लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८७
[[लेखकः :|]]
अध्यायः २८८ →

श्रीनारायण उवाच-
तस्मिन्नवसरे त्वेव लक्ष्मि! रुक्मांगदो नृपः ।
भोगांस्तु मानुषान् भुक्त्वा हरिं सम्पूज्य केशवम् ।। १ ।।
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ।
वैकुण्ठस्य तु पन्थानं कृत्वा पूर्णं तु मानवैः ।। २ ।।
धर्मागदं समाहूय दातुं राज्यमभाषत ।
एतां वसुमतीं पुत्र सप्तसागरमेखलाम् ।। ३ ।।
पालय त्वं राज्यधुरं गृहाण च मदर्पिताम् ।
पुत्रे योग्ये सुनिष्पन्ने धुरं यो न समर्पयेत् ।। ४ ।।
क्लेशवाही स जनको धर्मकीर्तिप्रविच्युतः ।
पुत्रशक्त्यप्रसंपोष्टा नोन्नतिं याति वृद्धकः ।। ५ ।।
कार्यक्षमः सुतश्चापि भारं नोद्वहते तु यः ।
स्वकर्तव्यच्युतः सोऽपि दुःखी भवति वृद्धकः ।। ६ ।।
पिता येन न तुष्येत् स पुत्रो यात्येव रौरवम् ।
पिता येन तु सन्तुष्टः सुतः सः स्वर्गभाजनम् ।। ७ ।।
कृतं राज्यं प्रजाश्चानुनीता विष्णुपरायणाः ।
अथाऽऽसाद्य विनिर्वृत्तिं गमिष्येऽरण्यमेकलः ।। ८ ।।
गिरीन् वनानि सरितः सरांसि विविधानि च ।
तप्तुकामो लोकयिष्ये भारं त्वयि निवेश्य वै ।। ९ ।।
श्रूत्वा धर्मांगदः प्राह पिता प्रोक्तो जनार्दनः ।
पितुर्वाक्ये महत् स्वर्गं मोक्षश्चाज्ञाकरे पितुः ।। 1.287.१ ०।।
न हि पुत्रस्याऽन्यधर्मः पित्राज्ञाकरणं विना ।
पितृवाक्यमकुर्वाणः सुधर्मिष्ठोऽप्यधो व्रजेत् ।। ११ ।।
तस्मात् करिष्ये वचनं भवत्सन्तोषहेतवे ।
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ।। १२।।
श्रुत्वैवं पुत्रवाक्यं स राजा तुष्टो बभूव ह ।
प्राह सन्ध्यावलीं पत्नीं स्थितां लक्ष्मीमिवाऽपराम् ।। १३।।
शृणु पत्नी त्वहं धन्यस्त्वं च धन्या सुतेन वै ।
कर्णाभ्यां श्रूयते मोक्षः स प्राप्तः सत्सुतेन वै ।। १४।।
पुत्रे विनयसम्पन्ने वृत्तशौर्यसमन्विते ।
प्रतापिनि प्रणिष्पन्ने पितुर्मोक्षो गृहे ध्रुवः ।। १ ५।।
शतानन्दप्रदः पुत्रस्तारयत्येव बीजदम् ।
जननीं तारयेच्चात्राऽऽवाभ्यां प्राप्तस्तथा सुतः ।। १६ ।।
राज्यभारं न्यस्य पुत्रे त्वां चापि न्यस्य रक्षणे ।
गमिष्येऽरण्यवासार्थं संस्मृत्य प्राक्परम्पराम् ।। १७।।
कालशेषं क्षपयिष्ये प्रवास्येऽन्ते हरेर्गृहम् ।
सुखिनी भव पुत्रेण ज्ञानेनाऽऽत्मविनिष्ठया ।। १८।।
मा वियोगे कुरु दुःखं पत्याज्ञां पारमेश्वरीम् ।
मत्वा स्त्रीत्वाद् गृहे तिष्ठ कल्याणं ते भविष्यति ।। १ ९।।
