लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४६

विकिस्रोतः तः
← अध्यायः २४५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४६
[[लेखकः :|]]
अध्यायः २४७ →

श्रीलक्ष्मीरुवाच-
अहो चातिप्रहृष्टं मे चित्तं भवति केशव ।
आमलक्या व्रतं श्रुत्वा धात्रीमाहात्म्यमित्यपि ।। १ ।।
चैत्रस्य कृष्णपक्षे तु किंनाम्न्येकादशी मता ।
को देवस्तत्र पूज्योऽस्ति का च पत्नी हरेस्तथा ।। २ ।।
किं फलं च विधानं च दानं पूजां च मे वद ।
श्रुत्वा लक्ष्मीवचः कृष्णो नारायणोह्युवाच ताम् ।। ३ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि चैत्रस्य प्रथमे दले ।
एकादशीं पापमोचनिकानाम्नीं महाफलाम् ।। ४ ।।
कामानां पूरणी सिद्धिदायिनी धर्मवर्धिनी ।
निर्जला तु कृता येन प्राप्नुयाद्ब्रह्म स व्रती ।। ५ ।।
दशम्यां नक्तभोजी च रात्रौ भूशयनस्तथा ।
ब्रह्मचारी व्रती प्रातश्चानिरुद्धं विचिन्तयेत् ।। ६ ।।
सुशिलासहितं देवं पापमोचनिकायुतम् ।
पूजायां कुन्दकलिकापुष्पाणि त्वर्पयेत्तथा ।। ७ ।।
नैवेद्ये सेविकां दद्यादर्घ्ये बदरिकाफलम् ।
तथान्यानि फलान्यत्र मिष्टान्नानि बहून्यपि ।। ८ ।।
दद्याच्चाऽप्यनिरुद्धाय दाने तु तिलगौर्मता ।
एवं प्रातः समुत्थाय ध्यात्वा हरिं तु मानसे ।। ९ ।।
स्नात्वा च मानसं चानिरुद्धस्य पूजनं चरेत् ।
अर्पयेन्मानसान्येवोपकरणानि षोडश ।। 1.246.१०।।
ततो वै बाह्यपूजां तु कुर्याद्वै क्रमशो व्रती ।
आवाहयेदनिरुद्धं सुशीलासहितं प्रभुम् ।। १ १।।
स्वर्णमूर्तौ समाहूयाऽऽसनं दद्यान्महत्तमम् ।
पाद्यं चार्घ्यं तथा दद्यादाचमनीयकं जलम् ।। १२।।
पंचामृतकृतं स्नानं त्वभिषेकं समर्पयेत् ।
वस्त्रैरंगजलानां च प्रमार्जनमथाऽऽचरेत् ।। १ ३।।
ततो वस्त्रेऽर्पयेद् धौते बहुमूल्ये ह्युभे शुभे ।
अन्यान्यपि सुसूक्ष्माणि त्वर्पयेत् तृप्तिहेतवे ।। १४।।
यज्ञोपवीतं दद्याच्च मणिरत्नानि चार्पयेत् ।
केशप्रसाधनद्रव्यदन्तिकातैलदर्पणम् ।। १५ ।।
अर्पयेद्धरये चापि प्रकृष्टाभरणानि च ।
कज्जलं कुंकुमाबीरगुलालाक्षतचन्दनम् ।। १६।।
पुष्पाणि त्वर्पयेच्चापि तुलसीदलमित्यपि ।
फलानि चार्पयेत्तस्मै धूपदीपनिवेदनम् ।। १७।।
भोजनं विविधं दद्याद् दुग्धं च शर्करायुतम् ।
जलं फलं मुखवासं ताम्बूलं गन्धचूर्णकम् ।। १८।।
दद्यात्त्वत्तरतैलादि सुगन्ध्यर्थं तु शार्ङ्गिणे ।
आरार्त्रिकं ततः कुर्यान्नमः स्तोत्रं क्षमापनम् ।। १९।।
