवेत्कार्यं शूराणां किमसाध्यकम् ।
कैलासे तद्वर्ततेऽद्य शंभोर्हस्ततले स्थितम् ।। 1.326.१३० ।।
शंभोः पत्नीस्वरूपेण चाऽक्षत तेन योगिना ।
शंभुस्तु वर्तते योगी समाधौ तिष्ठति ध्रुवम् ।। १३१ ।।
न स्पृशति तां नारीं कन्यारूपां विचिन्त्य सः ।
अत्यद्भुतां रक्षति स्म सर्वथा योगसिद्धिभिः । । १३२ । ।
जायारत्नेन सदृशस्त्रिलोक्यां शंभुना खलु ।
नास्ति कश्चिदिति मन्ये प्रत्यक्षं दृष्टवान् यतः । । १३३ । ।
यस्याः पादावलोकेन ब्रह्मा रेतो ह्यवासृजत् ।
कामोऽपि तां विलोक्यैव मुमोह भस्मतां गतः ।। १ ३४।।
तद्रत्नं त्वक्षतं प्राप्य कृतकृत्यो भवात्र वै ।
नो चेत् प्राणान् विहायैव परलोकं समाश्रय ।। १ ३५।।
इत्युक्त्वा नारदो देवपूज्यो देवहितार्थकृत् ।
ययौ देवाँश्च विज्ञाप्य कलां दैत्यविनाशिनीम् ।। १३६ ।।
देवा अपि सुतुष्टाश्च विष्णुं गत्वा स नारदः ।
सर्वं तदब्रवीन्नत्वा ययौ सत्यं स्वकं स्थलम् ।। १ ३७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जलंधरवृन्दाख्यानेऽसुरसुरसैन्ययुद्धं, मृताऽसुरसुराणामुज्जीवनं, जलंधरविष्ण्वोश्च युद्धं, प्रसन्नेन विष्णुना जलंधरगृहे वासात्मकवरप्रदानं, पुनर्देवानां दुःखं, शंकराय निवेदनं, नारदस्य जलन्धरगृहं प्रतिगमनं, सुरूपाया भार्याया पार्वत्या आनयनाय जलन्धरस्य मोहनमित्यादिनिरूपणनामा षडविंशत्यधिकत्रिशततमोऽध्यायः ।। ३२६ ।।