लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५३
[[लेखकः :|]]
अध्यायः २५४ →

श्रीलक्ष्मीरुवाच-
कालो माया तथाऽऽत्मानः शक्तयः सन्ति यस्य ताः ।
नमस्तस्मै भगवते शक्तिस्वामिपरात्मने ।। १ ।।
योगिनीफलदात्रे ते योगपुण्यफलात्मने ।
योगिलभ्याय योगाय योगिनीपतये नमः ।। २ ।।
त्वमेव फलदाताऽसि त्वमेवाऽसि च मुक्तिकृत् ।
त्वमेवाऽधिपतिश्चासि नमस्तस्मै महात्मने ।। ३ ।।
सर्वदेवस्वरूपस्त्वं सर्वतीर्थात्मकोऽसि च ।
सर्वव्रतात्मकस्त्वं वै तस्मै सर्वात्मने नमः ।। ४ ।।
आषाढस्य सिते पक्षे किंनाम्न्येकादशी भवेत् ।
को देवः को विधिस्त्वस्याः फलं दानं च मे वद ।। ५ ।।
श्रीनारायण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् ।
शयनीं नाम नाम्ना तु सर्वपापविनाशिनीम् ।। ६ ।।
नियमां भामिकां चापि तामेव विद्धि नामतः ।
यस्या व्रतेन पापात्मा पूतो भवति तत्क्षणात् ।। ७ ।।
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ।
अतः परा न चान्यास्ति स्वर्गमोक्षप्रदा शुभा ।। ८ ।।
अस्यास्त्वधिपतिर्देवो वामनोऽस्ति हरिस्ततः ।
कमलाख्यप्रियायुक्तः पूजनीयो हि वामनः ।। ९ ।।
वामनः पूजितो येन कमलैः कमलेक्षणः ।
नियमाख्यशयन्यां तु तेनार्चितं जगत्त्रयम् ।। 1.253.१ ०।।
त्रयो देवाः पूजिताश्च पूजिताः सर्वदेवताः ।
कृता त्वेकादशी येन हरिवासर उत्तमः ।। ११ ।।
आषाढशुक्लैकादश्यां शेते क्षीरनिधौ हरिः ।
सर्वेन्द्रियप्रवाहाँस्तु परावृत्यातियोगतः ।। १२ ।।
तस्य पूजा त्वपामार्गैः पूरिकादिनिवेदनैः ।
नालिकेरीफलाद्यैश्च स्वर्णगोदानपूर्विका ।। १३ ।।
कर्तव्या व्रतिना भक्त्या नियमग्रहणं तथा ।
श्रूयतां च महालक्ष्मि! कथा पुण्यप्रदायिनी ।। १४।।
बलिर्वै दानवः पूर्वमासीत् त्रेतायुगे प्रिये ।
पूजयँश्चैव मां नित्यं मद्भक्तो मत्परायणः ।। १५।।
यज्ञैस्तु बहुभिर्दैत्यो विधिना यजति स्म माम् ।
परया स्नेहसद्भक्त्या व्रतोपोषणपूजनैः ।। १६।।
एवं पुण्यप्रभावेण ममोपासनया तथा ।
रसातलात्समायातः पृथिव्यां स नृपोऽभवत् ।। १७।।
पृथ्व्यां चापि मम पूजाबलेन वर्धितोऽभवत् ।
स्वर्गं तेनैव देहेन ययौ पुण्यप्रभावतः ।। १८।।
कृतं राज्यं वशे स्वस्य स्वर्गभूलोकसंयुतम् ।
इन्द्रादयोऽपि तस्याऽग्रे त्वभवन्निर्बलाः सुराः ।। १९।।
