लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५५
[[लेखकः :|]]
अध्यायः २५६ →

श्रीलक्ष्मीरुवाच-
सर्वकामप्रदः कृष्णो हरिर्नारायणः स्वयम् ।
फलदाता सुखदाता व्रतपूर्तिकरः स हि ।। १ ।।
श्रद्धया त्वाप्यते पुण्यं श्रद्धायां स सदा स्थितः ।
भावनासहितो विष्णुः फलत्येव व्रताश्रयः ।। २ ।।
मोक्षदो माधवो देवः साधने वसति ध्रुवम् ।
साधनानि विना तं वै नो फलं ददति क्वचित् ।। ३ ।।
स एव सर्वथाऽऽराध्यो विष्णुर्नारायणो हरिः ।
लक्ष्मीशश्च रमेशश्च श्रीशो ध्वजधनुःकरः ।। ४ ।।
कृपया वद मे मत्स्यस्वस्तिकचिह्नहस्तक ।
स्वामिन्प्रभाषते पार्वतीपते माणिकीश्वर ।। ५ ।।
श्रावणशुक्लपक्षस्यैकादशी नामतस्तु का ।
कौ विधिः किं फलं तस्याः को देवोऽर्च्यो व्रतेऽत्र वै ।। ६ ।।
श्रीनारायण उवाच-
एकादशी पुत्रदाख्या श्रावणस्य सिता मता ।
श्रीधरः पूजनीयोऽत्र कान्तिमत्या सह प्रभुः ।। ७ ।।
कमलैः पूजनीयोऽसौ भोजनीयस्त्वपूपकैः ।
अर्घ्यः सीताफलैः कृष्णो दातव्यं पादुकाद्वयम् ।। ८ ।।
लक्ष्मीनारायणसंहिताया दानं मतं शुभम् ।
श्रोतव्याऽस्याः कथा दिव्या भुक्तिमुक्तिप्रदायिनी ।। ९ ।।
दशम्यामेकभोजी स्याद् ब्रह्मचारी भवेत्तथा ।
रात्रौ भूशयनं कुर्यादेकादश्यां प्रगे व्रती ।। १.२५५.१ ०।।
स्नात्वा नित्यं महापूजां कृत्वा वै मण्डपान्तरे ।
मण्डले सर्वतोभद्रे स्थापिते कानके घटे ।। ११ ।।
पञ्चरत्नाम्बरवारिपत्राऽक्षतफलान्विते ।
तिलस्थालीं स्थापयित्वा श्रीधरं स्थापयेत्ततः ।। १२।।
पूजयेत्सर्वभावेन षोडशोपसुवस्तुभिः ।
आवाहनादिकं कुर्यात् पंचामृताभिषेचनम् ।। १३।।
वस्त्राभूषणशृंगारकज्जलचन्दनात्तरैः ।
पुष्पहाराऽक्षतचूर्णफलताम्बूलभोजनैः ।। १४।।
आरार्त्रिकस्तुतिदण्डवत्प्रदक्षिणदीपनैः ।
पूजयित्वा हरिं निर्विघ्नं व्रतं प्रार्थयेत् ततः ।। १५।।
मध्याह्ने भोजनं दद्यात्ताम्बूलं च जलं तथा ।
सायं दद्याद् दुग्धपाकं पूरिकाः शाकमित्यापे ।। १६।।
रात्रौ जागरणं कुर्यात् कथाकीर्तननर्तनैः ।
द्वादश्यां तु प्रगे स्ना त्वा पूजयित्वा च माधवम् ।। १७।।
दद्याद्दानानि सर्वाणि यथाशक्ति यथाधनम् ।
भोजयेत् साधुविप्रांश्च साध्वीर्बालाँश्च बालिकाः ।। १८।।
ततो वै स्वजनान् भोजयित्वा स्वः पारणां चरेत् ।
एवं कृतं भवेत्पुण्यं यथेष्टं भुक्तिमुक्ति दम् ।। १ ९।।
धनधान्यसुतदाराक्षेत्रोद्यानगृहादिकम् ।
