लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४७
[[लेखकः :|]]
अध्यायः २४८ →

श्रीलक्ष्मीरुवाच-
भगवन्तं विना नात्र लोके तूद्धारकः परः ।
विना च सात्वतान् लोके न परः पावनोऽपरः ।। १ ।।
साधून् विना च जीवानां नाऽपरः पापनाशकः ।
व्रतं विना तथा लोके नान्यद्भुक्तिप्रमुक्तिदम् ।। २ ।।
एकादशीं विना नान्यच्छापपापप्रणाशकम् ।
स्वर्गदं सिद्धिदं द्रव्यपुत्रदं मोक्षदं तथा ।। ३ ।।
भगवन् श्रोतुमिच्छामि कथयस्व ममाग्रतः ।
चैत्रस्य शुक्लपक्षीया किंनाम्न्येकादशी मता ।। ४ ।।
श्रीनारायण उवाच-
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ।
एकादशी पुण्यतमा पापेन्धनदवानला ।। ५ ।।
विमलाख्याऽपि सैवोक्ता सर्ववाञ्छितदायिनी ।
रमया सहितो विष्णुरस्याः पतिर्हि पूज्यते ।। ६ ।।
षोडशोपचारकैस्तु यथावित्तं यथाविधि ।
फलं चार्घ्ये चिर्भटादि चूतपुष्पाणि पूजने ।। ७ ।।
नैवेद्ये सक्तवो लड्डुकाश्च पक्वान्नमित्यपि ।
अर्पणीयं विशेषेण व्रतिना फलसिद्धये ।। ८ ।।
दशम्यामेकभक्तं वा व्रती नक्तं व्रतं चरेत् ।
रात्रौ भूशयनं कुर्याद् रक्षयेद् ब्रह्मचारिताम् ।। ९ ।।
प्रातस्त्वेकादशीकाले समुत्थाय हरिं स्मरेत् ।
ध्यायेच्च श्रीहरेः रूपं स्नात्वा देवं प्रपूजयेत् ।। 1.247.१० ।।
स्नापयेदमृतैः पञ्चभिर्जलैस्तीर्थसंभवैः ।
अर्पयेदतिमूल्यानि वस्त्राणि भूषणानि च ।। ११ । ।
शृंगारयेद् वस्तुभिः श्रांगारिकैश्च सुगन्धिभिः ।
पुष्पैर्हारैस्तथा धूपदीपनैवेद्यसत्फलैः ।। १२।।
जलपानमुखवासताम्बूलैलालवंगकैः ।
आरार्त्रिकैः स्तुतिप्रदक्षिणाद्यैश्च प्रसादयेत् ।। १३।।
क्षमापयेत् त्ववरान् वै ततश्च स्तवनं चरेत् ।
एकादश्या व्रतं कृष्ण करोमि फलसिद्धये ।। १४।।
कृपया तव तत्पूर्णं भवत्वविघ्नकं मम ।
इत्यभ्यर्थ्य ततो धान्यैः सर्वतोभद्रमण्डलम् ।। १५।।
कृत्वा स्वर्णघटं तत्र यद्वा ताम्रघटं शुभम् ।
पञ्चरत्नैर्नवपत्रैर्जलैर्वस्त्रेण चन्दनैः ।। १६।।
अक्षतैश्च फलैः पुष्पैः पूजनार्थं न्यधापयेत् ।
तिलपात्रं घटे तत्र तत्र मूर्तिं हरेस्तथा ।। १७।।
रमायाः कामदायाश्च स्थापयेद् विधिना व्रती ।
आवाहनादिमन्त्रैः संपूजयेत्स्नापयेज्जलैः ।। १८।।
पूजाद्रव्यैः पूजयेच्च वस्त्राभूषणहेतिभिः ।
शृंगारयेद्धरिं विष्णुं रमां शाट्यादिभिस्तथा ।। १९।।
भूषाशृंगारकैर्द्रव्यैर्विविधैरभिभूषयेत् ।
यथा विष्णुं तथा लक्ष्मीं भूषयेद् बहुभूषणैः ।।1.247.२०।।
केशान्प्रसाधयेत्तैलसुगन्धिद्रववस्तुभिः ।