दानवा वर्धिताः पुष्टास्त्रिलोक्यामभवन्नृपाः ।
इन्द्रादिभिस्तदा देवैरर्थितः परमेश्वरः ।।1.253.२०।
हरिः शंभुस्तथा ब्रह्मा तैस्तु युक्तिः परा कृता ।
बलिः करोतु यज्ञं च दाता भवतु चाध्वरे ।। २१ ।।
भूत्वा तु भिक्षुकः कृष्णो महीभिक्षां करोतु सः ।
एवं तु समयं कृत्वा यज्ञार्थं प्रैरयद् बलिम् ।।२२।।
ऋषयो मुनयो देवा ह्यहं सर्वे गताः कृतौ ।
रेवताचलसान्निध्ये यत्र यज्ञः प्रवर्तते ।।।२३।।
तत्र वामनरूपेण ह्यवतारे हि पंचमे ।
अतिमहत्स्वरूपेण सर्वब्रह्माण्डयोगिना ।।२४।।
वाक्छलेन जितो दाता सत्यमाश्रित्य यः स्थितः ।
शुक्रस्तं वारयामास यन्नारायण इत्यहम् ।।२५।।।
याचिता वसुधा लक्ष्मि मया सार्धपदत्रया ।
संकल्पोदकमात्रे तु करे तेनैव चार्पिते ।।।२६।।।
रूपं ब्रह्माण्डपूर्णं वै तदा लक्ष्मि मया कृतम् ।
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ।।२७।।
स्वर्लोके तु कटिं कृत्वा महर्लोके तदोदरम् ।
जनलोके तु हृदयं तपोलोके गलं तथा ।।।२८।।
सत्यलोके मुखं न्यस्य वैराजे मस्तकं न्यधाम् ।
सूर्यचन्द्रग्रहतारा नक्षत्रधूम्रकेतवः ।।२९।।
देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः ।
अस्तुवन्वेदमन्त्रैस्ते सूक्तैश्च विविधैस्तदा ।। 1.253.३०।।
बलिं धृत्वा करे तत्र पदेनाऽऽपूरिता मही ।
द्वितीयेन स्वराप्तं चाण्डकटाहसमन्वितम् ।।३ १।।
तृतीयं तु बलेः पृष्ठे तदा न्यस्तं पदं मया ।
गतो रसातलं लक्ष्मि दानवो मम पूजकः ।।३२।।
न्यस्तो रसातले राज्ये सोऽपि मामभजत्ततः ।
प्रार्थयन्मां भवने स्वे सदा स्थातुं स भक्तराट् ।।३३।।
तदाऽहं विनयी भूत्वा निजभक्तपरायणः ।
अकुर्वित्युभयं रूपं त्वेकेन तद्गृहे स्थितः ।।३४।।
अपरेण स्वरूपेण शेषे शयनमास्थितः ।
अषाढशुक्लैकादश्यां शयनं श्रमनुत्तये ।। ३५।।
नैमित्तिकं गृहीतं वै मया तस्माद्दिनात्ततः ।
भक्तास्तां शयनीं प्राहुस्त्वेकादशीं सुपुण्यदाम् ।। ३६।।
इत्येवं शेषपृष्ठे वै क्षीरसागरमध्यतः ।
स्वपिम्यहं महालक्ष्मि यावदागामिकार्तिकी ।। ३७।।
चातुर्मास्यं तु तत्प्रोक्तं भुक्तिमुक्तिप्रदं परम् ।
शयनीव्रतकृच्चापि भुक्तिंमुक्तिमवाप्नुयात् ।।३८ ।।
शयनीं तु समारभ्य चातुमास्यावधिं पुमान् ।
