लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५०
[[लेखकः :|]]
अध्यायः २५१ →

श्रीलक्ष्मीरुवाच-
लोके च प्राणिनां रीतिर्नैसर्गिकी तु केशव ।
भक्ष्ये पाने तथाऽऽनन्देऽलंकारे विषये प्रिये ।। १ ।।
मानवास्तु तथा मर्त्ये विधिं विस्मृत्य मानवम् ।
यान्ति ते पाशवे मार्गे देहेन्द्रियाऽसुतर्पणाः ।। २ ।।
तेषां मुक्तिकरं सौम्यं व्रतं नारायण प्रभो! ।
एकादश्या व्रतादन्यन्नास्ति द्राङ् मोक्षदं खलु ।। ३ ।।
श्रुत्वैतन्मानसं मेऽतिप्रसन्नं भवति प्रभो ।
श्रोतुमिच्छामि माहात्म्यं विधिं प्रपूजनं व्रतम् ।। ४ ।।
ज्येष्ठकृष्णैकादशिकातिथेस्तद् वद् केशव ।
किं नाम्न्येकादशी कोऽस्या देवः पूज्यश्च किं फलम् ।। ५ ।।
नारायण उवाच-
एकादशी त्वपराख्या महापातकनाशिनी ।
ज्येष्ठकृष्णदलीया वै पुत्रपौत्रप्रदायिनी ।। ६ ।।
अस्या अधिपतिर्देवो हरिः स्वयमधोक्षजः ।
पत्न्या त्रय्याख्यया युक्तः पूजनीयो विधानतः ।। ७ ।।
केतकैरर्चनीयोऽसौ तथाऽन्यैः कुसुमैः शुभैः ।
अर्घ्ये बहुफलं देयं दुग्धौदनादि भोजने ।। ८ ।।
शार्करं तु जलं शीतं पानार्थं देयमुत्तमम् ।
सवत्सायाश्च गोर्दानं गुरवेऽत्र प्रकीर्तितम् ।। ९ ।।
दशम्यामेकभुक्तेन नक्तेन निर्वहेद् व्रती ।
रात्रौ भूशयनं कुर्याद् रक्षयेद् ब्रह्मचारिताम् ।। १० ।।
एकादश्यां समुत्थाय ब्राह्मकाले हरिं स्मरेत् ।
स्वर्णकेशं पद्मनेत्रं तिलपुष्पसुनासिकम् ।। १ १।।
सकुण्डलं समुकुटं केयूरकटकान्वितम् ।
रक्ताधरं सुचिबुकं वर्तुलाननशोभितम् ।। १२।।
हसन्तं कुन्दकलिकापंक्तिभासुरदन्तकम् ।
प्रोद्भिन्नयौवनोपेतं तेजोमण्डलमण्डितम् ।। १३। ।
हाररत्नाभरणादिभूषितं सेवितं जनैः ।
रूपानुरूपावयवं प्रसन्नमुखपंकजम् ।। १४।।
चेतो हरन्तं भक्तस्य कटाक्षशरकारिणम् ।
दिव्यानन्दभरं कृष्णं कोटिकन्दर्पसुन्दरम् । । १५।।
ध्यायेदेवं हरिं कृष्णं परमात्मानमीश्वरम् ।
ततः स्नात्वा पूजयेच्च विधिना स्वामिनं प्रभुम् ।। १६ ।।
आवाहनादिषोडशविधानैः पूजयेत्प्रभुम् ।
पुष्पांजलिप्रपर्यन्तं नैत्यकं पूजनं व्रती ।। १७।।
विधाय प्रार्थयेदन्ते व्रतविघ्नप्रशान्तये ।
अपराया व्रतं त्वद्य करिष्ये परमेश्वर ।। १८।।
अविघ्नं तत्प्रपूर्णं मे भवत्विति ततो व्रती ।
मण्डलं सर्वतोभद्रं कारयेदक्षतादिभिः ।। १९।।
घटं संस्थाप्य सौवर्णं सजलं ताम्रमित्यथ ।
पञ्चरत्नादिसंयुक्तं वस्त्रपल्लवशोभितम् ।।२० ।।