श्रुत्वा सन्ध्यावली प्राह सत्यमुक्तं त्वया नृप ।
भोगाद् वैराग्यमापन्नः सेवस्व मुनिसज्जनान् ।।1.287.२० ।।
प्रसन्नाऽस्मि तवाऽऽज्ञायां पातिव्रत्यं तवाऽऽदरे ।
सर्वथाऽस्तु तव तोषो मन्मोक्षे वै सहायकृत् ।। २१ ।।
प्रजाश्चापि समापृच्छ्य क्षिप्त्वा धुरं स्वपुत्रके ।
धुरामादृत्य भूषालो दत्वा स्वं दक्षिण करम् ।। २२।।
हयमारुह्य राजा स ययौ रैवतकाननम् ।
पत्नीव्रताऽभिधविप्राऽऽश्रमं त्वश्वसरोऽन्तिकम् ।। २३ ।।
प्रविवेशातिरम्यं सत्कदलीखण्डमण्डितम् ।
अशोकबकुलोपेतं पुन्नागसरलावृतम् ।। २४।।
आम्ररायणजाम्ब्वादिक्षीरिकाकर्मदान्वितम् ।
कपित्थपिप्पलीखर्जूरनारिकेलकेतकैः ।। २५ ।।
श्रीवृक्षतालपनसैश्चन्दनैः सालचम्पकैः ।
क्रमुकैर्दाडिमैर्वंशैर्धात्रीनिम्बैश्च शोभितम् ।। २६।।
स्तम्बवल्लीतृणैर्व्याप्तं सस्यधान्याढ्यभूतलम् ।
सम्प्रपश्यन् मुनिं राजा ददर्श हुतभुक्प्रभम् ।। २७।।
पत्नीव्रताख्यविप्रं सः प्रणनाम तु सादरम् ।
मुनिनाऽऽतिथ्यसत्कारैः पूजितः प्राह भूपतिः ।। २८ ।।
अद्य मे पातक क्षीणं प्राप्तं सत्कर्मणां फलम् ।
दृष्टं तव पदाम्भोजं त्वायतिः श्रेयसाऽन्विता ।। २९ ।।
पत्नीव्रतस्ततः प्राह राजन् जन्म फलीकृतः ।
त्वादृशेनातिपुण्येनाश्रमो मे वीक्षितोऽधुना ।। 1.287.३० ।।
यममार्गं विनिर्जित्य रिक्तं कृत्वा च नारकम् ।
प्रापितो येन वै लोको वैकुण्ठपदमव्ययम् ।। ३१ ।।
सोऽस्माकं द्रष्टुकामानां चक्षुषोर्विषयं गतः ।
श्वचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ।। ३२।।
त्वं तु भागवतश्रेष्ठः प्रपूनासि महीतलम् ।
सुखमास्वाऽऽश्रमे रम्ये वद वेद्यं मयाऽस्ति यत् ।। ३ ३।।
जलपानं कुरु क्ष्मेश फलं भुंक्ष्वाऽऽश्रमोचितम् ।
सर्वं ते कुशलं न्वस्ति सुख्याश्रमे वसन् भव ।। ३४।।
राजा सत्कारमादाय त्वुवाच मुनिसत्तमम् ।
कृपया ते ऋषे सर्वं कुशलं मोदते मम ।। ३५।।
पुत्रश्चाऽऽज्ञाकरः सम्राट् सेवको विजयी क्षितेः ।
ख्यातो ममाधिको जातः सप्तद्वीपप्रपालने ।। ३६।।
एकाह्ना पृथिवीं सर्वामतीत्य बहुविस्तराम् ।
पुनरायाति शर्वर्यां मत्पादाभ्यंगकारणात् ।। ३७।।
तथाऽयं मे शुभो देहः सर्वरोगविवर्जितः ।
अप्रमेयं मम सुखं वशगा च प्रिया गृहे ।। ३८ ।।
या विलोकयते दृष्ट्या मां सदा मन्मथाऽधिकम् ।
यत्र यत्र पदं देवी विदधाति सुलक्षणा ।। ३ ९।।
तत्र तत्र निधानानि प्रकाशयति मेदिनी ।
यस्यास्त्वंगं जराहीनं वर्तते नवयौवनम् ।।1.287.४० ।।
विनाऽग्निनाऽपि सा विप्र! साधयत्येव षड्रसम् ।
