लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४४
[[लेखकः :|]]
अध्यायः २४५ →

श्रीलक्ष्मीरुवाच-
भक्तवल्लभ भक्तेश रमावल्लभ मत्पते ।
मम सर्वस्व गोपाल लक्ष्मीपाल दयानिधे ।। १ ।।
धर्मपाल सदाचारप्रवर्तक सुरार्चित ।
फाल्गुनस्य कृष्णपक्षे काऽभिधा कथयस्व सा ।। २ ।।
एकादश्यास्तथा देवः कः पूज्यः कीदृशं व्रतम् ।
किं देयं च विशेषेण तत्सर्वं वद मे हरे ।। ३ ।।
श्रीनारायण उवाच-
फाल्गुनस्याऽसिते पक्षे विजया नाम नामतः ।
एकादशी मता सर्वपापक्षयकरी प्रिये ।। ४ ।।
प्रद्युम्नो व्रतिभिस्तत्र पूजनीयो धिया सह ।
पूजायां तुलसी देया फलं जम्बीरमर्हणे ।। ५ ।।
नैवेद्ये तु प्रदेयं च सोहालिकादि भोजनम् ।
दाने तूपानहौ मुख्यौ यथाश्रद्धं धनादिकम् ।। ६ ।।
आदराच्चोत्सवः कार्यो विष्णुभक्तसमर्हणम् ।
भक्तैः श्रद्धासमायुक्तैस्तथा श्रीशपरायणैः ।। ७ ।।
कर्तव्यं च प्रयत्नेनोपोषणं विजयप्रदम् ।
यथा शुक्ला तथा कृष्णा ह्युपोष्या ध्येयसिद्धये ।। ८ ।।
असकृज्जलदुग्धादिपानान्मिथुनसेवनात् ।
क्रोधनादश्रुपाताच्च क्लोशादिकरणात्तथा ।। ९ ।।
चौर्यादिदोषलेशाच्च नोपवासफलं भवेत् ।
दानं चात्मविचारश्च ध्यान होमो जपोऽर्हणम् ।। 1.244.१ ०।।
कर्तव्यानि प्रयत्नेन व्रतिना फलकांक्षिणा ।
तज्जपस्तत्कथा श्रव्या ह्येकादश्यां जयो भवेत्। ।। ११ । ।
उपवासविरोधी चेदन्नदर्शनसंस्पृशः ।
त्याज्यः स सर्वथा स्पर्शो ह्युपवासदिने प्रिये! ।। १२।।
उपवासाऽसमर्थस्तु कुर्यात् फलकृतं व्रतम् ।
मूलं फलं पयस्तोयमुपभोग्यं भवेच्छुभे ।। १ ३।।
अशक्तस्य तथा नक्तं हविष्यान्नमनोदनम् ।
फलतिलाशनं चाज्यक्षीराम्बुपानमित्यपि ।। १४।।
गन्धताम्बूलभोगाँश्च वर्जयेद् व्रतसिद्धये ।
जागरं विष्णुपूजां च विना त्वर्धफलं व्रतम् ।। १५।।
जागरं पूजनं पूर्णफलदं व्रतिनो भवेत् ।
शृणु लक्ष्मि! प्रवक्ष्यामि वृत्तान्तं विजयप्रदम् ।। १६।।
सत्ययुगोत्तरे काले जमदग्निर्महामुनिः ।
कौशिक्याः सरितोऽरण्ये ह्यवसद्धार्मिको हि सः ।। १७। ।
स्नानसन्ध्यादिसत्कर्मपरश्चान्तःशुचिः सदा ।
दयादाक्षिण्यमौनादिक्षान्त्यादिगुणशोभितः ।। १८। ।
यज्ञयागादिनिपुणो देवसेवापरायणः ।
यत्कुट्यां मूर्तिमानग्निर्जमत्यर्पितभोजनम् । । १ ९।।