पूजयेत्तं च तीर्थानि जले त्वावाहयेत् ततः ।
मूर्तिं त्रय्या सहाऽधोक्षजस्य कुन्दननिर्मिताम् ।।।२१ ।।
घटमूर्ध्नि तिलपात्रे प्रसंस्थाप्य प्रपूजयेत् ।
आवाहनात्समारभ्य यथा विसर्जनावधिम् ।। २२।।
स्नानालंकारसौगन्ध्यनैवेद्यजलवीटिकाम् ।
आरार्त्रिकस्तुतिपुष्पांजलिक्षान्तिसमर्थनाम् ।।२३।।
निर्वर्तयित्वा दानानि विविधानि तु दापयेत् ।
मध्याह्नेऽपि तथा कुर्यात् पूजनं होममित्यपि ।। २४।।
त्रय्याऽधोक्षजनाम्ना वै ह्यष्टोत्तरशतं व्रती ।
नैवेद्यं मिष्टमर्पय्य ताम्बूलादि समर्पयेत् ।।।२५।।
सायं तु मण्डपं रम्यं हरितं कदलीकृतम् ।
नवपल्लवपुष्पाढ्यफलयुक्तोरणान्वितम् ।।२६।।
सवितानं सुरंगालिचित्रशोभाचमत्कृतम् ।
कारयेत् तत्र दोलायामान्दालयेत्तु माधवम् ।।२७।।
जलफुव्वारसंसिक्तशीतलोद्यानमध्यगम् ।
सिंहासनस्थितं चाधोक्षजं विञ्ज्यात् ततो व्रती ।।२८।।
कृत्वैवं तु महापूजां हरेर्निशि प्रकारयेत् ।
आरार्त्रिकादिकं चाथ नैवेद्यं दधिशर्करम् ।।२९।।
आम्रमिष्टरसाढ्यं च पूरिकादियुतं शुभम् ।
अर्पयेत् नक्तभोज्यं च ताम्बूलादि समर्पयेत् ।।।३० ।।
कल्पयेच्छयनार्थं च पर्यंकं प्रेंखयान्वितम् ।
निम्बवृक्षप्रशाखायां व्योम्नि बद्धं सुदोलकम् ।।३ १ ।।
कोमलं गेन्दुकाद्यं चास्तरणं चापि कल्पयेत् ।
भगवन्तं घृतदीपप्रकाशे तत्र दोलयेत् ।।३२।।
नृत्यं गीतं कीर्तनं च स्मरणं भजनं तथा ।
कुर्युर्जागरणं भक्ता मिलित्वा हरिसन्निधौ ।।।३३।।।
एकादश्याः कथां तत्र शृणुयाच्च पठेच्च वा ।
लीलादीनि हरेस्तत्र श्रावयेद् वदनादिना ।।३४।।
अखण्डनामभजनं सशब्दं निशि कारयेत् ।
भक्तेभ्यो मिष्टसलिलं तथा फलादि चार्पयेत् ।।।३५।।।
पयो दद्यात्कण्ठशान्त्यै दद्यात्त्वन्यदपेक्षितम् ।
साधूनां च सतीनां च साध्वीनां योगिनां तथा ।।।३६।।
सेवनं पादसंवाहं कुर्याच्छ्रमापनोदनम् ।
एवं जागरणं कुर्यान्निन्दां कुत्सां विवर्जयेत्। ।।३७।।
दिव्यां दृष्टिं प्रकुर्याच्चाऽधोक्षजं चिन्तयेद्धृदि ।
शुभं सर्वं चरेदेकादशीजागरणव्रती ।।३८ ।।
आलस्यपृष्ठभंगादि नाशयेद् रासकर्मणा ।
कूर्दनं गायनं नृत्यं हास्यं कुर्यात्पुनः पुनः ।।३९।।
निद्राऽऽलस्यविनाशार्थं धावनं सप्रदक्षिणम् ।
कुर्याच्च खेलनं भक्तो भक्तेषु समवर्तिषु ।।४० ।।
कृष्णलीलां रासलीलां दानिलीलां प्रखेलयेत् ।
गोपीलीलां राधया संविहारं च वनेऽटनम् ।।४१।।
