लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९०
[[लेखकः :|]]
अध्यायः २९१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा क्रुद्धा स्वेष्टसिद्ध्यै तु मोहिनी ।
अत्याग्रहं चकाराऽस्य राज्ञो वाग्दानपूरणे ।। १ ।।
कोपसंरक्तनयना भर्तारं प्रत्यभाषत ।
करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि ।। २ । ।
त्वया ममाऽर्पितः पाणिर्वरदानाय भूपते ।
चेन्न दास्यसि कृतकृत्या यास्ये सर्वं मयाऽर्जितम् ।। ३ ।।
न चाहं ते प्रिया पत्नी न च त्वं मे पतिः प्रियः ।
धिक् त्वां द्विभाषिणं धर्मवचोलोपकरं नरम् ।। ४ । ।
सत्याच्चलितमद्य त्वां त्यक्ष्ये स्वार्थपरायणम् ।
इत्युक्त्वा सत्वरं तन्वी प्रस्थिताऽधोमुखी रुषा । । ५ । ।
तदानीं पितृभक्तोऽत्र रुक्मांगदसुतः स्वयम् ।
धर्मांगदो जनन्या वै सम्मुखोऽभून्ननाम ताम् ।। ६ ।।
नम्रः प्रोवाच तां देवि! कथं रुष्टा पितुः प्रिये ।
प्रस्थानं तु न ते योग्यं मातर्योग्यं वदाम्यहम् । । ७ ।।
धर्मांगदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ।
पिता तवाऽनृती पुत्र हस्तो येनाऽन्यथाकृतः ।। ८ ।।
येन कृतं सुकृतं वै ध्वजांकुशांऽकितेन तु ।
तद्धस्तं च मम हस्ते विन्यस्य यद्वचोऽर्पितम् ।। ९ ।।
न करोत्येष ते जन्मपिता किं प्रवदाम्यहम् ।
न मया त्वत्र वस्तव्यं ह्यनृतार्थप्रतारिषु ।। 1.290.१० ।।
न याचे कांचनं धान्यं हस्त्यश्वं ग्रामवाससी ।
येन तस्य भवेद्धानिस्तादृग् याचे न वै सुत ।। ११ ।।
येनाऽसौ प्रीणयेद् देहं पत्नीं मां नवयौवनाम् ।
तन्मया प्रार्थितं पुत्र सोऽयं मोहान्न यच्छति ।। १२।।
तस्य ममोपकाराय याचितो नृपसत्तमः ।
सुखहेतोः पुष्टिहेतोस्तच्चापि नो करोत्ययम् ।। १३।।
सुखच्युतं च्युतं सत्यात् त्यक्त्वा यामि सुखालयम् ।
तच्छ्रुत्वा मोहिनीं नत्वा ततो धर्मांगदोऽब्रवीत् ।। १४।।
दिव्यमातर्निवर्तस्व करिष्येऽहं तवेप्सितम् ।
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः ।। १५।।
वैवस्वतगृहं येन कृतं शून्यं हरेर्बलात् ।
कीर्तिः प्रकाशते यस्य व्याप्य ब्रह्माण्डकोटिषु ।। १६।।
मत्पिता स कथं मयि जीवति ह्यनृती भवेत् ।
ममोपरि दयां कृत्वा निवर्तस्व शुभं भवेत् ।। १७।।
एतद्धर्मांगदवाक्यमाकर्ण्य स्वेष्टलालसा ।
न्यवर्तत ततः प्राह तातं धर्मांगदः सुतः ।। १८।।
तातैषा जननी मेऽद्य त्वां वदत्यनृती त्विति ।
कस्मात्त्वमनृती भूप भविष्यसि मयि स्थिते ।। १९।।
प्रदेहि सकलं त्वस्यै यत् त्वया समयीकृतम् ।
अहं दासस्तव राजन् विक्रीयतां तृणाय माम् ।।1.290.२०।।
देव्यै ददस्व चेदिच्छेज्जीवितं मे ऋती भव ।
कीर्तिनाशो महान्नाशो न नाशः सुतयोषितोः ।।२ १ ।।
कीर्तिलाभो महान् लाभो न लाभः सुतयोषितोः ।
धर्मांगदवचः श्रुत्वा रुक्मांगद उवाच तम् ।। २२।।
कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ।
