लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१६
[[लेखकः :|]]
अध्यायः ३१७ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! नवम्याश्चाधिकमासाऽन्तितमे दले ।
व्रतस्य पूर्वकल्पीयां कथां पापप्रणाशिनीम् ॥ १ ॥
 पूर्वात् पूर्वतरे कल्पे बभूवेन्द्रो द्युमेरुजित् ।
सायं तस्य लये जाते पुण्यशेषेण वै पुनः ॥ २ ॥
 सत्यलोके निशां भुक्त्वा कल्पाऽऽरंभे प्रगे तु सः ।
सृष्टौ त्रेतायुगे चाद्ये सम्राट् शतमखोऽभवत् ॥ ३ ॥
 दानधर्मदयायुक्तो लोकरक्षणतत्परः ।
देवदानवमर्त्यानां मानकृद् विजितेन्द्रियः ॥ ४ ॥
 व्योमयानेन विहरन् त्रिलोक्यां विचचार सः ।
गोभूतीर्थद्विजन्यासिसतीसाधुप्रपूजकः ॥ ५ ॥
 यस्य हस्ततले वज्रच्छत्रखङ्गांककानि वै ।
विद्योतन्ते स्म दिव्यानि देवत्वावेदकानि वै ॥ ६ ॥
 तस्य पत्नी महाराज्ञी द्युवर्णाऽभूत् पतिव्रता ।
पतिसेवापरा नित्यं देवसेवापरा तथा ॥ ७ ॥
 आतिथ्यधर्मिणी दीनाऽनाथदारिद्यनाशिनी ।
कन्यानामुन्नतिकर्त्री सदा स्त्रीजातिरक्षिका ॥ ८ ॥
 गान्धर्व्यो नागकन्याश्च देव्यो दानव्य एत्य च ।
किन्नर्यश्चापि मानुष्यः शिक्षार्थं स्म वसन्ति वै ॥ ९ ॥
 सावित्री चापि गायत्री संज्ञा स्वाहाऽप्यरुन्धती ।
महेन्द्राणी सती लक्ष्मीः रोहिणी पार्वती स्वधा ॥ १० ॥
 प्रभा च माणिकी श्रीश्च जया भक्तिर्दिशस्तथा ।
अन्या नद्यः कृत्तिकाद्यास्तस्याः सख्योऽभवँस्तदा ॥ १ १॥
 चम्पा दया रमा हेम्नी मुक्ता गोदा जयन्तिका ।
शान्तिः शान्ता प्रेमपात्रा दीपोत्सवी च नन्दिनी ॥ १२॥
 ओजस्वती सुरत्ना च दमयन्ती चतुर्मतिः ।
देविका कान्तिका रेवा सविता मूलयोगिनी ॥ १३॥
 कस्तूरिका मंगला च हंसा रुचिश्च मंजुला ।
निर्मला चामृता रालिजटिनी पानपुत्तली ॥ १४॥
 वनिता मिष्टिका पुष्पा मनुः कृष्णा च दासिकाः ।
कान्ता सरस्वती पद्मा शारदा उपदासिकाः ॥ १५॥
 कल्पद्रुमाश्च मणयः कामधेनव इष्टदाः ।
कल्पवल्ल्योऽभवंस्तस्या राज्ये प्राग्ज्योतिषाह्वये ॥ १६॥
 एवं शतमखो राजा राज्ञी द्युवर्णिका तथा ।
स्त्रीनरौ राज्यधर्मेण वर्तेते स्म भुवस्तले ॥ १७॥
 दैवयोगेन तद्राज्यमभूच्छीताद्रिदुर्गवत् ।
राजधानी कृता ताभ्यां साकेता सरयूमनु ॥ १८॥
