लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५१
[[लेखकः :|]]
अध्यायः २५२ →

श्रीलक्ष्मीरुवाच-
असारेऽस्मिँस्तु संसारे सारस्तु भगवान् स्वयम् ।
यं भजित्वा नरा यान्ति निर्वाणपदमक्षरम् ।। १ ।।
कृष्णयोगात् कृष्णतिथिः कृष्णतुल्यफलप्रदा ।
यद्व्रतं विधिवत् कृत्वा देही याति परां गतिम् ।। २ ।।
ज्येष्ठशुक्लपक्षीयैकादशी किमभिधा मता ।
तस्या देवो व्रतविधिर्दानं फलं च कीदृशम् ।। ३ ।।
वद् मे श्रीहरे कृष्ण कृपानाथ रमापते ।
स्वीयानां चाऽहेतुकाऽनुग्रहकर्ताऽस्ति यद्भवान् ।। ४ । ।
श्रीनारायण उवाच-
ज्येष्ठशुक्लदलीयैकादशी वै निर्जलाभिधा ।
पद्माक्ष्या सहितस्त्रिविक्रमाख्यः पूज्य इष्यते ।। ५ ।।
यूथिकाकुसुमैः पूज्यश्चार्घ्ये त्वाम्रफलं मतम् ।
दधिभक्तादि नैवेद्यं छत्रदानादि चेष्यते ।। ६ ।।
दशम्यामेकभक्तेन नक्तेन निर्वहेद् व्रती ।
रात्रौ शयीत पृथ्व्यां च ब्रह्मचारी भवेद् व्रती ।। ७ ।।
प्रातरुत्थाय लक्ष्मीशं ध्यायेदंगानि चिन्तयेत् ।
स्नात्वा तं पूजयेद्भक्तो भावयुक्तैस्तु वस्तुभिः ।। ८ ।।
आवाहनं समारभ्य स्नानं पंचामृतादिना ।
शृंगारं कारयित्वाऽपि वस्त्रभूषासुगन्धिभिः । । ९ । ।
पत्रकुंकुमकस्तूरीहारालिशेखरादिभिः ।
आरार्त्रिकसुनैवेद्यपानताम्बूलदक्षिणैः । । 1.251.१० ।।
नमःस्तुतिक्षमावाक्यैः पुष्पांजल्यादिना हरेः ।
पूजां कृत्वा ततो धान्यैः सर्वतोभद्रमण्डलम् । । ११ । ।
कारयेत्स्थापयेन्मध्ये घटं कांचननिर्मितम् ।
ताम्रजं वा घटं तद्वदष्टदिक्षु घटाष्टकम् ।। १२ । ।
स्थापयित्वा पंचरत्नफलपल्लवतण्डुलान् ।
वस्त्रं स्थालीं तिलयुक्तां सुगन्धं चन्दनादिकम् । । १ रे । ।
विन्यस्येत्तु कलशेषु मूर्तिं त्रिविक्रमस्य च ।
पद्माक्ष्या निर्जलया च सहितां कनकोद्भवाम् । । १ ४। ।
पूजयेद् विधिना भक्तो व्रतार्थं च विचारयेत् ।
करोमि पूजनं कृष्ण निर्जलाव्रतसिद्धये । । १ '९ । ।
कृपया परिपूर्णं ते जायतां सर्वकामदम् ।
इत्यभ्यर्थ्य ततः कृष्णावतारं गणनायकम् । । १६ । ।
पूजयेद् दूर्वया सिन्दूराऽगुरुचन्दनाऽक्षतैः ।
मोदकानर्पयेत् पश्चात् त्रिविक्रमं समर्चयेत्। । । १७ ।।
आवाहनादिकं कृत्वा पंचामृतैश्च गोभवैः ।
शुद्धोदकेन सौगन्धयुक्तेन स्नपयेद्धरिम् ।। १ ८। ।
अर्पयेच्छुक्लवस्त्राणि ब्रह्मसूत्रादिकानि च ।
मुकुटाऽऽभूषणादीनि हारकेयूरकाणि च ।। १९ । ।
सुगन्धितैलद्रव्यादिकज्जलालक्तकान्यपि ।
धूपदीपसुनैवेद्यजलताम्बूलकानि च । । 1.251.२० । ।
आरार्त्रिकस्तुतिप्रदक्षिणाप्रक्रमणानि च ।
क्षमायाचनकुसुमांजलिविसर्जनानि च । । २१ । ।
एवं सर्वविधानेन श्रीकृष्णं पूजयेद् व्रती ।
ततः कुर्यात् स्वकं कार्यं मध्याह्नेऽपि तथाऽऽचरेत् ।। २२ । ।
