लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१८
[[लेखकः :|]]
अध्यायः ३१९ →


श्रीनारायण उवाच-
शृणु लक्ष्मि पूर्वकल्पे भवां वम्र्याः कथां शुभाम् ।
रुद्रपुत्री कृते चाद्ये समभूद् वम्रिका सुता ॥ १ ॥
सत्याः सा मानसी पुत्री वटे तिष्ठति नित्यदा ।
मन्दरे पर्वते रुद्रावतारे वटपादपे ॥ २ ॥
पित्राश्रये कृताऽऽवासा त्वास्ते शुद्धा कुमारिका ।
सत्या चाऽप्रजया दृष्टा विकुण्ठा राधिकासुता ॥ ३ ॥
तदा पुत्रीमती स्यां चेत्यार्थयच्छंकरान्मुहुः ।
तथास्त्विति प्रसन्नः शंकरः संकल्पमाचरत् ॥ ४ ॥
यत्र वै मन्दरेऽरण्ये स्वावतारवटाश्रये ।
तत्रैव रमणात् सत्या मानसी दिव्यरूपिणी ॥ ५ ॥
जज्ञे कोटिचन्द्रतेजोऽधिकतेजोमयी सुता ।
जातमात्रा सुरूपा सुयौवना यादृशी सती ॥ ६ ॥
ततोऽप्यधिकसौन्दर्या सर्वदिव्यगुणालया ।
जातमात्रा दिव्यबोधा ननाम पादयोः पितुः ॥ ७ ॥
मातृचरणयोश्चापि ननाम सेविका यथा ।
सती चातिप्रसन्नाऽभूद् रुद्रोऽप्यतितरां सुखी ॥ ८ ॥
अनपत्यस्तु सापत्यो भवत्युत्सववर्धितः ।
कृतः सत्या शंभुना चोत्सवस्तत्र सुमन्दरे ॥ ९ ॥
देवा देव्यो मानवाश्च दिक्पाला मनवस्तथा ।
महर्षयोऽजपितरो विष्णुदक्षादयोऽपरे ॥ १० ॥
युगलानि ययुस्तत्र वम्र्या जन्ममहोत्सवे ।
संस्कृता विधिना सप्तर्षिभिर्यज्ञोपवीतकम् ॥ ११ ॥
प्रार्पितं ब्रह्मवर्चस्कं सर्वतेजोधिका बभौ ।
जनकं ब्रह्मरूपं च तथा सा सेवते सतीम् ॥ १२॥
पितराविव योगस्था समाधावपि तिष्ठति ।
वटवासा वटच्छायाकृतशाला वटाश्रया ॥ १३॥
वटत्वक्संऽस्कृतवस्त्रा न्यग्रोधफलभोजना ।
न्यग्रोधदुग्धपाना च न्यग्रोधफलभूषणा ॥ १४॥
न्यग्रोधस्य जटातन्तुशाटिका वटमूलके ।
वेदीकृतहोमकार्या वटपत्रसुकंचुकी ॥ १५॥
वटकाष्ठसुवलया वटरूपा सदाऽभवत् ।
तापसी वटपुत्री सा सर्वसिद्धिमयी बभौ ॥ १६॥
यद्यदिच्छति तत्सर्वं तत्र समुपतिष्ठते ।
सम्पदः स्मृद्धयो लक्ष्म्यो रसा भोग्यानि वै सुधा ॥ १७॥
अमृतानि विचित्राणि दुग्धानि विविधानि च ।
सर्ववृक्षरसास्तत्र सर्वरत्नानि तत्र च ॥ १८॥
सर्वभोग्योपकरणान्युपतिष्ठन्ति तद्वटे ।
सा तु योगबलात् सर्वं स्वस्या अग्रे प्रपश्यति ॥ १९॥
मूलाधारे गुदे चक्रे गत्वा गणपतिं सुरम् ।
ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वथा ॥२०॥
स्वाधिष्ठाने योनिमूले चक्रे गत्वा चतुर्मुखम् ।
ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वतः ॥२१ ॥
मणिपूरे नाभिदेशे चक्रे गत्वा तु विष्णुकम् ।
ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वथा ॥२२॥
हृदयेऽनाहते चक्रे गत्वा ध्यात्वा शिवं स्थितम् ।
तस्यापि सर्वसामर्थ्यं वशीकरोति योगिनी ॥२३ ॥
विशुद्धिचक्रे कण्ठस्थे स्वात्मनि संयमं परम् ।
कृत्वाऽऽत्मतत्त्वसामर्थ्यं वशीकरोति सर्वथा ॥ २ ४॥
आज्ञाचक्रे भ्रुवोर्मध्ये ध्यात्वा हंसं गुरुं तथा ।
वशीकरोति ब्रह्मादि ज्ञानं सार्वज्ञ्यमेति या ॥ २५॥
ब्रह्मरन्ध्रेऽपि सा गत्वा ब्रह्मलोकं गता सती ।
पश्यति श्रीपरात्मानं श्रीकृष्णपुरुषोत्तमम् ॥ २६ ॥
क्चचित्समाधिना वम्री याति ब्रह्मपुरं प्रति ।
क्वचिद्वैकुण्ठलोकं च याति श्वेतं पुरं प्रति ॥ २७॥
गोलोकं चामृतं धाम श्रीपुरं याति वासवम् ।
क्वचिच्छैवं क्वचिद् ब्राह्मं सौरं चान्द्रं च वारुणम् ॥ २८ ॥
कौबेरं देवलोकाँश्च प्रकृतेः पुरुषस्य च ।
लोकान् सांकर्षणं धाम प्राद्युम्नं चानिरुद्धकम् ॥ २९॥
चतुर्विंशतितत्त्वानां लोकान् याति समाधिना ।
असुराणां च नागानां देवीनामालयाँस्तथा ॥ ३० ॥
भूगोले च खगोले च ब्रह्माण्डे याति योगिनी ।
इडायाः पिंगलायाश्च सुषुम्णादेश्च वर्त्मना ॥ ३१ ॥
सूर्यचन्द्रादिलोकाँश्च जगाम योगसंश्रया ।
संयमनीं धर्मपुरीं जगाम योगवर्त्मना ॥ ३२॥
नैकरूपधरा भूत्वा वम्री वटेऽपि तिष्ठति ।
तिष्ठत्यपरवृक्षेषु वैकुण्ठे श्रीपुरेऽपि च ॥ ३३ ॥
कुबेरस्य महाकोशे भूत्वा वम्री तु यक्षिणी ।
तिष्ठते सा धनयक्षिणीति रक्षाकरी तथा ॥ ३४॥
एवं भूत्वा बहुरूपा यथेष्टं रमते हि सा ।
वटाऽधः सूयमानत्वाद् वटसावित्रिका हि सा ॥ ३५ ॥
वटं स्वर्णं तस्य रक्षाकरी सा वटयक्षिणी ।
वृक्षेषु वसमानत्वाद् वार्क्षी वम्री सदाऽभवत् ॥ ३ ६ ॥
वदसावित्रिकाकृच्छ्रं पतिसंयोगद्ं सदा ।
वैधव्यं नैव चायाति वटसावित्रिकार्चने ॥ ३७॥
दारिद्र्यं नैव जायेत वटयक्षिणिकार्चने ।
लक्ष्मीं च सम्पदश्चैव धनं ददाति यक्षिणी ॥ ३८॥
सस्याऽन्नकणधान्यादि वार्क्षी ददाति पूजिता ।
वार्क्षी सर्वत्र वृक्षेषु तिष्ठते रसरूपिणी ॥ ३९ ॥
वटे वृक्षे मानिता या राति लक्ष्मीं ददाति सा ।
वम्री सतीसुता योगक्रियादक्षा स्थले स्थले ॥४० ॥
योगाभ्यासेन गत्वैव ददर्श सर्वसृष्टिषु ।
युगलानि पतिपत्नीकृतानि मानसान्यपि ॥४१ ॥
