लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४३
[[लेखकः :|]]
अध्यायः २४४ →

श्रीलक्ष्मीरुवाच-
हरे कृष्ण कृपासिन्धो जगदुद्धारकारक ।
माघशुक्लैकादशीं मे कथयस्व प्रसादतः ।। १ ।।
को विधिः कोऽधिदेवोऽत्र व्रतस्य फलमित्यपि ।
कथयस्वोद्यापनं च व्रतिनो भुक्तिमुक्तिदम् ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि माघशुक्ले जयानामेतिपुण्यदा ।
पापहन्त्री मोक्षकर्त्री कामदात्री सुखप्रदा ।। ३ ।।
एकादशी समाख्याता कर्तव्या व्रतिना शुभा ।
ब्रह्महत्यादिहन्त्री च पिशाचत्वादिनाशिनी ।। ४ ।।
सर्वसम्पत्करी राज्ञां संग्रामे जयदायिनी ।
स्वर्गे जयप्रदा लोके व्यवहारे जयप्रदा ।। ५ ।।
यत्र कुत्रापि कार्ये सा कृता जयफला मता ।
तत्फलं जयदं प्रोक्तं त्रिषु लोकेषु यायिनाम् । । ६ ।।
एतस्मात्कारणाल्लक्ष्मि कर्तव्या सा प्रयत्नतः ।
दशम्यामेकभुक्तेन नक्तमात्रेण वा स्वयम् ।। ७ ।।
देहयात्रां निर्वहँश्च रात्रौ भूशयनं चरेत् ।
प्रातरुत्थाय च ब्राह्मे मुहूर्त्ते श्रीहरिं स्मरेत् ।। ८ ।।
शौचस्नानादिकं कृत्वा सन्ध्यावन्दनमाचरेत् ।
गायत्रीं च जपित्वाऽथ हरेः पूजां समाचरेत् ।। ९ ।।
नित्यया सह संपूज्यो माधवस्तत्पतिः प्रभुः ।
पञ्चामृतेन वै पूर्वं स्नापयेदभिषेचनैः ।। 1.243.१ ०।।
शुद्धतीर्थजलैः कृष्णं स्नापयेल्लेपयेद् द्रवम् ।
सुगन्धसारोत्तमतैलचन्दनादि विलेपयेत् ।। ११ ।।
पुनश्च स्नापयेत्तीर्थजलैर्वस्त्राणि धारयेत् ।
मुकुटं कुण्डले हारान् कटकांगदसूर्मिकाः ।। १२।।
शृङ्खलारशनारत्नहीरकादिकृतानि च ।
विभूषणानि सर्वाणि तथा दिव्यानि धारयेत् ।। १३।।
गुलालाक्षतकुंकुमाबीरैः संपूजयेत् प्रभुम् ।
धूपदीपैस्तथा पुष्पैर्बकुलस्य प्रपूजयेत् ।। १४।।
तत्कालप्रोद्भवैश्चान्यैः कमलै स्थलपद्मकैः ।
शृङ्गारहारैः सत्पत्रैस्तुलसीमंजरीयुतैः ।। १९'।।
पूजयेच्छ्रीहरिं चाथ चन्दनैर्गन्धिवस्तुभिः ।
मिष्टान्नानि तु नैवेद्ये बीजपूरफलानि च ।। १६।।
मण्डका लड्डुका मुद्गभवा मेशुभमौक्तिकाः ।
दातव्या हरये दुग्धपाकः सुगन्धमिश्रिताः ।। १७।।
दाडिमं नवरंगं च नारिकेलफलं तथा ।
दातव्यानि तथा द्राक्षाफलानि कदलानि च ।। १८।।
आरार्त्रिकं तथा कार्यं प्रदक्षिणादिकं ततः ।
पुष्पांजलिं क्षमां प्रार्थ्य ततो वै व्रतमर्थयेत् ।। १९।।
अद्याऽहं वै जयानाम्न्या एकादश्या व्रतं शुभम् ।
करोमि कृष्ण तेऽतीव प्रसन्नत्वप्रसक्तये ।।1.243.२०।।
तद् व्रतं मे प्रसंपूर्णं भवत्वत्र कृपां कुरु ।
इति प्रार्थ्य ततो नत्वा देवदेवं च माधवम् ।।२१।।