तावद्भवेत्सुधर्मात्मा व्रतादिनियमी यमी ।। ३९।।।
नाऽतः परतरं किंचिद्व्रतं यावद्व्रतोत्तमम् ।
यत्र स्वपिति देवेशः शंखचक्रगदाधरः ।।1.253.४० ।।
एवं यः कुरुते लक्ष्मि! शयन्यास्तु व्रतोत्तमम् ।
सर्वपापहरं चापि भुक्तिमुक्तिप्रदायकम् ।।४१ ।।
स तु क्षुद्रोऽपि मे लोके जायते मे प्रियंकरः ।
दशम्यामेकभुक्तेन नक्तेनापि सुवर्तयेत् ।।४२।।
रात्रौ च ब्रह्मचारी स्यात्प्रातर्वै ब्राह्मसंज्ञके ।
काले तूत्थाय भगवत्स्मरणं संविधाय च ।।४३।।।
स्नात्वा देवार्चनं कृत्वा षोडशोपसुवस्तुभिः ।
पूजाया नैत्यकं सर्वं समाप्याथ स्वयं व्रती ।।४४।।
कारयेन्नवधान्यैस्तु सर्वतोभद्रमण्डलम् ।
मध्ये स्वर्णघटं पञ्चरत्नपल्लवसंयुतम् ।।४५।।
जलवस्त्रफलाढ्यं वै स्थापयेत् तं प्रपूजयेत् ।
तिलपात्रं स्थापयित्वा वामनं तत्र पूजयेत् ।।४६।।
कमलां शयनीं चापि पूजयेद् बहुवस्तुभिः ।
आवाहनादिकं कुर्यात् पञ्चामृतसुसेचनम् ।।४७।।
वस्त्रालंकारभूषादिहारचन्दनकज्जलम् ।
सर्वशृंगाररागाँश्च त्वर्पयेत्तिलकादिकम् ।।४८।।
धूपदीपसुनैवेद्यजलताम्बूलसत्फलम् ।
नीराजननमस्कारस्तुतिबन्दिक्षमापनम् ।।४९।।
विसर्जनांऽजलिं दत्वा स्वीयव्रतस्य पूर्तये ।
निर्विघ्नं मे व्रतं चास्तु प्रार्थयेदेवमेव ह ।।1.253.५० ।।
बलद्रव्यानुसारेण महापूजादि कारयेत् ।
मण्डपं कारयेद्रम्यं राज्यमण्डपसन्निभम् ।।५१ ।।
वैष्णवान्पूजयेत्प्रातर्दानानि प्राऽर्पयेत्तथा ।
साधूनामग्रतः स्थित्वा चातुर्मास्यव्रतानि च ।।५२।।
धारयेन्नियमाँश्चापि सुखमोक्षकराँस्तदा ।
जैह्वशैश्ननियमान् संगृह्णीयात्तु तपःकृते ।।५३।।
हर्यग्रे वा गुरोरग्रे गृह्णीयान्नियमान् व्रतम् ।
शारीरनियमौंस्तद्वन्मानसान्सयमाँस्तथा ।।५४।।
भोग्यभौतिकनियमान्मुक्तिदान्नियमानपि ।
व्रतानि दाननियमान्गृह्णीयात्प्रातरेव हि ।।१५।।
इन्द्रियाणां मनसश्च वृत्तीनां संयमस्तपः ।
अभ्यासेन तु कर्तव्यश्चातुर्मास्ये विशेषतः ।।५६।।
विषयाः परिहर्तव्याः क्षोभका विघ्नकारिणः ।
रसपुष्टिर्न वै कार्या यतः सा क्षोभिका मता ।।५७।।
रसो जैह्व्यो महान् दोषः सर्वेन्द्रियसुपुष्टिकृत् ।
जेतव्यः स विशेषेण चातुमास्यव्रतार्थिभिः ।।५८।।
फलाहारः पयःपानं ह्येकान्नमेकभोजनम् ।
शाकाहारः शाकवर्ज्यो घृतत्यागोऽथवा तपः ।।५९।।