ईश्वराणां सुराणां च मानवानां च शाखिनाम् ।
दिव्यानि देहयुक्तानि प्रिये! पुण्यात्मकान्यपि ॥४२॥
दृष्ट्वा धर्मं विचार्यैव यौवनं वै पतिं विना ।
स्त्रीणां दोषकरं शुद्धिविहीनं भाति सृष्टिषु ॥४३ ॥
तस्मान्मयाऽपि योक्तव्यं पत्या सह सधर्मिणा ।
इति विचार्य सा वम्री सतीपुत्री सुसुन्दरी ॥४४॥
निषसाद वटाऽधस्ताद् वेद्यां सा मन्दरे गिरौ ।
तावत्तत्पार्श्वतो याता दिव्याः प्रचेतसो दश ॥४५॥
स्वतुल्यान् रूपसम्पन्नान् पुष्टयौवनसंभृतान् ।
पुनस्तत्पार्श्वतो जग्मुः कृत्वा शंकरदर्शनम् ॥४६॥
मनस्तेषु तदा वम्र्याः किञ्चिद्वै स्निग्धता गतम् ।
तानेव संस्मरन्त्यत्र वटे सा व्यग्रमानसा ॥४७॥
शुश्राव दुन्दुभिं चाधिकमासव्रतबोधकम् ।
अद्यैकादशिकापर्व पुण्यदं चाधिमासिकम् ॥४८ ॥
व्रतकर्त्र्या भवेत्स्वेष्टं सिद्धं प्रयत्नमन्तरा ।
पुरुषोत्तम कृष्णोऽहं ददामीष्टं व्रतार्थिने ॥४९ ॥
दुन्दुभिः संवदाम्यत्र साक्षाच्छ्रीपुरुषोत्तमः ।
गृह्णन्तु वरदानं मत् यथेष्टं सुरमानवाः ॥५ ० ॥
नरा नार्यः सुरा देव्यः समायान्तु मदन्तिकम् ।
एकादश्या व्रतपुण्यं ददामि मनसेप्सितम् ॥५ १ ॥
श्रुत्वा वम्री दुन्दुभिं तं प्रति शीघ्रं समाययौ ।
संपूज्य दुन्दुभिं कन्या प्रोवाच दशवारकम् ॥५२॥
पतिं देहि, पतिं देहि, पतिं देहि, पतिं, पतिम् ।
पतिं देहि, पतिं देहि, पतिं देहि, पतिं, पतिम् ॥५३ ॥
श्रुत्वा तथास्त्विति प्रोच्य दुन्दुभिर्निर्ययौ ततः ।
वटं सापि ययौ शीघ्रं यथा जानाति नो सती ॥५४॥
प्रसन्ना तुष्टहृदया वरदानधनान्विता ।
पुनः शुश्राव तं वाद्यं श्रीकृष्णपुरुषोत्तमः ॥५५ ॥
पूजया तोषितः शीघ्रं मानसं पूरयिष्यति ।
श्रुत्वैवं सा वटाऽधस्तात् प्रतिमां पौरुषोत्तमीम् ॥५६॥
विधाय पूजयामास वटपत्रफलादिभिः ।
आवाह्याचमनं कारयित्वाऽऽसनं समर्प्य च ॥५७॥
पाद्यमर्घ्यं ससमर्प्य दध्ना दुग्धेन वारिणा ।
शर्करया मधुना च घृतेनाऽस्नापयद्धरिम् ॥ ५८ ॥
वस्त्रेण मार्जयामास जलान्यंगेभ्य ईश्वरी ।
धौत्रं व्याघ्राम्बरं चोत्तरीयं हस्त्यम्बरं तथा ॥५९ ॥
वटत्वङनक्तकं यज्ञोपवीतं दर्भनिर्मितम् ।
समर्प्याऽऽभरणानीष्टपौष्पाणि फालिकानि च ॥ ६० ॥
सौवर्णानि च रौप्याणि कस्तूरीचन्दनाऽक्षतान् ।
धूपदीपसुनैवेद्यताम्बूलफलचर्वणम् ॥६ १ ॥
आरार्त्रिकं दण्डवच्च प्रदक्षिणां स्तुतिं तथा ।
