लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४८
[[लेखकः :|]]
अध्यायः २४९ →

श्रीलक्ष्मीरुवाच-
मोक्षदातर्हरे कृष्ण जनोद्धारकर प्रभो ।
पापिनां शापिनां चापि शापिनां पापनाशक ।। १ ।।
भुक्तिमुक्तिप्रदं दिव्यं त्वया प्रदर्शितं व्रतम् ।
श्रुत्वा श्रुत्वा प्रहर्षामि श्रवणे जायते रुचिः ।। २ ।।
वद नाथ कृपासिन्धो वैशाखकृष्णपक्षके ।
किंनाम्न्येकादशी तस्याः को देवः को विधिस्तथा ।। ३ ।।
श्रीनारायण उवाच-
सौभाग्यदायिनी पुत्रपौत्रसम्पत्प्रदायिनी ।
अत्र परत्र सुखदा स्मृद्धिदा पापनाशिनी ।। ४ ।।
वैशाखकृष्णपक्षीया नाम्ना चास्ति वरूथनी ।
तस्या व्रतेन व्रतिनः सौख्यं भवति सर्वथा ।। ५ ।।
पापहानिश्च भवति सौभाग्यप्राप्तिरित्यपि ।
दुर्भगाऽपि व्रतकर्त्री सर्वसौभाग्यमाप्नुयात् ।। ६ ।।
व्रतिनां त्वत्र सर्वेषां भुक्तिमुक्तिप्रदायिनी ।
सर्वपापहरा पुण्यप्रदा जन्महरा शुभा ।। ७ ।।
वासनानाशिनी नित्यानन्दमुक्तिप्रदायिनी ।
शाश्वत्याश्च स्थितेर्दात्री कर्तव्या व्रतिना हि सा ।। ८ ।।
मान्धातृधुन्धुमाराद्या व्रतिनः स्वर्गतिं गताः ।
नन्दया सहितः शक्त्या त्वत्रार्च्यः पुरुषोत्तमः ।। ९ ।।
जातिफलादि पूजायां नैवेद्ये वटकाः शुभाः ।
चम्पकादिनि पुष्पाणि कुन्दस्य कलिकास्तथा ।। 1.248.१०।।
स्थलपद्मानि देयानि देयं दानं भुवस्तथा ।
अन्यत्स्वशक्त्या कर्तव्यं व्रतिना पूर्णभावतः ।। ११ ।।
दशम्यामेकभक्तं वा नक्तं भुक्त्वाऽथ भूशयः ।
ब्रह्मचारी भवेच्चैव प्रातः स्मरेद्धरिं व्रते ।। १२।।
कांस्यं मांसं मसूराँश्च चणकान् कोद्रवाँस्तथा ।
शाकं मधु परान्नं च पुनर्भोजनमैथुने ।। १३ ।।
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ।
द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ।। १४।।
परापवादपैशून्ये स्तेयं हिंसां तथा रतिम् ।
क्रोधं त्वनृतवाक्यानि ह्येकादश्यां विवर्जयेत् ।। १५।।
कांस्यं मासं सुरां क्षौद्रं तैलं पतितभाषणम् ।
व्यायामं च प्रवासं च पुनर्भोजनमैथुने ।। १६।।
तामसान्नं मसूरान्नं द्वादश्यां परिवर्जयेत् ।
एकादश्यां व्रती प्रातः स्नात्वा श्रीपुरुषोत्तमम् ।। १७।।
पूजयेन्नूतनद्रव्यैः षोडशोत्तमवस्तुभिः ।
आवाहनादिकं कुर्यात् पञ्चामृतविलेपनम् ।। १८।।
शुद्धतीर्थोदकस्नानं वस्त्राभूषणधारणम् ।
श्रांगारिकद्रवादेश्च दानं कज्जलकांजनम् ।। १ ९।।
