लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५७
[[लेखकः :|]]
अध्यायः २५८ →

श्रीलक्ष्मीरुवाच--
दुःखहारिन्सुखकारिन्सम्पत्कारिन्कृपानिधे! ।
उद्धारस्त्वां विना नैव पापिनां जायते ध्रुवम् ।। १ ।।
तव त्वदीयभक्तानां भवेद् यस्योपरि कृपा ।
महापापातिपापोऽपि शुद्ध्यत्येव न संशयः ।। २ ।।
कामात्क्रोधाद्भयाल्लोभाल्लाभाद्वापि समाश्रयेत्। ।
यस्त्वां मुच्येत संसारिपाशान्मुक्तिं लभेत सः ।। ३ ।।
व्रतं यज्ञो दया दानं ज्ञानं ध्यानं जपस्तपः ।
त्वमेवाऽसि कृपासिन्धो त्वद्योगान्मुक्तिदा इमे ।। ४ ।।
वद भाद्रपदे शुक्ले किंनाम्न्येकादशी भवेत् ।
को देवः को विधिस्तस्याः किं फलं पूजनं कथम् ।। ५ ।।
श्रीनारायण उवाच-
पद्मानाम्नी भाद्रशुक्लैकादशी मुक्तिदायिनी ।
ऋषिकेशोऽत्र संपूज्यस्त्वपराजितया सह ।। ६ ।।
काशपुष्पाणि पूजायां तिलपाको निवेदने ।
कूष्माण्डमर्घ्ये वै देयं दाने ब्रह्मगृहं शुभम् । । ७ । ।
मन्दिरं भवनं सौधं कारयेद्धर्यधिष्ठितम् ।
दद्याद्वै गुरवे देवपूजकाय सुमन्दिरम् । । ८ ।।
दशम्यामेकभक्तेन भाव्यं तु व्रतिना निशि ।
कार्यं भूशयनं ब्रह्मव्रतं रक्ष्यं तु यत्नतः । । ९ ।।
इयं पार्श्वपरिवर्तिन्येकादशी हरेर्मता ।
शेषशायी परिवर्तयति पार्श्वं दिनेऽत्र वै । । 1.257.१० ।।
शयन्यां पार्श्ववर्तिन्यां प्रबोधिन्यां च मानवैः ।
व्रतं निरशनं कार्यं निर्जलं शक्तितोऽपि च । । ४१ ।।
अत्राऽन्नभोजिनः शूलं पार्श्वे ददति मेऽघृणाः ।
तस्मादन्नं न भोक्तव्यं भोक्तव्यं फलमेव वा ।। १२ ।।
दुग्धं पेयं सशक्तेन निर्जलं समुपोषणम् ।
कर्तव्यं तेन भगवाँस्तुष्यति कमलापतिः । । १३ । ।
एकादश्यां ब्राह्मकाले समुत्थाय व्रती हरिम् ।
स्मरेद्ध्यायेच्च नामानि गृणन् स्नानाय संव्रजेत् । । १ ४। ।
स्नात्वा च नैत्यिकीं पूजां कृत्वा कृष्णस्य वै व्रती ।
मण्डलं सर्वतोभद्रं सद्धान्यैः कारयेच्छुभम् । । १५ । ।
मध्ये घटं तु सौवर्णं ताम्रजं स्थापयेच्च वा ।
पञ्चरत्नाऽक्षतपुष्पजलवस्त्रफलान्वितम् । । १६ ।।
शंखघण्टादिसंयुक्तं पूजयेच्चन्दनादिभिः ।
स्थालीं तिलभृतां धृत्वा घटोपरि तु तत्र वै । । १ ७।।
ऋषिकेशाऽपराजिताप्रतिमां स्थापयेद् व्रती ।
पद्मां त्वेकादशीं चापि स्थापयेत्पूजयेच्च ताम् । । १८ । ।
आवाहनादिभिः पंचामृतस्नानादिभिस्तथा ।
वस्त्राभूषणशृंगारकजलैश्चन्दनादिभिः । । १९ । ।
हारकेयूरकटकैर्मुकुटैः शेखरादिभिः ।
पादुकायष्टिनक्तकपुष्पगुच्छात्तरादिभिः । । 1.257.२० ।।
धूपदीपसुनैवेद्यैर्जलताम्बूलसत्फलैः ।
