लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५६
[[लेखकः :|]]
अध्यायः २५७ →

श्रीलक्ष्मीरुवाच-
नारायणस्मरणेन जन्मसंसारबन्धनम् ।
नश्यत्येव जनानां वै वन्दे नारायण तु तम् ।। १ ।।
कर्तारं करणं कार्यं प्रेरितारं विभुं प्रभुम् ।
सुखदं पुत्रदं शान्तिप्रदं वन्दे पतिं हरिम् ।। २ ।।
नारायण हरे कृष्ण लक्ष्मीनाथ रमापते ।
माणिक्येश प्रभास्वामिन् पार्वतीश्वर ते नमः ।। ३ ।।
त्वन्मुखान्मे कथालाभे तृप्तिर्नैव हि जायते ।
वद भाद्रपदे कृष्णे किंनाम्न्येकादशी मता ।। ४ ।।
को देवः किं फलं दाने देयं पुष्पादिकं च किम् ।
को विधिस्तद्व्रतस्याऽस्ति विस्तरात् कथय प्रभो ।। ५ ।।
श्रीनारायण उवाच-
शृणुष्वैकमना लक्ष्मि! कथयिष्यामि विस्तरात् ।
अजानाम्नी भाद्रकृष्णैकादशी पापनाशिनी ।। ६ ।।
सुन्दर्या तु सहैवाऽर्च्यस्तस्यां देवो जनार्दनः ।
पुष्पेषु पाटला देया त्वर्घ्ये पूगीफलं मतम् ।। ७ ।।
दाने तु महिषी देया नैवेद्ये गूडलड्डुकाः ।
यथाकालं यथालभ्यं तथाकार्यं विशेषतः ।। ८ ।।
दशम्यामेकभुक्तेन तथा भाव्यं व्रतार्थिना ।
स्वप्तव्यं भूतले रक्षणीयं वै ब्रह्मशीलकम् ।। ९ ।।
एकादश्यां प्रगे ध्यात्वा नारायणजनार्दनम् ।
स्नात्वा पूजां नैत्यकीं तु कुर्यात् षोडशवस्तुभिः ।। 1.256.१० ।।
मण्डपं कारयेद् रम्यं बहुस्तम्भसुशोभितम् ।
मध्ये तु सर्वतोभद्रं मण्डलं कारयेद्व्रती ।। ११ ।।
तन्मध्ये स्वर्णकलशः पञ्चरत्नजलान्वितः ।
सवस्त्रफलपत्रोपवीतचन्दनतण्डुलः ।। १ २।।
स्थापनीयश्च तत्पार्श्वे घण्टां शंखं च रक्षयेत् ।
पूजयेद्विधिना मन्त्रैस्तिलस्थाली घटे न्यसेत् ।। १३ ।।
मूर्तिं तु कानकीं जनार्दनसुन्दरिकायुताम् ।
अजैकादशिकां स्थाल्यां स्थापयेद् राजतीं च वा ।। १४।।
आवाहनादिभिः पञ्चामृतैर्द्रवितचन्दनैः ।
पूजयेन्मर्दयेत् देवं स्नापयेत्तीर्थवारिभिः ।। १२ ।।
वस्त्रालंकारशृंगाराभूषाहारादिराजिभिः ।
सुगन्धिद्रव्यवर्यैश्च धूपदीपनिवेदनैः ।। १६।।
कुंकुमाऽगुरुकस्तूरीतैलद्रवसुसौरभैः ।
कज्जलश्वेतपाण्डुरचूर्णशेखरनक्तकैः ।। १७।।
यष्ट्य्रुपानहसच्छत्रचामरैर्यानवाहनैः ।
आरार्त्रिकस्तुतिनम्रभावदण्डवदादिभिः ।। १८ ।।
पुष्पांजलिजलताम्बूलैलालंवगचर्वणैः १९ ।
क्षमार्थनादिभिर्देवं पूजयेद्बहुभावतः ।। १९ ।।
शय्यां स्वर्णमयीं सत्कोमलास्तरणसंयुताम् ।
दद्याद्देवाय चादर्शपार्श्वकव्यजनान्विताम् ।। 1.256.२० ।।
एवं समर्च्य गोविन्दं व्रतार्थं प्रार्थयेद् व्रती ।
करोम्यजाव्रतं कृष्ण निर्विघ्नं पूर्णतामियात् । । २१ ।।