श्रीखण्डसारं नैवेद्ये पूरिका त्वाम्रसद्रसम् ।
जलं शीतं शर्करैलासुगन्धं भावगर्भितम् । । २३ ।।
दद्याद् देवाय तु पश्चात् सायं दोलाधिरोहणम् ।
कारयेच्छ्रीहरिं पुष्पोद्याने द्रुवाटिकाभुवि ।। २४।।।
जलसिक्तशीतलार्द्रशाद्वले मृदुलस्थले ।
विहारयेद्धरिं सायं शीतवायुप्रसेविते । । २५ ।।
निशि त्वारार्त्रिकं कुर्यात् स्तुत्याद्यं च यथाक्रमम् ।
तक्रं च तरला दद्यान्नैवेद्ये सघृतां शुभाम् । । २६ ।।
पानीयं मिष्टसारं च दद्यात्पानार्थमुत्तमम् ।
मुखशुद्धिकरं द्रव्यं प्रदद्याच्छयनं शुभम् ।। २७।।
भक्तो जागरणं कुर्यान्मिलित्वाऽनेकसात्वतैः ।
प्रातः स्नात्वा हरिं नत्वा पूजयित्वा ततः परम् ।। २८ ।।
अन्यान्पूज्यान् भोजयित्वा कुर्याद्वै जलपारणाम् ।
ततो व्रती प्रकुर्यात्तु भोजनं हरयेऽर्पितम् ।।२९।।
दानानि विविधान्येव दद्यात्सत्फललब्धये ।
नृपो दद्याद्गजादींश्च रत्नानि नगराणि च ।। 1.251.३० ।।
विप्रो दद्यात्पुस्तकादि वैश्यो धान्यधनानि च ।
शूद्रो दद्यात्कलालभ्यवस्तूनि नूतनानि तु ।। ३१ ।।
सर्वो दद्याद् यथाशक्ति यत्स्वाग्रे देयमस्ति तत् ।
गवां दानं च भूदानं दानान्यन्यानि चाचरेत् ।। ३२।।
यद् यस्याग्रे स्वकं स्थात्तत्सत्पात्रायाऽर्पयेद् व्रती ।
ब्रह्मणे त्वर्पयामीति मत्वा दद्यात्तु शार्ङ्गिणे ।। ३३ ।।
लक्ष्मीनारायणायैव दद्याच्छ्रीगुरवे तथा ।
अनाथाय दरिद्राय दद्याच्चाप्यसहायिने ।। ३४।।
नार्यै दद्याद्विधवायै ह्यनाथायै तथाऽर्पयेत् ।
बालकेभ्यो बालिकाभ्यः प्रदद्याच्छर्करादिकम् ।। ३५।।
भिक्षां सद्भ्यश्च साध्वीभ्यो दद्याद्व्रती घृतान्विताम् ।
मिष्टान्नानि तथाऽन्यानि भोज्यान्यपि समर्पयेत् ।। ३६।।
एवं कृत्वा व्रतं भक्तो याति स्वर्गं च मोक्षणम् ।
व्रतमेतत्सुखोपायं सारभूतं महाफलम् ।। ३७।।
अल्पक्लेशं स्वल्पवस्तुसाध्यं यच्छ्रद्धया भवेत् ।
अपि पापदुराचाराः पापिष्ठा धर्मवर्जिताः ।। ३८ ।।
निर्जलायां न भुंजन्ति नो पिबन्ति जलादिकम् ।
हरेर्भक्तिं प्रकुर्वन्ति न ते यान्ति यमान्तिकम् ।। ३९ ।।
शृणु व्रतकथां त्वस्या याऽभूत्पूर्वे कृते युगे ।
ब्रह्मणा भवनं सृष्टं यथापूर्वं युगादिमे ।। 1.251.४० ।।
प्रथमे तु दिने तत्र सत्ययुगे ऋषिः क्रतुः ।
अग्निमुखः क्रतुः पुत्रो वेधसो बहुभोज्यभूत् ।।४१ ।।
यद्यद् भक्षयति प्राप्तं भस्मीभवति तत्क्षणे ।
समकाले सहस्राणि लक्षाणि भोजनान्यपि ।। ४२।।
असीमानि प्रदत्तानि भुंक्ते द्रागेव चैकलः ।
जीर्यन्ति तानि सर्वाणि घटिकान्ते बुभुक्षितः ।।४३ ।।
जाठराग्निकृतदावानलव्याप्तो भवत्यपि ।
समिच्छत्यतिभोज्यानि नाप्यन्ते तु यदा तदा ।।४४।।
वनं हिमालयारण्यं मेर्वरण्यं महत्तमम् ।