जमदग्निः स वै ख्यातो नर्मदातटमावसन् ।
व्रतं चान्द्रायणं कुर्वन्नाराधयति माधवम् । । 1.244.२० ।।
रेणुका तस्य पत्न्यासीत् सापि धर्मपतिव्रता ।
पतिधर्मपरा साध्वी पतिं संसेवतेऽन्वहम् ।।२१ ।।
यदृच्छालाभसन्तुष्टौ गते कालेपि शान्तिगौ ।
ब्रह्म चाराधयतस्तौ नापत्यं प्रापतुर्हि तौ ।। २२।।
एकदा रेणुका स्नात्वा हरेः पूजनपूर्विकाम् ।
पत्युः पूजां करोति स्म तदा चिन्तां जगाम सा ।।२३।।
पतिः पुत्रस्वरूपेण जायते इति वै श्रुतिः ।
पतिर्मे दर्शनीयोऽस्ति तथा पुत्रोऽपि मे भवेत् ।। २४।।
पतिर्मे नवसृष्टेश्च सर्जने पोषणेऽपि च ।
सृष्टेः संहरणे चापि समर्थोऽस्ति त्रिदेववत् ।।२५।।
देवा येनाऽऽकारिताश्चाऽऽयान्ति यस्य मखेऽन्वहम् ।
पूरयन्तीच्छया सर्वं तथा पुत्रोऽपि मे भवेत् ।।२६।।
कल्पद्रुमाः कामगावो वसन्ति यस्य मानसे ।
सत्पतिर्देवतुल्यो मे भवेत्पुत्रः समीशिता ।।२७।।
स्वर्गतुल्यानि सौधानि वैकुण्ठस्य समृद्धयः ।
गोलोकस्य रसा यस्य संकल्पे निवसन्ति हि ।। २८।।
ब्रह्मतुल्या प्रतिष्ठा च शंभुतुल्या विरागता ।
शेषसमाः सिद्धयश्च यत्संकल्पे वसन्ति च ।।२९।।
मुक्तिः करतले यस्य लक्ष्मीश्चाशीर्वचोऽमृते ।
भोगाश्च सत्यकामाद्या वसन्ति यस्य सन्निधौ ।। 1.244.३०।।
वेदा विद्याः कला दाक्ष्यं यन्मूर्तौ प्रवसन्ति च ।
ब्रह्मचर्यादयः सर्वे धर्माः सन्ति च यद्धृदि ।।३ १।।
तस्यर्षेर्जमदग्नेश्च सुतस्तत्सदृशो भवेत् ।
देवा आशीःप्रदानान्मे प्रयुञ्जन्तु सुताप्तये ।।३२।।
इति चिन्तयमानैव पूजयित्वा स्वकं पतिम् ।
दक्षपादांगुष्ठवारि ह्यपिबद् विष्णुमानसा ।। ३३ ।।
तावत्तत्राऽभवद्वाणी व्योमगाऽतिमनोहरा ।
प्रसन्नोऽस्मि च ते देवि! सदा ते पतिसेवया ।। ३४।।
विष्णुरस्ति स्वामिरूपे सेवां गृह्णन् वसन् सदा ।
ददामि ते वचो देवि! रेणुके तव गर्भजः ।। ३५।।।
भवामि तव पुत्रोऽहं प्रभुस्ते पतिसदृशः ।
नान्योऽस्ति ते पतिप्रख्यः पतिरूपोऽस्म्यहं स्त्रियाः ।। ३६ ।।
तस्मात्पत्यौ कल्पवृक्षतुल्ये कामान् ददामि वै ।
पतिव्रताभ्यः सम्यग्वै व्रतस्थाभ्यः सुताँस्तथा ।।३७।।
शृणु मातर्व्रतं तत्र कर्तव्यं च त्वया यतः ।
फलदं पुत्रदं लोके ख्यातिकृन्मोक्षसाधनम् ।।३८।।