दानं दद्याद् विविधं सद्रत्नसारसुवर्णकम् ।
दद्याद् गोमहिषीप्रभृत्यपि दुग्धान्वितं शुभम् ।। २२ ।।
मध्याह्नेऽपि हरिं कृष्णं पूजयित्वा निवेदयेत् ।
मेशुभं मोहनस्थालं मौक्तिकाँश्चूर्णमोदकान् ।। २३ ।।
अपूपाँश्च तथा पूपान् पोलिका मिष्टपोलिकाः ।
पूरिकाः पुष्पवटिका राजिकाराद्धमित्यपि । । २४ ।।
शाकानि विविधान्यारनालानि स्वादवन्ति च ।
दधिदुग्धप्रमिष्टं सद्रससाराणि चार्पयेत् ।। २५ ।।
दद्यात्फलानि पानीयं मुखवासादिकं तथा ।
सायं चैव महत्सम्यगर्चनं कारयेद्व्रती ।। २६ । ।
आन्दोलयेद्धरिं प्रेंखां बद्ध्वा वृक्षादिकेऽम्बरे ।
रात्रौ दुग्धप्रचूरं वै भोज्यं दद्याद्बलप्रदम् ।। २७ । ।
आरार्त्रिकं स्तुतिं क्षान्त्यर्थनं पुष्पांजलिं तथा ।
अर्पयेदन्ययोग्यं यत्त्वपेक्षितमथो हरेः ।। २८ ।।
रात्रौ जागरणं कुर्यान्नृत्यगायनवाचनैः ।
हरेकीर्तिनामभक्त्या कथाश्रवणखेलनैः ।। २९ ।।
द्वादश्यां च प्रगे स्नात्वा पूजयित्वा जनार्दनम् ।
भोजयित्वा हरिं दद्याद् दानानि विविधानि च ।। 1.256.३० ।।
अन्यान्समाश्रितान् मिष्टं भोजयित्वा सतो द्विजान् ।
बालाँश्च पारणां पश्चात् कुर्याद् व्रती व्रतोत्तरे ।। ३१ ।।
एवं कृते व्रते सर्वकामना व्रतिनः फलेत् ।
स्वर्गं मोक्षं च साम्राज्यं यदिच्छेत् तद्व्रती व्रजेत् ।। ३ २।।
ईदृग्विधं व्रतं लक्ष्मि! ये कुर्वन्ति तु मानवाः ।
सर्वपापविनिर्मुक्तास्त्रिदिवं यान्ति शाश्वतम् । । ३३ । ।
शृणु कथां व्रतयुक्तां दुःखनाशकरीं शुभाम् ।
हरिश्चन्द्रस्य नृपतेः सकलत्रसुतस्य वै । । ३४। ।
वादौ सत्यगुणोपेतः युगे सत्ये बभूव सः ।
हरिश्चन्द्राभिधो राजा साकेतपुरभूपतिः । । ३५ । ।
सरयूसरितस्तीरे पञ्चयोजनविस्तृताम् ।
साकेतनगरीं शासन् भूपो ररक्ष तत्प्रजाः । । ३६ । ।
चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः ।
अतिथीन्स्म पूजयति यथेष्टं स्म ददाति च । । ३७ । ।
नाऽर्थी कश्चिद्गृहात्तस्य निवर्तते न सत्कृतः ।
अर्थी यदिच्छति तत्तद् ददात्येव तु सर्वदा । । ३८ । ।
विप्रा मिष्टान्नभिक्षाद्यैः क्षत्रिया बहुमानकैः ।
वैश्याः सहायतालाभैः शूदाश्चाश्रममीलनैः । । ३९ । ।
देवा यज्ञीयहव्यान्नैः ऋषयश्चातिथेयकैः ।
मुनयो ब्रह्मभक्त्याद्यैः सकामा वाञ्छितार्थकैः । ।1.256.४० ।
नार्यो वृत्तिपाल ताद्यैर्बाला विद्यादिरंजनैः ।
अन्ये यथेष्टसम्प्राप्तैः पूज्यन्ते तेन सर्वथा । । ४१ । ।
तुष्टाः सर्वे गृहं यान्ति सुखं जीवन्ति तत्प्रजाः ।
नाऽस्य राज्ये धनहीनो भक्तिहीनश्च मानवः ।।४२ ।।