प्रदक्षिणं दण्डवच्च पुष्पांजलिं च दक्षिणाम् ।
दद्याच्च व्रतकरणायार्थयेत्परमेश्वरम् ।।1.246.२०।।
अद्यैकादशिका नाम्ना पापमोचनकारिणी ।
मया व्रताय मनसा वृतास्ति परमेश्वर ।।२१।।
अस्याः कृत व्रतं मया निर्विघ्नं स्याज्जनार्दन ।
प्रसन्नो भव देवेश सुशीलाधिप केशव ।।२२।।
इति वै पूजनं चाथ समाप्य सप्तधान्यकम् ।
मण्डलं सर्वतोभद्रं कारयेत्स्थापयेत्ततः ।। २३।।
घटं कनकजं किम्वा ताम्रजं पञ्चपल्लवैः ।
रत्नैः पञ्चविधैश्चापि जलवस्त्रादिभिर्युतम् ।।।२४।।
तस्योपरि शुभं पात्रं तिलैः संभृतमर्पयेत् ।
तत्र मूर्तिं सुशीलायाश्चानिरुद्धस्य वै प्रभोः ।।२५।।
स्थापयित्वाऽर्चयेत् षोडशोपचारैर्व्रती ततः ।
नीराजयेत्तु विधिना नमस्कारादि चाचरेत् ।।२६।।
पर्यंकं गेन्दुकं गुप्तदोरकं शयनाय च ।
शिरस्कं पार्श्वके चापि छत्रं चोपानहौ शुभौ ।।२७।।
स्थालीं सकलशां चापि वटिकां व्यजनं तथा ।
दर्पणं चामरे यष्टिं पादुके नक्तकं शुभम् ।।२८।।।
शाटीं च प्रच्छदपटीं कंचुकीं कुचलीं तथा ।
कर्पटिकां सचन्द्रां च घर्घरी चेति वै ददेत् ।।२९।।
घटं यज्ञोपवीतं च शीतसलिलपूरितम् ।
चन्दनं च सुगन्धं चानिरुद्धायार्पयेद्व्रती ।।1.246.३ ० ।।
फलानि चाम्लमिष्टानि लड्डुकान् शर्करान्वितान् ।
चार्पयेदनिरुद्धाय सर्वतोभद्रमण्डले ।।३ १ ।।
घृतदीपमखण्डं तु कारयेन्निकटे व्रती ।
एवं पूजां तदा कृत्वा स्वकार्यं स समाचरेत् ।। ३२।।
मध्याह्ने तु व्रती स्नात्वा पूजयित्वा विधानतः ।
नैवेद्यं विविधं मिष्टं जलं च हरयेऽर्पयेत् ।।३३।।
फलं ताम्बुलमेलां च लवंगं मुखवासनम् ।
फलं पूगीफलं चापि व्रती श्रीहरयेऽर्पयेत् ।। ३४।।
सायं च कदलीस्तंभैर्मण्डपं कारयेच्छुभम् ।
सवितानं सकलशं हरित्प्रत्रादितोरणम् ।।३५।।
मध्ये तु वेदिकां कुर्यात् दोलां च बन्धयेत्तथा ।
स्थापयित्वाऽत्र मुरलीधरं त्वान्दोलयेद् व्रती ।।३६।।
नीराजनं तथा धूपं दीपं नैवेद्यमर्चनम् ।
जलपानं मुखवासं कारयेत् कीर्तयेद्गुणान् ।।३७।।
रात्रौ जागरणं नृत्यगीतवादित्रसंयुतम् ।
कुर्यात्प्रातः पूजनं च तथा दानानि दापयेत् ।। ३८।।
यथाशक्ति यथावस्तु व्रतांगानि प्रपूरयेत् ।
सर्वं वै गुरवे दद्यादेवं समापयेद् व्रतम् ।।३९।।
साधून्साध्वीस्तथा विप्रान्दीनान्धकृपणादिकान् ।
बालांश्च भोजयेद्भक्त्या विविधान्नानि वै व्रती ।।1.246.४० ।।
ततः स्वीयान् भोजयित्वा बालिकास्त्वथ पारणाम् ।
