लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८९
[[लेखकः :|]]
अध्यायः २९० →

श्रीनारायण उवाच-
अथ लक्ष्मि! दशम्यां कार्तिके धर्मांगदः प्रगे ।
पटहं वादयित्वा वारणोपरि प्रघोषयन् ।। १ ।।
मा भोक्तव्यं जनैः कैश्चिदेकादश्यां हरेर्दिने ।
सैन्यं प्रजाश्च नीत्वा स ययौ रैवततीर्थके ।। २ ।।
कर्तुं प्रदक्षिणं रैवताद्रेः सन्धावलीयुतः ।
एकादशीं समारभ्य पूर्णिमावधिपञ्चके ।। ३ ।।
कर्तुं प्रदक्षिणं तत्राऽऽयान्ति तीर्थानि देवताः ।
प्रबोधिन्यां रैवताद्रौ ब्रह्मविष्णुमहेश्वराः । । ४ । ।
ऋषयो वसवः साध्या मरुतो मुनयस्तथा ।
पितरो निधयः काष्ठा ग्रहा रुद्राश्च सिद्धयः । । ५ । ।
कृत्तिकाश्चन्द्रनक्षत्रमण्डलं सुरकोटयः ।
यक्षराक्षसपैशाचा भूतप्रेतविनायकाः । । ६ । ।
कूष्माण्डाश्चापि वेताला गणेशाश्च गणादयः ।
हनूमन्तो महालक्ष्म्यः पर्यो योगिन्य इत्यपि । । ७ । ।
दुर्गाश्चण्ड्यो मानवाश्च देवा नद्यः सरांसि च ।
समुद्राः पर्वताः स्थल्यो द्वीपाः क्षेत्राणि खेटकाः ।। ८ । ।
पुर्योऽरण्यानि दिवसा निशा दिवा व्रतान्यपि ।
एवमन्ये व्योमसंस्थाः पातालस्था भुजंगमाः । । ९ । ।
सत्यः साध्व्यश्च भक्तान्यो न्यासिन्यश्च कुमारिकाः ।
देहकृष्णार्पणपरा नरा नार्यः प्रयान्ति च ।। 1.289.१० ।।
चारण्यश्चापि किन्नर्यो गान्धर्व्यो दासिकास्तथा ।
वैष्णवाः शांकराः सौरा गाणपत्याश्च शक्तिगाः ।। ११ ।।
चार्वाका बीजमार्गाश्च नारसिंहाश्च रामिणः ।
दात्तात्रेयाः कापिलाश्चार्हता बौद्धाः शिवाश्रिताः ।। १२।।
महान्तो गुरवो धर्माचार्याश्चतुःपुमर्थकाः ।
आभीरा ऊरणवारा गोपाला वाममार्गिणः ।। १३ ।।
महाभागवाता मेरा नर्तका नटजातयः ।
अघोरपथलम्बाश्च गारुडा भैरवाश्रिताः ।। १४।।
हंसाः परमहंसाश्च सदण्डाः कुलदेविनः ।
विद्याधराश्च गणिका बहुरूपाश्च नाटिकाः ।। १ ५।।
गोरक्षाः कारवः साम्बाश्चातुर्वर्ण्याश्रमानुगाः ।
प्रदक्षिणार्थमायान्ति रैवताद्रौ तु कार्तिके ।। १६।।
जलान्नवस्त्रदेहाद्यर्पका यत्र त्वसंख्यकाः ।
आयान्ति पुण्यमोक्षार्थं गुर्वर्पणविधायिनः ।। १७।।
श्रीकृष्णः श्रीहरिर्नारायणाविर्भावमूर्तयः ।
आयान्ति जनमोक्षार्थ प्रदक्षिणसवोत्सुकाः ।। १८।।
सौराष्ट्रमण्डलं तस्य तीर्थक्षेत्रसमं तथा ।
कृष्णनारायणः साक्षाल्लक्ष्मीयुगत्र पर्वते ।। १९ ।।
मूर्ध्नि संराजते दिव्यः सहगोलोकमण्डलः ।
एका प्रदक्षिणा येन कृता तेन ततः खलु । । 1.289.२० ।।
जीवेशब्रह्मलोकानां कृता स्यात्सा प्रदक्षिणा ।
