लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८६
[[लेखकः :|]]
अध्यायः २८७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो धर्मराजः प्राह पितामहम् ।
अहो कीदृशमाश्चर्यं यदि राजा प्रमोक्षदः ।। १ ।।
देवाः सर्वे तदा व्यर्थाः शासनं च निरर्थकम् ।
रुक्मांगदाद्धरौ तत्र भेदो न स्यान्मनागपि ।। २ ।।
यमपुर्या देवपुर्या ब्रह्मपुर्या नियामकः ।
रुक्मांगदो भवेद् भौमो हरिरेव भवेद्धि सः ।। ३ ।।
तमेकं भोजयित्वा तु प्रपूज्य हरिवासरे ।
कृतकृत्यो भविष्यामि गृहाण त्वत्परं विधे ।। ४ ।।
यदि नामाद्यप्रभृति यैर्नरैः संस्मृतो हरिः ।
उपोषितः स्तुतो वापि ते बाह्या मम शासनात् ।। ५ ।।
नेदृशं कर्मचारित्वं द्विसत्ताकं प्ररोचते ।
अन्यं नियुङ्क्ष्व सहते भग्नसत्ताकतां तु यः ।। ६ ।।
इति कृत्वां पटं त्यक्त्वा स्थितो मौनं यमाधिपः ।
ब्रह्मा तदा सभायां वै पटग्राहं व्यचिन्तयत् ।। ७ ।।
प्रकाशं कृतवाँस्तत्र समुत्थाय पुनः पुनः ।
पट्टं गह्णन्तु ये केचिद् यमराज्यं ददाम्यहम् ।। ८ ।।
रुक्मांगदनृपाज्ञा तु नोल्लंघ्येति पणान्वितम् ।
यमासनं प्रगृह्णन्तु पटं रिक्तं ददाम्यहम् ।। ९ ।।
श्रुत्वापि न यदा कश्चित् स्वीयशासनमाप्नवान् ।
परशासनकैंकर्ये स्थातुं परवशे पदे ।। 1.286.१० ।।
इयेष तु तदा प्राह नारदस्तं पितामहम् ।
मानवाधीनमैश्वर्यपदं को गृह्णीयात्सुरः ।। १ १।।
तस्मादत्रान्यपन्थानं विचारय पितामह ।
येन वै यममार्गो वा प्रतिरुद्धो न वै भवेत् ।। १ २।।
स्वर्गमार्गोऽपि संरुद्धो न भवेत् तत्तथा कुरु ।
श्रत्वैवं नारदीयं वै वचनं बहुगर्भितम् ।। १३।।
वैवस्वतस्य कार्यार्थं तत्सन्मानचिकीर्षया ।
चिन्तयामास विश्वसृट् मोक्षे विघ्नकरं तु यत् ।। १४।।
स्वस्मादुत्पादयामास प्रमदां लोकमोहिनीम् ।
सर्वयोषिद्वरा देवी मनसा निर्मिता बभौ ।। १५।।
इयं ब्राह्मी दिव्यरूपा दिव्याभरणभूषिता ।
प्रोद्भिन्नयौवना दृष्टा सर्वैश्चकितमानसैः ।। १६ ।।
मोहितास्तु तदा सर्वे संसत्स्था ब्रह्मसृष्टिजाः ।
मोहो मोक्षप्रतिरोद्धा मोहिनी मोक्षनाशिनी ।। १७।।
सम्यग् जातं कौतुकं तत् प्राहेमान् पश्यतो ह्यजः ।
सरागेणेह मनसा सरागेणेह चक्षुषा ।। १८।।
चिन्तयेद्विक्षयेद्वापि जननीं वा सुतामपि ।
वधूं वा भ्रातृजायां वा गुरुभार्यां नृपस्त्रियम् ।। १९।।
स याति नरकं घोरं संचिन्त्य श्वपचीमपि ।
दृष्ट्वा तु प्रमदामेतां यः क्षोभं व्रजते जनः ।।1.286.२०।।
तस्य जन्मकृतं पुण्यं वृथा भवति पुत्रकाः ।
प्रसंगे दशसाहस्र पुण्यमायाति संक्षयम् ।।।२१।।
पापेन तु तदा प्राणी तिर्यग्योनिमवाप्नुयात् ।
तस्मान्न चिन्तयेत्पश्येद् वदेत् स्त्रीं मनसाऽघिना ।।२२।।
स्त्रीर्न विचिन्तयेत्पश्येद् वदेत् पुं मनसाऽघिना ।
साभिलाषेण मनसा तत्क्षणात्पतते जनः ।।२३ ।।
एवमाभाष्य बहुधा विरिञ्चिर्ज्ञानचक्षुषा ।
विलोक्य मोहिनीं सार्थां क्षणं व्यचिन्तयत्ततः ।।२४।।
यथेयं मनसा क्लृप्ता मानसोन्मादकारिणी ।
तथैव जाता बन्धाय यमस्तोषं प्रयास्यति ।। २५।।
