लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६५
[[लेखकः :|]]
अध्यायः २६६ →

श्रीलक्ष्मीरुवाच-
उद्यापनानि सर्वाणि सर्वदेवप्रपूजनम् ।
भगवन् कथितं सर्वं तन्मया विदितं प्रभो ।। १ ।।
एकादशीनां सर्वासां यद्युद्यापनमेकलम् ।
कर्तव्यं स्यात्तदा विस्तारः कियाँस्तं च मे वद ।। २ ।।
श्रीनारायण उवाच--
शृणु लक्ष्मि! प्रवक्ष्यामि सर्वासामेकलक्षणम् ।
उद्यापनं समस्तं वै सम्पूर्णफलदं यथा ।। ३ ।।
मण्डपे निर्मिते रम्ये कदलीस्तम्भशोभिते ।
विधाय सर्वतोभद्रं तन्मध्ये स्थापयेद् घटम् ।। ४ ।।
अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवैः ।
युक्तं रत्नैर्वस्त्रकण्ठं तथा सलिलसंभृतम् ।। ५ ।।
तन्मुखे सुमहत्पात्रं निदध्यात्कुंकुमान्वितम् ।
कमलं द्वादशपत्रं दलद्वादशकान्वितम् ।। ६ ।।
कृत्वा मध्ये रमाजुष्टं वासुदेवं सुवर्णजम् ।
स्थापयेत्परितश्चतुर्विंशत्येकादशपतीन् ।। ७ ।।
तत्तत्पत्नीसमेताँश्च स्थापयेत्पूर्वतः क्रमात् ।
आद्ये श्रीकेशवौ पद्मानारायणौ ततो दले ।। ८ ।।
माधवो नित्यया साकं गोविन्दश्चन्द्रया सह ।
रमया सह विष्णुश्च माधव्या मधुसूदनः ।। ९ ।।
त्रिविक्रमश्च पद्माक्ष्या वामनः कमलायुतः ।
श्रीधरः कान्तिमत्या च हृषीकेशाऽपराजिते ।। 1.265.१० ।।
पद्मनाभः पद्मवत्या राधादामोदरौ ततः ।
पत्रेषु पूर्वतः संकर्षणः सह सुनन्दया ।। ११ ।।
वासुदेवो हरिण्याऽथ प्रद्युम्नश्च धिया सह ।
अनिरुद्धः सुशीलायुक् नन्दया पुरुषोत्तमः ।। १२।।
अधोक्षजस्त्रयीयुक्तः क्षेमंकर्या नृकेसरी ।
अच्युतो विजयायुक्तः सुन्दर्या च जनार्दनः ।। १३ ।।
उपेन्द्रः सुभगायुक्तो हरिः सह हिरण्यया ।
कृष्णः सुलक्षणायुक्तः स्थापनीयो विधानतः ।। १४।।
पंचामृतेन मध्यस्य स्नानमभ्यंगपूर्वकम् ।
महाभिषेकं कुर्याच्च वस्त्राभूषादि चार्पयेत् ।। १५।।
सर्वगन्धैः सुमनोभिः पूजयेत्तुलसीदलैः ।
धूपं दीपं चन्दनं च नैवेद्यं जलमर्पयेत् ।। १६ ।।
मोदकान् खाजकाँश्चैव चूर्णानि घृतपूरकान् ।
सोहिलकाँश्च कंसारं सक्तून् सेवाँश्च पोलिकाः ।। १७।।
पूरिकाः पायसं दुग्धसारं दध्योदनं तथा ।
पिण्डकान् वटकाँश्चैव शतच्छिद्राँश्च शष्कुलीः ।। १८ ।।
तिलपाकं शालिपाकं मुद्गचूर्णं गुडौदनम् ।
रंभाफलं तथाऽन्यच्च मिष्टान्नमर्पयेद् बहु ।। १ ९।।
शाकानि विविधान्येव फलानि विविधान्यपि ।
ताम्बूलं मुखवासादि जलं चापि समर्पयेत् ।। 1.265.२० ।।
महानीराजनं कृत्वा दद्यात्पुष्पांजलिं ततः ।
स्तुतिं नमो दण्डवच्च क्षमायाचनमित्यपि ।। २१ ।।