गच्छत्येव च तत्रत्यं सर्वं खादत्यहर्निशम् ।।४५।।
जलार्थं तु क्षीरमिष्टसागरे तु पतत्ययम् ।
पानीयं पिबति यावत् तृप्तिर्भवति तत्तथा ।। ४६ । ।
एवं तु गम्यमानायां यात्रायां वर्ष्मणः क्रतुः ।
क्वचित्पुरुक्षुधाविष्टो ब्रह्माणं संजगाम ह ।।४७।।
प्रार्थयच्चाऽऽतृप्तिभक्ष्यं नित्यं मे प्राप्यतामिति ।
ब्रह्मा प्राह क्रतुं पुत्र तृप्तिं तुभ्यं ददाम्यहम् ।। ४८ । ।
यः कोपि चेतनस्तुभ्यं यजमानस्वरूपकः ।
यज्ञे दास्यति यावत्या भक्ष्यं भावनयाऽतुलम् ।।४९ ।।
तावती ते क्षुधा तत्र जायतां पाचनाय वै ।
भावनाया अभावे तु क्षुधानाशोपि ते भवेत् । । 1.251.५ ० ।।
तृप्तिस्तु तत्र भवतु यथाभावनमेव ते ।
इत आरभ्य पुत्र त्वां क्षुधा बाधिष्यते नहि ।।५ १ ।।
यथा होतः प्राग्बबाधे तथा बाधिष्यते नहि ।
किन्तु क्रतुस्वरूपाय हविर्दास्यन्ति तेऽधिकम् । । ५२ ।।
बहुभिः समकाले ते ह्यपथ्यं मा तदा भवेत् ।
इतिहेतोः क्षुधा ते वै स्वेच्छया संभविष्यति ।। ५३ ।।
कश्चिद्दास्यति यावत्ते तावत्तेऽस्तु तदा क्षुधा ।
न दास्यति तदा क्षुत्ते शमिष्यतीति सर्वदा ।।५४। ।
सुखी भव क्रतो पुत्र मा जिह्वालोल्यमीयताम् ।
स क्रतुर्ब्रह्मणाऽऽशीर्भिर्योजितो निर्ययौ ततः ।। ५५ ।।
स त्वग्निहोत्रिणां नित्याऽऽवासेषूवास शान्तहृत् ।
भक्षयत्यनिशं त्वग्नौ होतॄणां होमकर्मसु ।। ५६ । ।
हव्यं बहुविधं प्रातर्मध्ये सायं च नैत्यकम् ।
भुक्त्वा भुक्त्वा क्षुधा त्वस्य नित्यमाहारमिच्छति ।। ५७। ।
इत्यभ्यासवशात्तस्य त्रिवारं भोजनं ध्रुवम् ।
ततोऽप्यधिककालं वा कर्तव्यं भवति ध्रुवम् । । ।५८ ।।
एवं स भोजनाभ्यासात् काले काले समिच्छति ।
भोजनं विविधं हव्यं ह्यदत्तं दत्तमेव वा ।।५ ९ ।।
जिह्वालौल्याद् भोजनेच्छा जायते तु मुहुर्मुहुः ।
स्वेच्छया च क्षुधा त्वस्य वर्धते बहुवेगिनी । । 1.251.६० ।।
एवं क्रतोः स्थितौ दक्षमरीच्याद्या महर्षयः ।
ययुर्बदरिकारण्यं द्रष्टुं नारायणं नरम् ।। ६१ ।।
मन्दाकिन्यां च ते स्नात्वा दृष्ट्वा नारायणं हरिम् ।
निषीदुः श्रीहरेस्तत्र सान्निध्ये बदरीवने । । ६२ ।।
रूपाभिरूपावयवं हिमग्रावसमोज्ज्वलम् ।
ब्रह्मव्रतस्वरूपं च तपोमूर्तिं परेश्वरम् । । ६३ ।।
भृगुर्नत्वा हरिं स्मृत्वा पप्रच्छ परमेश्वरम् ।
दीनबन्धो कृपासिन्धो बद्धोद्धारकर प्रभो । । ६ ४। ।
नमामः शरणं प्राप्तास्त्वां हृत्स्थं च बहिःस्थितम् ।
वदाऽस्मान् सरलं पुण्यप्रदं भुक्तिप्रमुक्तिदम् ।।६१।।
व्रतं येनाऽन्नजा दोषा नश्येयुः सर्वतोमुखाः ।
परान्नजास्तथा शुद्धिरहितान्नसमुद्भवाः ।।६६।।
सूतकान्नकृताश्चापि संसृष्टान्नग्रहोद्भवाः ।
भिक्षान्नजास्तथा पर्युषितान्नोद्भविताश्च ये ।।६७।।
