लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८८
[[लेखकः :|]]
अध्यायः २८९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा राज्यं चक्रे धर्मांगदः सुतः ।
पितुर्नियोगात् संकुर्वन् कारयन् हरिवासरम् ।। १ ।।
धर्मे भागवते संरक्षयन् सर्वाः प्रजाः सुतः ।
विष्णुदिनव्रतार्थं वादयते पटहं सदा ।। २ ।।
राजापि वासरं विष्णोः करोति नियमेन वै ।
अन्यव्रतानि सन्त्यज्य भुंक्ते पत्नीं सुयौवनाम् ।। ३ ।।
एकदाऽऽश्विनसमये मोहिनी सर्वभावतः ।
राजानं रमयामास दिव्यसौख्यैः पुनः पुनः ।। ४ ।।
पार्थिवश्चातिमुग्धोऽपि व्रतं नोपेक्षते हरेः ।
क्रीडां त्यजति क्ष्मापालो दशम्यादिदिनत्रये ।। ५ ।।
विष्णोर्दिनं न त्यजति जन्ममृत्युनिकृन्तनम् ।
तावत् प्राप्तः प्रबोधाय विष्णोर्मासस्तु कार्तिकः ।। ६ ।।
यस्मिन् कृतं तु सुकृतं यैः कैश्चिन्मनुजैरिह ।
अक्षयं हि भवेत् सर्वं विष्णुलोकप्रदायकम् ।। ७ ।।
इति विचार्य नृपतिर्मोहिनीं वाक्यमब्रवीत् ।
रतं देवि त्वया सार्धं मया सम्वत्सरान् बहून् ।। ८ ।।
तवाऽपमानभीतेन नोक्तं किंचिदपि क्वचित् ।
त्वय्यासक्तस्य मे सुभ्रु! बहवः कार्तिका गताः ।। ९ ।।
न व्रतं कार्तिके जातं मे मासं वाऽर्धमासकम् ।
सोऽहं कार्तिकमिच्छामि सव्रतं पर्युपासितुम् ।। 1.288.१० ।।
अव्रतः कार्तिको यस्य गतस्तस्य वृथा गतम् ।
मद्यमांसव्यवायाढ्या अपि कार्तिकसद्व्रताः ।। ११ ।।
भूत्वा शुद्धा गतास्ते वै शाश्वतं वैष्णवं पदम् ।
कार्तिके दीपदानेन दाता वै दिवमाव्रजेत् ।। १३ ।।
परदीपप्रबोधेन दरिद्रोऽपि दिवं व्रजेत् ।
पुष्करे पूर्णिमां कृत्वाऽजन्मपापात्प्रमुच्यते ।। १ ४ ।।
व्रतोपवासनियमार्चनदानादिसत्कृतैः ।
गच्छति कार्तिको यस्य स याति परमां गतिम् ।। १४ ।।
कार्तिके कृच्छ्रसेवी यः प्राजापत्यपरोऽपि वा ।
एकान्तरोपवासी वा त्रिरात्रोपोषितोऽपि वा ।। १५।।
सप्ताहं वा दशाहं वा पक्षं मासमुपोषितः ।
फलाहारो नरो याति स विष्णोः परमं पदम् ।। १६ ।।
एकभक्तेन नक्तेनाऽयाचितेन व्रतस्थितैः ।
धरा दारा सुतो राज्यं धनं धान्यमवाप्यते ।। १७।।
कार्तिको भक्तिदः पुण्यो व्रतदानार्चनादिभिः ।
तस्मिन् हरिदिनं पुण्यं तथैव दिनपञ्चकम् ।। १८ ।।
प्रबोधिनीं जागराढ्यां कृत्वा मुक्तिं प्रयाति वै ।
कार्तिके वर्जयेत्तैलं मधु सूपं च मैथुनम् ।। १९ ।।
निष्पावान् राजसान् भोगान् वर्जयेत्तु प्रयत्नतः ।
कार्तिके त्वर्जिता दीक्षा नॄणां जन्मनि कृन्तनी ।। 1.288.२० ।।
पशुयोनिमवाप्नोति दीक्षया रहितो जनः ।
एकादश्यां पूर्णिमायां दीक्षितो याति चाक्षरम् ।। २१ ।।
कुंभान् दत्वा जलपूर्णान् प्रयाति हरिमन्दिरम् ।
सम्वत्सरव्रतानां तु समाप्तिः कार्तिकेऽर्चनम् ।।२२।।