पुष्पांजलिं समर्प्याऽथ जगौ संकीर्तनं ततः ॥६२॥
मध्याह्नेऽपि तथा सायं निशि प्रपूज्य केशवम् ।
वम्री सजागरं नृत्यं चकार हरिसन्निधौ ॥६३॥
डमरुं वादयमाना किंकिणीशब्दमिश्रितम् ।
गायनं गीतिकायुक्तं मधुरं वै चकार सा ॥६४॥
वनवृक्षाश्च तच्छ्रुत्वा लतास्तृणानि चाययुः ।
स्तबकाश्च समाजग्मुः श्रवणाऽऽकृष्टचेतनाः ॥६५॥
चेतनाऽऽरण्यकाः सर्वे सपक्षाः पक्षवर्जिताः ।
अपि श्रवणसंकृष्टाः समायाता वटस्थलम् ॥६६॥
पुरुषोत्तमदेवस्य पूजाया जलममृतम् ।
प्रासादिकं फलं चान्यत् पत्रं पुष्पादिकं तथा ॥६७॥
ददौ तेभ्यस्तु सर्वेभ्यः पश्चाज्जग्राह वम्रिका ।
सती च शंकरश्चैतद्भागवतप्रपूजनम् ॥६८॥
दृष्ट्वाऽऽश्चर्यं परं प्राप्तौ प्रशंसतुश्च पुत्रिकाम् ।
ददतुश्चाशिषः पुत्रि! यथेष्टं सुखिनी भव ॥६९॥
वैष्णवी भव कल्याणि! वनसौख्यकरी भव ।
तापसी ब्रह्मशक्तिश्च पुमुत्तमप्रिया भव ॥७ ०॥
पूज्या वटस्थिता मान्या वृक्षरसप्रदा भव ।
इत्याद्याशीर्वचनैस्तां योजयामासतुः शिवौ ॥७१॥
अथैवं पूजनं कृत्वा कृत्वा विसर्जनं हरेः ।
वटवेद्यां निषसाद समाजं विनिवृत्य सा ॥७२॥
तावत्तत्र समायातो दिव्यरूपधरः पुमान् ।
रूपानुरूपायऽवयवः कोटिशंभुसमोज्ज्वलः ॥७३॥
चन्द्राननसुशोभाढ्यो युवा योग्यो वरो यथा ।
प्रहस्य तां समाकृष्य प्रियेत्याह सकौस्तुभः ॥७४॥
वम्री नम्रमुखी भूत्वा ज्ञात्वा श्रीपुरुषोत्तमम् ।
पतिता पादयोस्तस्य चक्रपद्मधरस्य वै ॥७५॥
वद् देवि! व्रतेनाऽस्मि प्रसन्नः पुरुषोत्तमः ।
वरं ब्रूहि ददाम्यत्र यत्ते मनसि वर्तते ॥७६॥
वम्री तु पादयोर्नत्वा जलं धृत्वा मुखे तदा ।
रजश्च मस्तके कृत्वा स्तने कृत्वा पदाम्बुजम् ॥७७॥
कण्ठोपरि करौ स्थाप्य मनो दत्वा हृदम्बरे ।
नेत्रे तु नेत्रयोः कृत्वा गृहीत्वा पुरुषोत्तमम् ॥७८॥
पत्नीं भार्यां तव दासीं गृहाणेत्यवदत्तु सा ।
परं भावं हरिर्ज्ञात्वा तथास्त्वित्याह माधवः ॥७९॥
परं प्राह च तां वम्रीं स्मर पूर्वं तवाऽर्थितम् ।
सन्निधौ मे दुन्दुभेस्तु दशवारं पतिं पतिम् ॥८०॥
एकोऽहं ते पतिर्भाव्यः साक्षाच्छ्रीपुरुषोत्तमः ।
भव दिव्यस्वरूपा त्वं समागच्छ मया सह ॥८ १ ॥
अक्षरे परमे धाम्नि मम पत्नी तु शाश्वती ।
भवाऽथ मानसी पुत्री सतीसेवा परा सदा ॥८२॥
वटसावित्रिका नित्यं सन्तिष्ठाऽत्र कुमारिका ।
रुद्रपुत्री वटयक्षिणीति द्रव्याधिरक्षिका ॥८ ३ ॥