ते नश्येयुर्यथा दोषा ज्ञानाऽज्ञानकृताः प्रभो ।
अनर्पितान्नजा दोषाः स्वार्थपंक्तिप्रभेदजाः ।।६८।।
ते दोषा येन नश्येयुस्तादृशं ब्रूहि सत्तपः ।
श्रुत्वैवं श्रीहरिः प्राह शृणुत ब्राह्मणोत्तमाः ।।६९।।
व्रतं व्रतोत्तमं त्वेकादश्या मतमुपोषणम् ।
तपस्तपःप्रधानं च पापसंहारकारकम् ।।1.251.७०।।
अन्नाश्रितानां दोषाणां सर्वेषां शोधकं परम् ।
सरलं सुलभं सूक्ष्मं व्रतं सर्वफलप्रदम् ।।७ १।।
एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।
सूतकेऽपि न भोक्तव्यं नाऽऽशौचेऽपि महर्षयः! ।।७२।।
यावज्जीवं व्रतमेतत्कर्तव्यं श्रेय इच्छता ।
स्वर्गं मोक्षं वाञ्च्छताऽपि कर्तव्यं तद् व्रतं शुभम् ।।७३।।
अन्नाश्रिताऽसंख्यदोषा व्रतकर्तुर्भवन्ति न ।
एकादश्या अव्रतानां मोक्षो नैव च नैव च ।।७४।।
अपि वापदुराचाराः पापिष्ठा धर्मवर्जिताः ।
एकादश्यां न भुंजन्ति न ते यान्ति यमान्तिकम् ।।७५।।
एकादश्यां तु भोक्तारोऽन्नादा यान्ति यमालयम् ।
इति तद्वचनं श्रुत्वा कम्पितो हृदयाम्बुजे ।।७६।।
क्रतुः प्राह महाभक्ष्यो नरनारायणं प्रति ।
भगवन्नैव शक्तोऽस्मि बुभुक्षा दुःसहा मम ।।७७।।
प्रातर्मे भोजनाऽलब्धौ मध्याह्ने मरणं भवेत् ।
नाऽहं क्षुधां समर्थोऽस्मि सोढुं वै कालपंचके ।।७८।।
प्रातर्देवमुखैरद्मि पूर्वाह्णेऽग्निमुखेन च ।
मध्याह्ने चापराह्णे चाऽतिथिभिक्षुकसन्मुखैः ।।७९।।
सायं सर्वमुखैरद्मि रात्रौ स्थावरजंगमैः ।
एवं वै भोजनं मेऽस्ति सर्वथा परिनिर्मितम् ।।1.251.८०।।
क्षुधापि बाधते यावदभ्याससमयेऽन्वहम् ।
तस्माद् दानानि दास्यामि पूजयिष्यामि केशवम् ।।८ १ ।।
अन्यत्पुण्यं करिष्यामि न करिष्याम्युपोषणम् ।
इत्युक्त्वा विररामाऽसौ प्राह नारायणस्तदा ।।।८२।।
यदि स्वर्गोऽस्त्यभीष्टस्ते नरको नेष्यते त्वया ।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ।।८३।।
क्रतुः प्राह हरिं नाथ तथ्यं वच्मि तवाऽग्रतः ।
एकभुक्ते न शक्तोऽस्मि तूपवासे कुतः क्षमः ।।८४।।
क्रो नामा त्वनलः सप्तजिह्वस्तुदति जाठरः ।
नाम्ना भवामि लक्ष्मीश! क्रतुरेव यथार्थतः ।।८५।।
क्रः क्रूरः स महानग्निरतिवेलं च भोजनम् ।
अतिस्निग्धं यदाऽश्नामि तदा सोऽपि प्रशाम्यति ।।८६।।
सर्वासामुपवासे तु मरिष्यामि न संशयः ।
तस्मात्कुरु कृपां कृष्ण कर्तुं शक्नोम्यहं यथा ।।८७।।
येनैव प्राप्यते स्वर्गस्तत्कर्ताऽस्मि तवाऽऽज्ञया ।
मोक्षश्चापि भवेद्येन तदेकं वद मत्कृते ।।८८।।
यदहं सुगमं कुर्वे येन श्रेयोऽहमाप्नुयाम् ।
श्रुत्वा नारायणस्तस्य दयालुर्भक्तवत्सलः ।।८९।।
प्राह योग्यं विचार्यैव तादृशानां कृते व्रतम् ।
वृषस्थे मिथुनस्थेऽर्के यदा त्वेकादशी भवेत् ।। 1.251.९०।।