एकादश्या विजयाया व्रतं संकल्पपूरकम् ।
पुत्रप्राप्तौ विजयस्ते भविष्यति युगे युगे ।।३९।।
इत्युक्त्वा विररामेयं वाणी च रेणुकापि वै ।
व्रतं चकार फाल्गुनकृष्णैकादशिकातिथेः ।।1.244.४० ।।
दानानि च ददौ विष्णुतुष्टये विविधानि हि ।
प्राप पुत्रं हरेस्तस्य प्रसादाच्च व्रतात्तथा ।।४१।।
परशुरामसंज्ञोऽसौ विष्णोरंशो महाप्रभुः ।
जन्मोत्तरं चतुर्बाहुं रूपं स्वं धृतवान् हरिः ।।।४२।।
मात्रे स्वदर्शनं दिव्यं ददौ श्रीकमलापतिः ।
एवं कृत्वा विजयां सा रेणुका सुतवत्यभूत् ।।४३।।
शृणु प्रिये ततश्चायं बालो विष्णुर्द्विजोऽर्भकः ।
जमदग्निसुतश्चायं मुनिधर्मपरोऽभवत् ।।४४।।
विप्रधर्मान्पालयँश्च मानयन् ऋषिदेवताः ।
पूजयन् श्रीपतिं नित्यं यज्ञोपवीतमाप्तवान् ।।४५।।
पित्रा तु शिक्षितो वेदानध्यगच्छत्सहांगकैः ।
विद्यया तेजसा चान्यो दिवाकर इवाभवत् ।।४६।।
बाल्यादेवाभवच्चापि पित्रन्यूनपराक्रमः ।
त्रिलोकमार्गाव्याहतगतिकः कमलापतिः ।।४७।।
विप्रकुमारो ब्रह्मिष्ठो ब्रह्मचर्यपरायणः ।
यस्य संदर्शनान्मुक्तिं यान्ति वै मानवा भुवि ।।४८।।
यस्य संसेवनाद् देवा देवत्वं स्वर्गसम्पदः ।
अवापुश्चान्यजीवाश्च लोकपालकतां पराम् ।।४९।।
सोऽयं भिक्षुककुट्यां वै वर्ततेऽरण्यभूमिषु ।
लीला नारायणस्यैव दीनानां मोक्षकारिणी ।।1.244.५० ।।
अथैकदा शृणु लक्ष्मि! जातं क्षत्रं समुद्धतम् ।
गणयत्येव नैव स्वपूज्यानारण्यकान्द्विजान् ।।११ ।।
माहिष्मत्या भूपतिश्च सहस्रार्जुननामकः ।
चन्द्रवंशी कृतवीर्यात्मजो बाहुपराक्रमः ।।५२।।
नारायणावतारं सः दत्तात्रेयं तपस्विनम् ।
प्रसन्नीकृत्य सेवाभिर्युधि बाहुसहस्रकम् ।।५३।।
तथा योगप्रभावस्य सिद्धिं लेभे श्रीदत्ततः ।
यदृच्छया स मृगयां विचरन् गहने वने ।।५४।।
महता स्वस्य सैन्येन सहितोऽरण्यभूमिषु ।
पर्यटन्नाश्रमं चायाज्जमदग्नेर्महामुनेः ।।५५।।
तस्मै राज्ञे तु ऋषिणा पूजासत्कारमाननम् ।
ससैन्यामात्यवाहाय दत्तं योगबलाद् बहु ।।५६ ।।
कामधेनोः प्रसादेन स्वर्गादधिकवैभवान् ।
प्रकटीकृत्य तत्रैव तदानीं सः तमार्चयत् ।।५७।।
राजाऽऽलोक्य गताश्चातिविस्मयं मुनिवैभवम् ।
स्वैश्वर्यातिशयितं चाऽदृष्टं चैवाऽश्रुतं क्वचित् ।।५८।।
सर्वविभूतिसौधादिसमुत्पत्तिपराक्रमाम् ।