यत्फलं लभ्यते ब्रह्मधाम्नः प्रद्क्षिणाभवम् ।।२१ ।।
तदत्र लभ्यते पुण्यं संसारभववारकम् ।
इति मत्वा राजपुत्रो धर्मांगदः प्रदक्षिणाम् ।। २२।।
कर्तुं दशम्यां त्वायातो योगिनीपर्वताग्रतः ।
माहीषपर्वतपार्श्वे स्वर्णरेखानदीतटे ।। २३ ।।
महोद्याने त्वाम्रवणे निशां व्यगमयत् ततः ।
प्रातर्दामोदरं दृष्ट्वा स्नात्वा कुण्डे भवेश्वरम् ।। २४।।।
नृसिंहं च तथा दृष्ट्वा मृगीकुण्डं व्यलोकयत्। ।
धर्मांगदो जनगाथां श्रुतवाँस्तत्र शोभनाम् ।। २५ । ।
राजा रुक्मांगदश्चात्र मोहिन्या सह राजते ।
ब्रह्मपुत्र्या प्रसेवितो धर्मांगदपिताऽस्ति यः ।। २६ ।।
सः स्वपटहघोषेण न भुंक्ते हरिवासरे ।
निरोधयति तं नारी भोक्तव्यं हरिवासरे ।। २७।।
कीदृशी सा ब्रह्मपुत्री पृथ्व्यां राज्ञा वधूकृता ।
तपोऽर्थं निर्गतश्चापि वधूं कृत्वा च यां पुनः ।। २८ ।।
सेवते खलु रुक्मांगो हरेर्दिनं जहाति न ।
द्रष्टव्या सा देवपुत्री त्वितिकृत्वा जना ययुः ।। २९।।
धर्मागदोऽपि सैन्येन स्वमात्रा सहितो ययौ ।
सुवर्णरक्षासरितश्चोत्तरे सरसस्तटे ।। 1.289.३० ।।
यत्र दिव्यो महान् सौधो वैराजस्येव राजते ।
ग्रामो दिव्यः स्वःपतीनां विमानमिव राजते ।। ३१ ।।
ब्रह्मणा विष्णुना शंभुना प्रदत्तं स्वलोंकजम् ।
दिव्योपकरणं सर्वं सत्यलोकीयवस्तुजम् ।। ३ २।।
दासदास्यस्तथा दिव्याः सर्वं दिव्यं विराजते ।
चर्मचक्षुर्जनैः सर्वमदृश्यं यद्धि वर्तते ।। ३३ ।।
धर्मांगदेन तत्सर्वं लोकितं पित्रनुग्रहात् ।
महदाश्चर्यमापन्नो ववन्दे चरणौ पितुः ।। ३४।।
सन्ध्यावल्याऽपि स्वपत्युश्चरणौ वन्दितौ मुदा ।
ब्रह्मपुत्री ववन्दे तां ज्येष्ठा स्वसारमित्यथ ।। ३५ ।।
स्वस्रा त्वाशीर्वादमुख्यैर्मोहिनी चाभिवर्धिता ।
वृत्तान्तं कुशलं चापि ज्ञात्वा परस्परं ततः ।। ३६ ।।
प्रेममग्नाश्च ते सर्वे प्रदक्षिणार्थं निर्ययुः ।
मोहिनी तु हठात् प्रदक्षिणार्थं न ययौ तदा ।। ३७ ।।
अथ धर्मागदेनाऽस्याश्चरणौ वन्दितौ मुदा ।
हेतुर्जिज्ञासितो मनोभग्नतायास्तदग्रतः ।। ३८ ।।
रुक्मांगदेन तत्सर्वं विज्ञापितं व्रतात्मकम् ।
व्रतनिरोधयित्र्यास्तच्छ्रत्वाऽऽश्चर्यं ययुर्जनाः ।। ३९ ।।
रुक्मांगदस्तदा प्राह त्वनुनीय शुभं वचः ।
मोहिनि! कुरु यात्रां त्वं रैवताद्रेः प्रदक्षिणम् ।।1.289.४० ।।
व्रतं हरेर्दिनस्यापि प्रबोधिन्याः परात्परम् ।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ।।४१ ।।
अकार्यकरणेजन्तोर्गोसहस्रवधः स्मृतः ।
जानन्नपि कथं देवि! भोक्ष्येऽहं हरिवासरे ।।४२।।