ज्येष्ठमासे प्रयत्नेन सोपोष्या जलवर्जिता ।
गण्डूषाचमनं वारिं वर्जयित्वा जलं परम् ।।९१ ।।
उपभुंजीत नैवात्र निर्जला सा कृता भवेत् ।
निर्जलायां जले ग्रस्ते व्रतं न्यूनबलं भवेत् ।।९२।।
उदयादुदयं यावद् वर्जयित्वा जलं व्रती ।
द्वादशैकादश्युपोषणोत्थं फलमवाप्नुयात् ।।९३।।
व्रतं तु निर्जलं देवार्चनयुक्तं सजागरम् ।
कृत्वा प्रातर्द्वादश्यां च जलस्नानं प्रपूजनम् ।।९४।।
सजलं ससुवर्णं च घटं दत्वा द्विजातये ।
अन्नदानानि दत्वा च भुंजीत पारणां स्वकैः ।। ९५।।
साधून् साध्वीर्बालिकाश्च बालान् सभोजयेद् व्रती ।
संवत्सरैकादशीनां फलं वै व्रतिनो भवेत् ।।।९६।।
सर्वान्वादान्परित्यज्य मामेकं शरणं व्रजेत् ।
एकादश्यां निराहारः सर्वपापात् प्रमुच्यते ।।९७।।
एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।
तत्रापि ज्येष्ठशुक्लैकादश्यां वै निर्जलो भवेत् ।।९८।।
एकस्या अपि पुण्यं संवत्सरैकादशीभवम् ।
उपोषिता हि सर्वाः स्युरेकादश्यः सिताऽसिताः ।।९९। ।
धनधान्यप्रदा त्वेषा पुत्रारोग्यादिसम्प्रदा ।
उपोषिता मनोवाञ्छितार्थलाभप्रदा शुभा ।। 1.251.१०० ।।
यमदूता महाकायाः कराला विकटाननाः ।
दण्डपाशधराः क्रूरा व्रतीनं नाभियन्ति हि । । १०१ ।।
पीताम्बरधराः सौम्याश्चक्रहस्ता मनोजवाः ।
वैष्णवाः संनयन्त्येनं ह्यन्ते पुरीं तु वैष्णवीम् ।। १ ०२।।
तस्मात्सर्वप्रयत्नेन क्रतो त्वं तां समाचर ।
निर्जलां श्रद्धया पुत्र विधेह्यद्भिर्विवर्जिताम् ।। १ ०२। ।
तेन ते जाठरस्तीव्रो नियमस्थो भविष्यति ।
उत्साहेन प्रकर्तव्या साऽवधानेन निर्जला ।। १ ०४। ।
स्वप्नेऽन्नभक्षणं वारिपानं वा जायते यदि ।
तदा मे ह्यपराधो न व्रतभंगोऽत्र माऽस्तु मे ।। १ ०५। ।
स्वप्नदोषेऽपि मे नाथ व्रतभंगो हि माऽस्तु मे ।
निद्रालस्यनिमित्तेऽपि व्रतभंगोऽपि माऽस्तु मे ।। १०६ । ।
भोक्ष्ये परेऽह्नि देवेश ह्यशनं वासराद्धरेः ।
इत्यभ्यर्थ्य हरिं कृष्णमुपवासपरो भवेत् ।। १ ०७। ।
मेरुलोकालोकतुल्यं स्त्रिया पुंसा च यत्कृतम् ।
सर्वं तद्भस्मतां याति पापमेकादशीबलात् ।। १ ०८।।
जलधेनुः प्रदातव्या द्वादशीपारणादिने ।
सकांचनः प्रदातव्यो सुघटो जलसंभृतः ।। १०९।।
जलं नैव हि पातव्यं ह्यस्यां यो नियमं चरेत् ।
फलं कोटिसुवर्णानां यामे यामे भवेत्तदा ।। 1.251.११० ।।
स्नानं दानं जपं होमं करोति स्वल्पकं व्रती ।
तत्सर्वं शाश्वतं पुण्यं ददात्यच्युतवाग्बलात् ।। ११ १। ।
किमन्येन तु कृत्येन निर्जलैकादशी विना ।
सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते । । १ १२।।
यो निर्जलं तूपवसेत् वैष्णवं धाम याति सः ।
येन येन कृतं पुण्यं सर्वं चाप्यक्षयं भवेत् । । १ १३।।