दधित्यागस्तिलत्यागो दधिप्राशस्तिलादनम् ।
कन्दाहारः कणाहारो भाजाहारो दलादनम् ।।1.253.६०।।
जलाहारः शर्करायास्त्यागो गूढस्य नीरसः ।
श्रावणे शाकवर्ज्यं च भाद्रे दधिविवर्जितम् ।।६ १।।
आश्विने दुग्धहीनं च कार्तिके द्विदलोज्झितम् ।
भुञ्जीत मूलकं कन्दं वृन्ताकं न कलिंगकम् ।।६२।।
वर्जयेद् व्रतमेवोक्तं चातुर्मास्ये शुभे तपः ।
धारणापारणाख्यं वा व्रतं प्रोक्तं महाफलम् ।।६३।।
मौनं धार्यं कथा कार्या हरेर्नाम्ना च मालिकाः ।
उच्चारणेन युक्ताश्चाऽऽवर्तनीयाः शतंमिताः ।।६४।।
रूपाणां दर्शनं नातिकर्तव्यं चक्षुषोर्व्रतम् ।
शब्दानां श्रवणं नातिकर्तव्यं कर्णयोर्व्रतम् ।।६५।।
गन्धास्तु राजसा नातिग्राह्यास्तन्नासिकाव्रतम् ।
नारीनरमिथःस्पर्शो नातिकार्यस्त्वचो व्रतम् ।।६६।।
चातुर्मास्ये सदैकत्र वस्तव्यं पादयोर्व्रतम् ।
पत्रशाखाद्यभंगश्च हस्तयोः परमं व्रतम् ।।६७।।
वीर्यादेः रक्षणं त्वेतद् ब्रह्मचर्यं महद् व्रतम् ।
वातुलं तामसं नाऽदनीयं दैह्यं महत्तपः ।।६८ ।।
पञ्चाग्नितपनं वृक्षालम्बनं सूर्यदर्शनम् ।
एकपादेन संस्थानं हस्तस्योर्ध्वविधापनम् ।। ६९।।
अधोमस्तकताधारो नखाद्यकर्तनं तपः ।
केशानां वर्धनं भस्मधूलीकर्दममर्दनम् ।।1.253.७ ० ।।
अनुपानत्तया स्थेयं विवस्त्रेण विशेषतः ।
जलधारातले स्थेयं जले स्थेयं तथाऽऽतपे ।।७ १ ।।
अविताने सदा स्थेयं वृक्षाधोवास इत्यपि ।
भूमौ वासो भूशयनं वालुकाशयनं तथा ।।७२ ।।
बाणशय्या लोहशय्या कण्टके शयनं तथा ।
अशयनमनिद्रा च जलपानं तु नो पुनः ।।७३ ।।
स्नानं त्रिषवणं चैव मूर्तेश्चापि विचिन्तनम् ।
ध्यानं च स्मरणं चापि पूजनं पञ्चधा दिने ।।७४।।
मन्त्रजपस्तदर्थस्याभिध्यानं मानसं तपः ।
ऐकाग्र्यं धारणा चेति कर्तव्यं तु विशेषतः ।।७५।।
अहिंसा मनसा वाचा शरीरेणापि सर्वथा ।
जात्या देशेन कालेन प्रसंगेनापि वर्जिता ।।७६ ।।
तृणच्छेदोपि नो कार्यो व्रतं चाऽहिंसनं हि तत् ।
अद्रोहः सर्वभूतानामनिन्दा च महद्व्रतम् ।।७७।।
अन्यवृत्ताऽनवलोकनादिकं परमं व्रतम् ।
सत्यं प्रियं हितं तथ्यं सुखकृद्वचनं तपः ।।७८ ।।
अस्तेयं सर्वथा सर्वैरिन्द्रियैर्मनसा तपः ।
कामनाया विचारस्यानुद्भवः परमं तपः ।।७९।।
अग्राह्यं तु न रक्ष्यं वै किंचिच्चापि महत्तपः ।