 प्रधानं रक्षकं कृत्वा यात्रार्थं कृतनिश्चयौ ।
ततस्तौ संप्रयातौ वै बद्रीयात्रार्थमादरात् ॥ १९॥
 परिमेयचरचारभृत्यदासीजनौ शुभौ ।
तीर्थस्य नियमान्सर्वान्पालयन्तौ प्रजग्मतुः ॥२० ॥
 प्रातः स्नानं ब्रह्मचर्यं सत्यव्रतं फलादनम् ।
भूशायित्वं परित्यक्तशृंगारासनादिकम् ॥२१॥
 अहिंसनं परिवादराहित्यं मालिकाजपम् ।
रागद्वेषविहीनत्वं दानं देवादिपूजनम् ॥२२॥
 तीर्थवृद्धार्चनं तीर्थगुरुसाहाय्यकारिताम् ।
गोदर्शनं हरेः पादामृतपानं कथाश्रवम् ॥२३॥
 विषयाणां परित्यागं साधुवद्वर्तनं तथा ।
रात्रौ नारायणध्यानं दिवा तीर्थाटनं शुभम् ॥२४॥
 सायं नीराजनास्तोत्रकीर्तनस्मरणादिकम् ।
जंगमान्स्थावरान्प्रत्यनुद्वेजनं तितिक्षणम् ॥२५॥
 पालयन्तौ तापसौ तौ भूत्वा बदरिका गतौ ।
देवनद्यां तदाचम्य स्नात्वा पीत्वा जलं ततः ॥२६॥
 ददृशतुर्मुनींस्तीर्थात्मकाँस्तीर्थानि चांजसा ।
नरनारायणौ दृष्ट्वा पूजां कृत्वोपचारकैः ॥२७॥
 साधुविप्रानतिथींश्च भोजयामासतुस्तदा ।
राज्ञा राज्ञ्या नरनारायणयोस्तोषणाय वै ॥२८॥
 तत्रैव तु कृतं नृत्यं गायनं मूर्तिसन्निधौ ।
अर्पितं कानकच्छत्रयुगलं मुकुटद्वयम् ॥२९॥
 युगकुण्डलयुगलं चामराणां चतुष्टयम् ।
यष्टिकायुगलं हाराश्चोर्मिकाविंशतिस्तथा ॥३० ॥
 कटकद्वययुगलं शृंखलारशनाद्वयम् ।
पादुकाद्वययुगलं तथा सिंहासनद्वयम् ॥३ १ ॥
 दक्षिणा भूयसी चैव स्वर्णपात्रोत्तमानि च ।
वल्कलाऽजिनवस्त्राणि फलानि दैशिकानि च ॥३२॥
 समर्पितानि सर्वाणि तव स्व इति शब्दितम् ।
पादौ स्पृष्टौ जलं पीतं चरणामृतमित्यपि ॥३३॥
 स्वर्णमालापादयोश्चार्पिता नरनरेशयोः ।
चन्दनादिसुवस्त्वाद्यैः पूजितौ परमेश्वरौ ॥३४॥
 आशीर्वादास्तदा लब्धा पुत्रवान् भव पार्थिव! ।
राज्ञी पुत्रवती भूयादिति श्रुत्वा प्रशं गतौ ॥३५॥
 तावत्तत्राऽधिकमासनवम्यां प्रातरेव ह ।
संश्रुतो दुन्दुभिः सम्यङ्मनोवाच्छाप्रपूरकः ॥३६॥
 अद्य व्रतं प्रकुर्वन्तु गृह्णन्तु वाञ्च्छितं फलम् ।
पुरुषोत्तममासोऽयं फलदः पुरुषोत्तमः ॥३७॥
 हृदि स्थितान् शुभान् कामान गृह्णन्तु पुरुषोत्तमात् ।
मां च धाम विभूतिं च दास्ये स्मृद्धिं व्रतार्थिने ॥३८॥
