लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६४
[[लेखकः :|]]
अध्यायः २६५ →

श्रीलक्ष्मीरुवाच-
श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् ।
दुःस्वप्ननाशकं दिव्यं श्रोतव्यं यत्नतो मया ।। १ ।।
मासानां परमो मासः पुरुषोत्तमसंज्ञकः ।
यस्य देवः स्वयं साक्षात्पुरुषोत्तम एव वै ।। २ ।।
स्वर्गीया निर्जराः सर्वे भूतले जन्म लिप्सवः ।
तमर्चयन्ति पुरुषं तूत्तमं तु नरायणम् ।। ३ ।।
ये जपन्ति सदा भक्त्या देवं नारायणं प्रभुम् ।
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ।। ४ ।।
तस्य ते देवदेवस्य मासस्य पुरुषोत्तम ।
शुक्लपक्षैकादशी किंनाम्नी भवति मे वद ।। ५ ।।
को विधिः किं फलं दानं को देवो वद मे प्रभो ।
यद्व्रतं मनुजः कृत्वा प्राप्नुयात्स्वर्गमक्षरम् ।। ६ ।।
श्रीनारायण उवाच-
पुरुषोत्तममासस्य शुक्लपक्षे तु धामदा ।
भवत्येकादशी नाम्ना यद्भूतं ब्रह्मधामदम् ।। ७ ।।
विधिर्ब्रह्ममयश्चात्र फलं ब्रह्ममयं स्मृतम् ।
ब्रह्मधामेश्वरः कृष्णनारायणः पतिर्मतः ।। ८ ।।
अक्षरातीत एवायं भगवान्पुरुषोत्तमः ।
अक्षरया स्वपत्न्या तु सहितो धामदायुतः ।। ९ ।।
पूजनीयो मुक्तलताकुसुमैश्चामृतैः फलैः ।
दानमुपनिषद्विद्याश्च वै मोक्षदानकम् ।। 1.264.१० ।।
दीक्षादानं ब्रह्मदानं वेददानं निजार्पणम् ।
सर्वस्वार्पणमेवाऽत्र दानानामुत्तमं मतम् ।। ११ ।।
भगवद्धामदानाग्रे दानमन्यत् समल्पकम् ।
धामप्राप्तिकरं दानं श्रेष्ठं दानं मतं प्रिये ।। १२ ।।
दशम्यामेकभुक्तः स्याद् भूशायी ब्रह्मचर्यवान् ।
प्रातरुत्थाय संध्यायेदक्षरां पुरुषोत्तमम् । । १३ ।।
धामदां चापि संस्मृत्य कुर्यात्स्नानं यथाविधि ।।
नैत्यकं पूजनं कृत्वा महापूजां समाचरेत् ।। १४ ।।
मण्डपं कारयेद् रम्यं सर्वतोभद्रमण्डलम् ।
कारयेच्चाऽव्रणं कुंभं रत्नगर्भं सकाचनम् ।। १५ ।।
वस्त्रवारिफलयुक्तं स्थापयेन्मण्डले ततः ।
विशालं ताम्रजं पात्रं कुंभोपरि निधापयेत् ।। १६ ।।
कमलं द्वादशपत्रं कुंकुमैस्तत्र दर्शयेत् ।
तत्रार्चयेदक्षरया सहितं पुरुषोत्तमम् । । १ ७।।
तथा कमलयोपेतं स्थापयित्वा यथाविधि ।
उपचारैः षोडशभिर्महापूजां समाचरेत् ।। १८ ।।
दिव्यं दिव्यमहामुक्तैः सेवितं च प्रभादिभिः ।
राधालक्ष्म्यादिभिर्युक्तं ध्यायामि सुन्दरं वरम् ।। १९ ।।
भक्तकृपाकरं कृष्णं मनसाऽऽवाहयाम्यहम् ।
स्वर्णसिंहासने कृष्ण निषीद पुरुषोत्तम ।। 1.264.२० ।।
गंगोदकं जलं पाद्यं गृहाणाऽक्षरया सह ।
गन्धपुष्पादिसंयुक्तं जलमर्घ्यं गृहाण वै ।। २१ ।।
गालितं तीर्थसलिलं गृह्णीष्वाचमनीयकम् ।
दुग्धं दधि घृतं क्षौद्रं शर्करां च जनार्दन ।। २२ ।।
पंचामृतं स्नपनार्थं कृपया प्रतिगृह्यताम् ।
वारिधेः सरितां तोयं स्नानार्थं प्रतिगृह्यताम् ।। २३ ।।
धौत्रं प्रावरणं कंचुकादिकं प्रतिगृह्यताम् ।