भिक्षानिर्वाह एवास्तु देहयात्रा परं तपः ।।1.253.८ ० ।।
यदृच्छया तु संलाभे त्वनासक्तिर्महत्तपः ।
परसौख्यप्रदातृत्व परोपकरणं तपः ।।८ १ ।।
परार्थं च दयालुत्वं देहेनापि परं तपः ।
शौचं ज्ञानजलाभ्यां च नैर्मल्यं परमं तपः ।।८२ ।।
अकापट्यं हृदि वाचि क्रियायामेकता तपः ।
सन्तोषो नातितृष्णत्वमनाशा परमं तपः ।।८ ३ ।।
स्वीये तृप्तिः परकीये प्रौदासीन्यं परं तपः ।
मोक्षमार्गावलम्बस्तु तपसां तप उत्तमम् ।।८४।।
अक्लेशः सर्वदा शान्तिरक्रोधस्तु महद्व्रतम् ।
अनुद्वेगोऽनधिक्षेपो नाऽऽक्रोशो नकलित्तपः ।। ८५।।
अलुंचाग्रहणं नान्यद्रव्याशा मानसं तपः ।
ईशदत्ते सदा तृप्तिः परकीये न वाञ्च्छना ।।८६ ।।
भोग्यं नार्यादिकं त्याज्यं खट्वागेन्दुकपार्श्वकम् ।
सुगन्धस्तैलमर्दादि भूषणं च सुरूपणम् ।।८७।।
वस्त्रशृंगारसन्त्यागो भोगत्यागो विशेषतः ।
भोग्यसाधनसंत्यागो देहिनां परमं तपः ।।८८ ।।
यानवाहनधूम्रादिपानद्यूतसुनाटनम् ।
व्यसनं मिष्टपानं च त्याज्यं चेति परं तपः ।।८९ ।।
चातुर्मास्ये प्रतिपातः साधूनां चरणामृतम् ।
पातव्यं च प्रसादश्च भक्षणीयं इतिव्रतम् ।। 1.253.९० ।।
साधूनां च सतीनां च साध्वीनां पूजनं तथा ।
पादयोर्मर्दनं त्वंगवाहनं मुक्तिदं व्रतम् ।। ९१ ।।
देहेन मनसा वाण्या धनेनान्नेन वाससा ।
पुत्रेण प्रियया साकं तोषणं वै महद्व्रतम् ।। ९२।।
दर्शनं स्पर्शनं नित्यं नमनं पादसेवनम् ।
पूजनं भोजनं साधोस्तोषणं तन्महद्व्रतम् ।।९ ३ ।।
सतां निकटे संवासः स्नानज्ञानक्रियादिषु ।
शुश्रूषणं सदा कार्यं पावनाः साधवो यतः ।। ९४।।
देवसेवा पितृसेवा साधुसेवा महाव्रतम् ।
पत्नीतोषः स्वामिसेवा व्रतं पत्युः प्रतोषणम् ।। ९५।।
यस्यापेक्षितमेवैतद्दातव्यं प्रेमगर्भितम् ।
अक्षयं तस्य पुण्यं स्यात् तस्मान्नास्ति परं व्रतम् ।। ९६।।
स्वाश्रितानां तोषणं च स्वर्णाऽन्नज्ञानकाऽर्पणम् ।
ग्रामक्षेत्रमणिरत्नोद्यानाऽऽलयजलार्पणम् । ।९७ ।।
देहेन सेवनं नित्यं सार्वभौमं व्रतं भवेत् ।
क्षमा दयाऽनसूया चाऽनीर्ष्या दोषविवर्जनम् ।। ९८।।
गुणग्राहो यशःकीर्तिकारिता परमं तपः ।
अमानित्वं मानदत्वं समानात्माऽवलोकनम् ।।९९।।
अनौष्ण्यं वैपरीत्येऽपि शैत्यं नाप्यनुकूलके ।
हर्षाऽमर्षभयोद्वेगवर्जनं परमं तपः ।। 1.253.१०० ।।