कुंकुमादिमांगलिकभूर्णतिलकचन्द्रकम् ।
गुच्छं पौष्पं तथा हारान् पौष्पांश्च शेखरादिकान् ।।1.248.२०।।
अर्पयेद्धरये तत्र धूपदीपादि कारयेत् ।
नीराजयित्वा नत्वा च प्रदक्षिणं विधाय च ।।२ १।।
स्तुत्वा क्षमापयित्वा वै पुष्पांजलिं समर्पयेत् ।
एवं प्रातः पूजयित्वा महापूजनमाचरेत् ।।२२।।
कृत्वा धान्यैः सर्वतोभद्राख्यं वै मण्डलं शुभम् ।
कदलीमण्डपे यद्वा शुभे श्रीकृष्णमन्दिरे ।।२३।।
मण्डले मध्यदेशे च पञ्चरत्नसुपल्लवम् ।
जलचन्दनतन्दुलपुष्पफलसमन्वितम् ।।२४।।
स्वर्णजं ताम्रजं यद्वा कलशं स्थापयेन्नवम् ।
तत्र घटे तिलस्थालीं स्थापयेत् पूरितां नवाम् ।।२५।।
पुरुषोत्तममूर्तिं च नन्दया सहितां तथा ।
वरूथिन्या च सहितां स्थापयेत् तिलमण्डले ।।२६।।
पूजयेद्विधिना तां च चन्दनादिभिरर्चयेत् ।
आवाहनादि कुर्याच्च पञ्चामृताभिषेचनम् ।। २७।।
तीर्थजलैस्तथा स्नानार्पणं भूषाम्बरार्पणम् ।
सशृङ्गाराऽलंकरणं सुगन्धितैलकार्पणम् ।। २८ ।।
चन्दनाद्यर्पणं पुंड्रकज्जलकुंकुमार्पणम् ।
पुष्परत्नादिमालाद्यर्पणं नैवेद्यकार्पणम् ।।२९।।
जलताम्बूलमिष्टाग्र्यफलाद्यर्पणमित्यपि ।
नीराजनं नमस्कारान् प्रदक्षिणं क्षमार्थनम् ।। 1.248.३० ।।
प्रकुर्याच्च व्रतसिद्ध्यै प्रार्थनां विघ्ननाशिनीम् ।
दानं शय्यागेन्दुकादिवस्तूनां दक्षिणां पराम् ।। ३१ ।।
दद्याच्चैव समाप्यैव भक्तिकार्यं ततश्चरेत् ।
मध्याह्नेपि विधिनैवं पूजयेद्भोजयेद्धरिम् ।। ३ २।।
हरिं सायं पूजयित्वा समारार्त्रिकमाचरेत् ।
भोजयेज्जलपानादि कारयेज्जागरं तथा ।।३ ३ ।।
नृत्यं गीतं वादनं च कथां कुर्याच्च कीर्तनम् ।
प्रातर्विचिन्त्य लक्ष्मीशं पूजनं च ततश्चरेत् ।। ३४।।
अश्वदानं गजदानं भूमिदानं तिलार्पणम् ।
स्वर्णदानं त्वन्नदानं कन्यादानं गवार्पणम् ।। ३५।।
ज्ञानदानं तथा दद्याद् दानं त्वभयसंज्ञकम् ।
एवं वरूथिनीं कार्या वाञ्छितार्थप्रदायिनीम् । ३ ६।।
दशवर्षसहस्राणि तपस्तपति यो नरः ।
तत्तुल्यं फलमाप्नोति वरूथिन्या व्रतान्नरः ।। ३७।।
सर्वदानफलं व्रत्याप्नोति कृत्वा वरूथिनीम् ।
लक्ष्मि पूर्वे कृतयुगे कथा जाताऽतिपावनी ।। ३८।।
यां श्रुत्वा तु वरूथिन्या माहात्म्यं ज्ञायते महत् ।
वरूथो नाम विप्रषिर्ब्रह्मणो मानसः सुतः ।। ३९ ।।
विंशतिन्यूनवर्षीयो वेदाद्यध्ययनव्रतः ।
