लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१७
[[लेखकः :|]]
अध्यायः ३१८ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! विकुण्ठा या गोलोके राधिकासुता ।
संकल्पमात्रजा कन्या तस्या वृत्तं व्रतान्वितम् ॥ १ ॥
अधिमासस्य देवोऽभूद् भगवान् पुरुषोत्तमः ।
राधया सहितः कृष्णो रासं चक्रे तदुत्सवे ॥ २ ॥
तत्राऽऽयाता गोपगोप्यः कन्याः कोट्यर्बुदार्बुदाः ।
कुटुम्बिनीः सकन्याश्च रूपलावण्यसम्पदः ॥ ३ ॥
गोपीर्वीक्ष्य स्वयं राधा त्वपुत्रीयेषु पुत्रिकाम् ।
गोपीनां कन्यका दिव्या आह्वयन्ति स्वमातृकाः ॥ ४ ॥
माँ अम्बे जननि चैवं ह्यानन्दयन्ति मातृकाः ।
पुत्रीहीना पतियुक्ता न पूर्णा सुखिनी हि सा ॥ ५ ॥
पुत्री मातृस्वरूपाऽस्ति मातुर्वै कार्यदासिका ।
सर्वथा साहचर्येण सेवते मातरं सुता ॥ ६ ॥
भोजने चोत्सवे याने रहस्याप्लवने गृहे ।
शयने वा प्रवासे वा साहाय्ये सेविका सुता ॥ ७ ॥
नारीवर्गस्य नार्यैव शारीरसहसेविका ।
तत्रापि स्वसुता तुल्या न स्नुषा नापि भृत्यका ॥ ८ ॥
न वा कुटुम्बिनी तद्वद् यथा पुत्री तु सेविका ।
तस्मात् सुतां बिना नारी त्वर्धसौभाग्यशालिनी ॥ ९ ॥
प्रातः पुत्रीमुखं दृष्ट्वा स्वर्गादप्यधिकं सुखम् ।
जननी विन्दति लोके न तथा पुत्रदर्शनात् ॥ १ ०॥
पितुः पुत्रे यथा स्नेहो मातुः पुत्र्यां ततोऽधिकः ।
अबला गोसमा पुत्री कुमारी मातृसेविका ॥ ११ ॥
पश्चात् पतिपरा सा स्यात्तस्मान्मातुर्विशेषतः ।
पूर्णायुष्यसुखं पुत्र्याः कौमार्ये लभ्यमेव ह ॥ १२॥
अतः पुत्री दशगुणा प्रेष्ठा भवति सर्वथा ।
मातुः कलासुकौशल्यं गृहकार्यादिशिक्षणम् ॥ १३॥
पुत्र्यात्मके निजपात्रे वसत्येव सदा चिरम् ।
सत्पुत्र्या जायते माता यशस्विनी कुलद्वये ॥ १४॥
पुत्री कीर्तिर्यशः पुत्री पुत्री पिण्डस्तु मातृजः ।
स्वात्मिकां पुत्रिकां दृष्ट्वा स्पृष्ट्वा हृष्यन्ति मातरः ॥ १५॥
पुत्रः पितृस्वरूपोऽस्ति पुत्री मातुस्वरूपिणी ।
सुपुत्री जननी पुत्रीमत्सु मान्या भवत्यपि ॥ १६॥
अपुत्री तु समाजादौ म्लानेव दृश्यते खलु ।
पुत्रीमण्डलमध्यस्था माता तत्र प्रकाशते ॥ १७॥
अपुत्री तु यथा निद्रोत्थिता तद्वद्धि दृश्यते ।
बह्वयः सुपुत्रिका यस्याः सा धनाढ्यासु पूज्यते ॥ १८॥
पुत्र्यात्मकं धनं तस्याः सर्वश्रीभ्यो विशिष्यते ।
जामातारोऽपि बहवो बहुपुत्र्या धनं महत् ॥ १९॥
पुत्रीपुत्राश्च तत्पुत्रा धनं विस्तृतमेव तत्।
बहुशाखश्च वृक्षस्य छायां श्रयन्ति लक्षशः ॥२०॥
अशाखस्य न वै छाया नाश्रिता नहि मान्यता ।
परोपकारो नाप्यस्ति तथाऽपुत्री विगण्यते ॥२ १॥