अन्नं पचति यत्स्वल्पं तस्मिन् भुञ्जन्ति कोटयः ।।४ १ ।।
वाजिनो वारणाश्चापि धनधान्यमनन्तकम् ।
वर्तते च जनः सर्वो ममाऽऽज्ञया हरेर्व्रते ।।४२ ।।
इत्येतत् कुशलं सर्वं केन पुण्येन मेऽस्ति वै ।
वद विचार्य मे पुण्यं कृतं त्वत्र परत्र वा ।।४३ ।।
श्रुत्वैतद् ब्राह्मणः पत्नीव्रतः प्राग्जन्मसंचितम् ।
चिन्तयित्वा नृपं प्राह शूद्रोऽभूत्वं पुरा जनौ ।।४४।।
दुष्टया भार्यया साकं दारिद्र्येण सुदुःखितः ।
कदाचिद् द्विजसंसर्गात् तीर्थयात्रां गतो भवान् ।। ४५।।
मथुरायां तु विश्रान्तिघट्टे यामुनके ह्रदे ।
स्नात्वा वाराहनिलये कथां शुश्राव पुण्यदाम् ।।४६।।
अशून्यशयनव्रतविषयां हरितोषणीम् ।
चतुर्भिः पारणैर्यस्य व्रतस्य पूर्णता भवेत् ।।४७।।
तत्कृतं भवता राजन् त्वत्पत्न्या च व्रतं गृहे ।
श्रावणस्य तु मासस्य द्वितीयायां महीपते ।।४८ ।।
ग्राह्यमेतद् व्रतं पुण्यं जन्ममृत्युजराहरम् ।
राज्यदं पुत्रदारादिप्रदं सम्पत्करं शुभम् ।।४९।।
एकभुक्तं प्रकर्तव्यं मासैक्यं व्रतिना तथा ।
नित्यं विष्णुः पूजनीयो लक्ष्मीभर्ता प्रगे निशि ।। 1.287.५ ० ।।
फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः ।
शय्यादानैर्वस्त्रदानैस्तथा ब्रह्मिष्ठभोजनैः ।।५१ ।।
यद्वा मासे तु सप्ताहं प्रत्युपोषणमाचरेत् ।
सप्ताहान्ते पारणं वै कुर्यात् साध्वदनोत्तरम् ।।५२।।
एवं तु पारणाचतुष्टयं मासे विधापयेत् ।
अशक्तश्चेत् प्रत्यहं तु दुग्धेन वर्तयेद् व्रती ।।५३।।
शयने शुभपर्यंके लक्ष्मीं दद्यात्तु विष्णवे ।
शयनं तु विना लक्ष्मीं शून्यं विष्णोर्भवेदतः ।।५४।।
सलक्ष्मीकं तु शयनमशून्यशयनं भवेत् ।
यथा राज्ञ्याश्च राज्ञश्च सेवका नित्यमाचरेत् ।।५५।।
कैंकर्यं विविधं सर्वं दद्यात्सर्वं श्रीविष्णवे ।
तदा सर्वं तमाप्नोति व्रती जन्मान्तरे ध्रुवम् ।।५६ ।।
तत्त्वया प्राग्जनौ सर्वं कृतं सोद्यापनं यतः ।
प्राप्तं त्वत्र महद् राज्यं पुष्ट्या दानफलं हि तत् ।।५७।।
लक्ष्मीदानं विष्णवे तु शयने दत्तवान् भवान् ।
राज्ञी प्राप्ता त्वया तस्य फलेन देवता यथा ।।५८।।
यानवाहनसौधादि दानार्थं कल्पितं त्वया ।
न तु दत्तं तथाप्यत्र प्राप्तं संकल्पजं फलम् ।।५९।।
पुत्रः प्राप्तस्त्वया राजन् विष्णुलक्ष्मीप्रसादतः ।
पितुर्वचनकारी वै मनोवाक्कायशक्तितः ।।1.287.६० ।।
जायतेऽस्याऽहन्यहनि स्नानं भागीरथीभवम् ।
तस्मात् पूर्वं कृतं दत्तं पश्चाज्जन्मनि लभ्यते ।।६१।।