गुरुसेवापरः शुद्धो मरीचेराश्रमे वसन् ।।1.248.४० ।।
निर्मानो निरहंकारः स्वच्छमानसदर्पणः ।
ब्रह्मध्यानरतो नित्यं गुरुर्ब्रह्मेतिपूजकः ।।४ १ ।।
गुरोर्वाक्यं वेदवाक्यं वेदो गुरुमुखोद्गतम् ।
गुरुर्विष्णुर्गुरुर्ब्रह्म गुरुर्वेदो विधिर्गुरुः ।।४२।।
गुरुर्धर्मो गुरुर्मुक्तिर्गुरुर्ज्ञानं गुरुर्मखः ।
गुरुरेव परब्रह्म गुर्वाज्ञा बैदिकी श्रुतिः ।।४३ ।।
येन केन प्रकारेण तोषणीयो गुरुर्यतः ।
गुरौ तुष्टे ब्रह्म तुष्टं नास्ति कश्चिद् गुरोः परः ।।४४।।
ब्रह्मतत्त्वं गुरुस्त्वस्ति नास्ति तत्त्वं गुरोः परम् ।
गुरोराज्ञा परो धर्मो गुर्वाज्ञा स्वर्गमत्र हि ।।४५ ।।
गुर्वाज्ञा लोकधर्मश्च धर्मश्च पारलौकिकः ।
नान्यः कश्चित्परो धर्म इति मत्वाऽतिभावतः ।।४६।।
गुरुभक्तोऽभवच्छ्रेष्ठो गुरोः सेवां करोति च ।
यथा यथा गुरुर्वदेत् तथा तथा करोति सः ।।४७।।
गुरुकैंकर्यवृत्त्यैव वर्तते सुखपूर्वकम् ।
मरीचेः सेवया नित्यमानन्देन परिप्लुतः ।। ४८।।
वर्तते ब्रह्मसंस्थः सः शरीरभानवर्जितः ।
आत्मारामोऽभवत् सोऽयं गुरोर्गेहे वसन् द्विजः ।। ४९।।
गुरोः सेवां गुरोः पत्न्याः कलायाः सेवनं तथा ।
करोत्यभिन्नभावेन गुरुरेव तु सा त्विति ।।1.248.५ ० ।।
कला मरीचपत्नी तु मरीचार्धांगना हि सा ।
गुरुत्वं च द्वयोरस्ति कलायां च मरीचके ।।५ १ ।।
दम्पत्योर्गृहसेवा च मार्जनं लेपनं तथा ।
जलाहरणं पूजोपकरणाहरणं तथा ।।५२ ।।
पादसंवाहनं भोजनोत्तरं पात्रमञ्जनम् ।
शय्यावितानकरणं शय्यासंहरणं तथा ।।५३ ।।
वस्त्रप्रक्षालनं केशप्रसाधनं च कज्जलम् ।
नेत्रयोरंजनं हस्ततलाऽलक्तकरंजनम् ।। ५४।।
तैलेन मर्दनं देहे जलेन स्नापनं तथा ।
वस्त्रेण मार्जनं चापि सुगन्धार्पणमित्यपि ।।५५।।
वस्त्रपुष्पविभूषादिसंप्रसाधनमन्वहम् ।।
दम्पत्योः प्रकरोत्येव सगुणब्रह्मभावतः ।।।५६।।
देहं न मनुते सोऽयं त्वात्मानं मनुतेऽत्र हि ।
देहान्यदात्मनो रूपं निर्विकारं निरंजनम् ।।५७।।
पापपुण्यविहीनं तदात्मरूपं निरामयम् ।
पापेन बध्यते नात्मा पापेन लिप्यते न च ।।५८ ।।
गुरोर्भक्तिः परं पुण्यं नान्यत्पुण्यमतः परम् ।
गुरुं विहाय नान्यस्य पूजनं ध्यानमेव वा ।। ५९।।
करोति स कदाचिद्वै तृप्तिं मत्वा गुरौ सदा ।
मूर्तिं न मनुते विष्णोः पूजनं न करोति च ।। 1.248.६० ।।
नैवेद्यं विष्णवे नैवाऽर्पयत्येषो जलं न च ।