शोभितं सप्तधान्यैः सन् मण्डलं कारयेद् व्रती ।
मध्ये स्वर्णघटं संस्थापयेत् ताम्रघटं च वा ।।२२।।
पञ्चपल्लवरत्नादिजलवस्त्रादिशोभिते ।
तिलपात्रं घटे तत्र स्थापयेत् फलसंयुतम् ।।२३।।
घटं प्रपूजयेत्तत्र तीर्थान्यावाहयेत्तथा ।
स्वर्णमूर्तिं माधवस्य जयया सह निर्मिताम् ।।२४।।
नित्यया च तथा पत्न्या सहितां स्थापयेत्तथा ।
पूजयेच्चावाहनादिक्रमेण स्नापयेत्तथा ।।२५।।
विभूषयेत्तथा पुष्पभोजनादि समर्पयेत् ।
षोडशोपसुवस्त्वाद्यैरर्चयेद्बहुभावतः ।।२६।।
जलपानं समर्प्याऽथ नीराजयेच्च माधवम् ।
ताम्बूलं चार्पयेत्तत्राऽपराधाँश्च क्षमापयेत् ।।२७।।
व्रतार्थं प्रार्थयेत् पूर्णं व्रतं मे च भवेदिति ।
गोश्च प्रपूजनं कुर्याद् गोदानं चापि कारयेत् ।।२८।।
भूदानं वस्त्रदानं च स्वर्णदानं च कारयेत् ।
पश्चात्पूजां समाप्यैवं कुर्यात्कार्यं स्वकं दिने ।। २९।।
मध्याह्नेऽपि तथा भक्ष्यभोज्यलेह्यसुचोश्यकम् ।
अन्नं चतुर्विधं दद्याद्देवाय माधवाय वै ।। 1.243.३ ०।।
सायं निशि तथा कृष्णपूजार्थं मण्डपं शुभम् ।
कारयेत्तु महान्तं च तत्रोल्लेच्चं प्रबन्धयेत् ।।३ १ ।।
पूजनं श्रीहरेः कृत्वा नीराजयेद्विधानतः ।
नैवेद्यं च क्षमाऽदानं कृत्वा ततो हरेः पुरः ।।३२।।
मण्डपे रासरीत्या श्रीहरेः पद्यानि गापयेत् ।
कुर्याज्जागरणं रात्रौ रंजयेत्कृष्णमत्यति ।।३३।।
भक्तैर्नृत्यं कीर्तनं च सवादित्रं च जागरम् ।
कर्तव्यं च ततः प्रातः स्नात्वाऽर्च्यो माधवः प्रभुः ।।३४।।
दानानि विविधान्येव देयानि च यथाबलम् ।
साधून् साध्वीर्ब्राह्मणाँश्च भोजयेच्च निवेदितम् ।।३५।।
ततः स्वयं पारणां च कुर्यादेवं व्रतं कृते ।
फलं पूर्णं भवत्येव विजयः सर्वथा भवेत्। ।।३६।।
शृणु त्वत्र व्रते पूर्वां कथां लक्ष्मि! वदामि ते ।
स्वर्गे लोके महेन्द्रे वै शासति देवतागणाः ।। ३७।।
वसन्ति सुखिनः सर्वे पीयूषपानपोषिताः ।
अप्सरोभिश्च देवीभिः परीभिश्च समर्चिताः ।।३८।।
पूजिताः सुखिता देवा रमन्ते नन्दने वने ।
रमयन्ति च देवीश्च नृत्यन्ति कीर्तयन्ति च ।।३९।।
नन्दनाख्ये वने दिव्ये स्वर्गंगा या जलान्तिके ।
उद्याने पुष्पशोभाढ्ये सुगन्ध्यनिलसेविते ।।1.243.४०।।
प्रवृत्तं नर्तनं चाप्सरसामिन्द्रस्य तुष्टये ।
गन्धर्वास्तत्र गायन्ति नृत्यन्त्यप्सरसस्तदा ।।४१ ।।
वादयन्ति च गन्धर्वास्तालस्याऽऽपूरिकाः स्त्रियः ।
एवं तु गायने नृत्ये प्रवृत्तेऽतिप्रहर्षतः ।।४२।।
दर्शकोऽपि महेन्द्रः स्वेच्छया रङ्गे ह्युपस्थितः ।
ननर्तेन्द्रः सहर्षः स्वपञ्चाशत्कोटिनायकः ।।४३।।
