लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६३

विकिस्रोतः तः
← अध्यायः २६२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६३
[[लेखकः :|]]
अध्यायः २६४ →

श्रीलक्ष्मीरुवाच-
कृच्छ्रे कष्टमिति प्रोक्तं सुखं त्वय्यर्पितं तु तत् ।
सुखदं पुण्यदं कृच्छ्रव्रतं तत्ते प्रसंगतः ।। १ ।।
व्रतं पुण्यं तथा पेयं भक्ष्यं सर्वं त्वमेव हि ।
त्वां विना निष्फलं सर्वं यतो नास्ति ध्रुव हि तत् ।। २ । ।
ब्रूहि मे भगवन् मासे पुरुषोत्तमसंज्ञके ।
एकादशी कृष्णपक्षे किंनाम्नी किं फलं व्रते ।। ३ ।।
को विधिः पूजनं कीदृक् को देवश्चात्र पूज्यते ।
किं दानं के च नियमाः सर्वं ब्रूहि सुविस्तरम् । । ४ ।।
कथं स्नानं च किं जाप्यं किं भोज्यं तूत्तमं मतम् ।
किं त्याज्यं चात्र मासेऽपि तन्मे ब्रूहि जनार्दन ।। ५ । ।
श्रीनारायण उवाच-
एकादश्यधिके मासि कमला नाम नामतः ।
पुरुषोत्तम इत्युक्तः पूजनीयश्च तत्पतिः ।। ६ ।।
लक्ष्मीयुतः सुवर्णस्य मूर्तिरूपो हरिः प्रभुः ।
ध्येयौ वैकुण्ठतस्थानौ श्रीलक्ष्मीपुरुषोत्तमौ ।। ७ ।।
कमलाया व्रतेनात्र कमलाऽभिमुखी भवेत् ।
दशम्यामेकभुक्तः स्याद् रात्रौ भूशयनो भवेत् ।। ८ ।।
ब्रह्मचारी भवेच्चैव क्रोधाद्यं तु परित्यजेत् ।
ब्राह्मे मुहूर्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ।। ९ ।।
स्नात्वा चापि विधानेन नियमं गृहणीयाद् व्रती ।
पुरुषोत्तममासे वा प्रातश्च प्रतिपद्दिने ।। 1.263.१० ।।
गृह्णीयान्नियमान्पाल्यान्पावनान् देहिनां खलु ।
नित्यं नाम्नां सहस्रं वा लक्षं वा नियमो जपे ।। ११ ।।
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ।
सहस्रं गोस्थले वह्निशालायां तत्तु लक्षकम् ।। १२।।
देवक्षेत्रेषु तीर्थेषु साधूनां सन्निधौ तथा ।
दशलक्षगुणं कोटिगुणं तुलसीसन्निधौ ।। १३।।
विष्णोस्तु सन्निधौ जाप्यमनन्तं भवति ध्रुवम् ।
मालिकावर्तनं संसाराऽऽवर्तध्वंसकं स्मृतम् ।। १४।।
चातुर्मास्ये तु नियमा मासि ते पुरुषोत्तमे ।
ग्राह्या ऐवोभयत्रापि भुक्तिमुक्तिफलप्रदाः ।। १५।।
ग्राह्या माससमारंभे हरेर्मूर्तेस्तु सन्निधौ ।
गूडस्य वर्जनं कार्यं तथा तैलस्य वर्जनम् ।। १६।।
घृतस्य वर्जनं तैलादेस्त्यागः कटुवर्जनम् ।
सुगन्धतैलसंत्यागः पुष्पभोगविवर्जनम् ।। १७।।
कट्वम्ब्लमधुरक्षारतिक्तकषायवर्जनम् ।
ताम्बूलवर्जनं मिष्टफलादेश्चापि वर्जनम् ।। १८।।
पालाशपत्रे त्वशनं पादाभ्यंगविवर्जनम् ।
शिरोऽभ्यंगपरित्यागो दधिदुग्धविवर्जनम् ।। १९।।
कज्जलादेः परित्यागो द्विर्भोजनविवर्जनम् ।
मौनं ग्राह्म कथा कार्या ग्राम्यवार्ताविवर्जनम् ।।1.263.२० ।।