आरोग्यमानकीर्त्यादि लभते तु व्रती शुभम् ।। १.२५५.२० ।।
शृणु लक्ष्मि! कथां दिव्यां याऽभूसूपूर्वे कृते युगे ।
राजा पुरुरवा नाम्ना बभूव चन्द्रपौत्रकः ।।२१ ।।
बुधपुत्रः पुरुरवा राज्यं पालयति स्वकम् ।
श्रीपुरे नर्मदातीरे वसति स्म निरन्तरम् ।। २२।।
तस्य गुणान् देवमुखाच्छ्रुत्वोर्वशी वरांगना ।
अप्सराः स्वयमागत्य पत्नीरूपा ह्युपस्थिता ।।२३।।
बहुकाले गतेऽप्यस्यामपत्यं न व्यजायत ।
पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् ।। २४।।
अपुत्रस्य सुखं नास्ति लोकेऽस्मिँश्च परत्र च ।
एवं चिन्तयतस्तस्य कालो बहुतरो गतः ।। २५।।
न प्राप्तश्च सुतो राज्ञा तेन दुःखायते सुखम् ।
स्वराज्यपण्डितान् वृद्धानाहूयाऽऽवेदितं हि तत् ।। २६।।
इह जन्मनि भो विप्रा न मया पातकं कृतम् ।
अन्यायोपार्जितं द्रव्यं मया कोशे न योजितम् ।। २७।।
ब्रह्मद्रव्यं च देवस्वं विधवाऽनाथढब्बुकम् ।
अपि मया गृहीतं न दत्तं प्रत्युत सर्वदा ।। २८।।
पुत्रवत्पालितो लोकः प्रजा धर्मेण रक्षिता ।
युद्धेन विजिता पृथ्वी दण्डो दुष्टेषु पातितः ।।२९।।।
अन्यायो न कृतस्तेषु सुतबन्धुप्रजासु च ।
पूज्याः सुपूजिता नित्यं सदा वृद्धास्तु वन्दिताः ।। १.२५५.३० ।।
न द्विष्टा न्यायमार्गस्थाः पूजिता देवताः सदा ।
विप्राश्च साधवः साध्व्यो गावो दीनाश्च पूजिताः ।। ३१ ।।
द्रव्ययज्ञा ज्ञानयज्ञाः कृताः शिष्टप्रसंगतः ।
तथापि मद्गृहे पुत्रो न जातस्तद् विमृश्यताम् ।। ३२ ।।
इतिवाक्यं द्विजाः श्रुत्वा सवृद्धाः सपुरोहिताः ।
नृपतेर्हितमिच्छन्तो जग्मुस्ते लोमशमृषिम् ।। ३३ ।।
कल्पे कल्पे गते यस्य लोमैकन्तु विशीर्यते ।
एवं लोमशनाम्ना स रूढ्या प्रसिद्धिमाप ह ।। ३४।।
तपन्तं घोरसुतपो निराहारं निरीहकम् ।
शान्तं सुधर्मतत्त्वज्ञं शास्त्रवेदविशारदम् ।। ३५ ।।
दीर्घायुषं त्रिकालज्ञं जटाश्मश्रुसुशोभितम् ।
महात्मानं द्विजा दृष्ट्वा भाग्यं श्रेष्ठं हि मेनिरे ।। ३ ६।।
ब्रह्मात्मानं मुनिं नत्वाऽग्रतः संहर्षिताः स्थिताः ।
तांस्तथा साग्रजान् वीक्ष्य मुनिः प्रोवाच लोमशः ।। ३७ ।।
कथं किमर्थमायाता ब्राह्मणा वृद्धसेवकाः ।
यत्किंचित्सुमहत्स्वल्पं साध्यं त्वसाध्यमित्यपि ।। ३८ ।।
लभ्यं चाऽलभ्यमेवापि ब्राह्मणार्थे करोम्यहम् ।
असंशयं कथयध्वं करिष्ये भवतां हितम् ।। ३९ ।।
ब्राह्मणानां वचो वेदः परमेश्वरनोदना ।