गन्धर्वाः सहगायन्ति पुष्पदन्तश्च सुस्वरः ।
चित्रसेनस्तथा तस्य पत्नी पुष्पवती तथा ।।४४।।
पुष्पदन्तस्य पुत्रश्च माल्यवान्नामतस्तथा ।
पुष्पवत्याः स्वरूपे च माल्यवान्मोहितस्तदा ।।४५।।
पुष्पवत्या कटाक्षैश्च माल्यवान् स्ववशे कृतः ।
पुष्पवती माल्यवाँश्च नृत्यार्थमिन्द्रतुष्टये ।।४६।।
समागतौ च कामेन परीतांगौ बभूवतुः ।
चित्तभ्रमसमायुक्तौ कामबाणवशंगतौ ।।४७।।
गायतः शुद्धगानं न बद्धदृष्टी च रागतः ।
नृत्यतीन्द्रस्तु वै सम्यङ् नृत्यानुसारि गायनम् ।।४८।।
तयोः क्षतिं समगच्छत्तालमानविलोपनम् ।
चिन्तयित्वा तु मघवा संगतं मानसं तयोः ।।४९।।
समकालीनवैगण्यं ताले माने च गायने ।
क्रमलोपं परं दृष्ट्वा मत्वाऽवज्ञां तथाऽऽत्मनः ।।1.243.५०।।
कुपितश्च तयोस्तत्र शशाप च वदन्निदम् ।
धिङ्युवा पतितौ मूढौ मन्महत्ताप्रभंजकौ ।।५ १।।
स्वर्गे विषयबाहुल्ये भुज्यमानेऽपि सर्वदा ।
तृप्तिर्नास्ति न मे श्रेष्ठ्यमर्यादारक्षणे मतिः ।।५२।।
नृत्यकाले मम दाक्ष्ये प्रोत्साहेऽपि युवां यतः ।
विगणय्य सभामध्ये नृत्यं वै मोहितौ किमु ।।५३ ।।
तस्मात् पिशाचौ भवतं दम्पतीरुपधारिणौ ।
न गन्धर्वस्थितियोग्यौ गौरवभंगकारकौ ।।५४।।
मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम् ।
दुःखं चानुभवन्तौ वै तिष्ठतं तु चिरं समाः ।।५५।।
एवं महेन्द्रशापात्तौ हिमाद्रौ त्वतिदारुणे ।
पिशाचतां गतौ दुःखैस्तप्तौ शान्तिं न चेयतुः ।।५६।।
गन्धर्वत्वं चाप्सरत्वं विस्मृतौ चेरतुर्वने ।
तुषारेणातिवेगेन पीड्यमानो मुहुर्मुहुः ।।५७।।
दन्तघर्षं प्रकुर्वाणौ वदतश्च परस्परम् ।
पिशाचः समुवाच स्वां प्रियां पत्नीं पिशाचिकाम् ।।५८।।
अहो चाल्पापराधस्य फलं दुःखतमं महत् ।
नरकं दारुणं चेदं पिशाचरूपकं खलु ।।५९।।
कदा स्यादन्तवच्चैतत् कदा शान्तिर्मिलिष्यति ।
शैत्यं चातितमं त्वत्र पीडा तेनातिजायते ।।1.243.६०।।
इति चिन्तापरौ तौ च क्षुधादुःखातिकर्षितौ ।
पिप्पलाख्यदेवतरोः स्तम्बे वासं प्रचक्रतुः ।।६१ ।।
हिमपातेन दशमीरात्रौ चैकादशीदिने ।
चैकादश्यास्तथा रात्रौ हिमझंझानिलेन तौ ।।६२।।
वेपमानौ भोजनार्थं निर्गतौ न स्ववासतः ।
दैवयोगात्स दिवसो माघस्यैकादशी जया ।।६३।।
उपोषिता निशा ताभ्यां सुजागरयुता कृता ।
तत्राऽऽस्तां तावुभौ भोज्यजलपानादिवर्जितौ ।।६४।।
कष्टेन हिमवातेन सर्वाहारविवर्जितौ ।
न कृतो जीवघातश्च न प्राप्तं फलभक्षणम् ।।६५।।
न पानं सलिलस्यापि जातं नेन्द्रियरंजनम् ।
न च निद्रापि संजाता न तौ सौख्यमविन्दताम् ।।६६।।