फलधान्यदलपत्रपुष्पकणतृणादिकम् ।
अर्पणीयं श्रीहरये नवं नित्यं व्रतं महत् ।। १०१ ।।
काष्ठकरीषशाखाप्रशाखानालकरण्डकम् ।
प्रत्यहं त्वर्पणीयं तद् यथायोग्यं शुभं व्रतम् ।। १० २।।
शाकपाकसुमिष्टान्नलवणार्द्रकधानकम् ।
भर्जितं तण्डुलाद्यं च देयं नित्यं तु तद् व्रतम् ।। १०३ ।।
खाद्यं पेयं भक्ष्यभोज्ये चोष्यं स्वाद्यं च लेह्यकम् ।
दुग्धं दधि रसो मिष्टः कणा देया व्रतं महत् ।। १० ४।।
वस्त्रं भूषा कज्जलं चन्दनं चात्तरमुत्तमम् ।
कस्तूरी कुंकुमं चूर्णं देयं त्वलक्तकं व्रतम् । । १०५ ।।
एतानि स्वर्गदान्यत्र सुखदानि व्रतानि वै ।
श्रीहरेः स्मरणं भक्तिः पूजनं च निवेदनम् ।। १०६ । ।
द्वात्रिंशद्भिरुपचारैरर्चनं मुक्तिदं व्रतम् ।
परोपकरणं कृष्णबुद्ध्या पुण्यप्रदं व्रतम् ।। १ ०७।।
यजनं विविधैर्यज्ञैर्दीनानां च सहायता ।
कूपानां खननं वृक्षारोपणं चापि तद् व्रतम् ।। १०८ ।।
मार्गाणां चापि निर्माणं त्वाश्रमस्थलबन्धनम् ।
आश्रयसत्रशालादिनिर्माणं स्वर्गदं व्रतम् ।। १०९ । ।
कलाकौशल्यशिक्षा च कृष्युत्तेजनमित्यपि ।
यन्त्रवाहोपकारादि स्वर्गदं सुखदं व्रतम् ।। 1.253.११० । ।
मत्स्यपिपीलीकादीनां पिष्टदानं सदाव्रतम् ।
वृक्षाणां जल्रसेकश्च तृषितानां जलार्पणम् । । १११ । ।
क्षुधितानां भोज्यदानं नग्नानां वाससोऽर्पणम् ।
आर्तानां विविधानां तु तदार्तिशमनं व्रतम् ।। ११ २ ।।
रोगिणामोषधदानं वृत्तिदानं च जीविका ।
पोषणं पालनं चापि रक्षणं परमं व्रतम् । । ११३ । ।
नित्यमध्यात्मयोगस्याऽभ्यसनं शास्त्रवाचनम् ।
कृष्णकथाश्रवणं च मोक्षदं परमं व्रतम् । । ११४ ।।
दण्डवच्च नमस्काराः प्रदक्षिणं च तद् व्रतम् ।
दीपदानं वारिदानं नैवेद्याद्यर्पणं व्रतम् । । ११५ ।।
नित्यं फलार्पणं धान्यार्पणं चापि रसार्पणम् ।
शर्कराखण्डिकागूडमध्वाद्यर्पणकं व्रतम् । । ११ ६। ।
मार्जनं लेपनं स्वच्छीकरणं मंजनं व्रतम् ।
पात्रवस्त्रक्षालनं च नीराजनसमर्पणम् ।। ११ ७।।
नेत्रैर्मूर्तेः प्रपानं च प्रपासत्रादिचालनम् ।
मन्दिराग्र्ययसुसौधादिनिर्माणं परमं व्रतम् ।। ११८ । ।
चित्राद्यं शिल्पिताद्यं च वयनं भगवत्कृते ।
ग्रथनं ग्रन्थरचनं छन्दश्लोकादिवर्णनम् ।। ११९ ।।
व्याख्यानं कथनं भक्तवाञ्च्छापूरणकं व्रतम् ।