इति ते कथितं वृत्तं किमन्यत् करवाणि ते ।
श्रुत्वा प्राह तदा राजा रैवते भवदर्शनम् ।।६२।।
कर्तुमिच्छामि विप्रेन्द्र यद्याज्ञा भवतो भवेत् ।
ऋषिः स्वस्त्यस्तु ते राजन् गच्छेति प्राह चाशिषा ।।६३।।
राजा तुरंगमारुह्य नत्वा शीघ्रगतिर्ययौ ।
रैवताद्रौ भवनाथं शंकरं यत्र मोहिनी ।।६४।।
प्रतीक्षते तु राजानं गानं मिष्टं करोति सा ।
सुस्वरं तन्महाराजो लक्ष्यीकृत्य ययौ पुरः ।।६५।।
मृगीकुण्डे स्थितां तप्तसुवर्णाभां तु कामिनीम् ।
ऊनषोडशवर्षीयां वह्निजामिव रूपिणीम् ।।६६।।
दृष्ट्वैव मोहमापन्नो विद्धः कामशरेण च ।
कामज्वराभिभूतः सः ससर्पाऽस्याः समीपकम् ।।६७।।
ज्ञात्वा चेयं च तं क्ष्मापं कटाक्षानि मुमोच ह ।
नेत्रगण्डभुजावक्षःकुंभाऽधरनितम्बकान् ।।६८।।
प्रधुन्वाना सुमुग्धेव जगाम नृपतेः पुरः ।
रुक्मांगदं कामतप्तं प्राहोत्तिष्ठ वशे तव ।।६९।।
वर्तामि च करोम्येव यदा दिश वनेऽत्र माम् ।
यदिवात्र्छा सुरतेऽस्ति भुंक्ष्व मां रतिदासिकाम् ।।1.287.७०।।
राजा प्राह तदा नारीं तपसे यद्यपि त्वहम् ।
समागतोऽस्म्यरण्येषु त्वां तथापि विलोक्य वै ।।७१।।
जातोऽस्मि कामनायुक्तः पूर्णचन्द्रनिभानने! ।
यादृशं त्वं धारयसे रूपं सर्वविमोहनम् ।।७२।।
नेदृशं वै मया दृष्टं त्वद्यापि ब्रह्मणः कृतौ ।
कुरु प्रसादं रम्भोरु बद्धचेतसि वै मयि ।।७३।।
आगच्छांऽकं ममाऽमूल्यं स्वीयत्वेनाऽप्यलंकुरु ।
आत्मानमपि दास्यामि किं पुनर्धनरत्नकम् ।।७४।।
राज्यं वेष्टतमं दत्वा निवसिष्ये त्वयाऽत्र वै ।
नृपं सा मोहितं चाति विज्ञायाऽवसरं तथा ।।७५।।
समुवाच स्मितं कृत्वा ब्रह्मोक्तं सुविचिन्त्य च ।
न राज्यं धनरत्नादि वरये वसुधाधिप ।।७६।।
यद्वदिष्याम्यहं काले तत्कार्यमविशंकया ।
भजिष्यामि न सन्देहः कुरुष्व समयं मम ।।७७।।
शपथं कुरु राजेन्द्राऽवश्यं कुर्वे इतीरय ।
तदा भोगं प्रदास्येऽहं नाऽसाध्यं ते भवेद्धि तत् ।।७८।।
राजा प्राह तदा कामरूपयौवनमोहितः ।
येन सन्तुष्यसे देवि! समयं ते करोम्यहम् ।।७९।।
शपथं चोच्चरन् वच्मि करिष्ये वचनं तव ।
मोहिन्यपि च तं प्राह दीयतां दक्षिणः करः ।।1.287.८०।।
धर्मकरप्रदानेन प्रत्ययो वचने तव ।
भवेन्मेऽथ न वक्ताऽस्यनृतं काले विनिर्णयः ।।८ १।।
दृढो जातः पणो नौ वै मार्गोऽयं धर्मसाक्षिकः ।
राजा प्राह च तां नारीं किमेभिः प्रत्ययैर्दृढैः ।।८२।।
जन्मप्रभृति वामोरु नानृतं भाषितं मया ।
दत्तो ह्येष मया हस्तो दक्षिणः पुण्यदानकृत् ।।८३।।
