लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९१
[[लेखकः :|]]
अध्यायः २९२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महाभागवतो रुक्मांगदो नृपः ।
सामाऽन्तिमं समाश्रित्य यदब्रवीत्तु मोहिनीम् ।। १ ।।
दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति ।
किं फलं भविता तेऽत्र हत्वा धर्मांगदं सुतम् ।। २ ।।
भोजयित्वा दिने विष्णोः को लाभो भविता तव ।
अन्यं याचस्व सुभगे वरं वृणे तवाग्रतः ।। ३ ।।
प्रसादं कुरु चार्वंगि! पुत्रभिक्षां प्रयच्छ मे ।
दुर्लभो गुणवान् पुत्रो दुर्लभो हरिवासरः ।। ४ ।।
दुर्लभाऽऽज्ञाकरी पत्नी हरेः सेवापि दुर्लभा ।
कथं पुत्रं व्रतं वापि हन्मि ते मे परं प्रियम् ।। ५ ।।
मोहिन्युवाच राजानं न मे तत्रास्ति चाग्रहः ।
धर्मांगदो न मे शत्रुर्नाऽहं हन्मि सुतं तव ।। ६ ।।
तव पुत्रो यथा सोऽयं मम पुत्रस्तथैव सः ।
कथं हन्मि स्वकं पुत्रं त्रातारं निरयादहम् ।। ७ ।।
पूर्वमेव मया प्रोक्तं भुंक्ष्व त्वं हरिवासरे ।
नाहं व्यापादये पुत्रमर्थसिद्धिस्तु भोजने ।। ८ ।।
मम भूमिपते कार्यं पुत्रनाशे न सिद्ध्यति ।
मम कार्यस्य संसिद्धिर्भोजने हरिवासरे ।। ९ ।।
यदर्थं प्रेषिता पत्नीरूपा देवैस्तवाऽन्तिगा ।
ततः पुत्रः प्रियोऽस्त्येव भुज्यतां हरिवासरे ।। 1.291.१० ।।
सत्यं संरक्ष यत्नेन कुरुष्व वचनं मम ।
एवं दृढाग्रहां दृष्ट्वा धर्मांगदोऽप्युवाच ताम् ।। ११ ।।
एतदेव गृहाण त्वं मा शंकां कुरु मोहिनि! ।
इत्युक्त्वा खड्गमादाय प्राह स्वपितरं सुतः ।। १२ ।।
न विलम्बः पितः कार्यस्त्वया ममनिपातने ।
मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम् ।। १३ ।।
आत्मा रक्ष्यो धनैर्दारैः सुताभिश्च सुतैरपि ।
त्वदर्थे मरणं मेऽस्तु ब्रह्मलोकप्रदं भवेत्। ।। १४।।
तथापि शाश्वती मुक्तिः स्वर्गं वा शाश्वतं भवेत् ।
सत्यार्थे दुःखमृत्सृज्य कुरु व्यापादनं मम ।। १५ ।।
पित्रर्थे चापि मात्रर्थे गवार्थे च हतास्तु ये ।
विप्रसाधु सुरार्थे च स्वाश्रितार्थे गुरोः कृते ।। १ ६।।
धर्मार्थे च हता राजन् यान्ति लोकांस्तु शाश्वतान् ।
जहि मां पालय सत्यं मा भुंक्ष्व हरिवासरे ।। १७।।
नरमेधोऽयमास्थेयो हरेर्वासरकारणात् ।
तत्र नास्ति मनाक्दोषः परितापं च मा वह ।। १ ८।।
इत्येतत्समये लक्ष्मि! देवाः ऋषिगणास्तथा ।
मुनयः पितरश्चापि मनवश्च दिशाधिपाः ।। १९ ।।
स्वर्गीया वायवीयाश्च भौमाः पातालवासिनः ।
दृश्याऽदृश्यशरीराश्च स्थावरा जंगमास्तथा ।। 1.291.२० ।।
देव्यः कोट्यर्बुदाश्चापि तीर्थयात्रार्थमागताः ।
ब्रह्मविष्णुमहेशाश्च विष्णुकृष्णनरायणाः ।। २१ ।।
रैवताचलमार्गस्थाः पश्यन्त्याश्चर्यसंभृताः ।