पुत्रीसुखं परं दृष्ट्वा माता तोषं प्रयाति वै ।
न मे पुत्री न वा पुत्रः कथं राधा सुखाश्रया ॥ २२॥
सपत्नीदुःखमापन्ना यदि पुत्रीमती भवेत् ।
तदा सापत्न्यदुःखं वै पुत्रीं दृष्ट्वा निवर्तते ॥२३ ॥
विरजा रुक्मिणी लक्ष्मीः रमा श्रीः पार्वती प्रभा ।
जया च विजया भामा मंगला माणिकी यमी ॥२४॥
अन्याश्चाऽसंख्यकोट्यश्च सपत्न्यः सान्ति मे सदा ।
सपुत्र्यस्ताः सदा दृश्या मया पुत्रीविहीनया ॥ २५॥
तस्मात् पुत्री मया प्रार्थ्या कृष्णाछ्रीपुरुषोत्तमात् ।
यया पुत्रीमतीनां मौर्धन्यं मम यथा भवेत् ॥२६॥
इति संचिन्त्य राधा सा महोत्सवोत्तरं निजम् ।
भावं प्रकाशयामास रहः श्रीकृष्णसन्निधौ ॥२७॥
पुत्री मे दयितां नाथ विना पुत्रीं मृतिर्वरा ।
पुत्रीमतीषु सर्वासु न शोभेऽहं समुत्सवे ॥२८॥
अपत्यानि विना नारी शोभते नैव चैकला ।
कदली शोभते नैव पार्श्वापत्यानि यत्र न ॥२९॥
विरुल्लता न शोभन्ते क्वचिच्छाखालतामृते ।
हरिणी शोभते नैव बालापत्यानि वै विना ॥ ३०॥
विद्युत्तु शोभते तत्र यत्र वृष्टिः प्रवर्तते ।
कुल्या विना महत्त्वं न नद्याः क्वापि प्रसिद्ध्यति ॥३ १॥
विनाऽङ्गुलीः फणा नैव शोभते शोभिताऽपि वै ।
शान्तिं विना न वा विद्या शोभते सा महत्यपि ॥३२॥
मुक्तिं विना पराविद्या शोभते न पराऽपि सा ।
तृप्तिं विना यथा भुक्तिर्निष्फलेव प्रजायते ॥३३॥
पत्नीं विना यथा शय्या यौवनोद्वेगदायिनी ।
पुत्रीं विना तथा माता वार्धक्ये दुःखदर्शिनी ॥३४॥
तस्मात् पुत्रीं समिच्छामि सर्वसद्गुणशालिनीम् ।
मात्राज्ञापालयित्रीं च कुलधर्मानुयायिनीम् ॥ ३५॥
मातृसेवाकरीं दिव्यां गृहकार्यसहायिनीम् ।
अन्नवारिसमित्पत्रशाकपुष्पादिरक्षिणीम् ॥३६॥
मार्जनं मञ्जनं वस्तुरक्षणं क्षालनं तथा ।
पाचनं संस्करणं च जलाहरणप्रभृति ॥३७ ॥
कुर्यात् स्निग्धा सुता या स्यान्मातृवात्सल्यशोभिता ।
तस्मान्मया सुपुत्र्यत्र कृष्ण कान्त गुणालया ॥३८॥
सर्वश्रेष्ठा च विख्याता मातापितृसहायिनी ।
दृष्ट्वा स्मृत्वा च यां शान्तिर्भवेत् समिष्यते हरे ॥३९॥
यद्यहं ते प्रिया पत्नी मयि तुष्टो भवान् यदि ।
यद्यहं ते प्रिया दासी प्रियः कान्तोऽसि मे यदि ॥४०॥
तदा राधा वृणुतेऽत्र कृष्णात्पुत्रीं सुलक्षणाम् ।
सर्वपुत्रीमतीपुत्रीर्विस्मारयेत्तु या नु माम् ॥४ १ ॥
इत्यभ्यर्थ्य प्रिया राधा कृष्णनारायणं प्रभुम् ।
कृत्वा वक्षसि संश्लिष्टं सेवयामास भावतः ॥४२॥
कृष्णस्त्वानन्दयित्वा तां ददौ तस्यै सुपुत्रिकाम् ।
दिव्यां राधासमाकारां राधारूपातिरूपिणीम् ॥४३ ॥