स्वयं कुर्याद् व्रती भक्तो भुक्तिं मुक्तिं स वै व्रजेत् ।।४१ ।।
शृण्वाश्चर्यकथां लक्ष्मि! प्राग्वृत्तां पापनाशिनीम् ।
पुरा चैत्ररथोद्याने वनमध्ये हिमालये ।।४२।।
हरिति शाद्वले दिव्ये फलपुष्पभरद्रुमे ।
वनदेवीश्रिते देशे ह्यप्सरोगणसेविते ।।४३।।
वसन्तसमयेऽरण्ये षटपदैरभिनादिते ।
कोकिलाकूजिते रम्ये मनोभवसुपुष्टिदे ।।४४।।
गन्धर्वकन्यका वाद्यैः रमन्ते सह किंकरैः ।
महेन्द्राद्याश्च सुरपाः क्रीडन्ति त्रिदिवौकसः ।।४५।।
ऋषयो मुनयः सर्वे तपन्ति बहुलं तपः ।
साधवो योगिनः साध्व्यः सत्यो योगिन्य इत्यपि ।।४६।।
तपन्ति ब्रह्मलाभार्थं यत्र शीलव्रतस्थिताः ।
नापरं सुखदं तस्माच्चैत्ररथाद् वनस्थलम् ।।४७।।
त्रिलोकवासिनस्तत्र परिश्रमविनुत्तये ।
सायं नित्यं समायान्ति यान्ति च स्वस्वकालयान् ।।४८।।
मञ्जुघोषाऽप्सरा तत्र रमते वनवासिनी ।
मुनीनां सेवनं चापि प्रेम्णा करोत्यहर्निशम् ।।४९।।
दासीव किंकरीवेयं मोक्षेच्छया तु सेवते ।
नतु निकृष्टमनसा किन्तु शुद्धेन चेतसा ।।1.246.५०।।
सेवते स्म मुनिं बालं युवानं वृद्धमित्यपि ।
मुनिपत्नीर्बालिका वा किंकरीव प्रसेवते ।।५१ ।।
एवं नित्यं मुनीनामाश्रमेषु बहुभावतः ।
वासं करोति सा मञ्जुघोषाऽथैकदिने शुभे ।।५२।।
मेधाविनं नाम ऋषिं क्रोशमात्रवने स्थितम् ।
तपन्तं ब्रह्मचर्यस्थं यौवनं पुष्टिशालिनम् ।।।५३।।
सुरूपं सुघटं स्वर्णतन्तुसमजटान्वितम् ।
प्रोद्भिन्नश्मश्रुसद्रेखं रक्तौष्ठं वर्तुलाननम् ।।५४।।
पद्मपत्रनिभनेत्र स्थलपद्मशरीरकम् ।
प्रसन्नतानिधिं कान्तिपरिधिव्याप्तकंधरम् ।।५५।।
सूक्ष्मचन्द्रनिभनखं स्वस्या अपि सुरूपिणम् ।
श्रुत्वा राजसभावेन सेवनार्थं गताऽन्तिकम् ।।५६।।
प्रथमं तु भयात्तस्य स्थिता त्वाश्रमसन्निधौ ।
किञ्चिद्दूरमुषित्वैनं प्रसादयितुं चक्रमे ।।५७।।
जगौ सा मधुरं साधु मार्जयामास चाश्रमम् ।
विपञ्चिकां तदा रम्यां वादयामास चादरात् ।।५८।।
सेवनार्थं तु सा कुट्यां जगाम च त्वरान्विता ।
शनैः शनैः ऋषिं वीक्ष्य पस्पर्श तापसी यथा ।।५९।।
पुष्पसुगन्धकस्तूरीकेसरचन्दनार्चिता ।
सेवाबुद्ध्या हावभावान् विलासान् समदर्शयत् ।।1.246.६ ० ।।
मेधाविनस्तु निकटे शनैर्ननर्त शोभनम् ।
नमश्चकार हस्ताभ्यां नेत्राभ्यां स्वीकृतिं ददौ ।।६१ ।।
न्यवेदयत्सुभक्तां स्वां करे जग्राह तमृषिम् ।
मानसे निश्चिकायापि सेवालाभो भविष्यति ।।६२।।