स्थालीपाकपरित्यागः शाकमात्रविवर्जनम् ।
अन्नमात्रपरित्यागः फलान्यतमवर्जनम् ।।२१ ।।
शिलोपरि प्राशनं च कदलीपत्रभोजनम् ।
पुष्करस्नानकरर्ण गृहस्नानविवर्जनम् ।।२२।।
गुरोः पादाम्बुजस्पर्शो विष्णोः पादाभिवन्दम् ।
एकभक्ताशनं नक्ताशनं निरशनं च वा ।।२३।।
हरेर्गृहे लेपनं मार्जनं प्रक्षालनादिकम् ।
प्रदक्षिणं शतमष्टोत्तरशतं च वाऽधिकम् ।।२४।।
गीतवादित्रसन्नृत्यं पञ्चगव्याशनं च वा ।
शास्त्रकथाप्रबोधश्च व्यासाख्यानप्रबोधनम् ।।२५।।
तुलसीदलपूजा च प्रोक्षणं विष्णुमन्दिरे ।
पत्रेषु भोजनं चैव द्विदलादिविवर्जनम् ।।२६।।
प्रसादमात्रग्रहणं ताम्रपात्राद्यभोजनम् ।
कांस्यपात्राऽभोजनं च रन्धितान्नाऽप्रभोजनम् ।।२७।।
जलपक्वकणमात्रादनं पक्वकणादनम् ।
मृत्तिकापात्रभोजित्वमञ्जलिजलपानकम् ।। २८।
करपात्राऽदनं चापि पृथिव्यामुपवेशनम् ।
कपिलागोप्रदानं च पद्मपत्रप्रभोजनम् ।।२९।।
भिक्षान्नं त्वमृतकल्पं व्रतं मोक्षकरं शुभम् ।
स्वर्णदानं रूप्यदानं वस्त्रदानं गृहार्पणम् ।।1.263.३० ।।
नित्यं यथाबलं दानमन्नादीनां सुपुण्यकृत् ।
यथा विष्णुस्तथा साधुर्द्वावेतौ पुरुषोत्तमौ ।। ३१ ।।
तेषां पूजा प्रकर्तव्या प्रत्यहं सेवनं तथा ।
शूद्रो वाऽप्यथ शूद्री वा सेवां कुर्याद् गुरोर्हरेः ।। २२ ।।
गुरुर्वै विष्णुरूपोऽस्ति गुरुर्देवत्रयात्मकः ।
देहेन सेवा कर्तव्या यथा तुष्टो भवेद्गुरुः ।। ३३ ।।
पाञ्चभौतिकमेतद्धि त्वनर्थकमुदाहृतम् ।
सेवयित्वा गुरुं तेन फलानन्त्यमवाप्नुयात् ।। ३४।।
धर्मोऽयं दुर्लभो लोके धर्मकामार्थमोक्षदः ।
अयाचितं व्रतं पाल्यं द्रोहहिंसादिवर्जम् ।। ३५ ।।
दानं दया दम इति कार्यं वै महतामपि ।
गुरवे ये प्रयच्छन्ति देहदैहिकसम्पदः ।। ३६ ।।
ते नु दानप्रभावेण विष्णोर्वल्लभतां गताः ।
मधु त्याज्यं घृतं त्याज्यं त्याज्यं दुग्धादिकं तथा ।। ३७।।
दाडिमं मातुलिंगं च नालिकेरं च वर्जयेत् ।
व्रीहित्यागो यवत्यागो गोधूमानां विवर्जनम् ।। ३८ ।।
पदं श्लोकं ऋचां स्तोत्रमध्यायं कीर्तनं तथा ।
कार्यं गेयं हरेरग्रे विष्णोर्धामप्रदं व्रतम् ।। ३९ ।।
रतेस्त्यागो मैथुनस्य कर्मत्यागो व्रतं महत्। ।
दधिं दुग्धं तथा तक्रं गूडं शाकं च वर्जयेत् ।। 1.263.४० ।।
स्नानमामलकैः कार्यं तिलैः कर्तव्यमेव वा ।
धात्रीफलं सदा पापहरं वै पावनास्तिलाः ।। ४१ ।।
सन्ध्यामौनं व्रतं रक्ष्यं रात्रावग्न्यप्रबोधनम् ।
मौनभोजित्वमेवापि व्रतं शुद्धिकरं शुभम् ।। ४२।।
उपवाससमं ज्ञेयं फलदं मौनभोजनम् ।
मिथ्याक्रोधश्च पैशून्यं राजसं तामसं तथा ।।४३ ।।
वर्तनं सर्वथा त्याज्यं मासि वै पुरुषोत्तमे ।
पुण्यकार्यं शुभं कार्यं त्यक्तव्यं पापकर्म च । ।४४।।