पद्मया सह लग्नं च भार्गव्या रमया सह ।
नारायणस्य लग्नं च प्रोत्सवात्मकमाचरेत् ।।४२।।।
रात्रौ महोत्सवं कुर्यात् कृष्णस्य गोपिकाकृतम् ।
पार्वत्या प्रभया माणिक्या लक्ष्म्या साकमेव वा ।। ४३।।
वैवाहिकोत्सवं कुर्याद् ब्रह्मणः परमात्मनः ।
प्रगायेज्जन्मपद्यानि शक्त्युत्पत्त्युत्सवाँस्तथा ।।४४।।
कीर्तयेज्जागरणे च प्रातः स्नात्वा प्रपूजयेत् ।
षोडशकोपचाराद्यैः पूजयेच्चाप्यधोक्षजम् ।।४५।।
त्रयीं त्वेकादशीं चापि गुरुं प्रपूजयेत्ततः ।
गुरोस्तु मस्तके कृष्णमस्तक वर्तते सदा ।।४६।।
गुरोर्नेत्रे कृष्णनेत्रं गुर्वास्ये त्वाननं हरेः ।
गुरोः कर्णे कृष्णकर्णः हरेर्जिह्वा गुरोर्मुखे ।। ४७।।
गुरोः कण्ठे हरेः कण्ठो गुर्वोष्ठे माधवाधरः ।
गुरोर्वक्षसि कृष्णोरो ह्युदरैक्यं हरेर्गुरोः ।।४८।।
गुरोर्हस्ते हरेर्हस्तो गुरोः कट्यां हरेः कटिः ।
गुरोः पृष्ठे हरेः पृष्ठं हृदयैक्यं हरेर्गुरोः ।।४९।।
गुरोर्बुद्धौ हरेर्बुद्धिर्गुरोर्वाचि हरेस्तु वाक् ।
गुरोर्गुप्ते हरेर्गुप्तं गुरोः सक्थ्नोर्हरेरुरू ।।५० ।।
गुरोस्त्वक्षु हरेस्त्वग् वै गुरोर्देहे हरेर्बलम् ।
गुरोर्जान्वोर्हरेर्जानू नखैक्यं च गुरोर्हरेः ।।५१ ।।
गुरोः पादे कृष्णपादो नखैक्यं च गुरोर्हरेः ।
गुरौ कृष्णः स्वयं त्वास्ते नान्यः कृष्णो गुरोः परः ।।५२।।
गुरुः कृष्णः कृष्णो गुरुस्तस्मै श्रीगुरवे नमः ।
इति ध्यात्वा गुरुं सम्यक् पूजयेत् कृष्णभावतः ।।५३।।
अर्पयेच्चापि गुर्विष्टं गुरौ तुष्टे स तोषितः ।
गुरोस्तु सेवने कृष्णसेवापुण्यं भवेद्ध्रुवम् ।।५४।।
बोध्यं गुर्वर्पणं कृष्णार्पणं नास्त्यत्र संशयः ।
अहं लक्ष्मि! प्रशिष्याणां गुरुरूपो भवामि हि ।।५५।।
गुरौ स्थित्वा दिव्यसेवां गृह्णामि भत्तसत्कृताम् ।
येन केन प्रकारेण दानेनाऽभ्यर्चनेन वा ।।५६ ।।
नमनेनार्पणेनापि सेवनेन स्तवेन च ।
पादसंवाहनेनापि प्रियवस्त्वर्पणेन वा ।।।५७। ।
गृहादिकं समर्प्यापि तोषणीयो गुरुः सदा ।
तस्मादेकादशीवस्तुदानं श्रीगुरवेऽर्पयेत् ।।५८ ।।
पतिं पत्नीं सुतं पुत्रीं कुटुम्बं सर्वमित्यपि ।
तारयेद्धि गुरुस्तुष्टस्तस्मात्कृष्णात्मको गुरुः ।।५९ ।।
एवं ज्ञात्वा द्वादश्यां वै दानं तु गुरवेऽर्पयेत् ।
पारणां कारयेद् विप्रान् साधून् साध्वीश्च भोजयेत् ।। ६० ।।
बालान् कन्या भोजयेच्च दद्याद् दानानि भूरिशः ।
एवं व्रती भुवि स्वर्गे वैराजकेऽपि वा ।। ६१ ।।