पितृसेवाविहीनो न प्रमदासु घृणाकरः ।
वेदघोषो यज्ञहोमश्चार्थिदानप्रवाहकः ।। ४२ ।।
सर्वो धर्मो हरेर्नाम पञ्चक विरराम न ।
एवं वर्तयतस्तस्य कीर्तिर्दिक्षु विदिक्षु च । । ४४ । ।
व्याप्ता बभूव त्रैलोक्ये न सत्याच्चलतीति सः ।
तदा ब्रह्मा हरिः शंभुर्विश्वामित्रादयः खलु । ।४५ ।
परीक्षार्थं समायाताः कियत्सत्यं नु लम्बते ।
हरिश्चन्द्रेण सम्मानं द्विजरूपधरेषु वै । । ४६ ।
कृतं चातिथ्यसेवादि स्वेष्टव्यार्थो निवेदितः ।
विश्वामित्रस्ततः प्राह राज्यं सर्वमपेक्ष्यते । । ४७ ।
दीयतां मे महाराज निर्ऋणोऽहं भवाम्यतः ।
तथास्त्विति नृपः प्राह जलं मुक्त्वा ददौ ततः । । ४८ ।
राज्यं प्रगृह्य च पृथग् ययाचे दक्षिणां मुनिः ।
दक्षिणार्थं पृथगद्र्व्यं नासीत् तत्पूर्तये नृपः । ।४ ९ ।
बभूव राज्यभ्रष्टोऽसौ सेवाकैंकर्यमाप्तवान् ।
विक्रीत्वा वनिता पुत्रौ स चकारात्मविक्रयम् ।।1.256.५ ० ।
पुल्कसस्य तु दासत्वं प्राप्तो राजा स पुण्यभाग् ।
श्मशाने सत्यमालम्ब्य मृतचैलापहारकः । ।।५ १ ।
सोऽभवन्नृपतिपूज्यो न सत्याच्चलितः खलु ।
एवं वै तस्य नृपतेर्बहवो वत्सरा गताः । । ५२।
वेतनं तु ददात्येव विश्वामित्राय दक्षिणाम् । -
तथापि दक्षिणा पूर्णा न जाता ऋषितुष्टये ।।५ ३ ।
वस्त्रं पात्रं भवेल्लब्धं सर्वं तद्दक्षिणाकृते ।
ददात्येव प्रपूर्त्यर्थं स्वयं दुःखं तु विन्दति ।।५४।
एवं प्रपूरिता कर्मचारिकैंकर्यवर्तिना ।
दक्षिणाऽपि तता दास्यं वृत्त्यर्थं प्रकरोति सः ।।५५ ।
दुःखस्याऽन्तो न चायातस्ततश्चिन्तापरोऽभवत् ।
किं करोमि क्व गच्छामि दुःखस्याऽन्तः कथं भवेत् । ।५ ६ ।।
पत्नी वणिग्गृऽहे दासी पुत्रस्त्वन्यत्र किंकरः ।
अहं श्मशानसेवी चाऽप्यहो चाण्डालकिंकरः ।।५७।।
क्व राज्यं क्व च कैंकर्य चक्रं मायामयं न्विदम् ।.
तथापि दुःखनाशः स्यात्तथा यत्नं करोमि वै ।।५८ ।।
इतिचिन्तयतस्तस्य मग्नस्य दुःखसागरे ।
आजगाम मुनिस्तत्र ज्ञात्वा राजानमातुरम् ।।५९ ।।
वैष्णवं च प्रजाशीर्वादपात्रं न्यायवर्तिनम् ।
गौतमाख्यः कृपालुश्च परोपकृतिकारकः ।।1.256.६ ० ।।
आशीर्वादान् ददौ राज्ञे सुखी भवेति सर्वथा ।
नृपो ननाम तं विप्रं कृतांजलिपुटः स्थितः ।।६ १ ।।
कथयामास वृत्तान्तमात्मनो दुःखसंभृतम् ।
श्रुत्वा सर्वं गौतमस्तु बभूव चातिविस्मितः । । ६२।।
दुःखनिस्तरणोपायं व्रतं तूपादिदेश तम् ।
मासि भाद्रपदे राजन् कृष्णपक्षेऽतिपावनी ।।६३ ।।
एकादशी त्वजानाम्नी भवति दुःखनाशिनी ।
अस्याः कुरु व्रतं राजन् दुःखध्वंसो भविष्यति ।। ६ ४।।