संकल्पमात्रजन्यां च जातमात्रा सुयौवनाम् ।
दिव्यां दिव्यसहस्राब्जगोपीरूपाऽतिरूपिणीम् ॥४४॥
यथा राधा तथा सास्ति यथा सा राधिका तथा ।
आन्तरं नैव सर्वात्मतुल्यतया विभासते ॥४५॥
मुमुहुर्गोपिकाः सर्वाः कृष्णपत्न्यश्च मोहिताः ।
स्तब्धाश्च चित्रिता यद्वत् तदानीमभवन् क्षणम् ॥४६ ॥
एतादृशी दर्शनार्हा वृत्तीनां कुण्ठिता परा ।
तत्रैव पुत्र्यां सर्वासां सर्वेषां चाऽभवत्तदा ॥४७॥
कृष्णोऽपि रूपसम्पन्नां सुतां दृष्ट्वा जहर्ष वै ।
वृत्तीनां कुण्ठितो भावो जातं स्थैर्यं यतोऽत्र वै ॥४८॥
पित्रा कृष्णेन वात्सल्याद् विकुण्ठेति समादरात् ।
समाहूता सुता तद्वत् समाहूता हि राधया ॥ ४९ ॥
विकुण्ठाख्या च सा कार्ष्णी राधेयीनामतोऽभवत् ।
गोलोकवसतिः सर्वा द्रष्टुं कन्यां समाययौ ॥५ ० ॥
प्रशंसन्ति स्त्रियस्तां ता अहो राधा महोदया ।
अहो पुत्री दिव्यराधारूपाऽतिरूपभाजना ॥५ १ ॥
अहो भाग्येन कस्यापि जातेयं सुमनोहरा ।
कृष्णादप्युत्तमं भाग्यं तस्य स्याद् यस्य सा भवेत् ॥५२॥
विवाहविधिना भार्या भवेद्यस्य तु कन्यका ।
स वै कृष्णोत्तमः कृष्णो भवेद्वै पुरुषोत्तमः ॥५३ ॥
इत्युक्त्वाऽऽशिष आयुज्य जग्मुः स्वस्वालयं जनाः ।
राधा तां पाययामास स्तन्यं तत्कालसंभवम् ॥५४॥
कृष्णः संस्कारयामास विधिना भोजनं ददौ ।
रमयामास माता तां लालनैः पालनादिभिः ॥५५ ॥
अथ सा राधिकासेवां करोति स्माऽतिभावतः ।
गृहकार्याणि सर्वाणि निर्वर्तयति शिक्षिता ॥५६॥
एवं विवर्तमाना सा वरारोहाऽतियौवना ।
नित्यं पित्रा समं याति द्रष्टुं श्रीपुरुषोत्तमम् ॥५७॥
अक्षराधिपतिं ब्रह्मपरं श्रीपरमेश्वरम् ।
अनन्तकृष्णसंसेव्यं नारायणाब्जवन्दितम् ॥ ५८ ॥
यत्कान्त्या लेशमात्रेण कान्ताः कृष्णादयो मताः ।
तमनादिब्रह्मयुक्तैः सेवितं पुरुषोत्तमम् ॥५९॥
प्रातः कृष्णः सदा याति परं पूजयितुं प्रभुम् ।
श्वेतदिव्यमहायुक्तसपक्षहस्तिसंस्थितः ॥६ ० ॥
उपायनादिकं नीत्वा भगवान् राधिकापतिः ।
निवर्तते तु सम्पूज्य तद्वा कृष्णसुता तु सा ॥ ६१ ॥
चकमे राधिकापुत्री दृष्ट्वा श्रीपुरुषोत्तमम् ।
तस्या मनः समाकृष्य स्वस्मिन् स्थापयति प्रभुः ॥६२॥
विकुण्ठा ध्यायति दृष्टं कृष्णनारायणं हरिम् ।
सर्वक्रियासु चानादिकृष्णानारायणं प्रभुम् ।।६३ ॥
गायति स्मरति पश्यत्यपि श्रीषुरुषोत्तमम् ।
एवं नित्यं तया सार्धं समायाति च पूजनम् ॥६ ४।।
कृत्वा कृष्णः स्वकं धाम गच्छति नित्यमेव ह ।
विकुण्ठाऽपि तन्मयाऽभूत् सर्वक्रियासु सर्वदा ।।६५।।
पुरुषोत्तमपत्नीत्वं प्राप्तुं ध्यायत्यहर्निशम् ।