यामि वा निरयं त्वन्धं कथं भोक्ष्ये हरेर्दिने ।।।२ ३ ।।
यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसंज्ञिताम् ।
तथापि नैव कर्ता स्यां भोजनं तु हरेर्दिने ।।२४।।
व्रतार्थं दुन्दुभिर्वक्ति वितथो न स मे भवेत् ।
अभक्ष्यभक्षणं कृत्वा किं जीवेच्छरदां शतम् ।।२५ ।।
असत्यं भवतु प्रोक्तं न भोक्ष्ये हरिवासरे ।
धिक्कृतोऽपि जनैस्त्वत्र मोहिन्या रहितोऽपि वा ।।२६ ।।
यदि चेन्मरणं मेऽस्ति न भोक्ष्ये हरिवासरे ।
कथं हर्षमहं कुर्यां दृष्ट्वा याम्यपुरं गतान् ।।२७।।
यास्तु शून्याः कृताः पुत्र मया नरकपंक्तयः ।
जनैः पूर्णा भवेयुस्ता भुक्ते मयि हरेर्दिने ।। २८ ।।
भोजनं वासरे विष्णोः कारयित्वापि ते प्रसूः ।
याचते यमराजस्य क्षेत्रं पूरयितुं खला ।। २९ । ।
तन्न दास्यामि मोहिन्यै देवैः शाठ्यमिदं कृतम् ।
शठा चेयं शठा देवाः शठे शाठ्यं प्रकल्पयेत् ।।1.290.३० ।।
पिबेद्विषं विशेद्वह्निं निपतेत् पर्वताग्रतः ।
स्वस्याः छिन्द्याच्छिरश्चापि न भोक्ष्येऽहं हरेर्दिने ।। ३१ ।।
मोहिनी मरणं यातु यथेष्टं वा प्रगच्छतु ।
नाहं भोक्ष्ये हरेरह्नि जन्ममृत्युहरे व्रते ।। ३ २।।
एकादश्युपवासेन यन्मया पुण्यमर्जितम् ।
संचितं च यशस्तद्वै भुक्त्वा विनाशये कथम् ।। ३३ ।।
स्वपितुर्वचनं श्रुत्वा धर्मांगदोऽतिधार्मिकः ।
सन्ध्यावलीं तदा प्राह मोहिनीं परिसान्त्वय ।। ३४।।
यथा न च्यवते सत्याद् यथा भुंक्ते न मे पिता ।
तथा विधीयतां यत्र कुशलं तूभयोर्भवेत् ।। ३५ ।।
पुत्रवचस्तु सा श्रुत्वा मोहिनीं प्राह पूर्वजा ।
अनुवर्तस्व राजानं माऽऽग्रहं कुरु पापके ।। ३६ ।।
नाऽऽस्वादयति राजाऽन्नं संप्राप्ते हरिवासरे ।
कामं वरय सत्यस्थे वरमन्यं सुदुर्लभम् ।। ३७।।
कनिष्ठाया वरिष्ठाऽहं करिष्ये पादवन्दनम् ।
पत्युरर्थे परिणीता करोमि मस्तकार्पणम् ।। ३८ ।।
परिणीता तु नासि त्वं कुतोऽन्यथेदृशाग्रहः ।
वाचा शपथदोषैश्च सन्निरुध्यं प्रतार्य या ।। ३९ ।।
कारयेत् पतिमकृत्यं सा पापा नरकं व्रजेत् ।
च्युता च नरकात्सप्त पञ्च जन्मानि शूकरी ।।1.290.४० ।।
ततो भवति चाण्डाली ततश्च काष्ठिला भवेत् ।
ततश्छुछुन्दरी स्याच्च ततः काकी शृगालिका ।।४ १ ।।
गोधा भूत्वा ततः सा वै गोत्वे नैव प्रशुद्ध्यति ।
विपक्षस्यापि भगिनि! सद्बुद्धिदानमुत्तमम् ।।४२।।
येन श्रेयः परं स्याद्वै सुखं सुखयितुः सदा ।
सन्ध्यावलीवचः श्रुत्वा मोहिनी प्राह मानवः ।।४३ ।।
माननीयाऽसि मे ज्येष्ठे करोमि वचनं तव ।
यदि चेन्नाचरेद् राजा भोजनं हरिवासरे ।।४४।।
कुरुष्व त्वपरं देवि मरणादधिकं तव ।
ममापि दुःखदं त्वेतद् राष्ट्रस्यापि प्रशोककृत् ।।४५।।
कस्येष्टं मरणं देवि! कस्याऽनिष्टं च जीवनम् ।
दैवाऽऽविष्टो जनः सर्वोऽनिष्टं चापि करोति वै ।।४६।।
चतुर्वर्गच्युतं घोरं यशोभाग्यविनाशकम् ।
कर्मरेखाप्रभग्नो वै करोत्यशुभकर्म तत् ।।४७।।
साऽहं पापदुराचारा व्रतकामा सनिर्घृणम् ।