आरार्त्रिकस्तुतिदण्डवन्नमनप्रदक्षिणैः । । २१ । ।
क्षमाभ्यर्थनकुसुमांजलिसद्दक्षिणादिभिः ।
प्रपूज्य भगवन्तं च व्रतनिर्विघ्नसिद्धये । । २२ । ।
प्रार्थयेच्छ्रीहरिं पश्चान्नत्वा कार्यान्तरं चरेत् ।
मध्याह्नेऽपि भगवते मिष्टान्नान्यर्पयेद्व्रती ।। २३ । ।
ताम्बूलकं वारिपानं त्वर्पयेद् वाचयेत्कथाम् ।
अपराह्णे ततः सायं नीराजयेद्विधानतः ।।२४।।
स्तोत्रं च कीर्तनं कुर्याद् भोजयेत्पायसादिकम् ।
ताम्बूलं सलिलं दद्याद् दोलायां चाधिवेशयेत् ।।२7५।।
आन्दोलयेत्स्वयं भक्तो भक्तैरन्यैस्तु सात्त्वतैः ।
साध्वीभिः साधुभिश्चैव ब्रह्मचारिभिरित्यपि ।।२६।।
मिलिरवा जागरं कुर्यात् सोत्सवं गीतिपूर्वकम् ।
नामधूनयुतं नृत्यं कीर्तनं च कथामृतम् ।। २७।।
कुर्यात्कृष्णस्य निकटे प्रातः स्नात्वा प्रपूजयेत् ।
भोजयेद्भगवन्तं च प्रसादं सात्वतान् जनान् ।।।२८।।
दद्याच्च पारणां त्वन्यान् कारयित्वा ततः स्वयम् ।
व्रती वै पारणां कुर्याद् द्वादश्यां दानमाचरेत् ।।२९।।
गोमहिषीगजवाजियानविमानवाहनम् ।
गृहोद्यानपुरग्रामक्षेत्रवस्त्रान्नसाधनम् ।। 1.257.३० ।।
रत्नहीरकमाणिक्यमणिस्वर्णधनादिकम् ।
खट्वाशकटपर्यंकपेटापात्रकपाटकम् ।।३ १ ।।
बृसीक्षौमासनसिंहासनपट्टासनकटम् ।
प्रेंखाकुसूलगेन्दुकगुप्तदोरकरज्जुकम् ।।३२।।
ग्रन्थगृहोपकरणशृंखलाकुण्डिकातरूम् ।
चलवल्लीचलस्तम्बमृगव्याघ्रादिचर्मकम् ।। ३३।।
वृक्षत्त्वगासनवल्कलकौशेयधनादिकम् ।
यद्यच्छक्यं भवेत्स्वस्य दद्यात्तद्द्वादशीदिने ।। ३४।।
जलयानं भूमियानं व्योमयानादिकं नृपः ।
दद्यादाचार्यगुरवे यन्त्रं बहुविधं तथा ।।३५।।
दत्तं पात्रे जनैर्यत् तत्परलोकेऽभिपद्यते ।
ज्ञानदानं भूमिदानं कन्यादानं धनार्पणम् ।।३६।।
अन्नदानं जलदानं वस्त्रदानं गृहार्पणम् ।
गोदानं भूमिदानं साधनदानं व्रतार्पणम् ।।।३७।।
पुण्यदानं स्वस्वकीयाऽतिप्रियस्यार्पणं तथा ।
स्वर्गे वाऽन्यत्र योनौ तद् दातारमुपगच्छति ।। ३८।।
तस्माच्छक्तौ प्रदातव्यं परलोकसहायकृत् ।
इहामुत्र सुखदातृ सतां सेवनमाचरेत् ।।३ ९।।
यया यया प्रभक्त्या वै सन्तस्तुष्यन्ति यद्यथा ।
तथा तथा सेवनीयाः सन्तो वै हरिमूर्तयः ।।1.257.४० ।।
सन्तो हरेः स्वरूपावतारा भवन्ति भूतले ।
प्रसेविता व्रते सन्तस्तुष्यन्ति यदि चान्तरे ।।४१।।
तदा भुक्तिस्तथा मुक्तिः सर्वं सिद्धं व्रतार्थिनः ।
हरेः सेवा सतां सेवा साध्वीसेवाऽच्युतार्पणम् ।।४२।।
आत्मज्ञानं भक्तियोगो हरेर्गुणानुचिन्तनम् ।
ब्रह्मज्ञानं योगसिद्धिः प्रत्येकं मोक्षसाधनम् । ।४३ ।।
