लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५८
[[लेखकः :|]]
अध्यायः २५९ →

श्रीलक्ष्मीरुवाच-
नमो नमस्ते गोविन्द ऋषिकेश जनार्दन ।
साक्षिन्प्रयोजक स्वामिन्नारायण नियामक ।। १ ।।
दृश्यप्रद दृशेर्दातर्द्रष्टृत्वेन व्यवस्थित ।
बीजप्रदांऽकुरात्मन् प्रस्तम्बपत्रादिषु स्थित ।। २ ।।
काण्डनालसुपुष्पस्थ बीजात्मक नमोऽस्तु ते ।
फलप्रद फले तिष्ठन् स्वयं फलसि तदृतौ ।। ३ ।।
कर्मबीजफलव्यापिन् वृष्टिबीज नमोऽस्तु ते ।
वदाऽऽश्विनाऽसितपक्षे किंनाम्न्येकादशी भवेत् ।। ४ ।।
को विधिः किं फलं चास्याः कीदृशं च व्रतं मतम् ।
को देवः पूज्यते चात्र दानाद्यं पूजनादि किम् ।। ५ ।।
श्रीनारायण उवाच-
आश्विने कृष्णपक्षेऽस्ति त्विन्दिरानामनामतः ।
उपेन्द्रः सुभगायुक्तः पूज्यो दूर्वाभिरत्र वै ।। ६ ।।
आमलकीफलं चाऽर्घ्ये शष्कुली तु निवेदने ।
कन्यादानं प्रधानं च पूजनं सांगमेव यत् ।। ७ ।।
पितॄणां तर्पणं मुख्यं कर्तव्यं तृप्तिदं शुभम् ।
अगतीनां गतिकृच्च व्रतं श्राद्धादिसंयुतम् ।। ८ ।।
दशम्यामेकभुक्तोऽस्या व्रती ब्रह्मचरो भवेत् ।
भूशायी संयमी प्रातस्त्वेकादश्यां व्रतं चरेत् ।। ९ ।।
उत्थाय श्रीहरिं स्मृत्वा ध्यात्वा मूर्तिं हरेस्ततः ।
स्नात्वा पूजां प्रकुर्याच्च नैत्यिकीं शुद्धमानसः ।। 1.258.१० ।।
मण्डपं कारयित्वा च सर्वतोभद्रमण्डले ।
घटं सुवर्णजन्यं वा ताम्रजं स्थापयेन्नवम् ।। १ १।।
पञ्चरत्नसुपल्लवफलवार्यम्बरान्वितम् ।
घटोपरि तिलस्थालीं स्थापयेद्वै प्रपूरिताम् ।। १२।।
पार्श्वेत्वामान्नमेवात्र पितॄणां तृप्तिदं तथा ।
जलं तीर्थाहृतं पात्रे स्थापयेच्च कुशाँस्तथा ।। १ ३।।
शर्कराफलपिष्टादि विन्यस्येत्पार्श्वतस्तदा ।
मूर्तिं च कानकीं तत्रोपेन्द्रस्य सुभगायुताम् ।। १४।।
इन्दिरासहितां तिलस्थाल्यां संस्थापयेद्व्रती ।
गणेशं पूजयित्वा च शंखं घण्टां घटं तथा ।। १५।।
पूजयित्वा ततः कृष्णं हृदि स्मृत्वा विचिन्तयेत् ।
मस्तके मस्तकं चास्तु नेत्रादौ हरिनेत्रकम् ।। १६।।
हृदये हृदयं चास्तु हस्तादौ तत्करादिकम् ।
कट्यादौ तस्य कट्यादि पादयोर्हरिपत्कजम् ।। १७।।
ममांगेषु हरेरंगानि सन्त्वात्मनि केशवः ।
इत्येवं सर्वतोभावात् देवो भूत्वाऽर्चयेद्धरिम् ।। १८।।
आवाहनादिकं कुर्यात् पंचामृताभिषेचनम् ।