पुरोडाशोऽपि वेधोजे! सम्प्राप्ते भगवद्दिने ।
अभक्ष्येण समं प्रोक्तः किं पुनश्चान्नभक्षणम् ।।४३।।
क्षीणानां फलमूलादि पयआदि प्रभोजनम् ।
प्रकीर्तितं व्रते देवि! सशक्तानां नहि क्वचित् ।।४४।।
सशक्तानां व्रतेऽदनं नरकायैव केवलम् ।
माऽऽग्रहं कुरु सत्यस्थे! व्रतभंगो भवेन्मम ।।४५।।
यदन्यद् रोचते तुभ्यं तत्कर्त्ताऽस्मि न संशयः ।
मोहिन्युवाच शृण्वत्सु राज्ञीधर्मांगदादिषु ।। ८६।।
ऋषिमुनिसुरपितृजंगमस्थावरादिषु ।
न त्वन्यद् रोचते राजन् विना वै भोजनं तव ।।४७।।
जीवितस्यापि दानेन न मे किंचित्प्रयोजनम् ।
न च वेदेषु दृष्टोऽयमुपवासो हरेर्दिने ।।४८।।
वेदबाह्यं कथं धर्मं भवाँश्चरितुमिच्छति ।
शृण्वन्तु ब्राह्मणाः सर्वे वेदान् कृत्वाऽयमग्रतः ।।४९।।
सत्यं वदति राजा किं नाऽहं भोक्ष्ये हरेर्दिने ।
सर्वं वै स्थावरं यद्वा जंगमं त्वन्नजीवनम् ।।1.289.५० ।।
मृता अपि दिविषदः प्रीयन्तेऽन्नैर्जलैरपि ।
पिपीलिकादयश्चान्नं मुखेनादाय कष्टतः ।।५ १।।
चातुर्मास्यार्थमेवैते शीतर्तुक्षपणाय च ।
प्रविशन्ति बिले तत्र सञ्चिन्वन्त्यदनाहर्णम् ।।५२।।
अन्ने वै प्राणिनां प्राणा अन्नं कस्य न रोचते ।
राजा खादति नाऽन्नादि सम्प्राप्ते हरिवासरे ।। ९३।।
तपस्विनां तु साधूनां युज्यतेऽन्नविवर्जनम् ।
उपवासादिकरणं भूभुजां किं नु वैदिकम् ।।५४।।
परधर्मो न चाऽऽचर्यो दुःखदश्च भयावहः ।
सोऽयमद्य महीपालो यतेर्धर्मे व्यवस्थितः ।।५५।।
अन्नात्प्रभवति प्राणः प्राणाद्देहबलादिकम् ।
बलेन नृपधर्माश्च तद्धीनः परिभूयते ।।५६।।
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति ।
अत्रार्थे ब्राह्मणाः सर्वे प्रमाणं न तु भामिनी ।।५७।।
याथातथ्यं वदन्त्वत्र वैदिकं तत् करोम्यहम् ।
पत्नीव्रतवशिष्ठाद्या ब्राह्मणा नृपमब्रुवन् ।।५८।।
एकादश्यां न भोक्तव्यमिति यः शपथस्तव ।
न कृतो वेददृष्ट्या वै स्वबुद्ध्यैव प्रकल्पितः ।।५९।।
साग्नीनां प्राशनं प्रोक्तं हव्यस्य सन्ध्ययोः किल ।
प्रत्यहं होमशिष्टस्य भोक्तृत्वं वेदसम्मतम् ।।1.289.६० ।।
विशेषेण नृपाणां तु नित्ययज्ञप्रकारिणाम् ।
वदात्र भूमिपालानां कथमुक्तमुपोषणम् ।। ६१ ।।
वैदिकोऽवैदिका वापि यस्त्वया शपथः कृतः ।
परिपूर्णो भवत्वद्य वाक्येनैव द्विजन्मनाम् ।। ६२ ।।
व्रतभंगो न तेऽस्तीह भुंक्ष्व विप्रादिभिः सह ।
परितापो न ते कार्यो विप्रवाक्यं महत्तमम् ।।६ ३ ।।
वयं हि वेदद्रष्टारो ब्रह्मवाक्यं जनार्दनः ।
योऽन्यथा मनुते विप्राद् राक्षसीं योनिमाप्नुयात् ।। ६४।।