ध्येयः पूज्यस्तोषणीयः स्मर्तव्यः पुरुषोत्तमः ।
कृच्छ्राण्यपि प्रकार्याणि मासे वै पुरुषोत्तमे ।।४५।।
कमलाया व्रतकर्तुः कमला जायते गृहे ।
कमलायास्तथा लक्ष्म्याः श्रीपुरुषोत्तमस्य च ।।४६।।
एकादश्यां प्रगे ध्यानं कृत्वा स्नात्वा विधानतः ।
नैत्यकं पूजनं कुर्यात् सर्वतोभद्रमण्डले ।।४७।।
घटान् द्वादशसंख्याकान् जलरत्नदलान्वितान् ।
अक्षतफलवस्त्राद्यैः संयुतान्पूजयेत्ततः ।। ४८ ।।
मध्ये घटं सुवर्णे वा ताम्रजं स्थापयेद् व्रती ।
सुवारिफलरत्नाद्यैः सहितं पूजयेत् ततः ।।४९।।
घण्टां शंखं कलशं च पूजयेद्वस्तुभिस्तथा ।
घटोपरि तिलस्थाल्यां विन्यस्य पुरुषोत्तमम् ।।1.263.५०।।
पूजयेद् विधिना सर्ववस्तुभिर्व्रतकारकः ।
आवाहनादिकं कुर्यात् पञ्चामृतविलेपनम् ।।५१।।
तीर्थजलेन च स्नानं कारयेद् वर्ष्म मार्जयेत् ।
वस्त्रालंकारभूषादि चन्दनादि समर्पयेत् ।।५२।।
कज्जलाऽगुरुकस्तूरीसुगन्धि तैलमर्पयेत् ।
हारशृंगारशोभादि धूपदीपादि चार्पयेत्। ।।५३।।।
नैवेद्ये विविधं भोज्यं फलं वारि च चूर्णकम् ।
ताम्बूलं सुभगं दत्वा ततो नीराजयेत्प्रभुम् ।।९४।।
शंखोदकं भ्रामयेच्च दण्डवच्च प्रदक्षिणम् ।
स्तुतिं नमः क्षमायाञ्चां कृत्वा शय्यादि कारयेत् ।।५५।।
पादसंवाहनं कुर्यात् तदानन्दं विकासयेत् ।
दद्याद् दानानि भूरीणि मध्याह्नेऽपि तथाऽऽचरेत् ।।५६।।
भोजयेद्विविधान्नानि पूजयेच्चातिभावतः ।
सायमारार्त्रिकं कुर्यात् स्तुत्वा संभोजयेत्तथा ।।५७।।
रात्रौ तु जागरं कुर्यान्नृत्यगीतपुरःसरम् ।
द्वादश्यां तु प्रगे स्नात्वा पूजयित्वा हरिं तथा ।।५८।।
भोजयित्वा गुरोः पूजां कृत्वाऽन्यान् भोजयेद् बहु ।
ततः स्वः पारणां कुर्याद् दद्याद् दानानि भावतः ।।५९।।।
एवं व्रतं प्रकुर्याद्वै भुक्तिमुक्तिप्रदायकम् ।
नियमानां तथा कुर्यादुद्यापनं फलप्रदम् ।।।1.263.६० ।।
मण्डपं कारयेद्रम्यं सप्तधान्यैस्तु मण्डलम् ।
स्वस्तिकान् कारयेच्चापि शय्यादानानि दापयेत् ।।६ १ ।।
श्रीहरिं च रमां तत्र पूजयेद् विधिना व्रती ।
गदिनं च गवार्चां च साधुभ्यो भोजनं तथा ।।६२।।
दद्याच्च गुरवेऽपेक्ष्यं वस्त्रान्नाभूषणादिकम् ।
षोडशवस्तुभिर्देवमहापूजोत्तरं ततः ।।६६।।
दानानि खलु दद्याद् वै विविधानि स्वयं व्रती ।
उद्यापने तु दानानि देयानि व्रतपूर्तये ।।६४।।
उद्यापने कृते सर्वं सम्पूर्णं भवति ध्रुवम् ।
व्रतं कृत्वा महालक्ष्मि! यदि नोद्यापनं चरेत्। ।।६५।।
व्रतवैकल्यमासाद्य न सम्यक् फलभाग्भवेत् ।
व्रते यन्नियमः स्वेन धृतस्तत्प्रतिरूपकम् ।।६६।।
उद्यापने त्ववश्यं संदद्याद्दानं व्रती स्वयम् ।