युवानं सुरूपतेजस्विनं प्राप्याऽतिहर्षिता ।
चकिता मानसे भावे त्वाकृष्टा यूनि सा मुनौ ।।६३ ।।
राजसी रजसा व्याप्ताऽभवदालिंगने मुनेः ।
कृताभ्यासे पथि प्रायस्तादृशीनां व्रजेन्मनः ।।६४।।
तस्याः शरीरे संवासमकरोद्वै मनोभवः ।
एवमेव जयाकांक्षी मेधाविन्यकरोत् स्थलम् ।।६५।।
उभयोः कामनाव्याप्तौ देहौ जातौ सुविकृतौ ।
मनसी चाऽनंगवेगाविष्टे जाते पुनः पुनः ।।६ ६ ।।
तदा मेधाविना तत्र मेधया तु विचारितम् ।
नार्याः प्रसंगजः कामः कोऽयं मां बाधतेऽधुना ।।६७।।
क्षमां धैर्यं समालम्ब्य गच्छाम्यन्यद्वनं यतः ।
रक्षणं मे तपसः स्यात् कामवेगोऽपि यास्यति ।।६८।।
विचार्यैवं स मेधावी शीघ्रं स्थानात् स्थलान्तरम् ।
यावद्गच्छति विप्रेन्द्रस्तावत्कामोऽपि वेगवान् ।।६९ ।।
शिवभक्तं विजेतुं वै वने बहिः सुमूर्तिमान् ।
अभवच्च प्रयन्तं संचकार सर्वतोमुखम् ।।1.246.७० ।।
कृत्वा भ्रुवं धनुष्कोटि गुणं कृत्वा कटाक्षकम् ।
मार्गणे नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ।।७ १ ।।
कुचौ कृत्वा परकुटौ मोहनायोपचक्रमे ।
मञ्जुघोषाऽभवत्तस्य कामस्यात्र वरूथिनी ।।७२।।
कामेन पञ्चबाणास्तु ऋषेरुपरि चाहिताः ।
चमत्कृतं तु प्रथमं द्वितीयं जाग्रतात्मकम् ।।७३ ।।
तृतीयं रसवाहाख्यं चतुर्थं मोहनात्मकम् ।
पंचमं मिथुनीभावगमकं स मुमोच ह ।।७४।।
मेधावी तद्वशं नीतो युयुजे मञ्जुघोषया ।
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता ।।७५।।
यौवनोद्भिन्नदेहेन युयुजे ऋषिणा तदा ।
गाढमालिंग्य तौ तत्र राजेते स्मरयोजितौ ।।७६।।
सितोपवीतसंयुक्तो दृष्टः स्मर इवापरः ।
मञ्जुघोषायुतो विप्रो राजते द्यौर्युतः शशी ।।७७।।
सुरतस्य वशं याता मन्दं मन्दं जहास सा ।
रणद्वलयहस्ताभ्यामाश्लिक्षत् तं मुनिं हृदि ।।७८।।
प्रेमकण्ठस्वरं सूक्ष्मं लीनं कृत्वा तु मूकवत् ।
नेत्रे प्रमील्य चौष्ठाभ्यामास्वादयद्ऋषेर्मुखम् ।।७९।।
स्पर्शमग्नाऽऽनन्दमग्ना शान्तनूपुरमेखला ।
स्पर्शैभावैस्तथा नेत्रैर्वर्ष्मणा सस्वजे मुनिम् ।।1.246.८ ० ।।
वीणा तु पतिता भूमौ पतिता स्वं च सस्वजे ।
बलादिव लता वृक्षं वातवेगेन कम्पितम् ।। ८१ ।।
सोपि रेमे तया सार्धं कामभेदैरनेकशः ।
शिवतत्त्वं तु विस्मृत्य कामतत्त्ववशंगतः ।।८ २ ।।
तपसा साधिते सौधे सोद्याने सविमानके ।
वाहने चोपकरणे भक्ष्यभोज्यसुलेह्यके ।। ८३ ।।
धारणेऽलंकरणे चोत्सवे समानके ऋतौ ।