उद्यापनादिकं सर्वं सम्पूर्णफलदं भवेत् ।
नक्तव्रती च षड्रसैर्बालान् साधून् प्रभोजयेत् ।।२३ ।।
अयाचिते त्वनड्वाहं सद्द्विजाय प्रदापयेत् ।
नैवेद्याशी भवेद् यस्तु गां प्रदद्यात्सदक्षिणाम् ।।।२४।।
धात्रीस्नाने जनो दद्यात् पायसं पिच्छलं दधि ।
फलानां नियमे तत्र फलानि त्वर्पयेत्तथा ।।२५।।।
तैलत्यागे घृतं दद्याद् घृतत्यागे पयस्तथा ।
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा ।।२६।।
भूशायित्वे सपर्यंकां शय्यां दद्यादलंकृताम् ।
पत्रभोजी प्रदद्याद्वै पात्राणि सघृतानि वै ।।२७।।
मौने घण्टां हिरण्यं वा तिलान्वापि प्रदापयेत् ।
प्रातःस्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान् ।।२८।।
नखकेशाऽवपने तु दर्पणं मृत्तिकां ददेत् ।
पादत्राणाऽग्रहे दद्यादुपानहौ च पादुके ।।२९।।।
लवणादिपरित्यागे दातव्या गौः सुदुग्धदा ।
दीपदाता प्रदद्याद्वै कांचनं देवमूर्तये ।।1.288.३०।।
छत्रं च चामरे दद्यात् क्षौमवस्त्राणि चार्पयेत् ।
त्रिरात्रव्रतकर्ता तु दद्याच्छय्यामलंकृताम् ।।३ १ ।।
सप्तरात्रोपवासी तु ' शिबिकां छत्रमर्पयेत् ।
पक्षदिनोपवासी तु यानं दद्याच्च हस्तिनम् ।।३२।।
मासोपवासकर्ता तु गृहं सर्वस्वमर्पयेत् ।
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम् ।।३ ३ ।।
शाकाहारे फलं दद्यात्पात्रं वाऽन्यत् समर्पयेत् ।
एवं यथा धनस्मृद्धिस्तथा दद्याद् व्रतानुगम् ।।३४।।
लभ्यते व्रतकर्ताऽत्र राज्यं दारा धनादिकम् ।
तस्मान्मोहिनि! कर्ताऽस्मि कार्तिके व्रतसेवनम् ।। ३५ ।।
व्रतोपवासनियमैः कार्तिको यस्य गच्छति ।
देवो वैमानिको भूत्वा स याति परमां गतिम् ।।३६।।
तस्मान्मोहं परित्यज्याऽऽज्ञापय कार्तिके व्रते ।
अहं व्रतधरश्चैव भविष्ये हरिपूजने ।। ३७।।
श्रुत्वैतत्प्रतिकूलं सा मोहिन्याह निजार्थिनी ।
न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम् ।।३८।।
दानं प्रपालनं युद्धं कार्यत्रयं तु भूभुजाम् ।
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने ।।३९।।
मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना ।
स्थातुं कमलनाभाभ किं पुनर्माससंख्यया ।।1.288.४०।।
त्वयि व्रते कृतेऽवश्य मरणं मे भवेन्ननु ।
करिष्यावस्ततो वार्धक्ये व्रतं कार्तिकस्य वै ।।४ १।।
श्रुत्वा प्राह तदा राजा मोहिन्यां वचनोत्तमम् ।
न करिष्ये व्रतं सुभ्रु करिष्ये तव सम्मतम् ।।४२।।।
श्रुत्वा तु मोहिनी हृष्टा संश्लिष्टा रहसि स्थितम् ।
रमयामास तन्वंगी कामरीतिविधानतः ।।४ ३ ।।
तस्यैवं रममाणस्य समायाता प्रबोधिनी ।
रुक्मांगदस्य कर्णाभ्यां पटहध्वनिरागतः ।। ४४।।
प्रातर्हरेर्दिनं लोकास्तिष्ठध्वं त्वेकभोजनाः ।