न षोडशोपचाराद्यैरर्चयत्यच्युतं हरिम् ।। ६१ ।।
अप्रसादं समश्नाति पिबत्यनर्पितं जलम् ।
वल्कलं कन्दपुष्पादि गृह्णात्यनर्पितं स्वयम् ।।६२ ।।
हर्यनर्पितभोगेन बुद्धिः कलुषतां गता ।
रजोभावेन संव्याप्ताऽभवद् भोगानुगामिनी ।।६३ ।।
हर्यनर्पितमन्नादि त्वभक्ष्यं सर्वमुच्यते ।
अभक्ष्यभक्षणाच्चास्य जाता देहात्मभावना ।। ६४।।
देहरूपोऽभवच्चायं हीन्द्रियारामसदृशः ।
इन्द्रियं बलवच्चास्य जातं देहात्मवादिनः ।।६५।।
नास्तिक्यं यौवनं गुरोः पत्न्याः शुश्रूषणं तथा ।
नित्ययोगाद् गमयन्ति स्मरज्वरातितापनम् ।।६६।।
तथापि संयमं सोऽपि रक्षति मानसाद् बलात् ।
एवं बहुतिथे काले याते सप्तर्षयः खलु ।।६७।।
शंकरस्य विवाहार्थं दक्षपुत्र्या समं तदा ।
ब्रह्मणा संस्मृताः सत्ये लोके ते ब्रह्मपर्षति ।।६८।।
ययुस्तदा वरूथं तु मरीचिः प्राह पुत्रक ।
यथा मद्वचजं सम्यक् पाल्यते क्रियते तथा ।।६९।।
कलायाश्च वचः पाल्यं कर्तव्यं सा यथा वदेत् ।
मद्गृहं सर्वथा रक्ष्यं त्वया शिष्य यथा मया ।।1.248.७०।।
आज्ञां दत्वा ययौ ब्रह्मसभां प्रति मरीचिकः ।
ब्रह्मणा प्रेषिता सप्तर्षयो दक्षगृहं प्रति ।।७१ ।।
सत्यास्तु शंभुना योगे वाक्प्रदानविनिर्णये ।
ययुः स्थिताः पुनः सत्यं चाययुश्च पुनर्ययुः ।।७२।।
एवं बहुतिथः कालो व्यतीतस्तत्र निर्णये ।
कलाऽपि चातितुष्टाऽभूद् वरूथस्य प्रसेवया ।।७३।।
वरूथस्य सहयोगात्सेवने देहमर्दने ।
पादसंवाहने चैकशय्यासनसुवर्तने ।।७४।।
रजोभावेन संसक्ताऽभवद्वरूथवर्ष्मणि ।
युवानं सुदृढं प्राप्य त्वेकान्तगृहसेवया ।।७५।।
प्रह्वीभूय कला प्राह वरूथ भज मामिह ।
स्मरतापेन संदग्धा शान्तिं चार्पय मेऽनघ ।।७६।।
वरूथोऽपि गुरोर्वाक्यं मन्वानश्च कलावचः ।
राजसीभावजायुक्तः सिषेवे तां कलां रहः ।।७७।।
कामकार्ये विनिर्वृत्ते शान्तिर्जाता तयोर्यदा ।
कलाऽऽशीर्वचनान्याह स्वर्गं ते त्वक्षयं भवेत् ।।७८।।
एवं कामबलेनैतौ भोगिनौ कामनान्वितौ ।
रेमाते कामभावेन मरीचेर्वचनाश्रयात् ।।७९।।
तावत्कार्यं हरस्यार्थे कृत्वा सप्तर्षयो गृहम् ।
ययुस्तदा मरीचिश्चाययौ स्वस्याश्रमं शुभम् ।।1.248.८०।।
मरीचेर्वर्तमानेन वरूथश्च कला तथा ।
मर्यादया हि वर्तेते कामनावर्जितावुभौ ।।८ १ ।।
तथापि गुरुपत्न्याश्च वरूथस्य च भालयोः ।
आयुरेखाऽभवत्पूर्वं पूर्णा या सा क्षतिं गता ।।८२।।
विच्छिन्नाऽभूत् परिदृष्टा प्रत्यक्षेण मरीचिना ।