तव पत्नी व्रतमस्याः करोत्वपि सुखावहम् ।
पुत्रस्ते त्वेकभुक्तं वा व्रतं कुर्यात् सुखाप्तये ।। ६५।।
इत्यादिष्टो हरिश्चन्द्रश्चकाराऽजाव्रतं परम् ।
मुनिर्ययौ च तत्पत्नीं पुत्रं निर्दिश्य तद्व्रतम् ।। ६६ ।।
जगाम स्वाश्रमं राज्ञी कुमारश्च यथोदितम् ।
चक्रतुश्च यथाशक्ति त्वजाव्रतमहर्निशम् ।।६ ७।।
कृते तस्मिन् व्रते राज्ञो दुःखस्याऽन्तोऽभवत्क्षणात् ।
राज्ञ्याश्चापि च किंकर्या दुःखस्याऽन्तोऽभवत्क्षणात् ।। ६८ ।।
पुत्रो मृतोऽभवत्तत्र व्रतोत्तरं दिवाऽपि सः ।
रोहितो जीवनं प्राप व्रतस्यैव प्रभावतः ।। ६९ ।।
तद्दुःखं बहुभिर्वर्षैर्भोक्तव्यं क्षयतां गतम् ।
निस्तीर्णदुःखो राजाऽऽसीद् व्रतस्याऽस्याः प्रभावतः ।। 1.256.७० । ।
पत्न्या सह समासंगं पुत्रजीवनमित्यपि ।
पुत्रेण च समासंगं हरिश्चन्द्रस्त्ववाप वै ।। ७१ ।।
ब्रह्मविष्णुमहेशाश्च विश्वामित्रादयस्तदा ।
स्वस्वरूपाः समायाताः प्रत्यक्षा दुःखनुत्तये । ।७२ ।।
ते सत्यस्य परीक्षाऽद्य पूर्णा जातेति चोचिरे ।
सर्वे देवाश्च देव्यश्च समायातास्तदुत्सवे ।। ७३ ।।
आशीर्वादप्रदानार्थं हरिश्चन्द्राय भूभृते ।
दिवि दुन्दुभयो नेदुः पुष्पवर्षमभूद् दिवः ।।७४।।
एकादश्याः प्रभावेण हरिश्चन्द्रः सपुत्रकः ।
सदारश्च स्वकं सर्वं प्राप्य राज्यमकण्टकम् ।।७५ ।।
भुक्त्वा तु बहुवर्षाणि कृत्वा भक्तिं हरेस्ततः ।
पुत्रं राज्ये स्थापयित्वा पत्न्या सह विरागवान् ।।७६ ।।
स्वर्गं लेभे हरिश्चन्द्रः सपुरः सपरिच्छदः ।
अनन्तकालं तद् भुक्त्वा ययौ साकेतधाम सः ।। ७७।।
ईदृग्विधं व्रतं लक्ष्मि! ये करिष्यन्ति मानवाः ।
सर्वपापविनिर्मुक्ताः सर्वदुःखविहीनकाः ।।७८ ।।
स्वर्गं मोक्षं परं सर्वे यास्यन्ति परमं पदम् ।
पठनाच्छ्रवणाद् वापि त्वश्वमेधफलं भवेत् ।। ७९ ।।
तस्मादस्याः कथा श्रव्या कर्तव्यं श्रद्धया व्रतम् ।
तदंगभूतदानार्चापूजनं विधिवत्तथा ।।1.256.८ ० ।।
व्रतकर्ता तदन्येषां पापक्षालनको भवेत् ।
स्वर्गं प्रापयिता चापि याम्यादिभयवारकः ।।८ १ ।।
किमु तर्हि स्वात्मकृते भुक्तिमुक्तिसमर्जने ।
समर्थश्चेति वक्तव्यं नारायणप्रसंगतः ।।८२।।
अस्या व्रती पुनर्नैव जायतेऽतस्त्वजा मता ।
अजा मुक्तिर्भवेदस्या व्रतादस्मादजा हि सा ।।८ ३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भाद्रपदकृष्णाऽजैकादशीव्रतमाहात्म्यं, विश्वामित्रकृता हरिश्चन्द्रस्य सत्यव्रतपरीक्षा, राज्यस्त्रीपुत्रहानिः, गौतमप्रदर्शिताऽजाव्रतेन दुःखनिवृत्तिरित्यादिनिरूपणनामा षट्पंचाशदधिकद्विशततमोऽध्यायः ।। २५६ ।।