तावत्तत्र तदाऽवादीद् दुन्दुभिः श्रीहरेर्महान् ॥ ६६॥
अद्याऽस्ति दशमी रम्या पुण्यदाऽधिकमासिकी ।
परे पक्षेऽत्र व्रतकृल्लभते स्वेष्टवस्तुकम् ॥६७।।
अपि कन्या च वा नारी नरो वा दीनमानवः ।
अद्य व्रतेन वै स्वेष्टं प्राप्स्यत्येव न संशयः ।।६८ ।।
अक्षराधिपत्यनादिश्रीकृष्णपुरुषोत्तमः ।
यद्यदिच्छति तत्सर्वं प्रदास्ये वै व्रतार्थिने ।।६९ ।।
मा संकोचं प्रकुर्वन्तु प्रार्थनाकरणे जनाः ।
गोप्यं रक्ष्यं चाऽनिवेद्यं दास्ये संकल्पितं खलु ।।७० ।।
इत्याश्रुत्य विकुण्ठा सा चक्रे वै दशमीव्रतम् ।
पुरुषोत्तमलब्ध्यर्थं सजागरं दिवानिशम् ।।७ १ ।।
प्रातस्तया कृता पूजा शुभा षोडशवस्तुभिः ।
पुरुषोत्तममूर्तेश्च भोजनारार्त्रिकादिकम् ।।७२।।
खानपानसुनैवेद्यफलपुष्पजलादिकम् ।
प्रातर्मध्ये तथा सायं रात्रौ चकार पूजनम् ।।७३ ।।
कृष्णचन्द्रशीतरश्मितेजोमयेऽतिसूज्ज्वले ।
विरामाख्ये निशावाच्ये समये पुरुषोत्तमः ॥७४॥
समायात् तत्र मूर्त्याख्ये स्वरूपेऽक्षरधामतः ।
कोटिकृष्णसमः कान्तो विकुण्ठाभाग्यनिश्चितः ॥७५ ॥
प्रहसन् तां प्रभुः प्राहाऽऽगतोऽस्मि व्रतपुण्यदः ।
तव भक्त्या प्रसन्नोऽस्मि वृणु कृष्णसुतेऽनघे ॥ ७६ ॥
अदेयं नास्ति ते किञ्चित् स्मृतवत्यै सदा तु माम् ।
अनन्यायै भक्तिमत्यै कार्ष्ण्यै देयं यथेप्सितम् ॥७७॥
तदा प्राह विकुण्ठा तं प्रसन्ना लज्जिता तथा ।
हृदये प्राणनाथ त्वं वर्तसेऽविदितं न ते ॥७८ ॥
तथापि भक्तवात्सल्याज्जिज्ञासां त्वं करोषि वै ।
भगवन्मम नाथ त्वं भव प्राणपतिः प्रभुः ॥७९॥
इयं समर्प्यते स्वामिन् वरमालाऽऽदिश प्रभो ।
तथास्त्विति हरिः प्राह तथा प्राहाऽधिकं हरिः ॥८ ० ॥
शृणु नैकस्वरूपोऽहं वसामि विविधाश्रयः ।
वसाम्यहं सदा धाम्न्यक्षरे श्रीपुरुषोत्तमः ॥८ १ ॥
द्वितीयोऽहं वसाम्येव महावैकुण्ठधामनि ।
तथा जलावरणान्तवैकुण्ठेऽहं तृतीयकः ।।८२ ॥
श्वेतद्वीपाख्यवैकुण्ठे चतुर्थोऽहं वसाम्यपि ।
क्षीरान्तःस्थे तु वैकुण्ठे वसामि पंचमोऽप्यहम् ॥८३ ॥
तस्मात् त्वयापि सर्वत्र वस्तव्यं दिव्यरूपया ।
नैकेन वै स्वरूपेण स्थातुं सर्वत्र पार्यते ॥८४॥
ततोऽनेकस्वरूपत्वं कर्तव्यं भवति ध्रुवम् ।
किंच मात्रा तव राधिकया सेवार्थमित्यपि ॥८५॥
निर्मिता त्वं ततो तां वै त्यक्तुं नार्हसि सुन्दरि! ।
राधासेवार्थमेवापि स्थातव्यं सर्वदा त्वया ॥८६ ॥
इति रूपाणि षट् कृत्वा स्थातव्यं सर्वथा त्वया ।
कृपया मम तस्मात्ते रूपाणि षड् भवन्तु वै ॥८७॥
इत्युक्ता सा षट्स्वरूपाऽभवत्तस्य कृपाकणात् ।
तत्रैकं त्वक्षरधामवासार्ह सर्वतोऽधिकम् ॥८८ ॥