यममार्गोऽनया सम्यग् भविष्यति सुवाहितः ।
स्वर्गं वा नरकं वापि रिक्तं क्वचिन्न पत्स्यते ।।२६।।
तावदाह प्रणम्यैनं मोहिनी चतुराननम् ।
पश्य मूर्छान्वितं ब्रह्मन् सभ्यं स्थावरचेतनम् ।।२७।।
मोहितं मम रूपेण निमग्नं बन्धसागरे ।
स नास्त्यद्यात्र यः कोपि दृश्यते मम दर्शनात् ।। २८।।
स्वल्पं वा बहुलं वाऽपि न क्षोभं संगतो मयि ।
साहं सृष्टा त्वया ब्रह्मन् कस्यचित् क्षोभणाय तु ।।२९।।
तमादिश विधे शीघ्रं क्षोभयिष्ये क्षणाद्धि तम् ।
मां दृष्ट्वा च भुवि क्ष्माभृज्जडोपि द्राग् विमुह्यति ।।1.286.३० ।।
किं पुनश्चेतनो जीवो मोहपात्रं विनिर्मितः ।
इत्युक्त्वा विररामेयं ब्रह्मोवाच तु तां मुदा ।।३ १।।
सत्यमेतद् विशालाक्षि! तव रूपं विमोहकम् ।
इमे सभासदाः सर्वे जडा इव तु दर्शनात् ।।३२।।
विद्यन्ते तत्तथैवाऽसि विजयोऽस्तु सदा तव ।
यन्निमित्ता मया सृष्टा तत्प्रसाधय मोहिनि! ।।३३।।
सुराष्ट्रके महीदेशे राजा रुक्मांगदोस्ति वै ।
यस्य सन्ध्यावली पत्नी तव रूपोपमास्ति हि ।।३४।।
यस्यां धर्मांगदः पुत्रो जातोऽस्ति गुणतोऽधिकः ।
यो न वाक्याद्विचलति सर्वदाऽऽज्ञाकरः सुधीः ।।३५।।
तस्य रुक्मांगदस्यैव समीपं याहि मोहिनि! ।
रैवताख्ये महाशैले स राजा त्वागमिष्यति ।।३६।।
मोहितस्तव गीतेन संगं यास्यति स त्वया ।
तत्र देवि त्वया वाच्यं कृत्वा तं विवशं त्वति ।।३७।।
अहं भार्या भविष्यामि पणो रक्ष्यो यदि त्वया ।
कथयिष्ये त्वहं काले तत्कर्तव्यं त्वया ध्रुवम् ।। ३८ ।।
इति श्रुत्वा मोहितः स तथैव प्रतिपत्स्यते ।
तदा तद्दक्षिणो हस्तस्त्वया ग्राह्यः स्वके करे ।। ३ ९।।
शपथैर्वचने बन्धनीयः समयपालने ।
ततः सुरतकार्ये सः तोषणीयोऽतिमुग्धवत् ।। 1.286.४० ।।
गाढे स्नेहे स्थिरे जाते मासेष्वपगतेष्वथ ।
सुरते तव चार्वंगि! यदा मुग्धो हि लक्ष्यते ।।४ १ ।।
प्रहस्य नृपतेः स्मारयितव्यं स्वं पणं वचः ।
यस्त्वया शपथो राजन् कृतो मद्वाक्यपालने ।।४२।।
तत्पालय महाराज मन्येऽहं समयोऽस्त्विति ।
एवमुक्ते त्वया राजा मुग्धो वै सत्यगौरवात् ।।४३ ।।
वदिष्यति पालयामि ब्रूहि किं ते ददाम्यहम् ।
एवमुक्ते तु वचने त्वया वाच्यस्तदा नृपः ।।४४ ।।
सुरते तूपवासस्तु मतो नैर्बल्यकारकः ।
रतेर्योगे महान् विघ्नो ह्युपवासः क्षुधाकरः ।।४५।।
नोपवासस्त्वया कार्यो जातु वै हरिवासरे ।
सुरतस्रंसकारी मे ह्युपवासोऽस्ति विघ्नकृत् ।।४६ ।।
सुमुग्धां यौवनोपेतां सेवमानां न सेवते ।
पर्वाक्षेपी दुराचारो निर्दयो याति रौरवम् ।। ४७ ।।
त्रिरात्रं त्वां विना राजन्! स्थातुं शक्ता कथं न्वहम् ।
नाहं दिवसमप्येकं स्थातुं शक्ता त्वया विना । ।४८ ।।
उपोषणं तव राजन् महापापाय जायते ।
यत्राहं कामदाहेन प्रज्वलामि त्वया विना ।।४९ ।।
यदि चेत् तरुणी रक्ष्या देयं रतिसुखं सदा ।
यद्यशक्तो रतेर्दाने न रक्ष्या तरुणी तदा ।।1.286.५ ० । ।
कामदाहविनिःश्वासस्तरुणीहृदयोद्भवः ।
व्रतिनामपि पुण्यानि प्रज्वालयति मूलतः ।।५ १ ।।
तस्माद् राजन्प्रवार्धक्ये कर्तव्या हरिवासराः ।