 अगम्यं बुद्धिगम्यं स्यादलभ्यं लभ्यमेव च ।
अतर्क्यं चापि तर्क्यं स्यान्नवमीव्रतकारिणः ॥३९॥
 सर्वसंकल्पसिद्धिः स्यात् प्राप्तिः पुमुत्तमस्य च ।
दुन्दुभिश्चेत्यभिधाय दृष्ट्वा नरं नरेश्वरम् ॥४० ॥
 पूजयित्वा ऋषिवर्यौ जगामोत्तरदिग्भुवम् ।
दम्पती प्रसमाकर्ण्य ध्यात्वा नरनरेश्वरौ ॥४१ ॥
 तल्लीनौ चाऽभवतां द्राङ् नरो नारायणस्तदा ।
तयोर्हृदोर्ददृशाते दिव्यरूपौ सुशोभनौ ॥४२॥
 मनोहरौ मञ्जुवाक्यौ मञ्जुलकेशसज्जटौ ।
पुष्टौ युवानौ दिव्यौ च तापसौ श्रीनिषेवितौ ॥४३ ॥
 मुनिभिर्वन्दितपादौ वैकुण्ठवासिनावुभौ ।
राजभवनयोग्यौ तौ लालनपालनार्हणौ ॥४४॥
 पद्मपत्रायतनेत्रौ सुचन्द्रास्यौ गुणालयौ ।
घनश्यामौ हृदयंगमौ मनोज्ञसुन्दरौ ॥४५॥
  वीक्ष्य संकल्पितं पुत्रावीदृशौ भवता तु नौ ।
अथ ध्यानाद् बहिर्यातौ राज्ञीनृपौ विलोक्य च ॥४६॥
 नरनारायणः प्राह संकल्पः फलतात्तु वाम् ।
श्रुत्वा तृप्तौ चाति जातौ तीर्थविधिं विधाय तौ ॥४७॥
 निवर्तितौ ततः स्थानादाययतुर्नदीतटे ।
आचम्य कानकीं मूर्तिं स्नात्वा पुपूजतुस्तदा ॥४८॥
 गंगाजलैर्हरिं तौ संस्नाप्य प्रमृज्य चाम्बरैः ।
पञ्चामृतं समर्प्यथाऽभिषेकं चक्रतुर्जलैः ॥४९॥
 संप्रमृज्य सुवस्त्राण्याभूषणानि समर्प्य च ।
शृंगारशोभां संक्लृप्त्वा धूपदीपौ समर्प्य च ॥५० ॥
 चन्दनाऽक्षतकुंकुमकज्जलद्रवसारकैः ।
सुगन्धयित्वाऽऽरार्त्रिकं कारयामासतुस्ततः ॥५१ ॥
 भोजयामासतुर्देवं वर्धयामासतुः स्तवैः ।
पुष्पांजलिं समर्पयामासतुश्च फलादिकम् ॥५२॥
 ताम्बूलचर्वणं दत्वा याचयामासतुः क्षमाम् ।
एवं सूर्योदयात् पश्चात् पञ्चघटीगते पुनः ॥५३॥
 समये चापि तौ कृत्वा स्नानार्चनस्तवादिकम् ।
नैवेद्यपानताम्बूलदक्षिणादिसमर्पणम् ॥५४॥
 ऋषिदेवक्षितिदेवभोजनं दक्षिणां तथा ।
निर्वर्त्याऽर्घ्यं कुसुमानामञ्जलिं चाऽक्षताँस्तथा ॥५५॥
 दत्वा स्तुतिं चक्रतुश्च विसर्जनं प्रचक्रतुः ।
एवं प्रपूज्य देवेशं श्रीकृष्णपुरुषोत्तमम् ॥५६ ॥
 नरं नारायणं नत्वा तीर्थविधिं समाप्य च ।
पूर्वं मध्याह्नसमयाद् राजधानीं नवीकृताम् ॥५७॥
 विमानेन समागत्य साकेतां सरयूमनु ।
उद्याने महती सौधे वृक्षवल्लीसुशोभिते ॥५८॥