विविधे गृहयोग्ये च भोग्ये तत्साधने सति ।।८४।।
निरतिशयतां प्राप्ते तृप्तिं लेभे तया सह ।
पुनस्तृष्णां पुनस्तृप्तिं पुनस्तृष्णां जगाम सः ।।८५।।
तृष्णाया नैव चान्तोस्ति भुक्त्वा भुक्त्वा विवर्धते ।
एवं तारुण्यभरया तृष्णया तरुणोऽपि सः ।।८६।।
न निशां न दिनं सोपि रमञ्जानाति कामुकः ।
दीर्घः कालो गतो रममाणस्याचारलोपतः ।।८७।।
नवशतानि वर्षाणां गतान्यस्य तया सह ।
सा रेमे मुनिना तस्य निशार्धमिव चाऽभवत् ।।८८।।
मञ्जुघोषा देवलोके गमनायोपचक्रमे ।
सन्नद्धा तं प्रत्युवाच सतृष्णं मुनिसत्तमम् ।।८९।।
आज्ञा मे दीयतां विप्र स्वर्लोकगमनाय वै ।
मेधावी तु समाकर्ण्य तामुवाच विमोहितः । ।1.246.९ ०।।
यावत्प्रभातसन्ध्या स्यात् तावत्तिष्ठ ममान्तिके ।
श्रुत्वा विचारयामास मञ्जुघोषा हृदन्तरे ।। ०५१ ।।
अहो कामेन वैक्लव्यं जानात्ययं न वत्सरान् ।
निशार्धमात्रं जानाति काममूर्छापराजितः ।।।९२।।
प्रत्याख्याने शापभीतिसमुद्विग्ना बभूव सा ।
पुनर्वै रमयामास तमृषिं बहुवत्सरान् ।। ९३ ।।
वर्षाणां पञ्चपञ्चाशन्नव मासान् दिनत्रयम् ।
सा तं पुनरुवाचाथ तथा काले गते मुनिम् ।। ९४।।
आदेशो दीयतां ब्रह्मन् गन्तव्यं स्वगृहं मया ।
मेधाव्युवाच कामान्धः कालभानविवर्जिंतः ।।९५।।
निशान्तसमयस्त्वास्ते श्रूयतां वचनं मम ।
क्षणं मां रमयित्वा त्वं गन्तुमर्हसि शोभने ।।९६।।
त्वां विना मे क्षणश्चापि युगतुल्यो भविष्यति ।
त्वया सार्धं निशामात्रं व्यतीतं तिष्ठ मे चिरम् ।।९७।।
पुनः शापप्रभीता सा रमयामास तमृषिम् ।
वर्षाणां पञ्चचत्वारिंशदित्यधिकभावतः ।।९८।।
पुनः प्राह मुनिं नम्रा ब्रह्मँस्तृप्तोऽसि वा नहि ।
आदेशो दीयतां विप्र गन्तव्यं स्वगृहं मया ।।९९।।
मेधाव्युवाच तां स्निग्धां रक्षितुं स्वान्तिके तदा ।
प्रातःकालोऽधुना त्वास्ते श्रूयतां वचनं मम ।। 1.246.१०० ।।
सर्वदा तिष्ठ मे सौधे मां च रमय कामतः ।
एका निशा स्थिता चात्र का मे तृप्तिर्भवेद् वद ।। १० १।।
सन्ध्यां यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ।
इति श्रुत्वा मुनेर्वाक्यं स्मितं कृत्वा ह्युवाच तम् ।। १ ०२।।
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गताऽधुना ।
कतिवत्सरकालस्ते गतश्चेति विचार्यताम् ।। १ ०३।।
एकां सन्ध्यां निशां वेत्सि का ते सुप्तिर्युगात्मिका ।
इति तस्या वचः श्रुत्वा प्रोद्भिन्नान्तरलोचनः ।। १०४।।