पुरुषोत्तमयोग्यं सबभूव नित्यमुक्तिकम् ।
पत्नीत्वेन विकुण्ठा तां जग्राह पुरुषोत्तमः ॥८९ ॥
द्वितीयं राधिकासेवायोग्यं पुत्रीस्वरूपकम् ।
गोलोके तां कुमारीं वै स्थापयामास केशवः ॥ ९० ॥
विकुण्ठा कन्यका पूर्वं यथा तत्रैव तिष्ठति ।
तृतीयं तु विकुण्ठाया व्यापकं मूर्तिमत्तथा ॥ ९१ ॥
रूपं द्वेधाऽभवत्तत्र व्यापकं तत्तु सर्वथा ।
वैकुण्ठाख्यं धामरूपमधिदैवं बभूव तत् ॥ ९२ ॥
महावैकुण्ठसंज्ञं तद् व्यापकं धाम चोच्यते ।
तत्र नारायणपत्नी महालक्ष्मीर्बभूव सा ॥ ९२ ॥
चतुर्थं तु विकुण्ठाया रूपं द्वेधाऽभवत्तथा ।
जलावरणवैकुण्ठं तेजोमयाधिदैवतम् ॥ ९४॥
व्यापकं संबभूवैकं लक्ष्मीरूपं द्वितीयकम् ।
विकुण्ठा सा विष्णुपत्नी सेवते विष्णुमादरात् ॥ ९५॥
पञ्चमं तु विकुण्ठाया रूपं द्वेधाऽभवत्तदा ।
श्वेतद्वीपाख्यवैकुण्ठं तेजोमयाधिदैवतम् ॥ ९६॥
व्यापकं संबभूवैकं लक्ष्मीरूपं द्वितीयकम् ।
विकुण्ठा सा विष्णुपत्नी सेवते विष्णुमादरात् ॥ ९७॥
षष्ठं चापि विकुण्ठाया रूपं द्वेधाऽभवत्तदा ।
क्षीरवैकुण्ठसंज्ञं तत्तेजोमयाधिदैवतम् ॥९८॥
व्यापकं संबभूवैकं लक्ष्मीरूपं द्वितीयकम् ।
विकुण्ठा सा विष्णुपत्नी सेवते विष्णुमादरात् ॥ ९९॥
एवं षण्मूर्तयस्तस्याः सुरूपा दिव्ययोषितः ।
षट्स्थलेषु हि वर्तन्ते विकुण्ठा भगवत्स्त्रियः ॥ १० ०॥
वैकुण्ठानि तु चत्वारि धामानि दिव्यभूमयः ।
बभूवुस्तदधिष्ठात्रीदेवतास्ता हरीच्छया ॥ १० १॥
चतस्रो व्यापिका देव्यो मिलित्वा दश ताः सदा ।
पृथग्रूपा बभूवुर्वै व्रतेन हरितोषणात् ॥ १० २॥
कृष्णनारायणस्वामिपुरुषोत्तमसत्कृपा ।
किं किं न कुरुते लक्ष्मि! सा विकुण्ठा भवत्यपि ॥ १०२ ॥
स्वात्मानं त्वं विजानीहि स चाऽह पुरुषोत्तमः ।
इत्यपि त्वं विजानीहि पतिं ते पुरुषोत्तमम् ॥ १ ०४॥
ज्ञात्वा मां भजसे तत्र सर्वत्रात्र च मत्प्रिये ।
अहं जानामि तत्सर्वं नित्यप्रत्यक्षवत्तया ॥ १ ०५॥
त्वं न वेत्सि तथा सर्वं मदिच्छा तत्र कारणम् ।
इति ते कथितं लक्ष्मि वृत्तं दशमिकाव्रतात् ॥ १० ६॥
विकुण्ठायास्तव रूपाण्यभवन् दशधा फलम् ।
मदिच्छया तथा जातं ममानुग्रहकारणम् ॥ १ ०७॥
पठेद्वा शृणुयाद्वापि फलं तस्यापि तादृशम् ।
ददामीष्टं पूरयामि कृपया पुरुषोत्तमः ॥ १०८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये श्रीकृष्णेन दत्ताया मानस्या राधिका- पुत्र्या विकुण्ठानाम्न्या दशमीव्रतेन सन्तुष्टपुरुषोत्तम-कृपया षट्लक्ष्मीरूपाणि चत्वारि वैकुण्ठधामाधिदेवता-रूपाणि चेत्यादिनिरूपणनामा सप्तदशाधिक-त्रिशततमोऽध्यायः ॥१.३१७॥