शुद्धोदकाऽऽप्लवनं च कारयित्वाऽम्बरार्पणम् ।। १ ९।।
केशप्रसाधनाद्यं चाऽत्तरसुगन्धिकार्चनम् ।
गुलालकुंकुमाऽबीरचन्दनाक्षतपूजनम् ।।1.258.२० ।।
अलक्तकाऽऽर्द्रचूर्णादिरंगकज्जलरंजनम् ।
कुर्याद्देवस्य सर्वांगेष्वथ भूषादि धारयेत् ।।२१ ।।
शृंगारशोभितां मूर्तिं पुष्पहारादिभिस्ततः ।
कटकमुकुटाद्यैश्च सुरूपैरूपयेद्बहु ।। २२।।
धूपदीपसुनैवेद्यजलताम्बूलचूर्णकम् ।
आरार्त्रिकस्तुतिप्रदक्षिणदण्डवदादिकम् ।।२३।।
दक्षिणाऽक्षतकुसुमांजलिदानं क्षमापनम् ।
विधिवत्सर्वतोभावयुक्तेन व्रती चेतसा ।।२४।।
दद्यात् कुर्याच्च यद्योग्यं याचेताऽविघ्नतां व्रते ।
पितॄन्स्मृत्वा प्रदद्याच्च प्रसादाढ्यजलाँजलिम् ।। २५।।
दद्याद्दानानि वै प्रातर्मध्याह्नेऽपि प्रपूजयेत् ।
भोजयेद् विविधान्नानि देवं नारायणं ततः ।।२६।।
मध्याह्नोत्तरकाले च पितॄणां श्राद्धमाचरेत् ।
पितृतीर्थेन सलिलं दद्यात्तत्तत्सुनामभिः ।।२७।।
पिण्डान् दद्यात् फलान्यन्यत् तृप्तिदं चार्पयेत् पितॄन् ।
सायं नीराजनं कृत्वा पूजयेत्परमेश्वरम् ।।२८।।
भोजयेद् दुग्धपाकादि जलपानादि चार्पयेत् ।
रात्रौ जागरणं कुर्यात्साधुसंगतिमाचरेत् ।।२९।।
कथां कुर्यात्तथा भक्ताच्छृणुयाच्च पठेच्च वा ।
नृत्यं गीतं प्रकुर्याच्च समुत्साहमहोत्सवम् ।।।1.258.३ ०।।
प्रातः स्नात्वा हरिं ध्यात्वा पूजयित्वा विधानतः ।
दत्वा नैवेद्यमीशाय भोजयेद्वैष्णवाँस्ततः ।।३ १ ।।
आश्रितान् भोजयित्वा च साधून् साध्वीर्द्विजाँस्ततः ।
पारणां च व्रती कुर्याद् दद्याद् दानानि पात्रके ।।३२।।
गुरुं च मातरं वृद्धान् पितरं पूजयेत्पतिम् ।
आशीर्वादाँश्च गृह्णीयात् कुर्यात्कार्यं स्वकं ततः ।।३३।।
एवं कृते व्रते लक्ष्मि! वाञ्छितं सिद्ध्यति ध्रुवम् ।
पितृतृप्तिकरं भोज्यं जलं वस्त्रादि दापयेत् ।। ३४।।
पित्रुद्धारकरं दानं गवां त्वन्यच्च कारयेत् ।
गृहोद्यानपशुक्षेत्रकन्याविद्यासुवाहनम् ।।३५।।
स्वर्णरत्नविभूषान्नविविधोपस्करान्वितम् ।
दापयेत् पितृसन्तुष्टिबुद्ध्यैव श्रद्धया व्रती ।। २६ ।।
गुरवे हरये दद्यात् पितृमुक्तिकरं भवेत् ।
भुक्तिदान्मुक्तिदं श्रेष्ठं ततो मुक्तिदमाचरेत् ।।३७।।
यस्माद्यस्य भवेदिच्छाशान्त्यर्थं वाञ्छना त्वति ।
तेन तस्य प्रकर्तव्या वाञ्छायाः शान्तिरन्यथा ।। ३८।।