व्रतं तपो जपो योगो यज्ञश्चात्मसमर्पणम् ।
कृष्णप्रपत्तिगतियुक् निश्चितं मोक्षसाधनम् ।। ४४।।
तस्माद् ब्रह्मसुसम्बन्धमयं व्रतं चरेद्व्रती ।
सकामस्य भवेद् भुक्तिरकामस्य परा गतिः ।।४५ । ।
परालयध्वंसकर्तुः स्वालयं नश्यति ध्रुवम् ।
परगृहध्वंसकस्य स्वगृहं ध्वंसते खलु । । ४६।।
परहिंसाप्रकर्तुश्च स्वहिंसा जायते ध्रुवम् ।
परदुःखप्रदातुश्च स्वदुःखं जायते ध्रुवम् ।। ४७ । ।
अन्यसुखप्रदातुश्च स्वसुखं जायते ध्रुवम् ।
परसम्पत्प्रहर्तुश्च स्वसम्पन्नश्यति ध्रुवम् ।। ४८ । ।
अन्यनाशयितुश्चात्र स्वनाशो भवति ध्रुवम् ।
परद्रव्यादिहर्तुश्च स्वद्रव्यध्वंसनं ध्रुवम् । ।४ ९ । ।
परस्त्रीनाशकर्तुश्च स्वस्त्रीनाशो भवेद् ध्रुवम् ।
परेष्वग्निविषदातुर्नैजेऽग्निविषिता ध्रुवम् । । 1.257.५ ० । ।
परप्रतारयितुश्च स्वप्रतारणकं ध्रुवम् ।
परगार्हस्थ्यभंक्तुश्च स्वगार्हस्थ्यलयो ध्रुवम् ।।५ १ ।।
परकामसुखघ्नस्य स्वकामसुखनाशनम् ।
परोपकारशीलस्य स्वोपकारसहायनम् ।।५ २ । ।
ऐन्द्रियकसुखदातुस्त्वैन्द्रियकसुखागमः ।
साधनैस्तु सुखदातुः साधनानां समागमः । । ५ ३ ।।
विघ्नकर्तुस्तु विघ्नानि सुखदातुः सुखानि वै ।
सर्वदातुस्तु सर्वाणि ह्युपतिष्ठन्ति निश्चितम् ।। ५४ । ।
तस्माद् दानानि सर्वाणि देयानि पुनराप्तये ।
दत्तं व्यर्थं न वै चात्र परत्रापि च लप्स्यते । । ५५ । ।
अदत्तानां दुःखितानां दातृ त्वेकादशीव्रतम् ।
कर्तव्यं तत्प्रयत्नेन वाञ्छितं दास्यति ध्रुवम् ।।५६ ।।
व्यक्तिदोषकृतं दुःखं तत्समूहस्य संभवेत् ।
व्यक्तिकृतं महत्पुण्यं समुदायस्य जायते ।। ५७ । ।
समुदायकृतं पापं पुण्यं वा भवति नृपे ।
नृपकृते पुण्यपापे प्रजानां स्पृशतस्तथा । । ५८ ।।
यस्य कस्यापि वै धर्मलोपेन दुःखिताः प्रजाः ।
तावद्दुःखविनाशाय कार्यमेकादशीव्रतम् ।। ५९ । ।
तेन पापं विनश्येद्वै सुखं स्यादतुलं खलु ।
मान्धातृनृपतेस्तादृग्जातं कृतयुगे शृणु । । 1.257.६० । ।
मान्धाता नामराजर्षिर्विवस्वद्वंशसंभवः ।
उदयास्तमनक्षेत्रचक्रवर्ती बभूव ह ।। ६१ ।।
प्रजाः स पालयामास धर्मेण स्वात्मजानिव ।
तस्य राज्ये न दुर्भिक्षं नाऽधयो व्याधयो न च ।।६२।।।
धनधान्यस्मृद्धियुक्तं राष्ट्रं स्वर्गमिवाऽस्य वै ।
कोशोऽपि न्यायलब्धेन धनेन शेवधिसमः ।।६३ ।।
वर्णास्तथाऽऽश्रमाः पुण्यैर्विद्योतन्ते समेधिताः ।।
पृथ्वी वसुन्धरा कामगावः कल्पकरा द्रुमाः ।।६४।।
वाक्सिद्धा ब्राह्मणास्तस्य साधवो योगभूमयः ।
नार्यश्चानन्ददाः शान्तिमत्यो विलासमंगलाः ।।६५ ।।
ऋतवः कामकाराश्च राष्ट्रं स्वर्गमिवाऽपरम् ।