तैलत्यागे घृतं दद्याद् घृतत्यागे पयः स्मृतम् ।।६७।।
मौने तिलादयो देयाः सहिरण्यास्तु शार्ङ्गिणे ।
भोजने भोजनं दद्याद् दध्योदनसमन्वितम् ।।६८।।
अन्नं मिष्टं सुवर्णाढ्यं दद्याद्वै बहुभावतः ।
पालाशपात्रभोजी तु दद्यान्मिष्टं घृतादिकम् ।।६९।।
नक्तभोजी प्रदद्याद्वै भोजनं षड्रसान्वितम् ।
अयाचिते त्वनड्वाहं सोपस्करं समर्पयेत् ।।1.263.७०।।
माषत्यागी प्रदद्यात्तु सवत्सां गां सुलक्षणाम् ।
धात्रीस्नाने व्रती दद्यात् सुवर्णं माषमात्रकम् ।।७ १ ।।
फलानां नियमे दद्यात् फलानि विविधानि वै ।
धान्यानां नियमे दद्यात् धान्यानि शालिगोधूमान् ।।७२।।
दद्याद्भूशयने शय्यां सतूलां गेन्दुकान्विताम् ।
ब्रह्मचर्यकृते दद्याद् दम्पत्योर्भोजनानि वै ।।७३।।
शाकत्यागे तु शाकानि नैर्लावण्ये रसादिकम् ।
नित्यस्नाने च निःस्नेहे दद्याद् घृतं च सक्तुकान् ।। ७४।।
नखकेशव्रते दद्यादादर्शं व्यजनादिकम् ।
उपानहोः परित्यागे दद्यादुपानहौ मुदा ।।७५।।
दुग्धादिसंपरित्यागे दद्याद्वै कपिलां तु गाम् ।
दीपव्रते प्रदद्याद्वै सौवर्ण दीपपात्रकम् ।।७६।।
मैथुनानां तु नियमे रौप्यं दद्याद् धनादिकम् ।
एवं यद्यद् व्रतं स्वेष्टं कृतं च नियमो धृतः ।।७७।।
तत्तद् दत्वा नियमस्य प्रपूर्तिं परिकल्पयेत् ।
गोदानं शर्करादानं गृहदानं धनार्पणम् ।।७८।।
भूदानं कन्यकादानं ब्रह्मसूत्रप्रदानकम् ।
विद्यादानं मोक्षदानं स्वसर्वार्पणमित्यपि ।।७९।।
स्वर्गदं मोक्षदं चापि भवत्येव न संशयः ।
किं बहुनाऽत्र चोक्तेन यद्यदिष्टतमं भवेत् ।।1.263.८० ।।
पुनः प्राप्त्यर्थमेवाऽस्य दानं कुर्यादसंशयः ।
स्वस्य स्वीयस्य सर्वस्य हरये दानमुत्तमम् ।।८ १ ।।
गुरवे मोक्षदात्रे वा दद्यात् सर्वस्वमेव वै ।
अध्रुवेण ध्रुवं मोक्षं साधयेत् कुशलो जनः ।।८२।।
कमलाया व्रतकर्तुर्गृहे तु कमलाऽऽगमः ।
शृणु लक्ष्मि! कथयामि प्राग्वृत्तं तु कथानकम् ।।८३।।
हरिद्वारेऽभवत् कश्चित् शाकटायनभूसुरः ।
स्वल्पं वै शकटं तस्य गृहमासनमाश्रयम् ।।८४।।
भिक्षाहारस्तृणतूलः कटगेन्दुक एव सः ।
वर्तते देवगंगाया निकटे करपात्रकः ।।८५।।
एकदा स गतो भिक्षायाचनाय दिगन्तरे ।
वृष्ट्याऽऽकस्मिकया तस्य हृतं वै शकटं प्रिये ।।८६।।
अस्वो दृष्ट्वा हृतं स्वस्य शकटं स ययौ ततः ।
पद्भ्यां प्रयागराजाख्यं तीर्थं तीर्थाय चैकलः ।।८७।।
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत् ।
मुनीनामाश्रमाँस्तत्र गवेषयन् क्षुधार्दितः ।।८८।।
भारद्वाजाश्रमं तत्र ददर्श दिव्यमद्भुतम् ।
पुरुषोत्तममासे वै जनानां संसद् तथा ।।८९।।
तत्राश्रमे तु सुलभां कथां कल्मषनाशिनीम् ।
भारद्वाजमुखाद् रम्यां शुश्राव कमलामयीम् ।।1.263.९०।।