वैपरीत्यं भवेत् पित्रतृप्तितो वंशजस्य वै ।
तस्मात्कामफलं चाऽप्यकामफलकमित्यपि ।।३९।।
कुर्याद्वै वंशजः पितृतृप्त्यर्थं काल आगते ।
इषकृष्णे व्रते कुर्याद् विशेषफलतृप्तिकृत् ।।1.258.४०।।
स्वल्पं वा विपुलं वापि दद्यात् तत्तत्सुनामभिः ।
परलोकगतानां तत्सुखदं भवति ध्रुवम् ।।४१ ।।
पितरो यदि मुक्तिस्थास्तदा कर्तुः फलं मतम् ।
कृतं न निष्फलं यायादिति कृत्वाऽऽचरेद् बुधः ।।४२।।
बीजं वै चांकुरं दद्यात्पत्रं पुष्पं फलं जलम् ।
न याति निष्फलं क्षेत्रे श्रद्धावार्यभिषेचनम् ।।४३ ।।
उषरे क्षीयते बीजं क्षेत्रे पात्रे न नश्यति ।
तीर्थे पात्रे सत्पुरुषे क्षिप्तं ध्रुवं प्ररोहति ।।४४।।
व्रते पात्रे हरौ दद्याद् क्षिप्तं चापि न निष्फलम् ।
तस्मात्स्वल्पं बहुलं वा फलसन्धानवर्जितम् ।।४५।।
दद्यात्प्रतिफलत्येव हर्यनुग्रहकारणात् ।
शृणु लक्ष्मि! कथां रम्यां व्रतेन पितृतृप्तिदाम् ।।४६ ।।
अधोयोनिगतानां तु पितॄणां गतिदायिनी ।
इन्दिरैकादशी श्रेष्ठा वाजपेयफलप्रदा ।।४७।।
इन्द्रसेनेन वै राज्ञोपोषिता पितृतारणी ।
नार्मदाख्ये महाराष्ट्रे चन्द्रावतीपुरीपतिः ।।४८।।
इन्द्रसेनाख्यनृपतिर्बभूव प्राक्कृते युगे ।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ।।४९।।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।
गजवाजियानयुक्तो विष्णुभक्तिपरायणः ।।1.258.५० ।।
जपन् श्रीहरिनामानि मुक्तिदानि तु सर्वदा ।
कालं नयति भक्त्यैवाऽध्यात्मध्यानविचिन्तकः ।।५ १ ।।
तस्यैकदा गृहे शान्त्याऽऽसीनस्य पुरतो मुनिः ।
नारदो व्योममार्गेणाऽवतीर्य समुपस्थितः ।।५२।।
आगतं नारदं वीक्ष्य प्रत्युत्थाय कृतांजलिः ।
कृतातिथ्यं मुनिं बृष्यासने रम्ये न्यवेशयत् ।।५३।।
प्रोवाच स्वागतं तेऽहं करोमि ब्रह्मवित्तम ।
अद्य मे सफलं राज्यं जन्म कर्म कुलं धनम् ।।५४।।
दानं क्रतुर्जपो होमः स्वाध्यायः सफला मम ।
त्वत्प्रसादान्मुनिश्रेष्ठ भाग्यं धन्यतमं मम ।।५५।।
सुतप्रपुत्रदारादिदासदासीशतानि मे ।
गजवाजिवाहनानि सफलानि तवाऽऽगमात् ।।५६ ।।
साधोर्वै दर्शनं पुण्यं स्पर्शनं पापनाशकम् ।
सेवनं स्वर्गदं दिव्यमोक्षदं त्वात्मनोऽर्पणम् ।।५७।।
येषां गृहे न साधूनां चरणधूलिकारजः ।
तानि श्मशानतुल्यानि भवनानि गृहाणि च ।।५८।।
