लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५२
[[लेखकः :|]]
अध्यायः २५३ →

श्रीलक्ष्मीरुवाच-
कृपासिन्धो सदाऽऽलस्यान्वितानां भवपारकृत् ।
तारिता वै त्वया नाथ निर्जलाव्रतवर्णनात् ।। १ ।।
येन मुक्तिं तथा भुक्तिं सर्वैकादशिकाफलम् ।
व्रतिनः प्राप्नुवन्त्यत्र कारणं करुणा तव ।। २ ।।
संकल्पस्तव जीवानां कथंचिद्वै भवेद्यथा ।
निःश्रेयः परमं यद्वा मोक्षो वा स्वर्गमेव वा ।। ३ ।।
जननीवद्रक्षणं स्याद् भवसागरवारिधेः ।
तथा त्वं यतसे नाथ कृपा केवलकारणम् ।। ४ ।।
वद मेऽषाढकृष्णैकादश्या व्रतफलं विधिम् ।
देवं पूजां च माहात्म्यं कृपालो दानमित्यपि ।। '९ ।।
श्रीनारायण उवाच-
अषाढकृष्णपक्षीया योगिनीसंज्ञिका मता ।
क्षेमंकर्या सहाऽत्राऽर्च्यो नृसिंहाख्यो हरिः प्रभुः ।। ६ ।।
भृंगराजोऽत्र पुष्पेषु तथाऽर्घ्ये जाम्बवं फलम् ।
नैवेद्ये पिण्डका देया दाने तु जलगौर्मता ।। ७ ।
विशेषोऽयं विधिः प्रोक्तः कार्यं व्रतं व्रतोत्तमम् ।
सर्वपापक्षयकृच्च सर्वभुक्तिप्रदायकम् ।। ८ ।।
संसारार्णवमग्नानां पोतरूपं सनातनम् ।
जगत्त्रये सारभूतं योगिनीव्रतमुत्तमम् ।। ९ ।।
दशम्यामेकभक्तेन नक्तेन व्रतिना खलु ।
भूशायिना वर्तितव्यं ब्रह्मचर्यादिना तथा ।। 1.252.१०।।
एकादश्यां व्रती प्रातरुत्थाय श्रीहरिं स्मरेत् ।
ध्यात्वा स्नात्वा पूजयित्वा हरिं षोडशवस्तुभिः ।। १ १।।
प्रार्थयेद् भगवन् कृष्ण योगिन्या व्रतमुत्तमम् ।
करोम्यद्य तु निर्विघ्नं सम्पूर्णफलदं भवेत् ।। १२।।
कृपया तव भक्तानामभयंकर माधव ।
इत्यभ्यर्थ्य ततो धान्यैः कारयेत् सर्वतः शुभम् ।। १३।।
मण्डलं रंगचित्रादिशोभितं मण्डलान्तरे ।
मध्ये संस्थापयेत्स्वर्णकलशं रत्नगर्भितम् ।। १४।।
फलपल्लवयुक्तं च जलवस्त्रसमन्वितम् ।
चन्दनाक्षतसत्कुंकुमाऽर्चितं नवधातुजम् ।। १५।।
शंखं च पूजयेत्तत्र घण्टां प्रपूजयेत्तथा ।
शालग्रामं पूजयेच्च गणेशं पूजयेत्तथा ।। १६।।
पूजाद्रव्यैः पूजयित्वा श्रीकृष्णं नरसिंहकम् ।
पूजयेत्परया भक्त्या स्वर्णनिर्मितमूर्तिकम् ।। १७।।
तिलस्थाल्यां स्थापयित्वा पूजयेदक्षतादिभिः ।
आवाहनादिभिः पंचामृतैः सुगन्धिचन्दनैः ।। १८।।
सद्वस्त्रैश्च विभूषाभिः शृंगारद्रवमर्दनैः ।
धूपदीपसुनैवेद्यफलताम्बूलवारिभिः ।। १९।।
आरार्त्रिकस्तुतिपुष्पांजल्यादिभिः समर्चयेत् ।
क्षमापराधं त्वभ्यर्थ्य स्वकार्यं चेत् क्रियात् ततः ।।1.252.२ ०।।
मध्याह्नेपि सुनैवेद्यं त्वाम्ररसश्रीखण्डकम् ।