जिज्ञासमानाः श्रैष्ठ्यं वै हनने वा ह्युपोषणे ।। २२ ।।
धर्मतत्त्वं तथा कुत्र जीवने भोजनेऽथवा ।
तदानीं व्योममार्गस्थो भगवान् कमलेक्षणः ।। २३ ।।
अन्तर्धानगतस्तस्थौ भक्तधैर्यावलोककः ।
मोहिन्युक्तं भुंक्ष्व राजन् पुत्रोक्तं जहि मां पितः ।। २४।।
शृण्वन् देवः कृष्णनारायणः सत्य परीक्षकः ।
राजा प्रणम्य गोविन्दं खड्गं जग्राह पाणिना ।। २५ ।।
धर्मांगदोऽपि पितरौ नीत्वा रैवतदेवताः ।
अदीनवचनो ग्रीवां खड्गमार्गे न्यधापयत् ।। २६।।
हाहाकारो महानासीच्चाक्रोशस्तीर्थयायिनाम् ।
चचाल पृथिवी सर्वा ससिन्धुनगराष्ट्रिका ।। २७।।
निपेतुरुल्काः शतशो द्यौर्निस्तेजोग्रहान्विता ।
कालुष्यमापुस्तीर्थानि विवर्णाऽभूच्च मोहिनी ।। २८ ।।
देवकार्यं कृतं नैव जन्म निरर्थकं कृतम् ।
राज्ञा भुक्तं न चान्नं वै तृणतुल्या कृता ह्यहम् ।। २९।।
राजा यास्यति मोक्षं वै याम्यं यास्यामि पापिनी ।
इति शोकेन मूर्छायां पपात धरणीतले ।। 1.291.३० ।।
राज्ञा प्रचिच्छिदे हर्षात् खड्गेन पुत्रमस्तकम् ।
तावद्व्यक्तेन कृष्णेन पश्यत्सु कोटिदेहिषु ।। ३१ ।।
स्वकरेण धृतो राजा तुष्टोऽस्मि ब्रुवता मुहुः ।
पुत्रेण तव पत्न्या च त्वया सर्वं कृतं मम ।। ३ २।।
मद्व्रतार्थं कृतं चेद्ं नान्यः करिष्यति क्वचित् ।
विजीता मोहिनीमाया यममूर्घ्नि पद्ं धृतम् ।। ३३ ।।
तुष्टोऽस्मि चागच्छ विमानवर्यं सपुत्रपत्नीसुहृदादिभिश्च ।
त्रैलोक्यपूजां विमलां गृहाण प्रयाहि वासं मयि दिव्यमूर्तौ ।। ३४।।
दिव्यो राजा चतुर्हस्तो दिव्या दारसुतादयः ।
बभूवुः कृष्णमूर्तौ ते विलीनाः सुचतुर्भुजाः ।। ३५।।
धर्मजयप्रघोषाश्चाऽऽकाशवाण्योऽभवँस्तदा ।
पुष्पवृष्टिः पपाताम्बरस्थदेवविसर्जिता ।। ३६। ।
लोकपालैस्ताडिता दुन्दुभयो नेदुरुत्कटाः ।
जगुर्गीतानि ननृतुर्मुदा युक्ताः सुरांगना ।। ३७।।
रैवतेन तथा तीर्थयायिभिर्वर्धितो नृपः ।
सुतदारादियुक्तस्य शाश्वतं धाम तेऽस्त्विति ।। ३८ ।।
यात्रालुभिस्तदीयैश्च देहा नारायणे ह्रदे ।
वह्निना संस्कृताश्चोर्ध्वक्रियाः प्रातः प्रवर्तिताः ।। ३९ ।।
धन्यवादान् प्रब्रुवाणाः प्रदक्षिणाय ते ययुः ।
अभुञ्जानाः प्रबोधिन्यां द्वादश्यां त्वेकभोजनाः ।।1.291.४० ।।
त्रयोदश्यां चतुर्दश्यां पूर्णायां चैकभोजनाः ।
रैवताद्रिं परिक्रम्य पूर्णायां ते ययुः सुखाः ।।४ १ ।।
मोहिनी दुःखमापन्ना सव्रीडा चाऽयशस्विनी ।
अकृतकार्या चाऽरण्ये मर्तुकामा बभूव ह ।।४२।।
यमोऽपि विफलं सर्वं दृष्ट्वा ब्रह्माणमाह वै ।
मोहिनी निष्फला जाता वन्ध्यास्त्री जनने यथा ।।४३ ।।
लोकः प्रयाति वैकुण्ठं न मां कश्चित्प्रपद्यते ।
नृपे मृतेऽपि लोकानां भक्तौ ह्रासो न वर्तते ।।४४।।