धम्मिलं रचयेत्तत्र भूषणं स्तबकं तथा ।।२१।।
चतुःसरं वा द्विसरं केशग्रन्थनमाचरेत् ।
सूत्रं पुष्पाणि .चिपिटं स्वर्णशृंखलिकां तथा ।।२२।।
त्रिसरं ग्रन्थनं सर्वं कारयेत्तु चतुर्विधम् ।
अग्रे कुर्यात्तु कबरीं सिन्दूरं दापयेच्छुभम् ।। २३ ।।
ललाटे केसरिचन्दनद्रवैस्तिलकं तथा ।
मध्ये कुंकुमबिन्द्वीं च भाले कुर्यात् सुशोभिताम् ।। २४ ।।
यद्वा मध्ये तिलबिन्द्वीः पञ्च सूक्ष्माः समाचरेत् ।
गण्डयोः पुण्ड्रपार्श्वे च पत्रिकाविरलांकनाः ।। २५। ।
मध्ये सूक्ष्मातिसूक्ष्माभिर्बिन्द्विकाभिः प्रपूरिताः ।
रचयेद्रंजयेद्भालं लक्ष्मीवासमिवाऽपरम् । । २६।।
नेत्रयोः कज्जलं दद्यात् सुवर्णस्य शलाकया ।
पाण्डुरारक्तगन्धाढ्यचूर्णं दद्यान्मुखोपरि । । २७।।
रूपलावण्यसमभिव्यञ्जनार्थं समस्तरम् ।
कपोले टिबकी कुर्यात् रक्तवर्णं सुशोभिताम् । । २८ । ।
चिबुकेऽपि तथा कुर्याद् बिन्द्वीं स्वल्पां सुरक्तकाम् ।
ओष्ठयोः स्थलपद्मस्य रूपप्राकट्यहेतवे । । २९ । ।
रंगं दद्यात्तथारूपं नासिकायां तु नत्थिकाम् ।
कर्णयोः कर्णपूरादीन् कुण्डले शृंखलेऽर्पयेत् ।। 1.247.३० ।।
सुवर्णजे त्वैरनेऽपि सद्रत्नाढ्ये समर्पयेत् ।
कण्ठे हारान्स्वर्णपौष्पान् कौस्तुभादिसुहीरकान् ।। ३१ ।।
भुजयोः कटके रत्नजडिते समधारयेत् ।
प्रकोष्ठयोः शृंखले च बंगिनीश्च सुवर्णजाः ।। ३२ । ।
दद्याच्चांगुलिषु स्वर्णोर्मिका रत्नादियोजिताः ।
हस्ततले रंजनार्हद्रव्येण रंजयेन्नखान् ।। ३३ ।।
वक्षसि त्वर्पयेद्दिव्यं चन्दनं स्तनयोरपि ।
स्वर्णहारान्पुष्पहारान् कंचुकीं स्तनबन्धनीम् ।। ३४।।
कट्या समर्पयेत् रम्यां रशनां स्वर्णनिर्मिताम् ।
शाटिकां बहुमूल्यां च प्रान्तस्वर्णसुतारकाम् ।। ३५।।
त्रिरंगीं नेत्रसुखदां सुस्पर्शां धारयेत्तथा ।
घर्घरीं सूक्ष्मवस्त्रीयां रंगरञ्जितचित्रिताम् ।। ३६ । ।
प्रान्तरंगान्तरव्याप्तसुभंगीभिः सुदर्शनाम् ।
दद्यात्तु धारणार्थं वै नक्तकं पेशलं करे । । ३७ ।।
कमलाकृति सौवर्णं पात्रं सद्व्यजनं तथा ।
चामरे चापि सुभगे छत्रं चोपानहौ तथा ।। ३८ ।।
पादप्रकोष्ठभूषाश्च शृंखलाः किंकिणीयुताः ।
कड्डलिकाः काम्बिकाश्चांगुल्यर्थं करटाँस्तथा ।।३९ । ।
दत्वा सपूजयेल्लक्ष्मीं हरिं त्वेकादशीं रमाम् ।
एकादश्यै तथा दद्याद् रमावच्चोपभूषणम् ।।1.247.४० ।।
यथा रमा तथा त्वेकादशी पत्नी हरेः प्रिया ।
सर्वोपकरणं सर्वं श्रांगारिकं सुवस्तुकम् ।। ४१ ।।
सर्वालंकरणं चापि दद्यात्तस्यै फलाप्तये ।