शीतलं मधुरं वारि पूरिका दधि शर्कराम् ।।२१ ।।
आरनालं च कूष्माण्डखण्डपाकंपयोरसम् ।
भोजयेन्मुखवासं च पूगीफलं च वीटिकाम् ।।२२।।
दद्यात्सायं तथा सौम्यं कारयेन्मण्डपं नवम् ।
तत्र दोलां बन्धयित्वा स्थापयित्वा हरिं ततः ।।२३ ।।
आन्दोलयेत्समुद्याने विहारयेदितस्ततः ।
शाद्वले शीतले भागे विश्रमयेज्जनार्दनम् ।।२४।।
पूजयेद् विविधैः श्रेष्ठैर्वस्तुभिश्च ततः परम् ।
नीराजयेन्नरसिंहं स्तुतिं कुर्याच्च सैंहिकीम् ।। २५।।
रात्रौ जागरणं कुर्यान्नृसिंहपदगायनैः ।
प्रातरुत्साहपूर्वं तं ध्यात्वा स्नात्वा प्रपूजयेत्। ।। २६ ।।
विधिवद्वस्तुभिः सर्वैर्निवेद्य मिष्टमिष्टकम् ।
जलं दद्यात्ततो भक्तः कुर्याद्वै पारणां शुभाम् ।। २७।।
जलदानं जलधेनुं स्वर्णधेनुं घृतादिकम् ।
दधि दुग्धं नवनीतं शर्करां गूडमित्यपि ।।२८ ।।
दद्याद् दानं सुपात्राय यानं वाहनमर्थकम् ।
गुरवे दक्षिणां दद्याद् घटं मूर्तिं हरेस्तथा ।।२९।।
मिष्टान्नानि तथान्यानि दापयेत् सद्भ्य एव च ।
गृहक्षेत्रपशूद्यानदासदानानि कारयेत् ।। 1.252.३ ०।।
एवं कृत्वा व्रतं भक्तो योगिन्या_ श्रद्धया युतः ।
योगिलभ्यं फलं स्वर्ग्यं कैवल्यं चापि संलसेत् ।। ३१ ।।
शृणु लक्ष्मि! कथां रम्यां दैवीं पापविनाशिनीम् ।
अलकायां नगर्यां वै कुबेरः शिवभक्तिमान् ।। ३२।।
यदा शंभोः प्रपूजायां वर्तते तु तदा सदा ।
स्वानुचरो महायक्षो हेममालीति नामतः ।। ३३ ।।
समानयति पुष्पाणि पार्श्वोद्यानभवानि वै ।
एवं नित्यं शंकरस्य पूजोपकरणानि सः ।। ३४।।
उपस्थापयति तत्र सदा कुबेरसन्निधौ ।
स किन्तु यौवनोद्भेदात् कामपूरेण संभृतः ।। ३५।।
स्वपत्न्या तु विशालाक्ष्या सह कामे विशेषतः ।
कामबाणेन चाकृष्टो वर्तते दिवसेऽपि च ।। ३६।।
कार्यं चापि परित्यज्य कामनायां प्रवर्तते ।
एवं चातीव कामार्थी पत्न्या सह क्वचित्क्वचित् ।। ३७।।
कुसुमादीनि चानेतुं गच्छत्येव द्रुमादिषु ।
एकदा तु कुबेरेण मानसाख्यसरः प्रति ।।३८ ।।
प्रेषितो हेममाली सः कमलानयनाय वै ।
सोऽपि नूत्नं सरो रम्यं दृश्यार्हं त्वभिमत्य च ।। ३९ ।।
पत्न्या सह गतस्तत्राऽऽनेतुं सु कमलानि तु ।
जलं च शाद्वलं सूक्ष्मवालुकाचाकचक्यताम् ।।1.252.४० ।।
रमणीयप्रदेशं च सुगन्धिकुसुमादिकम् ।
राजसं विविधं भावं विहारक्षोभकारकम् ।।४ १ ।।
दृष्ट्वा विकृतिमायातो विसृज्य कुसुमानि च ।
पत्न्या सह तदा रेमे मानसे तु सरोवरे ।।४२।।
पत्न्या मुहुर्धृतः कामे संसक्तो न निवर्तते ।
तृप्तापि तु पुनः पत्नी प्रवृत्ता न निवर्तते ।।४३।।