कृत्वा समाप्य पूजां च दद्याद् दानानि भावतः ।
गोभूतिलहिरण्याश्वगजवाहाम्बराणि च ।। २२ ।।
ततो देवगृहे गोष्ठे समिदाज्यतिलौदनैः ।
पुष्परसान्वितैर्होममाचरेत् तत्तदाह्वयैः ।। २३ ।।
गाश्चतुर्विशतिं दद्यादेका वा कांचनान्विताम् ।
मध्याह्ने पूजयेत्तद्वद् भोजयेच्च यथाविधि ।। २४।।
सायं नीराजनं कुर्यात्पूजयेद् भोजयेत्तथा ।
रात्रौ जागरणं कृत्वा प्रभात त्वर्चयेद्धरिम् ।। २५।।
सुवर्णनिर्मितां मूर्तिं दद्यात्स्वगुरवे व्रती ।
अलंकाराँश्च वासांसि शय्यां दद्यात्ततो व्रती ।। २६ ।।
चतुर्विंशतिभूदेवान् साधूँश्च भोजयेत् सतीः ।
घटाँश्च विष्णवे दद्यात् प्रदद्याद् दक्षिणां तथा ।। २७।।।
ततः स पारणां कुर्याद् भोजयित्वा जनान्स्वकान् ।
एवं कृते चतुर्विंशत्येकादशीफलं भवेत् ।। २८ ।।
वित्तशाठ्यं न कर्तव्यमुद्यापनमहोत्सवे ।
लक्ष्मीकान्तः स्वयं कृष्णस्तुष्यत्येवर्द्धिसम्प्रदः ।। २९।।
अथ लक्ष्मि! कथयामि धेनुशैलादिकान् शृणु ।
पूजयित्वा ततो दद्याद् गुरवे बहुलं धनम् ।। 1.265.३० ।।
वैभवे विपुले दद्याद् धेनूर्दशविधा व्रती ।
मेरून्दशविधान्दद्यात् शृणु तत्र विधिं प्रिये ।। ३१ । ।
तत्र गोमयलिप्तायां दर्भानास्तीर्य वै भुवि ।
उदक्पादाः प्राङ्मुख्यश्च कल्पनीयास्तु गा दश ।। ३२ । ।
गुडधेनुं गुडेनैव शतप्रस्थमितेन वै ।
पञ्चविंशतिसीरैश्च तद्वत्स कल्पयेद् व्रती ।। ३३ ।।
यद्वा गूढ यथाश्रद्धं धेनुस्थाने निधाय च ।
यथाश्रद्धं च तद्वत्सं कृत्वा गुडेन वै ततः । । ३४ ।।
अनर्घ्यैर्वसनैः सूक्ष्मैर्वेष्टयित्वा च तावुभौ ।
शुक्तिकर्णाविक्षुपादौ शुद्धमौक्तिकनेत्रकौ ।। ३५।।
ताम्रपृष्ठौ क्षौमपुच्छौ श्वेतोर्णाकृतकम्बलौ ।
स्वर्णशृंगौ रूप्यखुरौ विद्रुमभ्रूकुटीयुतौ ।। २ ६।।
नानाऽऽभरणशोभाढ्यौ कांस्यदोहनसंयुतौ ।
विधायैवं तु गोवत्सौ पूजयेद्विधिना व्रती । । ३७ ।।
घृतधेनुं दुग्धधेनुं शर्कराधेनुमुत्तमाम् ।
तिलधेनुं मधुधेनुं रसधेनुं तथोत्तमाम् ।। ३८ ।।
दधिधेनुं चाम्बुधेनुं स्वर्णधेनुं विधाय च ।
तत्तद्वत्सं प्रथमवत् कृत्वा संपूजयेद् व्रती ।। ३९ ।।
यथाशक्ति प्रकुर्याद्वै धेनूँश्च वत्सकांस्तथा ।
प्रदद्याद् गुरवे सर्वाः पुरुषोत्तमतुष्टये ।।1.265.४० । ।
तद्वच्च पर्वतान् रम्यान् वृक्षतडागसंयुतान् ।
कल्पयित्वा दशविधान् चतुरः कोणपर्वतान् ।। ४१ ।।
पूजयेद्विधिना दद्याद्गुरवे हरितुष्टये ।
मण्डपे गोमयलिप्ते कुशानास्तीर्य भूतले ।। ४२ ।।
मध्ये व्रीहिमयं मेरुं सहस्रद्रोणसम्मितम् ।