सुखमग्नं समभूद्वै बहुसौख्यं गताः प्रजाः ।।६६।।
ब्राह्मणा ब्रह्मकर्मस्थाः क्षत्रिया रक्षणप्रदाः ।
वैश्या उपार्जनोद्योगपराः शूद्राश्च सेविनः ।।६७।।
आसन् स्वधर्मयातारो तेन राष्ट्रमभूत् सुखि ।
तस्यैवं कुर्वतो राज्यं ग्रहाः सौम्या सदाऽभवन् ।।६८ ।।
देवा आसन्प्रसन्नाश्च मंगलानि गृहे गृहे ।
अथैको भक्तराट् कश्चिद् वृषलो राज्यवात्र्छया ।।६९ ।।
समारेभे तप उग्रमरण्ये निर्जने तदा ।
शूद्रधर्मपरित्यागादृषिधर्मग्रहात्तथा ।।1.257.७ ० ।।
अधर्मस्य विधर्मस्य प्रवेशेनाऽस्य राष्ट्रके ।
वर्षत्रयं न ववृषुर्मेघाः प्रजास्तु दुःखिताः ।।७ १ ।।
भग्ना मृता जनाः केचिद् बभूवुः क्षुधयाऽर्दिताः ।
स्वाहास्वधावषट्कारवेदाध्ययनपूजनम् ।।७२।।
व्रतोपकारसन्मानाऽऽतिथ्यदानादिकं तथा ।
शुभं कर्मोत्सवाद्यं च सर्वं ध्वस्तं बभूव ह ।।७३ ।।
देशस्तस्य विभाग्येन बभूव दैवपीडितः ।
तदा प्रजाः समागत्य प्राहुर्नृपेश्वरं त्विदम् ।।७४।।
शृणु राजन् विना वृष्टिं राष्ट्रोच्छेदो भवत्ययम् ।
पर्जन्यरूपो भगवान् विष्णुर्वारिषु संस्थितः ।।७५।।
स एव कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः ।
वृष्ट्यभावे महाराज क्षयं प्रयान्ति ते प्रथाः ।।७६।।
तस्माद् विधेहि राजेन्द्र योगक्षेमम् यथा भवेत् ।
श्रुत्वा प्राह महीभर्ता यथा क्षेमं प्रजाजने ।।७७।।
स्यात्तथा प्रयतिष्येऽहं राजमूलं सुखं यतः ।
नृपाणामपचारेण प्रजानां पीडनं भवेत् ।।७८ ।।
नाऽहमाजन्मतः क्वापि कृतवान्पातकं तथा ।
तथापि प्रयतिष्येऽहं प्रजानां हितकाम्यया ।।७९।।
इत्युक्त्वा सप्रजो राजा परिमेयपरिच्छदः ।
पापाऽन्वेषणसन्नद्धो देशयात्रां चकार सः ।।1.257.८ ० ।।
श्रुतं लोकमुखात्तेन गहने हिमवद्वने ।
शूद्रस्तपति सोऽयं ते राज्ये विधर्म एव यत्। । ।८ १ ।।
ब्राह्मणानां यतीनां च साधूनां धार्मिकं तपः ।
शूद्राणां सेवनं धर्मस्तपो विधर्म एव यत् ।।८ २ ।।
शूद्रकृततपोदोषादवग्रहोऽद्य जायते ।
सोऽयं शूद्रतपोरोधे धर्मो वृष्टिमयो भवेत्। । ।८ ३ ।।
श्रुत्वा महीपतिः शीघ्रं जगाम गहनं वनम् ।
चचार मुनिमुख्याँश्च स्वाश्रमाँस्तापसैः श्रितान् । ।८४ ।।
ददर्शाऽथ ब्रह्मपुत्रमृषिमंगिरसं नृपः ।
तेजःपरिधिसंव्याप्ताननं यथा तु पद्मजम् । ।८५ ।।
राजा कृतांजलिर्नम्रश्चक्रे तत्पादयोर्नमः ।
मुनिः पप्रच्छ कुशलं राष्ट्रे चैवाऽप्यनामयम् । ।८६ ।।
दत्तासने ह्युपविश्य मान्धाता प्रत्युवाच तम् ।
भगवन्धर्मविधिना मम पालयतो महीम् ।।८७।।
अनावृष्टिश्च संजाता पीड्यन्ते सकलाः प्रजाः ।