उपोष्य वासरं विष्णोः सर्वे यान्ति परं पदम् ।
मोहिनी मरणोद्युक्ता नायाति तव सन्निधौ ।।४५।।
निर्व्यापारस्त्वहं प्राग्वत् कि, करोमि प्रशाधि माम् ।
यमवाक्यं समाश्रुत्य ब्रह्मा प्रोवाच सूर्यजम् ।।४६ ।।
गच्छामो मोहिनीं बोधयितुं पश्चात् तवार्थकम् ।
करिष्यामो यथायोग्यं दैवमन्यद् विचिन्तयेत् ।।४७।।
इति कृत्वा वने तत्र समायाता अजादयः ।
तेजोहीनां नष्टकार्यां त्वपश्यँस्ता दिवौकसः ।।४८ ।।
निरुत्साहां नम्रशीलामूचुर्देवा सुकालिकम् ।
मा शोकं कुरु धर्मज्ञे! पौरुषं हि त्वया कृतम् ।।४९ ।।
प्रेषिता देवकार्यार्थं सिद्धं तन्न तथापि वै ।
त्वया शोको न कर्तव्यो ययौ राजा तु मोक्षणम् ।।1.291.५० ।।
नहि श्रीहरिभक्तानां विघ्नं कदापि जायते ।
हते पुत्रे हरिणा स्वव्रतभक्ताऽवनं कृतम् ।।५ १ ।।
सुतः पत्नी नृपश्चैते सुदृढा व्रतपालने ।
विष्णुना परितुष्टेन नीताः स्वभवने त्रयः ।।५२।।
तेषां योगं समापन्ना नीताश्चाऽसंख्यदेहिनः ।
हरेर्भक्तिः सदा रक्षाकरी मोक्षकरी ध्रुवम् ।।५३ ।।
फलं कर्मणि चारब्धे यदि देवि! न सिद्ध्यति ।
सर्वयत्नैरपि चेद्वै दोषः कोऽत्र तवाऽधुना ।।५४।।
तस्माद् वरप्रदानाय तव सौख्यप्रवृत्तये ।
सम्प्राप्ता विबुधाः सर्वेऽभीष्टयाचनिकां कुरु ।।।५५।।
सिद्धौ च वाऽप्यसिद्धौ वा वेतनं देयमेव ह ।
भर्तव्यो भृत्यवर्गश्च रक्षणीयस्तथा मुहुः ।।५६ ।।
सुरैरेवं समादिष्टा पतिहीनाऽतिदुःखिता ।
उवाच मोहिनी नष्टानन्द कुलविनाशिनी ।।५७।।
धिगिदं जीवितं मेऽत्र येन कार्यं न साधितम् ।
न कृतो यममार्गश्च जनैर्गम्यस्त्वनर्गलः ।।५८ ।।
हरेर्दिने न लुप्तं च न भुक्तं हरिवासरे ।
राज्ञा तेन प्रभक्तेन हतः पुत्रो मुदा प्रियः ।।५९ ।।
गतो मूर्घ्नि पदं दत्वा राजा विष्णोर्ध्रुव पदम् ।
सर्वस्वं मे गतं त्वत्र किन्नु मे जीवितं फलम् ।।1.291.६ ० ।।
न साधयन्ति ये कार्यं स्वामिनां वेतनार्थिनः ।
भृत्यास्ते दोषभोक्तारो जायन्ते भूतले हयाः ।।६१ ।।
कार्यस्याऽसाधिका चाहं भर्तृपुत्रविनाशिनी ।
कथं वरं प्रगृह्णामि भवतां नाकवासिनाम् ।।६२।।
मरणं सर्वथा श्रेष्ठं भग्नमानस्य देहिनः ।
इति कृत्वा रुरोदोच्चैर्देवा ऊचुस्तु सान्त्वनाम् ।।६३ ।।
परिश्रमः कृतो देवि! त्वयाऽस्मत्कार्यसाधने ।
दैवाधीनं फलं ज्ञात्वा मा शोकं कुरु मोहिनी! ।।६४।।
अनृणास्तु भविष्यामः कृत्वा तूपकृतिं तव ।
सौख्यार्थं यद्भवेदिष्टं दास्यामो ब्रूहि हृद्गतम् ।।६५ ।।
यत्र रुक्मांगदस्त्वास्ते तत्र यातुं समीहया ।
मोहिनी मनसा यावद्विचारयति तावता ।।६६ ।।
नृपतेराजगामाऽत्र पुरोधाः पावकोपमः ।
रैवताद्रेर्गह्वरस्थस्वर्णरेखाह्रदे वसुः ।।६७।।
उषितः प्राणमायम्य निर्गतो जलमध्यतः ।