सुखदं स्वर्गदं मोक्षप्रदं चोपकृतिर्व्रतम् । । 1.253.१२० ।।
व्रतान्यन्यानि वक्ष्यामि शृणु लक्ष्मि! तपांसि वै ।
चातुर्मास्ये कथा श्रव्या भोजनीयाश्च साधवः ।। १२१ ।।
नित्यं कार्या महापूजा व्रतत्रयं सुसिद्धिदम् ।
श्रीकृष्णस्य महापूजा नित्यं कार्या महद्व्रतम् । । १२२ ।।
शतादिसंख्यया मालाऽऽवर्तनं मम नामतः ।
भक्तपूजा हविर्होमोऽर्चासेवा मोक्षदं व्रतम् ।। १२३।।
अहन्ताममतात्यागो ब्रह्मचर्यप्रपालनम् ।
पायसैक्षवलावण्यफालेयवर्जनं व्रतम् ।। १२४।।
कृष्णसम्बन्धिधर्मो यस्तदव्रतं मे परं मतम् ।
कृतेन व्रतिना येन भगवाँस्तज्जनास्तथा ।। १२५।
प्रीयेरँस्तद्व्रतं प्रोक्तं कर्तव्यं तु तदेव यत् ।
कार्तिके शुक्लपक्षेऽथ द्वादश्यां देवपूजनम् ।। १२६।।
कृत्वा भगवतस्त्वग्रे निवेद्यं भक्तिभावतः ।
इदं व्रतं मया देव कृतं त्वत्प्रीतये प्रभो । । १२७।।।
न्यूनं सम्पूर्णतां यातु तेन तुष्टो भवेर्मयि ।
एवं समाप्य नियमान् पारणामाचरेत्ततः ।। १२८।।।
प्रातःस्नानं देवपूजां नित्यं वृद्धाभिवन्दनम् ।
संविभज्याऽऽश्रितानां च भोजनादिविधापनम् ।। १२९।।
अक्लेशश्च सुमेलश्च कुटुम्बे स्नेहिता त्वति ।
मिष्टं चेष्टं गृहं यस्य स्वर्गं तस्यास्ति भूतले ।। 1.253.१३० ।।
व्रतेषु यद्व्रतं चातुर्मास्येऽतिवाञ्छितम् भवेत् ।
कर्तव्यं तच्छयनीप्रभातमारभ्य सर्वथा ।। १३१ ।।
मध्याह्णे हरये दद्याद् भोजनं सुजलं तथा ।
ताम्बूलं मिष्टपानं च सायं चापि तथाऽऽचरेत् ।। १ ३२।।
आरार्त्रिकं स्तवनं च दोलारोहणमित्यपि ।
आन्दोलयेद्धरिं तत्र भोजयेद्दुग्धपूरिकाः ।। १ ३३।।
रात्रौ जागरणं कुर्यान्नृत्यगीतकथामृतैः ।
द्वादश्यां ब्राह्मकाले च स्नात्वा कृष्णार्चनं चरेत् ।! १३४
दानानि स्वर्णमुख्यानि दद्यात् कुर्याच्च पारणाम् ।
भोजयेत्तु सतः साध्वीस्तोषयेद्विनयान्वितः ।। १३५।।।
एवं त्वाषादशुक्लाया व्रतं सनियमं शुभम् ।
कर्तव्यं सर्वयज्ञानां फलदं भुक्तिमुक्तिदम् ।। १३६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढशुक्लशयन्येकादशीव्रतमाहात्म्यं वामनावतारकृतशयनं चातुर्मास्ये चापि यमनियमसंयमव्रतदमनतपःशोषणत्यागसेवनदानोपकारादिसद्व्रतादि चेति निरूपणनामा त्रिपंचाशदधिकद्विशततमोऽध्यायः ।। २५३ ।।