एवं परस्परं प्राप्तौ कामभावौ विशेषतः ।
पुनः पुनः प्रवृत्तौ तौ विविदतुर्न मोहितौ ।।४४।।
कालातिक्रमणं जातं पूजायाश्च तथापि तौ ।
पुष्पाण्यादाय नाऽऽयातौ कुबेरोऽपि प्रतीक्षते ।।४५।।
कामप्रेमरसासक्तौ न कुबेरालयं गतौ ।
कुबेरो देवसदने करोति शिवपूजनम् ।।४६ ।।
प्रातः कालो व्यतीतश्च मध्याह्नसमये ततः ।
कुबेरः पूजनार्थं तु पुष्पागमसमीक्षकः ।।४७।।
चिन्तयामास विघ्नं वै यतो नायाति यक्षकः ।
द्वितीयो यक्षकस्तत्र प्रेषितोऽन्वेषणाय यत् ।।४८।।
स गत्वा रममाणं तं ददर्श हेममालिनम् ।
हेममाली तु सलिले रमते कान्तया सह ।।४९।।
प्रेष्यस्तौ प्राह पुष्पाणि स कांक्षति कुबेरराट् ।
शीघ्रं वै तत्र गन्तव्यं मध्याह्ने पूजनं भवेत् ।।1.252.५०।।
इति कृत्वा गतौ पुष्पाण्यादाय राजराजकम् ।
कुबेरं तौ ततो नत्वा ययाचाते क्षमां मुहुः ।।५ १।।
यक्षराट् प्रत्युवाचाऽथ कालातिक्रमकोपितः ।
वनिताकामुकं ज्ञात्वा रममाणं निजेच्छया ।।५२।।
आः पाप दुष्ट दुर्वृत्त कामासक्ततया त्वया ।
अनादाय तु पुष्पाणि कृतं वै देवहेलनम् ।।।५ ३ ।।
कामभोगो महान् विघ्नः स च दोषो महान्मतः ।
दण्डस्तत्र प्रदातव्यो न कर्तव्या मया कृपा ।।५४।।
भवाष्टादशकुष्ठी त्वं वियुक्तो कान्तया तया ।
अस्मात्स्थानादपध्वस्तो गच्छस्वाऽधम भूतलम् ।।५५।।
इत्युक्ते वचने यक्षस्तस्मात्स्थानात्पपात ह ।
महादुःखाभिभूतश्च कुष्ठैश्चित्रितविग्रहः ।।५६।।
गलत्कुष्ठः श्वेतकुष्ठो रक्तकुष्ठोऽभवत्तदा ।
चर्मकुष्ठो ललत्कुष्ठो दुर्गन्धपूयकुष्ठकः ।।।५७।
एवं जातः शरीरे स हेममाली स्वकर्मणा ।
दिवा सुखं न लभते न निद्रां लभते निशि ।।५८।।
छायायां वा निदाघे वा गृहे कुंजे च गह्वरे ।
कुट्यां भूमौ लतामध्ये लभते न सुखं क्वचित् ।।।५९।।
दाहेन पीड्यते चाति खर्जनेन ज्वलत्यपि ।
पातकेनाभिभूतोपि पूर्वकर्म स्मरत्यसौ ।।1.252.६०।।
शिवार्पितसु पुष्पादिफलप्राबल्यतो ननु ।
पतितस्याऽभिभूतस्य स्मृतिस्तस्य न लुप्यति ।।६१।।
हिमालये महारण्ये घोररूप इतस्ततः ।
भ्रममाणो ययौ देवान् मार्कडेयाश्रमं शुभम् ।।६२।।।
तपोनिधिं मुनिश्रेष्ठं ब्रह्मध्यानपरायणम् ।
यस्याऽऽयुर्विद्यते लक्ष्मि! ब्रह्मणो दिनसप्तकम् ।।६३।।।
ववन्दे चरणौ तस्य दूरतः कुष्ठविग्रहः ।
मार्कंडेयो दयां कृत्वा कम्पितं दुष्टविग्रहम् ।।६४।।
परोपकरणार्थाय समाहूयेदमब्रवीत् ।
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतमो ह्यसि ।।६५।।
श्रुत्वा प्राह तदा सोपि मुनिं पापविनाशकम् ।