तां पृष्ट्वा गतकालस्य मेधावी मानमाचरत् ।
नवनवत्यधिकानि नवशतानि संख्यया ।। १ ०५।।
जातान्येव गतान्येव वर्षाणि प्रियया सह ।
सुविदित्वैकोनदशशतान्येकनिशामुखे ।। १०६ ।।
तथापि तृष्णया व्याप्त इति स्वं धिक् चकार सः ।
चुक्रोध तस्यै कामाय स्वस्मै च यौवनाय च ।। १ ०७।।
मोक्षहानिं तपोहानिं चात्महानिं विलोक्य च ।
नेत्राभ्यां विस्पुल्लिंगान्स मुमोचातीव कोपतः ।। १ ०८।।
तपःक्षयकरीं नारीं मृत्युरूपां च राक्षसीम् ।
आत्ममुक्तिरोधकर्त्री कष्टाप्तपुण्यभक्षिणीम् ।। १० ९।।
हानिदां तां सक्म्पौष्ठो मुनिरुवाच वेगतः ।
धिक् त्वां प्रिये दुराचारे कुलटे कामनाप्रिये ।। 1.246.११० ।।
सेवामिषेण मुनिषु स्वैरिणि पुण्यनाशिनि ।
तपोलोपकरि याम्यमार्गसंसर्गदायिनि ।। १११ ।।
पिशाची भव दुष्टे त्वं कामच्छिद्रप्रदायिनि! ।
मेधावी तां शशापैवं सापि नम्रा ह्युवाच तम् ।। ११ २।।
नैकस्या मे हि दोषोऽस्ति युवा त्वं सुविचारय ।
द्वयोः कार्ये जये प्राप्ते सबल परिपूज्यते ।। ११३ ।।
पराजये तु सम्प्राप्ते निर्बलस्तत्र हन्यते ।
मैवं भवतु मेधाविन्! हानिस्ते नैव केवला ।। ११४ ।।
ममापि स्वपरित्यागस्त्वया त्यक्ता सधिक्कृता ।
आत्महानिर्लोकहानिर्यशोहानिस्तु मे तथा ।। १ १५।।
शापं दातुं समर्थाऽस्मि यथा वदसि तत्तथा ।
तथापि प्रणयिकान्ते नैवं कार्यं स्त्रिया क्वचित् ।। ११६ ।।
क्षमा दत्ता हि नारीभ्यो ब्रह्मणा परमेष्ठिना ।
अदोषा अपि पत्युस्ताः सहन्ते क्रौर्यमव्यथाः ।। १ १७। ।
प्रसादं कुरु तस्मात् त्वं शापस्यानुग्रहं कुरु ।
सतां संगः सुखकरः साप्तपदीन एव सः ।। ११८ । ।
त्वया सह मया विप्र योषिता पत्नीरूपया ।
नीताश्च सेवया शश्वत् कति सहस्रवत्सराः । । ११९ । ।
एतस्मात् कारणात्स्वामिन् त्यज क्रौर्यं प्रसीद च ।
इति तथ्यं प्रियावाक्यं दोषं स्वीयं च चिन्तयन् । । 1.246.१२० ।।
प्रह्वीभावं तथा पत्न्या विलोक्योवाच तां मुनिः ।
शृणु मे वचनं भद्रे शापानुग्रहकारकम् ।। १२१ ।।
किं करोमि त्वया साकं क्षयं नीतं महातपः ।
गतं तत्तु गतं त्वेव नष्टं नायाति वै पुनः ।। १२२ ।।
पुनः संपादयिष्यामि तवापि शुभमस्तु वै ।
चैत्रस्य कृष्णपक्षे तु भवत्येकादशी शुभा ।। १ २ ३ ।।
पापमोचनिका नाम सर्वशापक्षयंकरी ।
तस्या व्रते कृते सुभ्रु पिशाचीत्वं वियास्यति ।। १ २४।।
श्रुत्वैतन्मञ्जुघोषा सा ययौ वनान्तरं तदा ।