कुर्याद् द्रोणं तु द्वादशप्रस्थप्रमितमुत्तमम् ।।।४३ ।।
पूर्वे मौक्तिकहीरकपद्मरागाँश्च दक्षिणे ।
पीतश्यामान् पश्चिमायामुत्तरे विद्रुमान्न्यसेत् ।। ४४।।
इक्षुदण्डैर्गुहां कुर्याच्छुक्तिभिस्तु शिलादिकम् ।
घृतेन प्रस्रवणानि वस्त्रैर्मेघाँश्च कल्पयेत् । ।४५ ।।
शृंगाणि स्वर्णरौप्याणि मुनीन्देवान् हिरण्मयान् ।
इन्द्रादीन् दिक्पतीन् रौप्यान् कुर्याद् वृक्षाँश्च धातुभिः ।।४६ ।।
मन्दारं पारिजातं च कल्पद्रु च कदम्बकम् ।
कृत्वा संशोभयेत्पुष्पफलैः सौवर्णराजतैः ।।४७।।
मन्दराद्रिर्यवैः पूर्वे गोधूमैर्गन्धमादनः ।
विपुलाद्रिस्तिलैः पश्चे माषैः सुपार्श्व उत्तरे ।।४८।।
कार्याश्चैते नगाः शोभायुक्ताः स्वोपस्करैर्युताः ।
स्वस्त्ययनं वाचयित्वा त्वावाह्य देवपर्वतान् ।।४९ ।।
पूजयित्वा प्रदद्याच्च गुरवे स्मृद्धपर्वतान् ।
गाश्चतुर्विशतिं दद्याद् विप्रेभ्यो दक्षिणां तथा ।।1.265.५०।।
लवणाद्रिं गुडाद्रिं च हेमाद्रिं तिलपर्वतम् ।
कार्पासाद्रिं घृताद्रिं च रत्नाद्रिं राजताचलम् ।।५१।।
शर्कराद्रिं यथाशक्ति नगान्नव प्रकारयेत् ।
पार्श्वस्थान्पर्वताँश्चापि चतुरश्चतुरो यथा ।।५२।।
रचयित्वा पूर्ववच्च शोभां कुर्यादनेकधा ।
पूजयेद्विधिना सर्वान् दद्याच्च गुरवे तु तान् ।।५३।।।
गोदानं पृथिवीदानं कन्यादानं गृहार्पणम् ।
यानवाहननगरग्रामदानं विधापयेत् ।।५४।।
सर्वस्वं गुरवे दद्याद् विप्रेभ्यस्तु यथार्हकम् ।
भिक्षुकेभ्यस्त्वन्नदानमन्येभ्यो यदपेक्षितम् ।।५५।।
एवमुद्यापनं कृत्वा पश्चाद् देवान् विसर्जयेत् ।
सर्वं तद्गुरवे दद्याद् देवालयाय वाऽर्पयेत् ।।।५६।।
व्रतेषु त्याज्यवस्तूनां गृहीता नियमास्तु ये ।
तत्तद्वस्तुप्रदानं तु कार्यमुद्यापने तथा ।।९७।।
दत्तं सर्वं मिलत्येवेहाऽमुत्र त्वन्यथा न वै ।
तस्माद् यथा बलं कार्या प्रपूर्णता व्रतोत्तरम् ।।५८।।
वैवस्वतेन मनुना कृतमुद्यापनं पुरा ।
भृगुपुत्र्या रमया च कृतमुद्यापनं तथा ।।५९।।
पद्मया धरणिपुव्या कृतमुद्यापनं तथा ।
प्राप्य विष्णुं च वैकुण्ठे मोदन्ते सर्वदा तथा ।।1.265.६ ०।।
पार्वत्या च कृतं सर्वमुद्यापनं महत् पुरा ।
प्रभया च कृतं तद्वदुद्यापनं यथायथम् ।।६१ ।।
इति लक्ष्मि कथितानि व्रतानि विधितश्च ते ।
एकादशीनां सर्वासां किमन्यच्छ्रोतुमिच्छसि ।।६२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सर्वासामेकादशीनां महोद्यापनविधिस्वरूपनिरूपणनामा पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ।। २६५ ।।