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ।। ४५।।
अवनितल्पशयनाः कामसंगविवर्जिताः ।
स्मरध्वं देवदेवेशं कृष्णनारायणं हरिम् ।।४६।।
सकृद्भोजनसंयुक्ता उपवासं करिष्यथ ।
अकृतश्राद्धनिचया गच्छध्वं श्रीहरेः पदम् ।।४७।।
प्रातः कार्तिकशु्क्लाऽस्ति त्वेकादशी प्रबोधिनी ।
यास्तूपोष्य हरेर्धाम विधूय पापजालकम् ।।४८ ।।
कुरुध्वं श्रीहरेः पूजामात्मवित्तेन मानवाः ।
वस्त्रैः पुष्पैर्धूपदीपैर्वरचन्दनकुंकुमैः ।।४९।।
नैवेद्यैश्च फलैर्यष्ट्वा गच्छध्वं श्रीहरेः पदम् ।
यो न कुर्याद्वचो रुक्मांगदस्य हरिधामदम् ।।1.288.५ ० ।।
स मे दण्ड्यश्च वध्यश्च धर्मांगदो ब्रवीम्यहम् ।
इति श्रुत्वा पटहस्य धर्म्यां वै घोषणां स्वकाम् ।।५१ ।।
रुक्मांगद उदतिष्ठन्मोहिनीशयनाद् द्रुतम् ।
प्राह प्रातर्हरेरह्नि भविष्यत्यघनाशनम् ।।५२।।
संयतोऽहं भविष्यामि क्षम्यतां क्षम्यतामिति ।
इयमेकादशी कार्या बन्धछेत्री गतिप्रदा ।।५३ ।।
मया सह विशालाक्षि त्वं चापि तमधोक्षजम् ।
आराधय हृषीकेशमुपवासपरायणा ।।५४।।
येन यास्यसि निर्वाणं दाहप्रलयवर्जितम् ।
पुना राज्यं पुनः स्वर्गं पुनर्यद्वा प्रमोक्षणम् ।।५५।।
मोहिन्युवाच साधूक्तं त्वया व्रतार्चनं हरेः ।
जन्ममृत्युजराछेदि करिष्ये वै तवाऽज्ञया ।।५६ ।।
प्रतिज्ञा या त्वया पूर्वं कृताऽस्मिन् रैवते गिरौ ।
करप्रदानसहिता भवता सुकृतांऽकिता ।।५७।।
तस्यास्तु समयः प्राप्तो दीयतां सहि मे त्वया ।
अन्यथाऽऽजन्मनः पुण्यं सर्वं ते नाशमेष्यति ।।५८ ।।
श्रुत्वा स्मृत्वाऽऽह रुक्मांगः कर्ताऽस्मि त्वन्मनोगतम् ।
नाऽदेयं विद्यते किञ्चित्तुभ्यं मे जीवितावधि ।।५९।।
किं पुना राज्यनगरं वित्तं वाऽन्यच्च भामिनि ।
मोहिन्युवाच संप्राप्तं ज्ञात्वा ह्यवसरं शुभम् ।।1.288.६०।।
नाथ कान्त प्रिय राजन् जीवितेश रतिप्रिय! ।
नोपोष्यो वासरो विष्णोर्भोक्तव्या यद्यहं प्रिया ।।६१ ।।
विनाभूता भविष्यामि त्वत्संयोगं विना नृप! ।
तस्मान्मां यदि वाञ्छेथा भोक्तुमाजीवनं प्रियाम् ।।।६२।।
मयाऽवश्यं च वस्तव्यमामृत्युं त्वद्गृहे नृप ।
तदा त्यजोपवासं वै भुज्यतां हरिवासरे ।।६३।।
एष एव वरो देयो मया संप्रार्थितः पुरा ।
न चेद् दास्यसि मोहाद्वा भूत्वाऽनृतवचा भवान् ।।६४।।
यास्यते नरके घोरे यावदाभूतसम्प्लवम् ।
पत्नीहानौ व्रतहानौ वचोहानौ बलाबले ।।६५।।
दृष्टाऽदृष्टौ वृषाऽधर्मौ विचार्येष्टतमं कुरु ।
राजोवाच त्वया सुभ्रु रुद्धः कार्तिकसद्व्रते ।।६६।।
रोधयसि पुनरेकादश्यामपि कथं प्रिये ।
व्रतपुण्येन सुखिनौ जातौ स्व इति चिन्तय ।।६७।।
धर्मस्वसा विधेः पुत्री भूत्वैवं त्वयि नोचितम् ।
धर्मरक्षाकरो भूत्वा धर्मविघ्नं करोषि किम् ।।६८।।
जन्मप्रभृत्यहं नैव भुक्तवान् हरिवासरे ।