एवं तु पूजनं कृत्वा चन्दनादि सुगन्धकम् ।।।४२।।
धूपदीपसुनैवेद्यजलताम्बूलपानकम्
दद्याद् देवाय देव्यै च चरेन्नीराजनं ततः ।।४३।।
प्रदक्षिणं क्षमायाञ्चां स्तुतिं नमस्क्रियां ततः ।
पुष्पांजलिं ततो दद्यादेवं प्रातर्विधिं व्रती ।।४४।।
सर्वतोभद्रमध्यस्थहरिमूर्तौ विधाय च ।
ततो गच्छेद् गृहं नैजं भजनार्थं जपं चरेत् ।।४५।।
मध्याह्नेपि तथा पूजां कृत्वा नैवेद्यमर्पयेत् ।
जलं ताम्बूलमन्यच्च सर्वं दद्यात्तु पूर्ववत् ।।४६।।
सायं चापि तथा पूजां कुर्यादारार्त्रिकादिकम् ।
सर्वं सोत्सवमग्र्यं च व्रतं कुर्यात् सुपुण्यदम् ।।४७।।
रात्रौ तु मण्डपं कुर्यात् कदलीस्तम्भशोभितम् ।
पल्लवैस्तोरणं कुर्याद् दोलां वै बन्धयेत् द्रुमे ।। ४८।।
आन्दोलयेद्धरिं विष्णुं विमलाकामदायुतम् ।
नैवेद्यं जलपानादि दद्याद् देवाय स व्रती ।।४९।।
रात्रौ तु जागरं कुर्याद् नृत्यगीतमहोत्सवैः ।
हरिं प्रसादयेत् सर्वार्पणेन विधिना व्रती ।।1.247.५०।।
प्रातः स्नात्वा हरिं ध्यात्वा पूजयित्वा जनार्दनम् ।
दानं च विविधं दत्वा नीराजयित्वा माधवम् ।। ५१।।
आर्द्रवस्त्रं भ्रामयित्वा शंखेनोत्तार्य वै जलम् ।
तुलसीदलसंयुक्तं मिष्टान्नं व्यंजनादिकम् ।।५२।।
भोजयित्वा हरिं विप्रान् साधून् साध्वीश्च बालकान् ।
विसर्जयित्वा कुर्याच्च व्रती वै पारणां ततः ।।५३।।
एवं कृतेन विधिना पुण्यं भवति शाश्वतम् ।
ऐहिकं परलोकोत्थं यदिच्छेत् तद्भवेद् ध्रुवम् । ।५४।।
शृणु लक्ष्मि! कथां रम्यां गन्धर्वद्वयमुक्तिदाम् ।
पुरा नागपुरे रम्ये हेमहर्म्यान्विते शुभे ।।५५।।
गन्धर्वाः पुण्डरीकाख्यज्ञातयः स्म वसन्ति हि ।
मदोद्धता महाक्रूरा महामदबलान्विताः ।।५६।।
गन्धर्वाः किन्नरा यक्षा विद्याध्राः किंजनास्तथा ।
सत्पर्योऽप्सरसो देव्यः कुमार्यः स्म वसन्ति च ।।५७।।
तस्मिन्पुरे नृपः पुण्डरीको राज्यं चकार ह ।
नाम्ना पौंड्र इति ख्यातस्तेनोत्सवे सुयोजिते ।।५८।।
गन्धर्वाः किन्नराः सूता मागधा बन्दिनस्तथा ।
किंपुरुषा गायकाश्च व्याख्यातारोऽपि चारणाः ।।५९।।
श्रोत्रीयवर्गा विप्राश्च राजसा दैवयोनयः ।
तत्रोत्सवे समायता गान्धर्ववेदपण्डिताः ।।1.247.६०।।
नृत्यं प्रवर्तते तत्र समाजे रंगमण्डपे ।
गायन्ति स्म स्वरधना वादयन्ति च वादकाः ।।६ १।।
नृत्यन्ति नर्तकीजनाः पश्यन्ति चेतरे जनाः ।
पातालान्नागलोकाच्च कामरूपा भुजंगमाः ।।६२।।
दैतेया दानवाश्चापि समाजग्मुस्तदुत्सवे ।
तेऽपि देवसमा रूपे भूत्वोत्सवे व्यवस्थिताः ।।६ ३ ।।