श्रुत्वैतद् ब्राह्मणानां तु वैदिकानां वचस्ततः ।
रुवमांगदः प्रणिपत्य वेदद्रष्टॄनुवाच ह ।। ६५।।
यूयं वेदप्रदष्टारो वैदिकं वदथ ध्रुवम् ।
अनादृत्य परं वेदमुपदेशो न वः क्वचित् ।। ६६ ।।
नारदर्षिस्तथा कात्यायनो वशिष्ठ इत्यपि ।
ब्रह्माचाथ महादेवो ये त्वन्येऽत्र समागताः ।।६७।।
शृणुतैषां तु वाक्यानि हरेर्दिने व्रतकृते ।
नारदस्य वचस्तत्र प्रथमं शृणुत द्विजाः ।। ६८।।
नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः ।
पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम् ।। ६९ ।।
एकादश्यां तु यो भुंक्ते नरोऽन्नं स तु पातकी ।
विण्मूत्रपूयवाहिन्यां पतत्येव न संशयः ।।1.289.७ ० ।।
अनुकल्पो नृणां प्रोक्तः क्षीणानां वरवर्णिनि ।
मूलं फलं पयस्तोयमुपभोग्यं भवेच्छुभे ।।७ १ ।।
नत्वेव भोजनं कैश्चिदेकादश्यां बुधैर्मतम् ।
शयने च मदुत्थाने मत्पार्श्वपरिवर्तने ।।७२ ।।
नरो मूलफलाहारी हृदि शल्यं ममाऽर्पयेत् ।
दशम्यादि महीपाल । त्रिदिनानि विवर्जयेत् ।।७३ ।।
गन्धताम्बूलपुष्पादि स्त्रीसंभोगं दिवानिशम् ।
जागरं विष्णुपूजां च विना त्वर्धफलं व्रतम् ।।७४।।
अतस्ताभ्यां युतोपोष्या वैष्णवेन हरेस्तिथिः ।
व्रतानि विष्णुभक्तानां नित्यानीमानि संजगुः ।।७५ ।।
एकादश्योऽखिलाः शुद्धा द्वादशी वामनस्य तु ।
श्रीरामादित्यसज्जन्मनवमी दिव्यसिद्धिदा ।।७६।।
कृष्णजन्माष्टमी चाथ नृसिंहस्य चतुर्दशी ।
शिवरात्रिश्चेतिमुख्यव्रतान्युक्तानि तत्त्वतः ।।७७ ।।
इति नारदवाक्यानि ह्यथ कात्यायनस्य च ।
सर्वे शृण्वन्तु मुनयो भवन्तो वेददृष्टयः ।।७८ ।।
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ।
एकादश्यामुपवसेत् पक्षयोरुभयोरपि ।।७९।।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।
वशिष्ठस्यापि वाक्यं वै शृण्वन्तु वेददृष्टयः ।।1.289.८ ० ।।
उपोष्यैकादशीं राजन् द्वादशीदिवसे तथा ।
तज्जप्यजपनध्यानतत्कथाश्रवणादयः ।।८ १ ।।
उपवासकृतामेते गुणाश्चान्ये दयादयः ।
वेधोवाक्यं तु शृण्वन्तु ऋषयो वेददृष्टयः ।। ८ २।।
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकेनैवोपवासेन प्रबोधिन्यां लभेन्नरः ।।८ २ ।।
प्रबोधवासरे विष्णोर्विधिवत् समुपोषयेत् ।
तामुपोष्य हरेर्भक्त्या दुर्लभं न भवेत् क्वचित् ।।८४।।
शिववाक्यं च शृण्वन्तु भवन्तो वेददृष्टयः ।
न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः ।।८५।।
यो भुंक्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः ।