यन्मया सुकृतं किञ्चित् कृतमाजन्म सुन्दरि ।
तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः ।।८४।।
अन्तरे ह्येष दत्तो मे धर्मो भार्या भवाऽङ्गने ।
रुक्मांगदो महाराजः कथयामि वनान्तरे ।।८५।।
प्रत्युत्तरप्रदानेन प्रसादं कर्तुमर्हसि ।
नृपेणैवं समादिष्टा मोहिन्याहोत्तरं वचः ।।८६।।
अहं ब्रह्मभवा राजन् त्वदर्थं समुपागता ।
श्रुत्वा कीर्तिं स्मरोपेता रैवतं कनकाचलम् ।।८७।।
सम्पूजयन्ती देवेशं गीतदानेन शंकरम् ।
येन तुष्टेन देवेन ह्युपकारः कृतो मयि ।।८८।।
यद्भवानचिरेणैव प्राप्तोऽसीप्सितसुन्दरः ।
अभिप्रीतोऽसि मे राजन्नभिप्रीता ह्यहं तव ।।८९।।
मा शंकां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम् ।
उद्वहस्व महीपाल गृह्योक्तविधिनाऽत्र माम् ।।1.287.९० ।।
आश्रुत्य राज्ञा तत्रैव विधिना सा विवाहिता ।
भवेन विष्णुना दामोदरेण स विवाहितः ।।९ १ ।।
वन्यमूलफलान्यत्त्वा दम्पतीधर्ममाश्रितौ ।
रेमाते विविधैर्भावैर्नवयौवनगर्भितैः ।।९२।।
मोहिनी तं कामभावैः रमयत्यत्यहर्निशम् ।
सत्यलोकात्तथा स्वर्गाद् भोग्यानादाय चोत्तमान् ।।९३।।
सेवते तं पतिं भुंक्ते भोगानमरदुर्लभान् ।
रुक्मग्रामो नवस्तत्र रचितो दिव्यनाकिभिः ।।९४।।
दिव्यदासीदासभृत्यैः सुरम्यसौधपंक्तिभिः ।
यानवाहनकोद्यानैः कामधेनुगजादिभिः ।।९५।।
तत्र भोज्यादनपेयोपधार्याम्बरभूषणैः ।
राजसैर्द्रववस्त्वाद्यैर्न न्यूनत्वमभूत्तदा ।।९६।।
कामभोगे रतयोश्च तयोर्वै वर्षविंशतिः ।
समयः समतीतोऽभूत् तृप्तो राजाऽप्यभूत्तया ।।९७।।
अहो रूपं मदर्थं वै ब्रह्मणा निर्मितं शुभम् ।
हस्तिहस्तसन्निकाशे जंघे कांचनसन्निभे ।।९८।।
दन्तपंक्तिश्चन्द्रपंक्तिर्गूढे गुल्फे तु मोहके ।
नेत्रे पंकजविस्तारे स्तनौ कांचनकुंभकौ ।।९९।।
कटिर्मृगेन्द्रकटिवत् स्वल्पं मध्यं सुसौरभम् ।
कृताऽर्थोऽहं खल्वनया देयं याचिष्यते तु यत्। ।। 1.287.१०० ।।
दुर्लभं चापि दास्यामि त्वदेयमपि सर्वथा ।
याचिष्यते जीवितं मे दास्याम्येव न संशयः ।। १०१ ।।
एवं सुरतमूढस्य राज्ञो रुक्मांगदस्य तु ।
चत्वारि पंचवर्षाणां व्यतीतानि निमेषवत् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रुक्मांगदः पुत्रे राज्यं विन्यस्य वनं जगाम, तत्राश्वपट्टसरस्तीरवासिपत्नीव्रतर्षिकथितस्य रुक्मांगदपूर्वजन्मादेः श्रवणम्, ततो रैवताचले मोहिन्याः समागमः, समयशपथश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिकद्विशततमोऽध्यायः ।। २८७ ।।