ये तु दास्यन्ति दानानि द्वादश्यां पारणादिने ।
ज्येष्ठे सिते व्रतिनस्ते प्राप्स्यन्ति परमं पदम् । । १ १४। ।
ब्रह्मघ्नो मद्यपश्चौरो गुरुद्वेषी व्यवायकृत् ।
मुच्यन्ते पातकैरेते यदि द्वादश्युपोषिता । । ११५। ।
क्रतो शृणु विशेषं त्वं निर्जलैकादशीदिने ।
श्रद्धायुक्तनरस्त्रीभिर्जलशायी हरिः स्वयम् । । १ १६।।
पूजनीयस्तथा देया धेनुर्जलमयी तदा ।
प्रत्यक्षा वा सवत्सा वा देया मुक्तिप्रदा भवेत् ।। १ १७।।
श्रेष्ठाभिर्दक्षिणाभिश्च मिष्टान्नैश्च पृथग्विधैः ।
तोषणीया द्विजाः सन्तः साध्व्यो बालाश्च बालिकाः ।। १ १८।।
तेषु तुष्टेषु कृष्णोऽहं तुष्टो भवामि मोक्षदः ।
यैर्न व्रतं कृतं त्वस्या आत्मघ्नास्ते न संशयः ।। ११९ ।।
एकादश्यां दिने योऽन्नं भुंजतेऽघभुजो हि ते ।
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः ।। 1.251.१२० ।।
शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम् ।
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ।। १२१ ।।
कुलानां शतमागामि ह्यतीतानां तथा शतम् ।
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ।। १ २२।।
अन्नं गावो महिष्यश्च वस्त्रं शय्यासनं जलम् ।
दण्डः कमण्डलुश्छत्रं पात्रं स्वर्णं तिलादिकम् ।। १२३।।
उपानहौ तथाऽन्यद्वा किंचित्पात्रे ददाति यः ।
स सौवर्णेन यानेन स्वर्गलोके महीयते ।। १२४।।
नियमेन तु कर्तव्यं व्रतं निर्जलमेव हि ।
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ।। १२५।।
सशर्करा जलकुंभा दातव्या विष्णुसन्निधौ ।
भोजयित्वा ततो विप्रान् स्वयं भुंजीत पारणाम् ।। १२६ ।।
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ।
सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ।। १२७।।
श्रुत्वा नत्वा क्रतुः स्वस्याश्रमं यातो मुदान्वितः ।
व्रतं चकार विधिवन्निर्जलाया दिने तु सः ।। १२८।।
फलं तु प्राप्तवान्सर्वं तथाऽन्योऽपि करिष्यति ।
प्राप्स्यत्येषश्चतुर्विंशत्येकादशीकृतं फलम् ।। १२९।।
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् ।
उभौ तौ द्यामाप्नुयातां नात्र कार्या विचारणा ।। 1.251.१३०।।
यत्फलं तु सिनीवाल्यां राहुग्रस्ते दिवाकरे ।
श्राद्धं कृत्वा जपेद्यत्तत् स्यादस्याः श्रवणादपि ।। १३ १।।
पठनात्पाठनाच्चापि व्रततुल्यं फलं भवेत् ।
व्रतात्तु शाश्वतं स्वर्गं मुक्तिश्च शाश्वती भवेत् ।। १ ३२।।
इति श्रीलक्ष्मीनारायणीयसंहितार्यां प्रथमे कृतयुगसन्ताने ज्येष्ठशुक्लनिर्जलैकादशीव्रतमाहात्म्यं बुभुक्षितस्य क्रतोर्व्रतेन सोपाख्यान क्षुधाशान्त्यादि फल-
प्राप्त्यादिचेतिनिरूपणनामैकपंचाशदधिकद्विशततमोऽध्यायः ।। २५१ ।।