शाटीं घर्घरिकां कंचुक्यादिकं प्रगृहाण वै ।। २४। ।
पट्टसूत्रं ब्रह्मसूत्रं गृहाण पुरुषोत्तम ।
केयूरं कटकेंऽगुलीयकं मुकुटनूपुरे ।। २५ ।।
रशनां तन्तिकां नत्थीं झंझिरैराणि गृह्यताम् ।
रत्नं स्वर्णं पुष्पहारान् शृंगारादि प्रगृह्यताम् ।। २६ ।।
कस्तूर्यगुरुकर्पूरैश्चन्दनैर्लेपनं कुरु ।
कदम्बं चम्पकं पद्मं कुन्दं जातीं च गृह्यताम् ।। २७।।
धूप सुगन्धदं नारायण गृहाण भावतः ।
दीपं घृतकृतं रम्यं गृहाण पुरुषोत्तम ।। २८ ।।
कुंकुमाबीरगूलालकज्जलात्तरमावह ।
आरार्त्रिकं सुप्रकाशं गृहाण पुरुषोत्तम ।। २९ ।।
अन्नं च पायसं शष्कुल्यादि गोघृतपोलिकाः ।
दधि दुग्धं घृतं मिष्टं गृहाण कमलापते ।। 1.264.३० ।।
जलं तैर्थ्यं सुगन्धाढ्यं शीतलं पिब माधव ।
पूग्येलाखदिराढ्यं तु ताम्बूलं प्रतिगृह्यताम् ।। ३१ ।।
कदलाऽम्राऽमृतदाडिमश्रीफलं प्रगृह्यताम् ।
दक्षिणां कांचनीं कृष्ण गृहाण हीरकादिकम् ।। ३२।।
अंजलिस्थानि पुष्पाणि ह्यक्षताँश्च गृहाण वै ।
नमस्ते कमलाकान्त नमोऽक्षराधिनायक ।।३ ३ ।।
करोमि दण्डवत् त्वक्षरेश स्वामिन् गृहाण च ।
त्वां विना शरणं नान्यस्त्वमेव शरणं मम ।। ३४।।
व्रतं पूर्णं कुरु श्रीश रक्ष मामक्षरेश्वर ।
अन्नं वस्त्रं सुवर्णं च शाकं शय्यां घृतादिकम् ।। ३५।।
अर्पयामि हरेर्बुद्ध्या द्विजायैतद् गृहाण वै ।
इति संपूज्य सद्भक्त्या दिवाशेषं नयेद् व्रती ।। ३६।।
दान दद्याद् यथाशक्ति कुर्वीताऽवश्यकीं क्रियाम् ।
मध्याह्नेऽपि सुमिष्टान्नं नैवेद्यं च जलादिकम् ।। ३७।।
सायं चापि महापूजां कारयेद् बहुवस्तुभिः ।
कुर्यान्नीराजनं त्वाज्यपञ्चवर्तिसमन्वितम् ।। ३८।।
नैवेद्यं जलपानं च ताम्बूलं पादमर्दनम् ।
दत्वा कृत्वा कीर्तनैश्च रात्रौ जागरणं चरेत् ।। ३९ ।।
हर्यालयं जागरार्थं सतां वा तु मठं प्रति ।
गच्छतोऽस्त्यश्वमेधस्य फलं पुंसः पदे पदे ।।1.264.४० ।।
प्रातः स्नात्वा पुनः पूजां नित्यां नैमित्तिकीं तथा ।
कुर्याच्च भोजयेद् देवं ततो भक्ताँस्तु भोजयेत् ।।४ १ ।।
गुरवे स्वर्णमूर्तीनां दानं कुर्यात् व्रती ततः ।
बहूनि त्वन्यदानानि कुर्यांच्चाभिमतानि वै ।।४२।।
साधूँश्च वैष्णवान् साध्वीर्भोजयेन्मृष्टभोजनम् ।
हविष्यान्नेन कुर्वीत पारणां च ततो व्रती ।।४३ ।।
दिवानिद्रां परान्नं च पुनर्भोजनमैथुने ।
द्वादश्यां वर्जयेत् तैलं तामसं चापि भोजनम् ।।४४।।
पारणाहे तु लभ्येत स्वल्पापि द्वादशी यदि ।
तत्रैव पारणां कुर्यान्न तामुल्लंघयेद् व्रती ।।४५ ।।
द्वादश्याः प्रथमः पादो हरेर्वासर उच्यते ।
तत्र नैव हि भोक्तव्यं पुण्यास्याऽक्षयमिच्छता ।।४६ ।।
एवं धामप्रदायाश्च व्रतं कार्यं विधानतः ।
विमानेन च तं भक्तं ह्यन्ते धाम नयेत् प्रभुः ।।४७।।
शृणु लक्ष्मि! पुरा जातं वृत्तान्तं धामदाव्रते ।