वर्षत्रयं व्यतीतं च भवेत् किमत्र कारणम् ।।८८ । ।
शूद्रस्तपः करोतीति श्रुतं लोकमुखान्मया ।
तथापि निर्णयं ब्रूहि भवेत् किमत्र कारणम् । । ८९ ।।
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ।
अंगिराः प्राह नृपतिं क्षणं ध्यात्वा निजान्तरे । । 1.257.९० ।।
अस्मिन् कृतयुगे धर्मश्चतुष्पादः प्रवर्तते ।
अत्र ब्रह्मपरा लोका ब्राह्मणाश्च तपःपराः ।। ९१ । ।
तपस्यन्येऽधिकृता न पन्था ह्येषः कृते युगे ।
सत्येव विषये तेऽत्र वृषलोऽपि तपः परः ।। ९२ ।।
तद्विधर्मप्रभावेण न वर्षन्ति बलाहकाः ।
कुरु तस्य वधे यत्नं नातिदूरे वनेऽस्ति सः । । ९३ । ।
एवंकृते त्वनावृष्टिर्न स्याद् राजन्कदाचन ।
श्रुत्वा प्राह महाभागवतो राजा दयापरः । । ९४ । ।
नाऽहमेनं हनिष्यामि तपस्यन्तं शुभक्रियम् ।
तपोरोधं करिष्यामि शनैरेव मिषान्तरे । । ९५ ।।
यदि स्यात्साधनं किञ्चिदन्यद्वृष्टिकरं तदा ।
दर्शयैतत्करोम्येव ह्युपसर्गविनाशनम् ।। ९६।।
अंगिरा प्राह राजानं यद्येवं तर्हि शोभनम् ।
कुरुष्व क्षेमदं पद्माभिधैकादशिकाव्रतम् । । ९७ ।।
सर्वसिद्धिप्रदं चैतत्सर्वोपद्रवनाशकम् ।
सर्वशान्तिकरं योगक्षेमदं पद्मिकाव्रतम् । । ९८ ।।
कुरु पद्माव्रतं राजन् सप्रजः सपरिच्छदः ।
पद्माव्रतप्रभावेण सुवृष्टिर्भविता ध्रुवम् ।। ९९ ।।
इत्याज्ञां शिरसा धृत्वा पूजयित्वा च तं मुनिम् ।
शूद्रतपोनिरोधाय नियुज्य कर्मचारिणम् ।। 1.257.१० ०।।
स्मरन् कृष्णं हृदये स्वे राजा स्वगृहमागतः ।
भाद्रमासे सिते पक्षे पद्माव्रतमथाऽकरोत् ।। १०१ ।।
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ।
कृत्वा व्रतं चकाराऽसौ दानानि हरिपूजनम् ।। १० २।।
एवं व्रते कृते लक्ष्मि! प्रववर्ष बलाहकः ।
भूमिर्जलेन संतृप्ता त्वभवत्सस्यशालिनी ।। १०३ ।।
एकादशीव्रतपुण्यात् नाशितोऽवग्रहो द्रुतम् ।
तस्मात्पद्माव्रतं कार्यं दुःखाऽऽपन्नाशनाय च ।। १०४।।
तत्र दध्योदनं चापि वस्त्ररत्नयुतो घटः ।
जलपूर्णश्च कलशश्छत्रोपानहमित्यपि ।। १ ०५।।
गोविन्दबुद्ध्या दातव्या गुरौ ब्रह्मविदि द्विजे ।
नमस्कार्यस्तथा भोज्यैस्तोषणीयो गुरुर्द्विजः ।। १ ०६।।
एवं व्रतं परं कृत्वा जनश्चेष्टमवाप्नुयात् ।
श्रवणात्पठनाच्चास्य व्रतपुण्यं हि लभ्यते ।। १ ०७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भाद्रशुक्लपद्मैकादशीव्रतमाहात्म्यं मान्धातुः राज्ये सत्ययुगे शूद्रे तपति वृष्टेरवग्रहः, व्रतेन वृष्टिरित्यादिनिरूपणनामा सप्तपंचाशदधिकद्विशततमोऽध्यायः ।।२५७।।