ऐश्वरेऽव्याकृते चापि शाश्वतं सुखमाप्नुयात् ।
लोके प्रसिद्धतां याति त्वपरां यस्तु सेवते ।। ६२ ।।
ब्रह्महत्यागोत्रहत्याभ्रूणहत्याकरस्तथा ।
स्त्रीहत्यामित्रहत्यादिपापकृन्मुच्यते व्रतात् ।। ६३ ।।
परापवादनिरतः परस्त्रीरतिकस्तथा ।
अपराव्रतलाभेन विपाप्मा जायते जनः ।। ६४ ।।
कूटसाक्षी कूटमाता कूटकपटकारकः ।
कूटवाक् पिशुनश्चैते मुच्यन्ते पापतो द्रुतम् । । ६५ ।।
कूटवेदः कूटशास्त्रः कूटज्योतिर्गणस्तथा ।
कूटायुर्वेदको वैद्यो मुच्यतेऽस्या व्रतेन वै ।। ६६।।
ब्राह्मणा ब्रह्मपतिताः क्षत्रिया रक्षणाच्च्युताः ।
वैश्याः पराङ्मुखा दानान्मुच्यन्तेऽस्या व्रतेन ते ।। ६७।।
धर्मबहिष्कृताः शूद्राः शिष्या गुर्वादिनिन्दकाः ।
पुत्रो मातापितृहापि मुच्यन्तेऽस्या व्रतेन वै ।। ६८ ।।
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ।
काश्यां च प्राप्यते पुण्यं शिवरात्र्या व्रतेन यत् ।। ६९ । ।
गयापिण्डेन पुण्यं यत् पितॄणां तृप्तिदं मतम् ।
सिंहस्थिते बृहस्पतौ गोदावर्यां च यत्फलम् ।।७ ० ।।
केदारदर्शनात्पुण्यं बदरीतीर्थजं फलम् ।
कुरुक्षेत्रे रविग्राहे सर्वतीर्थप्रसेवनात् ।।७ १ ।।
गजाश्वहेमदानेन यज्ञं कृत्वा सदक्षिणम् ।
यत्फलं तत्फलप्राप्तिरपराव्रतसेवनात् ।।७२ ।।
अघवृक्षकुठारीयं दोषारण्यदवानलः ।
पापाऽन्धकारतरणिर्दुरितमृगसिंहिका ।।७३ ।।
मुक्तिदा भुक्तिदा यावदिष्टदा ह्यपरा मता ।
अस्या व्रतेन यत्पुण्यं परं यस्मान्न शिष्यते । ।७४।।
अपरा कृष्णयोगात्सा सार्थका व्रतकारिणाम् ।
अन्यासां तु व्रतैरत्र खण्डपुण्यं हि लभ्यते । ।७५ ।।
अपराया व्रतेनात्र सार्वभौमफलं भवेत् ।
नास्ति यद्व्रतिनश्चात्राऽलभ्यं किञ्चिद् भवेदिति ।।७६ । ।
श्रोता च पाठको लक्ष्मि! गोसहस्रफलं लभेत् ।
व्रती पापानि निर्धूय विष्णुलोके महीयते ।। ७७ ।।
पराश्चान्या यदग्रे वै स्वल्पा भवन्ति तेजसा ।
अपरा सा यतः प्रोक्ता नास्ति यस्याः परं परम् । । ७८ ।।
अपरां समुपोष्यैव पूजयित्वा त्वधोक्षजम् ।
त्रयीपत्न्या सहितं च वज्रलेपात्प्रमुच्यते ।।७९ ।।
निष्कृतिशून्यपापानां निष्कृतिरियमुच्यते ।
अगतिकस्य जीवस्य गतिरेवाऽपराव्रतम् ।।८ ० ।।
शृणु लक्ष्मि! समाख्यानं शलभायाः कृते युगे ।
यतिन्याः संबभूवाश्चर्यान्वितं मोक्षदं शुभम् । ।८ १ ।।
शलभानामयतिनी दीक्षां भागवतीं गता ।