विप्रियं च कृतं तेन दुष्टेनैव तु पापिना ।।८६ ।।
मद्भक्तिबलमाश्रित्य यो भुंक्ते वै हरेर्दिने ।
इति भवन्तो वक्तारो निषेद्धारोऽपि ते पुनः ।।८७।।
कथं तत्र सुविश्वासो मया कार्यो व्रतार्दने ।
सर्वेषामेव भूतानां भवन्तो मार्गदर्शिनः ।।८८ ।।
विपरीता यदि स्युस्ते जगदान्ध्यं समाप्नुयात् ।
अकार्यकरणं कृत्वा किं जीवेच्छरदां शतम् ।।८९।।
युष्माकं तानि वाक्यानि ब्रूत चाऽवैदिकानि किम् ।
सोऽहं कथं करोम्यत्र त्वभक्ष्याऽन्नस्य भक्षणम् ।। 1.289.९० ।।
कथं चापि व्रतं त्यक्ष्ये विमार्गस्थजनोक्तितः ।
भवद्भिर्नोचितं वक्तुं प्रतिकूलं व्रतापहम् ।। ९१ ।।
देवा वा दानवा दैत्या गान्धर्वा राक्षसाश्च वा ।
सिद्धा वा ब्राह्मणा वापि पिता मे जननी च मे ।। ९ २।।
हरिर्वापि हरो विष्णुर्मोहिनीजनकोऽपि वा ।
ऋषयोऽपि वदेयुश्चेन्नो भोक्ष्ये हरिवासरे ।। ९३ ।।
यो हि रुक्मांगदो राजा विख्यातो हरिभक्तिमान् ।
व्रतप्रतिज्ञां विफलां न कदाचित् करिष्यति ।।९४।।
सूर्यस्तु कृष्णतां गच्छेन्मेरुः स्थानाच्चलेद् यदि ।
समुद्रः शुष्कतां यायाद् वह्निः शैत्यान्वितो भवेत् ।। ९५ ।।
विपरीता भवन्तः स्युर्मोहिनी म्रियतेऽपि वा ।
तथापि न त्यजे विप्रा व्रतमेकादशीदिने ।। ९६।।
आरट्यतै पटहेन प्रसिद्धिर्भुवनेषु मे ।
दण्ड्यो वध्यो विवास्यश्च ह्यन्नादो हरिवासरे ।। ९७।।
एवं ख्याते यदि भोक्ताऽन्नस्य स्यां हरिवासरे ।
अमेध्यलिप्तः पटहो भवेद्धोषोऽनृतान्वितः ।।९८ ।।
कीर्तिः कलुषतां गच्छेद् याम्ये वासश्च मे भवेत् ।
वृथा सूता जनित्री स्यान्निराशाः पितरः सुराः । । ९९ । ।
हर्षं गच्छेद् यमश्चापि व्रतभंगश्च मे भवेत् ।
मोहिनी कृतकृत्या स्याद् वान्त्याशीव भवाम्यहम् । । 1.289.१०० ।।
राजा धर्मधरोऽहं सोऽधर्मपोष्टा कथं भवेत् ।
न वेदा नापि सन्तस्ते मुनयः ऋषयोऽपि न ।। १०१ । ।
ये मण्डयन्ति कृष्णस्य वासरे भोजनक्रियाम् ।
इत्यभिधाय नत्वा च विरराम नृपस्तदा ।। १०२ ।।
श्रुत्वैतद् ब्राह्मणा देवाः प्रशशंसुर्नृपं मुदा ।
किन्तु कोपसुरक्ताक्षी मोहिनी ज्वलितान्तरा ।। १०३ ।।
शृण्वत्सु तेषु सर्वेषु भर्तारं समभाषत ।
स्वकार्यसाधिनी विष्णुव्रतघ्नी च क्षुरान्तरा ।। १०४ । । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पटहघोषं कुर्वतो धर्मांगदस्य कार्तिके रैवतप्रदक्षिणारंभे स्वपितृरुक्मांगदसमागमे
मोहिन्या एकादशीव्रतविनाशकहठेन ऋषीणां राज्ञा वाक्यसंवाद इति निरूपणनामैकोननवत्यधिकद्विशततमोऽध्यायः ।। २८९ ।।