 मण्डपं कारयामासतुस्तौ स्वर्णादिशोभितम् ।
कलशैर्हारशृंगारैर्वस्त्रभूषाध्वजादिभिः ॥५९॥
 शोभितं रंगवल्लीभिः सिक्तं गन्धजलादिभिः ।
वह्निकुण्डसमायुक्तं वेदिकासुविराजितम् ॥६ ०॥
 कटपर्यंकबृसिकासूर्णास्तरणशोभितम् ।
कम्मानिकातोरणाढ्यं कदलीस्तंभसंधृतम् ॥६ १॥
 आदर्शचन्द्रकडंका निशान भेरिकाऽऽनकैः ।
जलतरंगयन्त्रैश्च शीतवायुप्रवाहकैः ॥६२॥
 शोभितं मण्डितं चित्रैरवतारसुरादिभिः ।
जलस्थलव्यत्ययेन दृष्टिर्जालैर्विलक्षितम् ॥६३॥
 दूरश्रवणयन्त्रैश्च दूरदर्शनदर्पणैः ।
दूरग्रहणसिद्ध्याद्यैरलंकृतं विमानवत् ॥६४॥
 तत्र मण्डपमध्ये तु सहकारतरू कृतौ ।
पार्श्वकोणेषु चत्वारोऽशोकवृक्षा विनिर्मिताः ॥६५॥
 शाखासु दिव्यदोला च बन्धयामासतुश्च तौ ।
तत्र मूर्तिमयान्देवान् शृंखलासु तु देविकाः ॥६६॥
 संक्लृप्तयामासतुश्च कोमलास्तरणानि च ।
तत्र मूर्तिं कानकीं वै पुरुषोत्तमरूपिणीम् ॥६७॥
 आरोप्याऽऽन्दोलयामासतुश्च राज्ञी नृपस्तथा ।
तत्र देवस्य निकषा सर्वतोभद्रमण्डलम् ॥६८॥
 सप्तधान्यैः स्बर्णरत्नहीरकादिसुमिश्रितम् ।
रचयामासतुर्मध्ये सुवर्णकलशं शुभम् ॥६९॥
 पंचरत्नजलपुष्पफलद्रव्याम्बरान्वितम् ।
स्थापयामासतुस्तस्योपरि स्थालीं तिलान्विताम् ॥७०॥
 श्रीफलमुद्रिकायुक्तां धारयामासतुस्ततः ।
स्वर्णमूर्ति द्वितीयां श्रीपुरुषोत्तमसंज्ञिताम् ॥७१ ॥
 तत्स्थाल्यां स्थापयामासतुश्च षोडशवस्तुभिः ।
पूजयामासतुरारार्त्रिकं चक्रतुरादरात् ॥७२॥
 नृत्यगीतानि तत्रैव कारयामासतुस्तदा ।
होमं त्वग्नौ कुण्डमध्ये कारयामासतुस्तथा ॥७३॥
 भोजयामासतुर्विप्रान्देवान्साध्वीः सतस्तथा ।
दीनाऽनाथाऽबलावर्गान्दरिद्रान् भिक्षुकादिकान् ॥७४॥
 दक्षिणा दापयामासतुश्च पुष्पाऽक्षताऽञ्जलीन् ।
अर्पयामासतुर्यावत् तावत्तत्र - सुमण्डपे ॥७५॥
 दिव्यरूपो युवा नूत्नजीमूतवर्णसुन्दरः ।
श्यामलः सजटो देवः सानुजः समदृश्यत ॥७६॥
 मध्याह्नसमये दिव्यो मूर्तो वै पुरुषोत्तमः ।
दिब्यतेजःपरिध्याढ्याननहास्यसुरञ्जनः ॥७७॥
 दिव्यनेत्रस्नेहपूर्णः पुष्टः पुष्टानुजान्वितः ।
पीताम्बरधनुश्चर्मखड्गशंखजटाधरः ॥७८॥
 सुवर्णमुकुटाढ्यश्च सुवर्णकुण्डलान्वितः ।