राजराजस्यानुचरो हेममालीति नामतः ।।६६।।
उद्यानात्पद्मनिचयं त्वानीय प्रत्यहं मुने ।
शिवपूजनवेलायां कुबेराय समार्पयम् ।।६७।।
एकस्मिन्दिवसे पत्न्या सहितोऽहं कृपालुना ।
संप्रेषितः कुबेरेण त्वानेतुं कमलानि हि ।।६८।।
अतिसुगन्धिचित्राणि मानसाख्यसरोवरम् ।
दृष्ट्वा तु नूतनं रम्यं भूतलं सजलं शुभम् ।।६९।।
कामसुखप्रसक्ताभ्यां कालश्चाऽविदितो गतः ।
पुष्पं विना शिवपूजा प्रातर्जाता ततो ह्यहम् ।।1.252.७०।।
अतिक्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ।
कुष्ठाभिभूतः संजातो वियुक्तः कान्तया तया ।।७ १।।
भ्रममाणोऽत्र सान्निध्ये प्राप्तोहं मे शुभं कुरु ।
सतां स्वभावतश्चित्तं परोपकरणे क्षमम् ।।७२।।
इति मदर्थं भगवन् कुरु सौख्यं भवेद् यथा ।
श्रुत्वा तथ्यं तदोवाच मार्कण्डेयो महामुनिः ।।७३।।
शृणु व्रतोपदेशं ते कथयामि शुभप्रदम् ।
आषाढे कृष्णपक्षस्यैकादशीव्रतमाचर ।।७४।।
योगिनीव्रतपुण्येन कुष्ठं यास्यति वै ध्रुवम् ।
पुनः प्राप्स्यसि पत्नीं त्वं लप्स्यसे शाश्वतं सुखम् ।।७५।।।
इतिवाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि ।
आशीर्भिर्वर्धितस्तेन बभूवाऽतीव हर्षितः ।।७६।।
योगिन्येकादशीं चक्रे व्रती त्वाश्रमसन्निधौ ।
मार्कंडेयस्य कृष्णस्य पूजनं प्रचकार सः ।।७७।।
मुनेर्वचनतः सम्यग् व्रते चीर्णेऽभवत्सुखी ।
अष्टादशैव कुष्ठानि तनौ नष्टानि सर्वथा ।।७८।।
गतो नत्वा स्वकं लोकं यक्षो भूत्वा यथायथम् ।
लब्ध्वा पत्नीं पुनस्त्वेवाऽलकायां न्यवसत्सुखम् ।।७९।।।
एवं शापनिवृत्तिर्वै योगिनीव्रततो भवेत् ।
कुष्ठादिरोगनाशश्च पत्नी नष्टापि लभ्यते ।।1.252.८ ०।।
लोकः स्थानं गृहं स्मृद्धिर्नष्टं वै प्राप्यते पुनः ।
योगिन्या व्रतपुण्येन योगलभ्यं लसेद् व्रती ।।८ १ ।।
इदृग्विधं महालक्ष्मि! कथितं योगिनीव्रतम् ।
नार्या भूत्वा तु योगिन्या योगिना तु नरेण च ।।८२।।।
कर्तव्यं योगफलदं भुक्तिमुक्तिप्रदं व्रतम् ।
अष्टाशीतिसहस्राणि साधून् भोजयते तु यः ।।८३।।
तत्समं फलमाप्नोति योगिन्या व्रतवान्नरः ।
योगाभ्यासफलदात्री योगिलोकप्रदायिनी ।।८४।।
कृष्णयोगान्मोक्षदात्री ह्युपोष्या योगिनीतिथिः ।
पठनाछ्रवणाच्चास्याः सर्वपापैः प्रमुच्यते ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढकृष्णयोगिन्येकादशीव्रतमाहात्म्यं हेममालियक्षस्य कुबेरशापेन जातकुष्ठादिरोगस्य व्रतकरणेन नाश इत्यादिनिरूपणनामा द्विपंचाशदधिकद्विशततमोऽध्यायः ।। २५२ ।।