पालयित्वा तु वो वाक्यं त्ववाप्स्ये जन्मनः फलम् ।।१.२५५.४० ।।
परोपकृतये जन्म तपस्विनां न संशयः ।
अहोऽद्य सफलं जन्म करिष्ये विप्रसेवया ।।४१ ।।
इतिकृत्वा चकारासावातिथ्यं पूजनादि च ।
जलं फलासनादीनि ददौ पूज्योऽपि शिष्टकृत् ।।४२ ।।
ततो विप्रास्तु तं प्राहुः श्रूयतां हृद्गतं तु नः ।
संशयस्य निरासाय वयं स्वार्थपरा प्रभो ।।४३ ।।
इह कार्यवशात्प्राप्ताः समीपं भवतो वयम् ।
सतां संदर्शनात्पूर्वभवीयाघादिशेवधिः ।।४४।।
भस्मीभवति द्रागेव किं पुनः पादसेवनात् ।
पद्मयोनिं विना त्वन्यस्त्वत्तः श्रेष्ठो न विद्यते ।।४५।।
बहुज्ञोऽसि बहुकल्पी बहुवेत्ता समाधिमान् ।
भूतं भव्यं जायमानं बहु वेत्सि तपोबलात् ।।४६।।
सर्वं दातुं समर्थोऽसि ब्रह्मात्मैक्यबलान्मुने ।
नृपः पुरुरवास्त्वत्र पुत्रहीनोऽस्ति साम्प्रतम् ।।४७।।
वयं विप्राः प्रजास्तस्य पुत्रवत्पालिताः सदा ।
पुत्रहीनं तु तं दृष्ट्वा तस्य दुःखेन दुःखिताः ।।४८।।
दुःखनिस्तारकर्तुस्तु भवतः पादयोर्वयम् ।
छायायां त्वागताः स्मोऽत्र योग्यं राज्ञि विधीयताम् ।।४९।।
तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं तपोधन ।
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् ।।१.२५५.५० ।।
वद् पुत्रः कथं नास्ति केनोपायेन वा भवेत् ।
इति तेषां वचः श्रुत्वा मुहूर्तं ध्यानमाप्तवान् ।।५१।।
लोमशः प्रत्युवाचैतान् प्राग्जन्म नृपतेस्तदा ।
पूर्वजन्मनि वैश्योऽसौ वर्धमानाऽभिधो धनी ।।।५२।।
वाणिज्यकर्मनिरतो लोभेन जनशोषकृत् ।
ग्रामाद्ग्रामान्तरं याति वस्तुव्यापारकांक्षया ।।५३।।
ज्येष्ठे मासि सिते पक्षे दशमीदिवसे तु सः ।
मध्याह्ने त्वातपे प्राप्तो ग्रामसीम्नि जलाशयम् ।।५४।।
खात्ं तु सजलं चैकमात्रावतारशोभितम् ।
तत्रावतारे गत्वा स निषसाद क्षणं ततः ।।५५।।
हस्तपादौ मुखं स्वस्य प्रक्षालयति यत्क्षणे ।
तावत्तत्र समायाता सवत्सा गौस्तृषाकुला ।।५६।।
निदाघार्ता भययुक्ता घट्टेऽवतरति द्रुतम् ।
पीतगण्डूषमात्रां तां वारयित्वा तु तामसः ।।५७।।
तोयं पपौ स्वयं स्नात्वा वस्त्रप्रक्षालनं व्यधात् ।
चिरं तत्र स्थितो मार्गं गवे पातुं ददाति न ।।५८।।
सवत्सा तृषिता साऽपि चिरं मार्गं प्रतीक्षते ।
तथापि न धनी स्थानाद् ययौ वै घटिकाष्टकम् ।।१९।।
वत्सा संतृषिता प्राह मातरं जननि! मम ।
प्राणा यान्ति तृषादुःखाद् दूरं यास्यत्ययं कदा ।।१.२५५.६०।।