अन्येषां गायकानां च नृत्ये गीते व्यवस्थिते ।
नर्तकीनां तथा नृत्ये गीते निर्वर्तिते ततः ।।६४।।
पौंड्रस्य राज्ञो गन्धर्वेश्वरोऽतिकुशलाग्रणीः ।
ललितो नाम गन्धर्वो रंगे ह्यवाततार ह ।।६५।।
ललिता नाम गन्धर्वपत्नी तु गृहकार्यतः ।
नायाता तत्र रङ्गे वै ललितस्त्वेकलस्तदा ।।६६।।
गीतं गानं प्रकुरुते ललितो दयिता विना ।
दयितायास्तदाऽनुपस्थित्या तु ललितः खलु ।।६७।।
पार्श्वहीनश्च साहाय्यरहितो मनसा तु ताम् ।
स्मरन् गायति नृत्यँश्च वादयति यथाकलम् ।।६८।।
हृद्ये तस्य ललिता नित्यं वसति भामिनी ।
प्रसंगे तु विशेषेण सुस्मृता सा भवत्यपि ।।६९।।
ललितायास्तु हृद्ये पतिर्वसति नित्यदा ।
उभौ रागेण संरक्तौ दम्पती प्रेमबन्धनौ ।।1.247.७० ।।
रेमाते स्म गृहे यद्वत् तत् ललितेन संस्मृतम् ।
रङ्गे पत्न्याः स्मरणेन व्यग्रमानसनर्तकः ।।७ १।।
पादबन्धः स्खलज्जिह्वो बभूव ललितां स्मरन् ।
पादबन्धच्युतिर्जाता जातं स्वराऽवरोहणम् ।।७२।।
गन्धर्वाणां सभामध्ये हास्यपात्रं तु सोऽभवत् ।
पौंड्रस्यापि यशोहानिस्तदा जाता हि तत्क्षतेः ।।७३।।
तदा पौंड्रः पुण्डरीको बभूव क्रोधपीडितः ।
शशाप ललितं रङ्गे गायन्त च स्मरातुरम् ।।७४।।
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादनः ।
यतः पत्नीं स्मरँश्चात्र गायमानो महोत्सवे ।।७५।।
समाजेऽनवधानात् त्वं कलायां क्षतिमाप्तवान् ।
हास्यपात्रं त्वं तथाऽहं समाजेन कृतावुभौ ।।७६।।
तस्मात्त्वं राक्षसो भूत्वा दुःखं पश्य चिरं समाः ।
इति पौंड्रस्य वचनाद् रक्षारूपो बभूव सः ।।७७।।
रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः ।
बहुयोजनविस्तीर्णो मुखे कन्दरसन्निभः ।।७८।।
सूर्यद्वयनिभो नेत्रे ग्रीवायां पर्वतोपमः ।
नासायां पर्वतमालानिभो रन्ध्रे गुहासमः ।।७९।।
ओष्ठयोर्गव्यूतिकल्प उच्छ्राये योजनद्वयम् ।
ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम् ।।1.247.८० ।।
ययौ गृहं च ललिता स्वकान्तं विकृताकृतिम् ।
आलोक्य चिन्तयामास पतिदुःखेन दुःखिता ।।८ १ ।।
किं करोमि क्व गच्छामि पतिः पापेन पीडितः ।
ज्ञात्वा सर्वं तु वृत्तान्तं पतिसेवापरायणा ।।८२।।
चचार पतिना सार्धं ललिता गहने वने ।
पूर्वं संस्मृत्य संस्मृत्य मनसा शर्म नाऽलभत् ।।८३।।
बभ्राम विपिने दुर्गे कामरूपधरापि सा ।
कामरूपधरेणापि पतिना सह सर्वदा ।।८४।।
ललितो विपिने दुर्गे कामरूपी भवन्नपि ।
निर्घृणः पापनिरतो विरूपः पुरुषादकः ।।८५।।
न सुखं लभते रात्रौ न दिवा पापपीडितः ।