मरीचिः प्राह तौ तत्र कथं त्वायुः क्षयं गतम् ।।८३।।
प्राहतुस्तौ यथा तथ्यं मरीचिर्विस्मयं गतः ।
अकृतं तु कृतं ह्याभ्यां कृतं वै वचनान्मम ।।८४।।
निर्दोषं तद् गुरोर्भक्तकृते वाक्यं गुरोः सदा ।
अनेन पालितं वाक्यं मदीयं किन्तु हानिदम् ।।८५।।
ब्रह्मस्वहरणं गुरुतल्पगामित्वमित्यपि ।
विश्वासघातिता कृतघ्नता ह्यायुर्विनाशकाः ।।८६।।
आभ्यां कृतं कृतं तत्तु मया कार्यं शुभं तयोः ।
यावदेवं चिन्तयति तावद् यमस्य सेवकाः ।।८७।।
आययुस्तौ समानेतुं पुरीं याम्यां प्रति ध्रुवम् ।
मरीचिस्तत्र नाऽवोचद् याम्या नीत्वा ययुर्द्रुतम् ।।८८।।
मरीचिरनुयातश्च तदा तनैव वर्ष्मणा ।
दूतैस्तौ धर्मराजस्य पुरतः संकृतावुभौ ।।८९।।
दण्डश्च तप्तलोहस्य सूर्म्या योगोऽनयोः कृतः ।
मरीचिः प्राह धर्मेशं त्वया योग्यं कृतं विभो ।।1.248.९० ।।
किन्तु मद्वचनात्सर्वं कृतं दोषो न वै तयोः ।
दुष्टं यदि गुरोर्वाक्यं दोषपात्रं भवाम्यहम् ।।९ १ ।।
यमस्मृतौ तथा चोक्तं गुरोर्वाक्यं न दोषकृत् ।
यमवाक्यं तु चेत्सत्यं ममवाक्यं न दोषकृत् ।। ९२।।।
मम वाक्येन संसक्तौ कथं तौ दोषसंयुतौ ।
तस्मान्नैतौ दण्डपात्रे यथेच्छसि तथा कुरु ।।९३।।
यावदेतौ न मुञ्चेथास्तावन्नैव जलादिकम् ।
गृह्णाम्यत्र तवातिथ्यं यथेच्छसि तथा कुरु ।।९४।।
धर्मस्तु पितृवृद्धस्य मरीचेर्वचनं तदा ।
श्रुत्वा विचारयामास नष्टं त्वायुर्विकर्मणा ।।९५।।
सन्धीयेताऽनयोः केनोपायेन प्रबलेन तु ।
मद्वाक्यं च गुरोर्वाक्यं सुप्रमाणं भवेत्तथा ।।९६।।
किं कर्तव्यं मम त्वत्र विरुद्धे विषये खलु ।
यदि वाक्यं प्रमाणं मे नैतौ दण्डार्हणौ तदा ।।९७।।
यदि दण्डार्हणौ त्वेतौ नाऽस्मद्वाक्यप्रमाणता ।
तस्मात् किमत्र कर्तव्यं त्वायुःसन्धानकर्मणि ।।९८।।
वरूथेन तदा तत्र संकल्पितं गुरोर्बलम् ।
यद्यहं गुरुभक्तोऽस्मि गुर्वाज्ञां प्रकरोमि च ।। ९९।।
तदा गुर्वात्मकः कृष्णो गुरोर्वाक्यात् प्ररक्षतु ।
स्मरत्येवं तु यावत् सः वरूथो गुरुरूपिणम् ।। 1.248.१० ०।।
हरिं तावत्तदा तत्र व्योमवाणी बभूव ह ।
धर्मराज शृणु त्वैतौ निर्जलौ नाऽऽप्तभोजनौ ।। १० १।।
मरीचिश्चाप्यन्नजलविहीनो वर्ततेऽद्य वै ।
गुरुरूपोऽस्म्यहं चापि गुरुं तौ स्मरतो यतः ।। १०२।।।
एतैर्मदाश्रयं मन्ये कृतं त्वेकादशीव्रतम् ।
कलावरूथयोरायूरेखा पूर्णाऽद्य जायताम् ।। १ ०३।।