यादृग्भावान्वितं बीजं तादृशी जायते क्रिया ।।४८ ।।
यादृशेन तु भावेन योनौ शुक्रं समुत्सृजेत् ।
तादृशेन तु भावेन सन्तानं संभवेदिति ।।४९।।
साऽहं रुक्मांगदनाशभावेन ब्रह्मणा कृता ।
दुष्टभावा तथा जाता दुष्टकर्त्री नृपस्य यत् ।।1.290.५ ०।।
न लग्नं न ग्रहा देवि! न होरा पुण्यदर्शिनी ।
किन्तु निषेकभावेन भावितं बालकः भवेत् ।।५ १ ।।
न तत्र प्रबलं क्वापि दाक्षिण्यं मित्रता तथा ।
न च व्रीडा न च स्नेहो न धर्मो न दयादिकम् ।।५२।।
वक्ष्ये प्राणहरं तेऽद्य नृपस्य च सुतस्य च ।
प्रजानां च वधूनां च यदकार्यं हि सर्वथा ।।५३ ।।
कर्तुं शक्यं न मनसा श्रोतुं कर्णेन नापि यत् ।
तत् कथं वै शरीरेण कर्तुं शक्येत मानवि! ।।५४।।
करोषि चेद् भवेत् कीर्तिस्तव राज्ञश्च सद्यशः ।
स्वर्गतिस्तव पुत्रस्य प्रशंसा मम धिक्कृतिः ।।५५।।
मोहिनीवचनं श्रुत्वा देवी सन्ध्यावली प्रिये! ।
धैर्यमालम्ब्य तां तन्वीं ब्रूहि ब्रूहित्यचोदयत् ।।५६।।
मा वदैवं नववधु! भर्त्रर्थे सकलं भवेत् ।
आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा ।।५७।।
भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा ।
यस्या भर्ता भवेद् दुःखी तस्याः प्रोक्ता ह्यधोगतिः ।।५८।।
चण्डिके सा तवैवास्तु न मे भर्तुर्ममापि न ।
मत्पुत्रस्यापि सा माऽस्तु या त्वदीया भविष्यति ।।५९।।
संजाते सुखदाम्पत्ये भार्या मोक्षविरोधिनी ।
भूत्वा दुःखप्रदा स्याच्चेन्न भार्या सा तु राक्षसी ।। 1.290.६० ।।
भार्या समुद्धरेत्पापात्पतन्तं निरये पतिम् ।
सा भार्याऽन्या कर्मवल्लीरूपा संसारवर्धिनी ।।६१ ।।
जीवितेनापि वचसा भर्तारं वंचयेत्तु या ।
कृमियोनिशतं प्राप्य पुष्कसी जायते तु सा ।। ६२।।
पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया ।
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ।।६३ ।।
वित्तं देहं तथा पुत्रं यत्त्वन्यद्वा सुदुर्लभम् ।
किमन्यद् दैवतं लोके स्त्रीणामेकं पतिं विना ।।६४।।
तस्यार्थे वा त्यजेत् सर्वं जीवनं किं ततोऽधिकम् ।
श्रुत्वेति मोहिनी प्राह स्वार्थमोहकरण्डिका ।।६५।।
यद्येवं त्वं विजानासि भर्त्रर्थं धनजीवनम् ।
तदाहं याचये वित्तं जीवितादधिकं शुभे ।।६६।।
देहि पुत्रशिरो मह्यं यदिष्टं हृदयाधिकम् ।
यदि नो भोजनं कुर्याद् राजा वै हरिवासरे ।।६७।।
तदा स्वहस्ते संगृह्य खड्गं राजा पतिस्तव ।
धर्मांगदशिरश्छित्वा ममोत्संगे ददातु वै ।।६८।।
एतद्वा कुरु तद्भद्रे यदाऽन्नं न भुनक्ति सः ।
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ।।६९।।
प्रचकम्पे क्षणं सन्ध्यावली मत्वा तु राक्षसीम् ।
शनैर्धैर्यं समालम्ब्य धर्मवाक्यान्युवाच ह ।।1.290.७० ।।
धनं त्यजेत् त्यजेद् दारान् जीवितं च गृहं त्यजेत् ।
त्यजेद् देशं त्यजेद्भूपं स्वर्गं मित्रं गुरुं त्यजेत् ।।७१।।
त्यजेत्तीर्थं त्यजेद्धर्म त्यजेत्पुत्रं बहुप्रियम् ।