तारितं मम सम्बन्धिकुटुम्बं सर्वमेव यत् ।
प्रसादं कुरु देवर्षे निस्पृहाऽऽगमकारणम् ।।५९।।
नारदः प्राह राजर्षे शृणु विस्मयकारकम् ।
ब्रह्मलोकादहं प्राप्तो यमलोकं महीपते ।।1.258.६० ।।
धर्मेण सत्कृतो भक्त्या ह्युपविष्टो वरासने ।
धर्मराजं सत्यशीला धार्मिकाः समुपासते ।।६ १ ।।
तेषां सदसि पृष्ठस्थं निस्तेजस्कं स्थितं तव ।
पितरं प्रहसन्त्यन्ये बहुपुण्यातिमानिनः ।।६२।।
सभायां श्राद्धदेवस्य प्राह मह्यं पिता तव ।
सन्देशं दुःखनाशाय तं निबोध महीपते ।।६ ३ ।।
इन्द्रसेन इति ख्यातं चन्द्रावत्या नृपं सुतम् ।
ब्रह्मन् कथय सन्देशं पिता ते चन्द्रसेनकः ।।६४।।
तिष्ठति धर्मराजस्य नगर्यां पुण्यपुंजतः ।
दानं बहुकृतं तेन न कृतं व्रतमेव यत् ।।६५।।
तेन पुण्येन धर्मस्य नगर्यामस्ति संस्थितः ।
व्रतपुण्येन विधुरो निस्तेजस्कोऽतिपृष्ठगः ।।६६।।
निषीदति सभायां वै चातिदुःखान्वितः सदा ।
तस्मात् कुर्याद् व्रतं चैकादश्या उद्दिश्य मां सुतः ।।६७।।
मोक्षं कुर्यात्स मे पुत्र इन्दिरापुण्यदानतः ।
इत्युक्तोऽहं समायातः समीपं तव भूपते ।।६८।।
पितुर्मोक्षकृते राजन्निन्दिराव्रतमाचर ।
त्वत्पिता तेन पुण्येन वैकुण्ठं यास्यति ध्रुवम् ।।६९।।
श्रुत्वा पितुः स सन्देशं नारदं पृष्ठवान् व्रतम् ।
विधिना केन कर्तव्यं कस्मिन् पक्षे तिथौ तथा ।।1.258.७०।।
नारदः प्राह राजानमाश्विनाऽसितपक्षके ।
दशम्यां प्रातरुत्थाय स्मृत्वा कृष्णं ततः परम् ।।७१।।
स्नात्वा देवं पूजयित्वा मध्याह्ने स्नानमाचरेत् ।
दत्वा हरये नैवेद्यमेकभुक्तं समाचरेत् ।।७२।।
सायं स्नात्वा हरिं ध्यात्वा रात्रौ भूमौ शयीत च ।
एकादश्यां प्रभातेऽयं व्रती निद्रां विहाय वै ।।७३।।
स्मृत्वा ध्यात्वा हरिं नाम रटन् शौचादिकं चरेत् ।
मुखप्रक्षालनं कुर्याज्जलैर्द्वादशधा मुहुः ।।७४।।
स्नानं तीर्थजलैः कुर्याद् देवपूजां समाचरेत् ।
हरेर्मूर्तिं नमस्कृत्याऽऽचमनादिग्रहोत्तरम् ।।७५।।
षोडशोपस्करैः कृष्णमुपेन्द्रं पूजयेद् व्रती ।
उपवासस्य नियमं गृह्णीयाच्च तदग्रतः ।।७६।।
अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः ।
श्वो भोक्ष्ये पुण्डरीकाक्ष व्रतं पूर्णं कुरु प्रभो ।।७७।।
एवं नियममास्थाय सर्वतोभद्रमण्डले ।
घटे कृष्णं स्थापयित्वा महापूजनमाचरेत् ।।७८।।