एकादश्याः कथां श्रुत्वा भुक्तिमुक्तिप्रदायिनीम् ।
लक्ष्मीनारायणसंहितायां प्रोक्तां धनप्रदाम् ।।९ १।।
शाकटायनविप्रोऽसौ श्रुत्वा तां कमलाकथाम् ।
व्रतं तैः कृतवान् सार्धं स्थित्वा मुन्याश्रमे तदा ।।९२।।
रात्रं जागरणं चक्रे कृष्णं कृष्णं स्मरन् हृदि ।
ब्राह्मेमुहूर्ते द्वादश्यां लक्ष्मीस्तत्र समागता ।।९३।।
दिव्यांगा दिव्यतेजस्का दिव्याभरणभूषिता ।
प्राह वरं ददाम्यत्र प्रसन्नाऽस्मि व्रतान्मम ।।९४।।
शाकटायनविप्रोऽपि पप्रच्छाश्चर्यसंभृतः ।
का त्वं कस्यासि रम्भोरु प्रसन्नापि कथं मम ।।९५।।
लक्ष्मीः प्राह प्रसन्नाऽहं जाता व्रतप्रभावतः ।
प्रेरिता देवदेवेन वैकुण्ठादहमागता ।।९६ ।।
पुरुषोत्तममासस्य कमलाया व्रतात्तु ते ।
कमलां विपुलां लक्ष्मीं दातुमत्र समागता ।।९७।।
ममव्रतं त्वया चीर्णं प्रयागे ऋषियोगतः ।
आशिषो व्रतवशगा ददे त्वां 'धनवान् भव' ।।९८।।
रवावेकादशी यत्र मध्यादौ द्वादशी तथा ।
त्रयोदशी निशाशेषे व्रतानामुत्तमं व्रतम् ।।९९।।
तत्र क्रतुशनं पुण्यं त्रयोदश्यां तु पारणे ।
एतद्व्रतं त्वया चीर्णं प्रसन्नाऽस्मि महामुने ।। 1.263.१० ०।।
गृहाणेमं मणिं दिव्यं यस्मात्स्वर्णं प्रपद्यते ।
इत्युक्त्वा कमला तस्मै मणिं दत्वा तिरोदधे ।। १०१ ।।
शाकटायनविप्रोऽपि मणिं नीत्वा गृहं गतः ।
नित्यं स्वर्णशतं प्रातर्ददात्येषो मणिर्महान् ।। १ ०२।।
शाकटायनविप्रोऽपि दत्ते दानं त्वहर्निशम् ।
एवं स ऋषिवर्योऽपि शाकटायनभूसुरः ।। १० ३।।
इन्द्रादप्यधिकां स्मृद्धिं लब्धवान् कमलाव्रतात् ।
याचकाय प्रदातव्यं यद्यद् वाञ्छति मद्गृहात् ।। १ ०४।।
एवं प्रकाशितं शाकटायनेन भुवस्तले ।
अथैकदा पुलस्त्यो वै ब्राह्मणो ब्रह्मणः सुतः ।। १ ०५।।
श्रुत्वैवं दानकीर्तिं च मणेर्भिक्षेच्छया स्वयम् ।
शाकटायनभवनं त्वाजगाम विचार्य च ।। १०६।।
ययाचे तन्मणेर्भिक्षां निस्पृहोऽपि मुनिर्ददौ ।
पुलस्त्योऽपि मणिं नीत्वा ययौ द्वीपं तु सिंहलम् ।। १ ०७। ।
तत्र स्वर्णमयं सर्वं चक्रे पुरवनादिकम् ।
तेनाऽर्पितः कुबेराय धनाधिपतये मणिः ।। १ ०८। ।
रावणस्तं जहाराऽथ स्वर्णलंकां चकार सः ।
एवं वै कमला देवी व्रतेन यदि तुष्यति । । १ ०९।।
सर्वं ददाति भक्ताय व्रतं यत् तोषकारकम् ।
शृणुयाद्वा पठेद्वापि कमलायाः फलं भवेत् ।। 1.263.११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासस्य कृष्णपक्षकमलैकादशीमाहात्म्यं नियमाः, उद्यापनम्, शाकटायनस्य व्रतेन मणिप्राप्तिर्लक्ष्मीप्राप्तिस्ततो पुलस्त्यकुबेररावण-
सुवर्णलाभादिश्चेतिकथननामा त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।। २६३ ।।