स चाऽद्याऽहं तवाऽधीनः कथं भोक्ता हरेर्दिने ।।६९।।
अन्तिमे स्वायुषो भागे स्वर्णरेखाप्रसेवनम् ।
भजनं पूजनं युक्तं नित्यं च हरिसेवनम् ।।1.288.७०।।
न कृतं यन्मया बाल्ये यौवने वैभवे सति ।
तदहं वनमध्येऽद्य कथं कुर्यां जुगुप्सितम् ।।७१ ।।
मा कुरुष्व व्रतं भंगं मा कुरुष्वाग्रहं तथा ।
यदन्यदिच्छसि सुभ्रु दाताऽहं राज्यसम्पदाम् ।।७२।।
विमानं संगृहाणेदं दोलां व्योमविहारिणीम् ।
कल्पलतारसं भुंक्ष्व मा व्रते विघ्नमाचर । ।७३।।
आत्ममांसं नरो भुंक्ते यो भुंक्ते हरिवासरे ।
त्रैलोक्यघातिनः पापं मैथुने हरिवासरे ।।७४।।
गोचारलोपे यत्पापं यत्पापं कूटसाक्षिके ।
निक्षेपहारके चापि तथा विश्वासघातके ।।७५।।
हत्याकारिणि यत्पापं यत्पापं गुरुनिन्दके ।
तत्सर्वं पातकं त्वन्ने संस्थितं हरिवासरे ।।७६।।
एवं जानन् विशालाक्षि कथं भोक्ष्यामि पातकम् ।
एवं ज्ञानवती त्वं च कथं नाशयसि व्रतम् ।।७७।।
मोहिन्युवाच तच्छ्रुत्वा बाधधर्मान् नृपं प्रति ।
एकभुक्तेन नक्तेन यद्वा त्वयार्चितेन च ।।७८।।
फलैर्वातूपवासेन द्वादशीं न विलंघयेत् ।
गुर्वीणीना गृहस्थानां क्षीणानां रोगिणां तथा ।।७९।।
शिशूनां वलिगात्राणां संग्रामक्षितिसेविनाम् ।
यज्ञभोगोद्यतानां च पातिव्रत्याढ्ययोषिताम् ।।1.288.८० ।।
युवतीस्त्रीपतीनां च न युक्तं समुपोषणम् ।
किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया ।।८१।।
भोजनेऽत्र कृते प्रीतिरेकादश्यां त्वया मम ।
न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि ।।८२।।
न करिष्यसि चेद् राजन् भोजनं हरिवासरे ।
तदा त्वसत्यवचसो देहं न स्पर्शयामि ते ।।८३।।
सत्येन सूर्यस्तपति शशी सत्येन शोभते ।
सत्यधर्मस्थिता भूमिः सर्वं धारयते जगत् ।।८४।।
वायुर्वात्यपि सत्येन सत्येन ज्वलतेऽनलः ।
सत्याधारमिदं सर्वं यथाकार्यं व्यवस्थितम् ।।८५।।
सिन्धुर्न चलते सत्याद् विन्ध्यः सत्यान्न वर्धते ।
वृक्षाः सत्यसमाचारा ऋतुमासाद्य पुष्पिणः ।।८६।।
अश्वमेधाऽयुतेभ्योऽपि सत्यमेव विशिष्यते ।
असत्यवचसो राजन् सर्वं शीघ्रं विनश्यति ।।८७।।
मा भूत् तादृक् च ते राजन्शोचामि बहुलाभकृत् ।
बहूनां भोजने लाभो दृश्यतेऽतो हठो मम ।।८८।।
मत्पित्रापि तथैवोक्तं सत्येनैवोच्यते मया ।
यदि चेत्ते न विश्वासो यथेच्छसि तथा कुरु ।।८९।।
मोहिनीत्थमभिधाय पितृकार्यप्रसाधिनी ।
विरराम यदा लक्ष्मि! राजा चिन्तां जगाम वै ।।1.288.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रुक्मांगदस्य समाहात्म्यकार्तिंकव्रतेच्छायां मोहिन्या तन्निरोधनं पुनश्च स्वपटहघोषणायां प्रबोधिनीव्रतानुमतियाचनायां मोहिन्या कृतस्तद्विरोध इत्यादिनिरूपणनामाऽष्टाशीत्यधिकद्विशततमोऽध्यायः ।।२८८।।