आशीर्वादपरहस्तः सेवाकृपाढ्यमानसः ॥७९॥
 स्थितिवाञ्च्छाभिसंचेष्टश्चारामशान्तिदः प्रभुः ।
आरामे मण्डपे जज्ञे मध्यादित्यसमुज्जलः ॥८०॥
 रामादित्येत्यनुजेनाऽऽहूतस्तत्र मुहुर्गिरा ।
रमन्ते योगिनो यत्राऽऽदित्योज्ज्वलपरेश्वरे ॥८ १ ॥
 रामादित्यो ह्ययं शातमखी जातोऽत्र केशवः ।
अयं रामावतारो वै प्रथमः परिकीर्तितः ॥८२॥
 दृष्ट्वा तं जातमात्रं च युवानं केशवं प्रभुम् ।
आश्चर्यचकितौ राज्ञी राजा चोभौ बभूवतुः ॥८३॥
 रामस्तु भगवान् दिव्यौ पितरौ प्राह तोषणात् ।
प्रसन्नोऽस्मि वरं याचत यथेष्टं ददाम्यहम् ॥८४॥
 मूर्तिरूपेण सेवा वामंगीकृता मया ततः ।
प्रादुर्भूय वरं दातुं प्रत्यक्षोऽस्मि पुमुत्तमः ॥८५॥
 यो बदर्यां हरिर्दृष्टो नरेण सह तापसः ।
हृदि यौ ददृशाते च दिव्यरूपी सुशोभनौ ॥८६॥
 सोऽहं त्वत्र समायातः स्वभ्रात्रा पुरुषोत्तमः ।
नरादित्यो मम भ्राता तापसोऽपि मया सह ॥८७॥
 दातुं नैजं दर्शनं चात्रागतोस्ति कृपावशः ।
प्रवृणुत वरदानं मा चिरं न्वेष याम्यहम् ॥८८॥
 इति श्रुत्वा शतमखो नृपो राज्ञी द्युवर्णिका ।
बभूवतुश्चातिसंभ्रमौ संव्यग्रमानसौ ॥८९॥
 वन्दन्तौ तिष्ठतं तिष्ठतं मा यातं न गच्छतम् ।
सर्वदा ददतं त्वत्र दर्शनं भवने प्रभू ॥९०॥
 दर्शनीयौ कमनीयौ प्राप्स्येथे न पुनर्हरी ।
गृह्णीतं भोजनं रम्यं पेयं ताम्बूलमर्चनम् ॥९१॥
 रमतं सर्वदा त्वत्रोद्याने ददतमीप्सितम् ।
वत्सौ किं वर्तते शैघ्र्यं यातं मा पुत्रकौ मम ॥९२॥
 इत्युक्त्वा राजमहिषी निसर्गस्नेहसंभृता ।
सुतौ द्वौ निकटे कृत्वा स्पृष्ट्वा नेत्रजलाऽभवत् ॥९३॥
 स्नुतदुग्धस्तनी जाता त्यक्तुं नोत्सहते स्म सा ।
राजाऽपि प्रेमपूर्णांगश्चाऽन्येऽपि मुमुहुर्हरौ ॥९४॥
 भगवन्तौ प्राहतुश्च तथास्त्विति सुमण्डपे ।
क्षणं बालौ तदा जातौ स्तन्यपानकरावुभौ ॥९५॥
 द्युवर्णा तां पाययित्वा स्तन्यं प्राप्ता कृतार्थताम् ।
रामादित्यनरादित्याभिधपुत्रवती सती ॥९६॥
 सुखिनी संबभूवाऽत्रानन्दोत्सवो महाँस्तदा ।
रामाविर्भावरूपो वै मध्याह्ने भूभृता कृतः ॥९७॥
 ब्रह्मविष्णुमहेशाश्च मुनयः सनकादयः ।
नारदाद्याश्च ऋषयो भक्ता वैकुण्ठवासिनः ॥९८॥
 सत्यलोकादिवसतिः स्वर्गदेवाश्च मानवाः ।