तयोर्दुःखितयोरित्थं निर्जगाम निशीथिनी ।
प्रातः सूर्योदये प्राप्ते द्वादश्यां च मया तयोः ।।६७।।
पिप्पलवृक्षरूपेण कृता भक्तिधृता हृदि ।
अश्वत्थोऽहं हि वृक्षाणां भवामि मूर्तिमान् यतः ।।६८।।
तयोराश्रयदाताऽहं व्रतं जयातिथेस्तयोः ।
गणयन् जागराढ्यं च फलं व्रतस्य वै ददौ ।।६९।।
तेन फलप्रभावेण पिशाचत्वं गतं तयोः ।
दिव्यरूपौ तु गन्धर्वौ पूर्वरूपौ बभूवतुः ।।1.243.७० ।।
पुरातनस्नेहयुतौ पूर्वालंकारशोभितौ ।
पुष्पावतीमाल्यवन्तौ विमानवरमास्थितौ ।।७१ ।।
गतौ स्वर्गं च देवेन्द्रं प्रणामं चक्रतुर्मुदा ।
तौ देवौ देवगन्धर्वौ वीक्ष्येन्द्रो विस्मितोऽब्रवीत् ।।७२ ।।
वदतं केन पुण्येन विनष्टा वां पिशाचता ।
मम शापात्तु मुनिना केन वै मोचितौ युवाम् ।। ७३ ।।
प्रा श्च तदा तौ तं दैवयोगेन देवराट् ।
वासुदेवप्रसादेन जयायास्तु व्रतेन च ।।७४।।
पिशाचत्वं विनष्टं नौ तव भक्तिप्रभावतः ।
श्रुत्वेति मघवा हृष्टः पुनस्तावाह चादरात् ।।।७५ ।।
युवां हरेः कृपापात्रवर्यौ जातौ व्रताहतः ।
तस्मात्पूज्यौ मम जातौ व्रतपुण्यप्रभावतः ।।७६।।
सदा सुधां तु पिबत वचनान्मेऽतिहर्षतः ।
रमेथां च सदा स्वर्गे यथासौख्यं युवां प्रियौ ।।७७।।
हरिव्रतप्रकर्तारो हरेर्भक्तिपरायणाः ।
मर्त्या अमर्त्या ये केचित्त्वस्मत्पूज्याः सदैव ते ।।७८।।
एवं लक्ष्मि! च तौ गन्धर्वीगन्धर्वौ पिशाचकौ ।
पुनर्जातौ स्वर्निवासौ जयाया व्रतवैभवात् ।।७९।।
एतस्मात्कारणाल्लक्ष्मि! कर्तव्यं च जयाव्रतम् ।
जया पापहरा पुण्यप्रदा स्वर्गप्रदा तथा ।।1.243.८० ।।
ब्रह्महत्यादिपापानां नाशिनी मोक्षदायिनी ।
सर्वदानानि दत्तानि कृतं येन जयाव्रतम् ।।८ १ ।।
सर्वेऽपि क्रतवस्तेन कृताः कृते जयाव्रते ।
कृताः परोपकाराश्च कृते श्रेष्ठे जयाव्रते ।।८२।।
धनधान्यसुतपत्नीगृहगोवाजिसत्पतिम् ।
लभते माघशुक्लैकादशीजयाव्रतेन वै ।।८३ ।।
नात्र परत्र किञ्चिद्वै दुर्लभं व्रतिनो भवेत् ।
सुलभं स्याद्धरेर्योगाद् दुर्लभं नैव विद्यते ।।८४।।
कर्तव्यं सर्वथा तस्माद्व्रतं जयासुवासरे ।
कल्पकोटिं वसेत् कर्ता वैकुण्ठे मोदते ध्रुवम् ।।८५ ।।
व्रतस्यास्य कथायाश्च श्रवणात्पठनादपि ।
अग्निष्टोमफलं स्याद्वै भुक्तिं मुक्तिं च विन्दति ।।८६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माघशुक्लजयैकादशीव्रतमाहात्म्यं माल्यवतीमाल्यवन्नामगन्धर्वयोः पिशाचत्व-
प्राप्तयोः व्रतेन मुक्तिरित्यादिनिरूपणनामा त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४३ ।।