साध्वी नारायणं देवं भजत्येव दिवानिशम् ।।८२ ।।
अरण्ये पर्वते सा चाऽर्बुदाख्ये पुष्करान्तिके ।
विचरत्यनिशं त्वेकाकिनी योगबलात्तु सा ।।८ २ ।।
आबाल्यात्सा सनकस्याऽभवच्छिष्यातियोगिनी ।
लक्षवर्षे गते काले यौवनेऽतिबले गते ।।८४।।
वने वनपशुसिंहसिंहिकामैथुनक्रियाम् ।
वीक्ष्य चान्यारण्यवासिकामयोगान् पुनः पुनः । ।८५ । ।
कामदेवस्य सौख्येऽस्या मनोवृत्तिरजायत ।
वानरं रक्तवर्णं वै वन्यं सा स्वाश्रमस्थितम् ।।८६ ।।
धृत्वा तं रमयामास नित्यदा कामभावतः ।
वानरस्य तु योगेन गर्भो जातो व्यवर्धत ।।८७।।
पशोर्योगेन सांकर्यं पातकं मुक्तिनाशनम् ।
श्रुत्वा वशिष्ठशिष्यात्सा वेदश्रुताभिधात्तदा ।।८८ ।।
पश्चात्तापं पर प्राप्ता सनकस्याश्रमं गता ।
शिष्यायास्त्वन्तर्वत्नीत्वं दृष्ट्वाऽऽह सनकस्तु ताम् ।।८ ९ ।।
किमिदं वै सुते जातं ब्रह्मचर्यं विलोपितम् ।
तथापि गुरवे सर्वं ह्यकापट्येन वर्णितम् ।। ९० ।।
संकरीकरणस्यास्य पातित्वस्याऽप्यघस्य तु ।
येन नाशो भवेच्छुद्धिर्यथा जायेत तद्वद ।।९ १ ।।
इत्यभ्यर्थ्य सगर्भा सा रुरोद खिन्नमानसा ।
गर्भपातेऽतिपापित्वं भ्रूणहत्यादिपातकम् ।। ९२।।
कथं मे मम गर्भस्य नैर्दोष्यं संभवेदिति ।
विचा ' विदधानां तां सनकः प्राह संशृणु ।। ९३ ।।
ज्येष्ठकृष्णाऽपरैकादश्या व्रतं निर्जलं कुरु ।
पातकं ते विनष्टं स्यात्प्रारब्धं पूर्णतां व्रजेत् ।। ९४।।
मुक्तिश्चापि सुलभा स्यात्प्रसवात् प्राग् व्रतं कुरु ।
इति श्रुत्वा गुरुं नत्वा गत्वा स्वाश्रममर्बुदे ।। ९९।।
चकार विधिवत्सर्वम् अपराया व्रतं शुभम् ।
तेन शुद्धिं गता तस्याः पातित्यं विलयं गतम् ।। ९६।।
आयुश्च सान्तमभवत् स्थिरवृत्त्या त्वधोक्षजे ।
आत्मानं योजयित्वा च ब्रह्मरन्ध्रेण सा ततः ।। ९७।।
ब्रह्मलोकं गता नीत्वा गर्भाधानस्थचेतनम् ।
देहं त्यक्त्वा परां मुक्तिमपराव्रततो गता ।। ९८ ।।
अपराया व्रतं त्वेवं पापसांकर्यनाशनम् ।
कर्तव्यं सर्वथा लक्ष्मि! सदा नार्याऽपि शुद्धये ।। ९९ ।।
यतिना ब्रह्मनिष्ठेन योगिना न्यासिनाऽपि च ।
संकरीकरणाऽघस्य शान्तये कार्यमेव तत् ।। 1.250.१०० । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ज्येष्ठकृष्णाऽपरैकादशीव्रतमाहात्म्यं संकरीकरणादिपातकनाशकैतद्व्रतकरणेन वानरयोगात् गर्भवत्याः शलभायतिन्या निर्दोषता मुक्तिश्चेत्यादिनिरूपणनामा पंचाशदधिकद्विशततमोऽध्यायः ।। २५० ।।