खनिष्वपि पृथिव्यां त्वं तिष्ठ रुद्रीस्वरूपिणी ।
स्मर प्रचेतसो दृष्ट्वा मनस्ते स्निग्धता गतम् ॥८४॥
अतस्ते पतयो भाव्या दश प्रचेतसोऽमलाः ।
किन्तु नानेन देहेन तव योग्या हि ते मताः ॥८५॥
तस्माद् वृक्षैरर्थितासि ये येऽत्र पूजनावधौ ।
उपस्थिताश्च तेषां त्वं पुत्री भव प्रिये! तथा ॥८ ६॥
ममाऽऽज्ञयाऽभिधानं ते वार्क्षी भविष्यति ध्रुवम् ।
वृक्षपुत्री भव देवि दशधा रूपधारिणी ॥८७॥
शृणु त्वां कथयाम्यत्र तत्तद्रूपाणि संकुरु ।
वृक्षाः, स्तम्बाश्च, सस्यानि, शाकानि च, तृणानि च ॥८८ ॥
नलाश्च, वल्लयश्चैव, दण्डाः, पत्राणि, कन्दकाः ।
दशस्वेतेषु पितृत्वं स्वीकृत्य दशधा भव ॥८९ ॥
सशाखफलमात्रेषु ह्यशाखपुष्पमात्रके ।
सशाखपुष्पमात्रेषु ह्यशाखफलमात्रके ॥ ९० ॥
सशाखफलपुष्पेषु ह्यशाखफलपुष्पके ।
सशाखाऽफलपुष्पेषु ह्यशाखऽफलपुष्पके ॥९ १ ॥
सशाखपत्रमात्रेषु ह्यशाखपत्रमात्रके ।
पुत्री भूत्वा रसान् देहि दशपुत्र्यो भवन्तु वै ॥ ९ २॥
इत्युक्त्वा भगवान् कृष्णनारायणोऽतिभावतः ।
वम्रीरूपं धामयोग्यं कृत्वा नीत्वा ययौ मुदा ॥ ९३ ॥
एकं पुत्रीस्वरूपं तु स्थितं वम्र्याः सतीकृते ।
अपराणि च रूपाणि वृक्षकन्याः सुयौवनाः ॥९४॥
निष्पन्नास्तास्तदा निन्युर्वृक्षा विभिन्नजातयः ।
तैः प्रदत्ताः प्रचेतोभ्यो दशभ्य एव धर्मतः ॥ ९५॥
सर्वत्र रसदायिन्यः फलदायिन्य एव ताः ।
नारदस्योपदेशेन प्रचेतसां तु मोक्षणे ॥९६॥
वार्क्षीणामपि मोक्षो वै भविष्यति न संशयः ।
एकादशीव्रतं त्वेवं कृत्वा वम्री सतीसुता ॥ ९७॥
प्रपेदे परमं धाम तन्वा ब्राह्म्या हि शाश्वतम् ।
पुरुषोत्तमपत्नीत्वं प्राप्ता यथेष्टसौख्यदम् ॥ ९८॥
देव्यो वम्र्यस्तथा वार्क्ष्यो जाताः कृपाकणाद्धरेः ।
देव्यो वम्र्यस्तु रूद्रस्य वेद्यां प्रथमजा वरे ॥ ९९ ॥
मखस्य देवजयने बभूवुः समिधो भुवि ।
श्रावणात्पठनाच्चास्यैकादश्या व्रतजं फलम् ॥ १०० ॥
लभते वाचयेद् यः स धनधान्यसमृद्धिमान् ।
भुक्तिं मुक्तिं च लभते पुरुषोत्तमतोषणात् ॥ १०१ ॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये सतीरुद्रयोर्मानसपुत्र्या योगिन्या वम्र्याऽधिकमासैकादशीव्रतकरणेन स्वेष्टब्रह्माऽक्षर-धामयोग्यब्राह्मीतनुर्लब्धा, रूपान्तरैर्दशप्रचेतःपत्नीत्वं - वृक्षकन्यात्वं चेत्यादिनिरूपणनामाऽष्टा-दशाऽधिकत्रिशततमोऽध्यायः ॥ १.३१८ ॥