पातालादिस्थिताश्चान्ये जडाश्च चेतनाः प्रजाः ॥९९॥
 तीर्थानि सरितः शैला अरण्यानि वनानि च ।
कल्पाश्च पादपाश्चिन्तामणयः कामधेनवः ॥ १०० ॥
 तत्रोत्सवे समायाता मन्त्रा वेदाश्च वित्तयः ।
तत्त्वानि चेतरा सर्वे ब्रह्मपुत्राश्च मानसाः ॥ १० १॥
 पितरो देवराजाश्च पार्थिवा लक्षकोटयः ।
समायाता नवम्यां वर्धयितुं चाशिषाऽऽशिषा ॥ १० २॥
 अधिमासाऽपरपक्षनवम्यां मध्यगे रवौ ।
रामादित्यजयन्त्यां ते राम वीक्ष्य नरं तथा ॥ १० ३॥
 कृतार्थाश्चाऽभवन् लब्ध्वा सत्कारं भोजनादिकम् ।
रामप्रसन्नतां प्राप्य चक्रुर्गानं सुनर्तनम् ॥ १ ०४॥
 दानं शतमखः कोट्यर्बुदानि च गवां ददौ ।
वर्धका लोकपालाश्च दिक्पालाश्च सुरादयः ॥ १ ०५॥
 ययुर्निजस्थलं सर्वे स्वस्वलोकान् ययुर्जनाः ।
मध्याह्नपूजनं राज्ञ्या नृपेण तत्र मण्डपे ॥ १०६॥
 समाप्तं वै कृतं तद्वत् सायं निशि प्रपूजनम् ।
रात्रौ जागरणं चाथ प्रातः स्नानादिकं कृतम् ॥ १ ०७॥
 मूर्तेः संपूजनं पात्रभोजनं दक्षिणादिकम् ।
कृतं सर्वं सुविधिना व्रतं पूर्णं कृतं ततः ॥ १०८॥
 पारणा च कृता तेन पत्न्या सह सुपुत्रिणा ।
आनन्दः समभूत् तस्याऽतर्क्यो वै नवमीतिथेः ॥ १ ०९॥
 पुरुषोत्तममासस्य व्रतेन पुत्रदायिना ।
इति ते कथितं लक्ष्मि! व्रतानामुत्तमं व्रतम् ॥ ११ ०॥
 रामादित्यजयन्त्याख्यं व्रतपुण्यं महत्तमम् ।
इदं प्राग्रामचरितं पठेत् संशृणुयात्तु यः ॥ १११ ॥
 श्रावयेत्परया भक्त्या स भवेद् व्रतपुण्यभाक् ।
स्वेष्टं लभेल्लभेद्राज्यं लभेत् पुत्रं धनादिकम् ॥ १ १२॥
 लभेत् तीर्थफलं चापि साकेतसरयूकृतम् ।
लभेच्च बलवत्पुत्रं पुरुषोत्तमसन्निभम् ॥ १ १३॥
 भुक्तिं मुक्तिं सुखं स्वर्गं धाम वैकुण्ठमित्यपि ।
यद्यदिष्टं लभेत् सर्वं कृपया परमात्मनः ॥ १ १४॥
 इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये साकेतनगर्याः शतमखराज्ञः द्युवर्णा राज्ञ्याश्च बदरिकाश्रमयात्रायां नरनारायणदर्शनो-त्तरं द्वितीयपक्षनवमीव्रतकरणेन साकेतनगर्यां श्रीरामादित्यनरादित्यनामानौ प्रथमौ पुरुषोत्तमा-वतारौ दिव्यपुत्रौ बभूवतुरित्यादिनिरूपणनामा षोडशाधिकत्रिशततमोऽध्यायः ॥१.३१६॥