गोमाता प्राह तां वत्सां यास्यत्ययं क्षणान्तरे ।
तावद्धैर्यं गृहाण त्वं पास्यावोऽम्भः क्षणान्तरे ।।६ १।।
नाऽपसृतो धनी तस्माद् वत्साकण्ठोऽपि शुष्कताम् ।
प्रापत् तदा गवा प्रोक्तं दुष्टोऽयं याति नैव तु ।।६२।।
प्राणाः प्रयान्ति मे पुत्र्याः पामि प्रसह्य वै जलम् ।
निर्णीयेत्थं तु वत्सां स्वां नीत्वा ह्यवाततार गौः ।।६२।।
वर्धमानो धनी तां तु भृशं यष्ट्या ह्यताडयत् ।
तदा शप्तो गवा श्रेष्ठिन्! दुष्ट! ताडयसि वृथा ।।६४।।
अनपत्यः सदा जन्मजन्मान्तरेषु वै भव ।
पत्न्या विरहितोऽरण्ये दुःखितो बहुधा भव ।।६५।।
शप्त्वा पद्भ्यां च शृंगाभ्यां ताडयित्वा प्रसह्य तम् ।
धनिनं दूरतः कृत्वा शान्त्या गौः सुजलं पपौ ।।६६।।
वत्सा जलं पपौ शान्त्या वणिजो निर्ययौ ततः ।
गवा तु ताडितश्चार्तो ग्रामं प्राप्य ममार सः ।।६७।।
मृत्योः पूर्वं धनं सर्वं यज्ञार्थं दत्तवानसौ ।
विप्रैर्यज्ञः कृतश्चापि तेन पुण्येन वर्धनः ।।६८।।
जातोऽयं नृपतिस्त्वत्र नाम्ना पुरूरवा इति ।
गोः शापेनाऽनपत्योऽस्ति पुत्रभाग्यविहीनकः ।।।६९।।
जन्मजन्मान्तरेष्वस्य नास्ति पुत्रो हि शापतः ।
पत्न्या सह वियोगोऽपि भविष्यत्यस्य कालतः ।।१.२५५.७०।।
श्रुत्वैतद्ब्राह्मणाः प्राहुः पापक्षयस्तु पुण्यतः ।
शापनिवारणं चापि भवादृशप्रसादतः ।।७१।।
असाध्यं नास्ति ते किंञ्चित्पुत्रो भवतु भूपतेः ।
पुण्यकार्यं शाधि नश्च ध्रुवं राजा करिष्यति ।।७२।।
लोमशः प्राह तान्सर्वान् विचार्य बलवद्व्रतम् ।
श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता ।।७३।।
एकादशी वाञ्छितदा कुरुध्वं तद्व्रतं द्विजाः ।
राजा राज्ञी तथा यूयं व्रतं कुरुत भावतः ।।७४।।
लक्षगवां प्रदानं च पुत्रदाया दिने प्रगे ।
पुरूरवाः प्रकरोतु ततः पुत्रो भविष्यति ।।७५।।
एकव्रते कृते लक्षगवां दाने सुतोऽद्वयः ।
भविष्यत्येव मे वाक्यान्नृपः करोतु वाञ्छितम् ।।७६।।
इत्याज्ञां शिरसि धृत्वा ययुः श्रीनगरं द्विजाः ।
राज्ञा सह व्रतं चक्रुर्यथाविधिसजागरम् ।।७७।।
लक्षगवां तदा दानं कृतं पात्रेभ्य एव च ।
तेन पुण्येन सा राज्ञी गर्भं दधार शोभनम् ।।७८।।
किन्तु पूर्वं यदा स्वर्गादायाताऽभूत् पतिकृते ।
तदा तया कृतस्त्वासीत्समयः स्थितये चिरम् ।।७९।।
नग्नं नृपं विलोक्याऽहं गमिष्यामि गृहात्ततः ।
अथाऽत्राऽवसरे रात्रौ नृपं वीक्ष्य विवस्त्रकम् ।।१.२५५.८० ।।