आसीत् कृतयुगे राजा पुण्डरीकसमाह्वयः ।।४८।।
विष्णुभक्तश्चक्रवर्ती सर्वत्र समदर्शनः ।
साघुवत्सर्वथा देहे दैहिके निष्परिग्रहः ।।४९।।
अर्धं दिनं तु पूजायां शेषं न्यायप्रदापने ।
यापयति व्रताहे तु पूजामात्रं करोति वै ।।1.264.५० ।।
राज्ञी कुमुद्वतीनाम्नी तस्य त्वासीत्पतिव्रता ।
पत्याज्ञामेव शास्त्राज्ञां मत्वा संसेवते पतिम् ।।५१ ।।
अपृष्ट्वा स्वपतिं किंचिन्नैव करोति मानसम् ।
एकदाऽऽसीत्पुण्डरीको धामदाव्रतपूजने ।।५२।।
राज्ञी ज्वराऽभिभूताऽऽसीदन्तःपुराधिवासिनी ।
सायं स्वास्थ्यप्ररक्षार्थं विना पृष्ट्वा तु तत्पतिम् ।।।५३।।
दासीभिः सह वाटिकायामुद्यानं प्रजगाम सा ।
क्षुधया चानुकूलं तु ज्वरानुत्तेजकं फलम् ।।५४।।
नवरंगं गृहीत्वा तद्रसं पपौ पतिव्रता ।
पतिं त्वपायायित्वाऽसौ पपौ पतिव्रता यतः ।।५५।।
पातिव्रत्येऽभवद्भंगो ज्वरश्चातिव्यवर्धत ।
तृषया च जलं पीत्वा रात्रौ तत्रैव संस्थिता ।।५६।।
प्रातः पत्युर्नित्यसेवा न जाताऽद्य दिने तथा ।
प्रातर्भर्तुर्मुखदर्शनं न जातं तथा परम् ।।।५७।।
पत्यंगुष्ठजलपानं प्राप्तं नैव च नैव च ।
पारवश्यं गता रुग्णा पातिव्रत्यं क्षतिं गतम् ।।५८।।
ज्वरश्चातिप्रबलोऽभूद् वर्ष्म शुष्कायितं तदा ।
पातिव्रत्यस्य भगेन राज्ञी त्वपुण्यभागिनी ।।५९।।
मरणस्योन्मुखी जाता पीड्यतेऽतीव शोषिता ।
दुरिताच्च कुमुद्वत्याः प्राणाः प्रयान्ति नैव च ।।1.264.६० ।।
पुण्डरीकश्च शुश्राव राज्ञ्या आमयमित्यपि ।
व्रते पूर्णे समागत्य सेवां तस्याश्चकार ह ।।६ १ ।।
आयुष्यं पूर्णतां यातं प्राणा निर्यान्ति नैव च ।
तदा राज्ञा जलं दत्वा धामदाफलमर्पितम् ।।६२।।
शीघ्रं प्राणास्तु निर्याता विमानं दिव्यमागतम् ।
विष्णुना च तथा लक्ष्म्या पार्षदैश्च सुशोभितम् ।।६३।।
अक्षरासहितश्रीमत्पुरुषोत्तमशोभितम् ।
द्वितीयं च विमानं त्वागतमक्षरधामदम् ।।६४।।
प्रथमं विष्णुना नीता विमाने सा रमायुते ।
वैकुण्ठं प्रापिता पश्चादारूढाऽन्यविमानके ।।६५।।
अक्षरं धाम नीता श्रीपुरुषोत्तमधामिना ।
एवं वै धामदायाः सा पुण्यलाभेन धामगा ।।६६।।
अभवच्च किमु तर्हि धामदाव्रतिनः पुनः ।
तस्माद्धामप्रदायास्तु व्रतं कार्यं विशेषतः ।।६७।।
पुरुषोत्तममासस्य शुक्लैकादशिकाव्रतम् ।
परं धामप्रदं मोक्षप्रदं सम्पत्प्रदं तथा ।।६८ ।।
श्रुत्वा चापि पठित्वापि व्रततुल्यं फलं भवेत् ।
सकामानां महास्मृद्धपारमेष्ठ्यादि संभवेत् ।। ६९ ।।
यथाबलं प्रकर्तव्यं तदिदं शुभकांक्षिणा ।
अक्षरा धामदा चास्मै भुक्तिं मुक्तिं प्रदास्यति ।।1.264.७ ० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासस्य शुक्लधामदैकादशीव्रतमाहात्म्यं पुण्डरीकनृपस्य कुमुद्वतीपत्न्याः किंचित्पतिसेवालाभशून्याया अपि व्रतेनाऽक्षरधामप्राप्तिरित्यादिनिरूपणनामा चतुःषष्ट्यधिकद्विशततमोऽध्यायः ।। २६४।।