पिशाची तु बभूवेयं यावच्चैत्रो न संगतः ।। १२५ ।।
प्राप्ते चैत्रे मञ्ज्रुघोषा व्रतं जातिस्मरा तदा ।
चकार विधिना चैत्रकृष्णैकादशिकादिने ।। १२६ ।।
पुपूज परया भक्त्या श्रीहरिं मानसे हि सा ।
रात्रौ जागरणं कृत्वा प्रातः कृत्यं विधाय च ।। १२७ ।।
पिशाचीत्वाद्विनिर्मुक्ता पापमोचनिकाबलात् ।
दिव्यरूपधरा सा वै गता स्वर्गे स्वके गृहे । । १२८ ।।
मेधाव्यपि तया त्यक्तो जगाम पितुराश्रमम् ।
च्यवनस्य ऋषेर्दिव्यं तपस्तेजोऽतिशोभितम् ।। १२९ ।।
निस्तेजस्कं चिरं यान्तं विलोक्य च्यवनः पिता ।
प्राहैतत् किं कृतं पुत्र त्वया पुण्यक्षयः कृतः ।। 1.246.१३० ।।
कथं न दृश्यते तेजस्तपोबाहुल्यसंभवम् ।
मेधावी प्राह ताताऽस्मिन्वने तु तपसा मया ।। १३१ ।।
प्राप्ताऽप्सरा तया सार्धं पातकं वै कृतं बहु ।
रमिता बहुकालं सा तपो नष्टं ममाऽद्भुतम् ।। १३२ ।।
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ।
पिता प्राह तदा पुत्रं व्रतं वच्मि निबोध मे ।। १३३।।
चैत्रस्य त्वसिते पक्षे नाम्ना तु पापमोचनी ।
एकादशी मता ह्यस्या व्रते तु विधितः कृते ।। १३४।।
पापराशिः क्षयं यायान्मुक्तिं चान्ते व्रजेद् व्रती ।
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् ।। १३५।।
गतं पापं क्षयं तस्य तपोवृद्धिर्बभूव च ।
तेजो व्याप्तोऽभवच्छीघ्रं पापमोचनिकाव्रतात् ।। १ ३६।।
यथापूर्वं तपोयुक्तो ह्यभूद्् बभूव वै तथा ।
पापमोचनिकां लक्ष्मि! ये कुर्वन्ति जना भुवि ।। १३७।।
तेषां पापं तु यत्किंचित् सर्वं विलयतां व्रजेत् ।
वाजपेयसहस्रस्य फलं तस्यापि जायते ।। १ ३८।।
भुक्तिर्मुक्तिर्महामुक्तिः सर्वं चैकव्रतेन हि ।
प्राप्येतैतादृशी शक्ता फलदाने त्वियं तिथिः ।। १ ३९।।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
व्रतस्य चास्य करणान्मुक्तो भवति तद्व्रती ।। 1.246.१४० ।।
पठनाच्छ्रवणाच्चापि स्मरणात्कीर्तनादपि ।
बहुपुण्यप्रदं चैतद् गोसहस्रफलप्रदम् ।। १४१ ।।
कर्तव्यं सर्वथा लक्ष्मि शापपापनिवृत्तये ।
नातः परतरं भुक्तिमुक्तिदं सचराचरे ।। १४२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चैत्रकृष्णपापमोचन्येकादशीव्रतमाहात्म्यं मेधाविना तपस्विना सहस्रवत्सरं भुक्ताया मज्जुघोषाख्याऽप्सरायाः ऋषिशापात्पिशाचीत्वमनुग्रहाद् व्रतकरणान् मुक्तिश्चेति निरूपणनामा षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४६।।