प्रयाता सा वनं तत्र ययौ पुरूरवा ह्यनु ।
अन्तर्वत्नी तु साऽरण्ये वह्निस्थालीस्वरूपिणी ।।८ १ । ।
सुषुवे सुसुतं जातवेदसं हि विभावसुम् ।
एकादश्या व्रतेनैवं वह्निः पुत्रोऽस्य चाभवत् ।।८ २ ।।
एवं वै पुत्रदाश्चैकादश्यश्चान्यास्तु षट्कृताः ।
लक्षगवां प्रदानं सः प्रचकार प्रतिव्रतम् । ।८ ३ ।।
तेन तस्योर्वशीगर्भात् षडासन्नात्मजाः परे ।
आयुः श्रुतायुः सत्यायुः रयोऽथ विजयो जयः । । ८४ । ।
तेषां पुत्राः प्रपुत्राश्च ह्यासन्वंशविवर्धनाः ।
अग्निना प्रजया राजा लोकं गान्धर्वमाप्तवान् । । ८५ ।।
भुक्त्वा भोगाननेकान् स काले त्यक्त्वा कलेवरम् ।
स्वर्गाद् यातः स वैकुण्ठं चतुर्भुजधरः स्वयम् ।। ८६ ।।
शृणु लक्ष्मि! स्वर्णभूषाऽऽनन्त्यं राज्य यदिच्छति ।
कर्तव्यं तेन गोदानपूर्वकं व्रतमुत्तमम् ।। ८७ ।।
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ।
द्वादश्यां वासुदेवाय पवित्रारोपणं चरेत् । ।८८ ।।
सूत्रैः क्षौमैर्हेमरूप्यताम्रैः कौशेयपद्मजैः ।
कुशैः काशैः सुकार्पासैः शणजैः शोभनैश्च तैः । ।८ ९ ।।
तन्तुभिस्त्रिगुणितं तत् त्रिगुणीकृत्य सूत्रकम् ।
शोधयेत् सुमणिदृश्यं कारयेत्पावनं हि तत् । । १.२५५.९० ।।
हरये त्वर्पयेत्तद्वै पवित्रं स्वर्णपुण्यदम् ।
एकादश्यां धारयेच्च रात्रौ जागरणं चरेत् ।। ९१ ।।
ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्रा नराः स्त्रियः ।
हरेर्भक्तौ स्थिताः सर्वै शुभं कुर्युः पवित्रकम् ।। ९२।।
हरये त्वर्पयेच्चापि गुरवेऽपि समर्पयेत् ।
पवित्रारोपणेनाहं सुपवित्रो भवाम्यहम् ।। ९३ ।।
स्वर्णरूप्यक्षौमवस्त्राद्यलकाराँस्तथाऽर्जयेत् ।
प्रत्यब्दं तु पुत्रदायां पवित्रारोपणं जनैः ।। ९४।।
कर्तव्यं तूक्तमन्त्रेण धनाढ्यस्तेन जायते ।
भुक्तिं मुक्तिं तथाऽऽप्नोति पवित्रारोपणेन च ।।९५।।
न करोति विधानेन पवित्रारोपणं तु यः ।
तस्य सांवत्सरी पूजा निष्फला भवति कृता ।। ९६ ।।
श्रुत्वा पुत्रप्रदायाश्च माहात्म्यं मुच्यते त्वघात् ।
सुखं स्वर्गं परं प्राप्य परं मोक्षमवाप्नुयात् । । ९७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रावणशुक्लपुत्रदैकादशीव्रतमाहात्म्यं पूर्वभवेगवापराधिनो वणिजः पुरूरवोऽवतारेऽपुत्रस्य व्रतकरणे ऊर्वश्यां पुत्रलाभः पवित्रारोपणं चेत्यादिनिरूपणनामा पंचपंचाशदधिकद्विशततमोऽध्यायः ।। २५५।।