वरूथस्योद्धरणेन नाम्ना त्वेकादशी त्वपि ।
वरूथिनी प्रसिद्धाऽस्तु वरूथोद्धारकारिणी ।। १ ०४।।
कलाऽऽयुषः प्रतिसन्धानेन संजीवनी तु सा ।
आनन्दप्रदया व्योमवाण्या ह्यानन्दिता ह्यपि ।। १ ०५।।
नन्दया सहितः कृष्णः स्वाम्यस्याः संभवामि च ।
नन्दया सहितं मां तु येऽर्चयिष्यन्ति मानवाः ।। १०६ ।।
गुरुदाररताश्चापि भविष्यन्ति हि पावनाः ।
शिष्यरतिप्रकर्त्र्यश्च शुद्धिं यास्यन्ति योषितः ।। १ ०७।।
वरूथिन्या व्रतिनश्च निष्पापा वै नराः स्त्रियः ।
चिरायुष्का भविष्यन्ति नष्टायुषोऽपि मद्बलात् ।। १ ०८।।
परद्रव्यहरा ये च परदारप्रसंगिनः ।
वरूथिनीव्रतपूता भविष्यन्ति द्युवासिनः ।। १ ०९।।
यमराजभयं तेषां न स्यान्नायुर्विनाशनम् ।
न वैधव्यं न वै दुःखं विधुरत्वं न वा भवेत् ।। 1.248.११ ०।।
सूर्यपुत्रादतिभीतो जनः कुर्याद् वरूथिनीम् ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ।। १११ ।।
तस्मात् सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ।
श्रवणात् पठनात्त्वस्या गोसहस्रफलं भवेत् ।। ११२।।
अज्ञानाच्च हठाच्चापि वरूथिन्या व्रतं चरेत् ।
सर्वपापविनिर्मुक्तं विष्णुलोकं नयाम्यहम् ।। ११३ ।।
तस्मादेतौ प्रमुञ्च त्वं यमराज वरूथकम् ।
कलां चाथर्षिवर्यं च मरीचिं त्वतिथिं कुरु ।। १ १४।।
सत्कारं कुरु दत्वैव पत्नीं शिष्यं सुखी भव ।
अन्यथा व्रतपुण्येन शापं दास्यति चेदृषिः ।। १ १५।।
भस्मीभूतं तु ते सर्वं स्थलं याम्यं भविष्यति ।
वरूथिन्या व्रतकर्तुर्गृहं मा यान्तु ते चराः ।। ११६ ।।
वरूथिनीदिने चोपोषितारं चाप्यमानकम् ।
मा प्रयान्तु च ते दूता यतो मे व्रतकृद्धि सः ।। १ १७।।
इत्युक्त्वा विररामाऽसौ व्योमवाणी हरिकृता ।
यमराजोऽपि तौ पूर्णायुषौ दृष्ट्वा मुमोच ह ।। १ १८।।
निर्दोषौ गुरुवाक्यस्थौ दोषाऽलिप्तौ कलारुथौ ।
मरीचिना समं यातौ निजाऽऽवासं यमालयात् ।। ११९ ।
एवं ते कथितो लक्ष्मि! वरूथिनीव्रतोत्सवः ।
कृत्वा श्रुत्वा पठित्वा तं विष्णुलोके महीयते ।। 1.248.१२० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैशाखकृष्णवरूथिन्येकादशीव्रतमाहात्म्यं मरीचेः पत्न्याः कलायाः वरूथेन शिष्येण गुरुपत्नीवाक्यभक्तेन संगदोषेऽपि व्रतेन तदुद्धरणादीतिनिरूपणनामाऽष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४८।।