ललिता दुःखिताऽतीव पतिं दृष्ट्वातिदुःखिनम् ।।८६।।
बभ्राम तेन सार्धं सा क्षुत्तृषाद्यतिमर्दिताः ।
पतिर्वै राक्षसरूपः पत्नी गन्धर्वरूपिणी ।।८७।।
विचित्रं तु तयोर्योगं दृष्ट्वा वै वनवासिनः ।
आश्चर्यं परमं प्रापुर्भीताश्च दुद्रुवुः स्थलात्। ।।८८।।
अथ शातातपमुनेराश्रमं ताववापतुः ।
शीघ्रं जगाम ललिता नमस्कृत्याऽग्रतः स्थिता ।।८९।।
दयालुः स मुनिः प्राह का त्वं कस्मादुपस्थिता ।
ललितोवाच गान्धर्वी वीरधन्वसुताऽस्म्यहम् ।।1.247.९०।।
ललितानाम मे त्वस्ति पत्यर्थमिह चागता ।
भर्ता मे ललितप्रख्यः पौंड्रशापेन राक्षसः ।।९ १।।
भूत्वा भ्रमत्यरण्येऽस्मिन् दृष्ट्वा तं नास्ति मे सुखम् ।
येन पुण्येन मे स्वामी राक्षसत्वाद्विमुच्यते ।।९२।।
तादृशं पुण्यकृत्यं मे शाधि शातातप प्रभो ।
श्रुत्वा शातातपः प्राह शापपापहरा शुभा ।।९३।।
कामदैकादशी चैत्रशुक्लस्य पुण्यसौख्यदा ।
व्रतं तस्या विधानेन कुरु त्वं भामिनि ध्रुवम् ।।९४।।
भविष्यति फलं पुण्यं तत् स्वभर्त्रे प्रदीयताम् ।
दत्ते पुण्ये क्षणात्तस्य शापदोषः प्रयास्यति ।।९५।।
शातातपमुनेर्वाक्यं श्रुत्वा सा हर्षिताऽभवत् ।
तत्राश्रमेऽवसच्चैकादशीप्रतीक्षणाय सा ।।९६।।
पतिस्तस्या वने तत्राऽभितो वसति नित्यदा ।
कामदैकादशी प्राप्ता निर्जला समुपोषिता ।।९७।।
जागरणं कृतं रात्रौ द्वादश्यां प्रातरेव च ।
शातातपस्य निकटे हरेर्मूर्तेश्च सन्निधौ ।।९८।।
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै ।
मया त्वेतद्व्रतं चीर्णं कामदाया उपोषणम् ।।९९।।
तस्य पुण्यप्रभावेण नश्यत्वस्य पिशाचता ।
ललितावचनात्तस्मिन् क्षणे एव पिशाचता ।। 1.247.१० ०।।
गता राक्षसता तस्य जाता गन्धर्वता पुनः ।
गतपापः स ललितो दिव्यदेहो बभूव ह ।। १०१ ।।
स्वर्णरत्नसमाकीर्णो रेमे ललितया सह ।
तौ विमानसमारूढौ पूर्वरूपाधिकौ शुभौ ।। १०२।।
दम्पती चान्यशोभेतां गतौ नागपुरं ह्युभौ ।
कामदाया व्रतजन्यपुण्येनैवं पिशाचता ।। १ ०३।।
विनष्टा शापनाशश्च स्वस्वरूपसमागमः ।
इति ज्ञात्वा महालक्ष्मि! कर्तव्यैषाऽतिभावतः ।। १०४।।
व्रह्महत्यादिपापघ्नी पिशाचत्वविनाशिनी ।
पठनाछ्रवणाच्चापि वाजपेयफलप्रदा ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चैत्रशुक्लकामदैकादशीव्रतमाहात्म्यं ललितललितागन्धर्वयोः पौंड्रस्य शापेन जातस्य पिशाचत्वस्य व्रतेन मुक्तिरित्यादिनिरूपणनामा सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ।।।२४७।।