समाप्य विधिना पूजां नीराजयेच्च भोजयेत् ।
मध्याह्नेपि स्वयं स्नात्वा श्रीहरिं भोजयेत्तथा ।।७९।।
नीराजयेत् स्वापयेच्चोत्थापयेत् पाययेज्जलम् ।
वीजयेन्मर्दयेन्नाथं सुखयेदिष्टदानकैः ।।1.258.८० ।।
शालग्रामशिलाग्रे च श्राद्धं कुर्याद् यथाविधि ।
पितॄणां प्रीतये श्राद्धं कुर्यात् श्रद्धासमन्वितः ।।८ १ ।।
गोधूमचूर्णैर्यच्छ्राद्धं कृतं तन्मध्यमं भवेत् ।
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।।८२।।
श्राद्धं कृतं भवेच्छ्रेष्ठं कर्तव्यं व्रतिना तु तैः ।
श्राद्धं कृत्वा व्रतिना न भोक्तव्यं पितृसेवितम् ।।८३।।
व्रतरक्षणलाभाय घ्रातव्यमेव चार्पितम् ।
पैत्र्यमन्नं समाघ्राय गवे दद्याद्विचक्षणः ।।८४।।
रात्रौ महार्चनं कुर्याज्जागरं सोत्सवं तथा ।
द्वादश्यां प्रातरेवाऽयं स्नात्वा समर्च्य माधवम् ।।८५।।
नैवेद्यं फलताम्बूले त्वर्पयित्वा ततो व्रती ।
आरार्त्रिकादिकं कृत्वा क्षमायाचनिकां तथा ।।८६।।
दद्याद् दानानि भूरीणि ब्राह्मणादीन् प्रभोजयेत् ।
साधून्साध्वीर्भोजयेच्च बन्धून् दौहित्रपुत्रकान् ।।८७।।
भोजयित्वा च दीनान्धान् स्वयं भुञ्जीत वाग्यतः ।
अनेन विधिना राजन् कुरु व्रतमतन्द्रितः ।।८८।।
विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते ।
इत्युक्त्वा नृपतिं लक्ष्मि! नारदोऽन्तरधीयत ।।८९।।
यथोक्तविधिना हीन्द्रसेनश्चकार तद्व्रतम् ।
अन्तःपुरेण सहितः पुत्रभृत्यसमन्वितः ।।1.258.९० ।।
कृते व्रते गवां दाने पुष्पवृष्टिरभूद् दिवः ।
पुण्यार्पणे कृते चेन्द्रसेनस्य जनकः खलु ।।९ १।।
चन्द्रसेनस्तथाऽन्ये तत्पितरोऽपि व्यवस्थिताः ।
गरुडस्था विमानस्था ययुर्वै विष्णुमन्दिरम् ।।९२।।
इन्द्रसेनोऽपि कृत्वा तद्व्रतं वैष्णवपालिताः ।
राज्यं त्वकण्टकं भुक्त्वा दत्वा ज्येष्ठसुताय च ।।९३।।
महीसेनाय तत्पश्चाज्जगाम त्रिदिवं स्वयम् ।
तत्र पुण्यं समाप्यैव वैकुण्ठमगमद्धि सः ।।९४।।
इत्येवं व्रतमाहात्म्यं लक्ष्मि ते कथितं मया ।
पठनाच्छ्रवणाच्चापि व्रतपुण्यं भवेदपि ।।९ ५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आश्विनकृष्णेन्दिरैकादशीव्रतमाहात्म्यम्, इन्द्रसेननृपपितृचन्द्रसेनप्रभृतीनां पितॄणां व्रतपुण्यबलाद् यमलोकान्मोक्षणमित्यादिनिरूपणनामाऽष्टपंचाशदधिकद्विशततमोऽध्यायः ।।२५८।।।