ज्ञात्वा योगेन सत्सर्वमुवाच वरदान् सुरान् ।।६८।।
धिगिमां धिक् देवसंघं धिक्कर्म पापकारकम् ।
किं विचिन्त्याऽऽगताश्चास्यै वरं दातुं धिगीश्वरान् ।।६९।।
सुतभर्तृघातिनीयं किं पात्रं गण्यते सुरै ।
नाऽस्या लोके भवेच्छुद्धिर्वह्नौ संपतनेऽपि हि ।।1.291.७० ।।
चाटुवाग्भिर्मोहयित्वा भूत्वा स्वार्थपरा प्रिया ।
सुतभर्तृघातिनीयं स्वमोक्षस्वर्गघातिनी ।।७ १ ।।
नाऽस्या वासो निरयेऽपि कुतः स्वर्गे हरेर्गृहे ।
लोकान्तरेऽथवा शान्ते वासहीना भ्रमत्वियम् ।।७२।।
लोकनिन्दादूषिताया लोकेऽप्यत्र न वै स्थितिः ।
धिगस्या जीवनं कर्मगर्हिताया वदामि किम् ।।७३ ।।
पतिं हत्वा सुतं हत्वा सपत्नीं जननीसमाम् ।
हत्वा धरां समस्तां च कां गतिं यास्यति न्वियम् ।।७४।।
वचनेनापि धर्मस्य विध्वंसिनी हि सर्वदा ।
उक्तवती सदा राज्ञे भुज्यतां हरिवासरे ।।७५।।
अज्ञानाद् व्याहृते वाक्ये भुज्यतां हरिवासरे ।
तस्यापि निष्कृतिः प्रोक्ता प्राणायामशतेन वै ।।७६।।
इयं प्रसह्य संभोक्त्री हरेरह्नो व्रतस्य हि ।
नैषा स्पृश्याऽस्ति देवेशा! कथमस्या वरप्रदाः ।।७७।।
पालनं पापयुक्तस्य न कुर्वन्ति दिवौकसः ।
देवा धर्माश्रिता धर्मो वेदवाक्यसमुत्थितः ।।७८।।
वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः ।
न पितुः स्वार्थकरणं वधूधर्मः प्रकीर्तितः ।।७९।।
यद् ब्रवीति पतिः किंचित्पत्न्या कार्यमशंकया ।
शुश्रूषा सा हि विज्ञेया यया स्यात्पतितोषणम् ।।1.291.८ ० ।।
भर्तुराज्ञा हृता स्वस्या आज्ञास्थापनवाञ्छया ।
स्वकार्यसाधनार्थाय शपथैर्यन्त्रितो नृपः ।।८ १ ।।
घातिनीयं वचोभिश्च क्रिययाऽपि विघातिनी ।
कुटुम्बघातिनी सेयं पापदेहा च पापिनी ।।८२।।
हत्यायुताधिकाऽधेयं वरयोग्या कथं भवेत् ।
योऽस्याः पक्षेऽपि वर्तेत देवो वा दानवोऽपि वा ।।८३।।
मोहिन्या रक्षणे कश्चित् प्रयत्नं कुरुते यदि ।
तं चापि भस्मसात् कुर्यां क्षणेन सुरसत्तमाः ।।८४।।
राजा मोक्षं गतः सत्यात् पापमस्यां विसृज्य वै ।
अस्याः पक्षं कुर्वतोऽपि पापं तस्याः प्रसज्यते ।।८५।।
इत्युक्त्वा क्रोधताम्राक्षः संगृह्य सलिलं करे ।
चिक्षेप मोहिनी मूर्ध्नि प्रजज्वालाऽनलस्ततः ।।८६।।
पश्यतां नाकवासानां प्रददाह स मोहिनीम् ।
तावत्। खे महतां वाचः कोपं संहर संहर ।।८७।।
बभूवुस्तावदेवेयं भस्मशेषाऽभवत् क्षणात् ।
निराशा देवताः सर्वे ययुर्भग्नहृदो गृहम् ।।८८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रुक्मांगदेनोपदिष्टसामोत्तरं क्रूराया इच्छया खड्गेन पुत्र-
शिरश्छिन्नमथ देवेषु पश्यत्सु सुतदारनृपाणां मोक्षगतिर्मोहिन्यै धिक्प्रवादाः पुरोधःशापेन भस्मीजाता
मोहिनीति निरूपणनामैकनवत्यधिकद्विशततमोऽध्यायः ।। २९१ ।।