त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रियां त्यजेत् ।।७२।।
तपस्त्यजेत् त्यजेद्विश्वां सिद्धिं मोक्षं त्यजेत् परम् ।
पक्षयोरुभयोश्चापि न त्यजेद्धरिवासरम् ।।७३।।
एकादश्या व्रतेनैव तत्सर्वं प्राप्यते मुहुः ।
तत्रापि भर्तृतुष्ट्यर्थे सर्वं जह्यात् पतिव्रता ।।७४।।
दापये तव तुष्ट्यर्थं पत्युर्व्रतप्रपूतये ।
धर्मांगदशिरश्चण्डे राक्षसी त्वं न देवजा ।।७५।।
न सत्याच्चालये चण्डे पत्यर्थं च व्रतार्थकम् ।
इत्युक्त्वा विनयात्पादौ भर्तुः संगृह्य पद्मजे! ।।७६।।
उवाच वचनं राज्ञी धर्मांगदशिरःकृते ।
मोहिन्या मोहरूपाया नान्यत् संकोचते खलु ।।७७।।
भोजनं वासरे विष्णोर्बधं वा तनयस्य वै ।
धर्मत्यागाद् वरं नाथ पुत्रमूर्धनिकृन्तनम् ।।७८।।
व्यापाद्य सुतं राजन् स्नेहं त्यक्त्वा सुदूरतः ।
मा सत्यलंघनं कार्षीरधर्मो मा स्पृशेत् त्वयि ।।७९।।
मातृस्नेहोऽत्र भर्त्रर्थे पुत्रे भवति सार्थकः ।
धर्मस्नेहस्वरूपोऽयं गृहीतो न तु लौकिकः ।।1.290.८०।।
प्राणान् दत्वा प्रियां दत्वा पुत्रं सर्वस्वमेव वा ।
सत्यं हरेर्व्रतं रक्ष्यं हृषीकेशार्थमत्र हि ।।८ १ ।।
तदलं परितापेन सत्यं पालय भूपते ।
सत्यस्य पालनाद् राजन् विष्णुदेहेन युज्यते ।।८२।।
मन्ये भूपाल! देवैः सा त्वद्व्रतपरिपन्थिभिः ।
शिक्षिता प्रेषिता सत्यविनाशाय हरेर्व्रते ।।८३।।
पुत्रव्यापादनाद् देवा भविष्यन्ति त्वधोमुखाः ।
तेषां मूर्ध्नि पदं दत्वा यास्यसे परमं पदम् ।।८४।।
विरुद्धा विबुधा भूप सेश्वरास्तव सद्व्रतैः ।
मोक्षमार्गप्रभेत्तारस्तव निश्चयलोपकाः ।।८५।।
रीतिर्वै देवताः परिपन्थिनो भक्तिमार्गिणाम् ।
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम् ।।८६।।
मोहिन्याः कुरु वाक्यं वै ह्यात्मनः सत्यपालनात् ।
पालनाय व्रतं विष्णोः कुरु पुत्रसमर्पणम् ।।८७।।
भार्याया वचनं श्रुत्वा राजा रुक्मांगदस्तदा ।
सन्ध्यावलीमुवाचेदं मोहिन्याः सन्निधौ प्रिये ।।८८।।
पुत्रहत्या महाहत्या ब्रह्महत्याऽधिका भवेत् ।
घातयित्वा सुतं त्वत्र का परत्र गतिर्भवेत् ।।८९।।
अप्रजं तु सुतं हत्वा का गतिर्मे भविष्यति ।
अन्यार्थे किं सुतं हन्मि किं हन्मि हरिवासरम् ।।1.290.९० ।।
न भोक्ष्ये वासरे विष्णोर्न हन्मि तनयं प्रिये ।
आत्मानं दारयिष्यामि मोहिनी म्रियतां च वा ।।९ १।।
अथवा मोहिनीं सम्यगनुनयामि वै पुनः ।
यदि शान्तं मनस्तस्याः साम्ना स्याच्छ्रेयसे यतः ।।९२।।
इति विचार्य नृपतिः सन्ध्यावल्याः समीपतः ।
रुक्मांगदः सान्त्वनार्थं मोहिनीमिदमब्रवीत् ।।९३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्मांगदकृतो मोहिनी प्रत्यनुनयो रुक्मांगदस्य व्रतदार्ढ्ये सन्ध्यावल्यापत्यर्थे कृतोपदेशेऽपि मोहिन्या पुत्रशिरसोऽभ्यर्थनं सन्ध्यावल्याः शिरोदानानुमतिश्चेत्यादिनिरूपणनामा नवत्यधिकद्विशततमोऽध्यायः ।। २९० ।।