तारुण्ये तु ममाऽतीते करिष्ये हरिवासरान् ।।५२ ।।
एवं सम्बोध्यमानोपि यदा भूभृद्वचस्तव ।
न करिष्यति चार्वंगि! तदा वाच्यं परं वचः ।। ५३ ।।
यदि न त्यजसे राजन्नुपवासं हरेर्दिने ।
स्वहस्तेन शिरश्छित्वा स्वपुत्रस्य वराऽसिना ।।५४।।
धर्मांगदस्य राजेन्द्र ममोत्संगे क्षिप स्वयम् ।
यद्येतन्मत्प्रियं राजन्न करोषि वचः क्षतेः ।।५५ ।।
धर्मक्षीणो भवान् गन्ता ह्यचिरान्नरके ध्रुवम् ।
श्रुत्वैतद्वचनं देवि । न हनिष्यति पुत्रकम् ।। ५६।।
देवानुमतिमादाय भोक्ष्यते हरिवासरे ।
तद्वा प्रजाः प्रभोक्ष्यन्ते तदीया हरिवासरे ।।५७।।
याम्यमार्गो जनैस्तर्हि संप्रवृत्तो भविष्यति ।
नारकाणां भालपंक्तिप्रमाणं च भविष्यति ।।५८।।
यदा न भोक्ष्यते किंचिद् भक्तत्वाद्धरिवासरे ।
हनिष्यति तदा पुत्रं राज्याभिषिक्तमेव तम् ।।५९ ।।
तदा प्रयास्यति क्ष्माभृत् स्त्रीजीतत्वप्रदूषणम् ।
मूर्धाभिषिक्तघातित्वं पुन्नामनरकार्तिताम् ।। 1.286.६० ।।
पितॄणां पातयितृत्वं स्वात्मघातित्वमित्यपि ।
एभिर्दोषैरचिरात् स निधनं प्राप्स्यते नृप ।।६ १ ।।
यममार्गे स्वयं गत्वा पूरयिष्यति रौरवम् ।
यद्वा व्रतबलाच्छीघ्रं हरेर्धाम्नि प्रयास्यति ।।६२।।
शासनं प्रतिरुद्धं स्याज्जना अत्स्यन्ति वै व्रते ।
भविष्यति यममार्गः समुद्धाटित एव ह ।। ६३ ।।
गच्छ शीघ्रं प्रतीक्षस्व रुक्मांगदं तु रैवते ।
कृतकार्या समागच्छ विद्धां दास्ये तिथिं गृहम् ।।६४।।
मोहिनी त्वेवमुक्ता सा प्रणम्याऽजं सभासदान् ।
वीक्ष्यमाणाऽमरैर्मार्गे प्रतस्थे रैवताचलम् ।। ६५ ।।
तृतीयेन मुहूर्तेन संप्राप्ता गिरिमस्तकम् ।
रैवतो मन्दराद्र्यात्मा सौराष्ट्रे राजतेऽचलः ।। ६६ ।।
रत्नानां मन्दिरं ह्येषो बहुधातुसमन्वितः ।
क्रीडाभूमिः सुराणां च तपोभूर्यस्तपस्विनाम् ।। ६७।।
कृष्णनारायणस्याऽयं विहारोद्यानसन्निभः ।
स्वर्णरक्षा नदी यत्र वहते कांचनप्रभा ।। ६८ ।।
भवेश्वरं महालिंगं वर्तते वामनोपि वै ।
दामोदरस्वरूपेण गह्वरारण्यभूमिषु ।।६९।।
मृगीकुण्डतटे बाला गत्वा पीत्वा जलं शुभम् ।
भुक्त्वा सीताफलं स्वादु चक्रे संगीतमुत्तमम् ।।1.286.७० ।।
मूर्छनातालसहितं गान्धारध्वनिसंयुतम् ।
क्लमहानिकरं मिष्टं सर्वसत्त्वविमोहनम् ।।७ १ ।।
चिञ्चाद्रुमघटाछन्नः श्रत्वा भवेश्वरः शिवः ।
तदा भोक्तुमनाः कामातुरश्चाति व्यजायत ।।७२।।
चचाल मन्दिरात्स्वस्माद् यत्र गायति मोहिनी ।
स्वर्णरेखा स्थिरा जाता वनं स्तब्धं तदाऽभवत् ।। ७३ ।।
दामोदरोऽपि चायातो वनराजिस्वरभ्रमात् ।
वनदेवा रैवताद्रिः स्वराऽऽकृष्टाः समाययुः ।।७४।।
मोहिनी गीतिकामग्ना प्रतीक्षति नृपागमम् ।
रुक्मांगदोऽपि वैराग्यादरण्यं गन्तुमिच्छति ।।७५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यमराजस्य सत्तापट्टत्यागमिषेण पितामहेन संवादो, मोहिनीस्त्रीसमुत्पादनं, शिक्षयित्वा रैवताद्रौ रुक्मांगदनृपं प्रति मोहिनीप्रेषणं, मोहिनीसंगीतमित्यादिनिरूपणनामा षडशीत्यधिकद्विशततमोऽध्यायः ।। २८६।।