कामधेनुं स तु ज्ञात्वा ह्युपाजहार तां बलात् ।।५९।।
क्रन्दन्तीं वत्ससहितां निन्ये स्वनगरं हि सः ।
तदानीं परशुरामो गतोऽभूत्तु गृहाद्बहिः ।।1.244.६० ।।
आगतः सन् गृहे दृष्टवान् क्रन्दन्तीं स्वमातरम् ।
ततः श्रुत्वा तु नृपतेर्दौरात्म्यं क्रोधमाप सः ।।६ १ ।।
मात्रे प्राह तु किं कार्यं मया पुत्रेण मे वद ।
विजयो मे भवेच्चैव यथा तन्निष्क्रयो भवेत् ।।६२।।
तथा दर्शय मे मातः किं करोमि वदाऽधुना ।
शिक्षयेऽस्म्यप्रधृष्योऽहं क्षत्रमुत्पथगामिनम् ।।६ ३।।
तथा मे शाधि मे मातः पुत्रोऽहं सेवकस्तव ।
मात्रोक्तं पुत्र! ते सम्यग् विजयोऽस्तु तथा कुरु ।।६४।।
अनपत्या च पूर्वं यद् व्रतं पुत्रेच्छया ह्यहम् ।
विजयैकादशीतिथेः तदा कृतवती हरिः ।।।६५।।
प्रसन्नोऽभूच्च मत्कुक्षौ त्वद्रूपो जन्म चाप्तवान् ।
त्वं वै हरिः स्वयं चासि पश्य हस्ते धनुः शुभम् ।।६६ ।।
परशुं च पताकां च रेखारूपान् विलोकय ।
कुरु च त्वं विजयैकादशीतिथेर्व्रतं शुभम् ।।६७।।
विजयस्ते सदा भविष्यति क्षत्रिययोधने ।
क्षत्रियाणां शिक्षणाय व्रतं कुरु सुपुत्रक ।।६८।।
ततो दण्डप्रदानाय याहि ते विजयोऽस्तु वै ।
इत्युक्तः परशुरामश्चकार विजयातिथेः ।।६९।।
व्रतं फाल्गुनकृष्णे तु निर्जलं मातृवाक्यतः ।
दशम्यां नक्तभोजी च रात्रौ भूशयनस्तथा ।।1.244.७० ।।
प्रातः स्नानोत्तरं देवं प्रद्यम्नं धीयुतं तथा ।
विजयासहितं कृष्णं पुपूज भावभक्तितः ।। ७ १ ।।
कृत्वा तु सर्वतोभद्रमण्डले तत्र सद्घटम् ।
रत्नपल्लववस्त्रादिजलगन्धादिसंयुतम् ।।७२।।
संस्थाप्य च ततस्तस्योपरि तिलभृतां शुभाम् ।
स्थालीं सन्न्यस्य मूर्तिं स्थापयित्वा स्वर्णनिर्मिताम् ।।७३।।
प्राद्युम्नीं धीस्थितपार्श्वां पुपूज बहुवस्तुभिः ।
पञ्चामृतजलैः स्नापयित्वा दत्वोपवीतकम् ।।७४।।
वस्त्रभूषाद्यलंकारैर्भूषयित्वा समर्च्य च ।
चन्दनादिसुगन्धैश्चाऽक्षताद्यैश्च सुपुष्पकैः ।।७५।।
फलादिभिश्च संपूज्य तुलसीमञ्जरीदलैः ।
धूपदीपादिदानैश्च प्रदक्षिणास्तवादिभिः ।।७६।।
आरार्त्रिकैस्तथा क्षमापराधनैः पुपूज सः ।
मध्याह्नेपि तथा संपूज्याऽऽर्पयद्भोजन जलम् ।।७७।।
सायं षोडशभिः श्रेष्ठैरुपचारैः पुपूज सः ।
वेदघोषैः कथाख्यानैर्जागरणं चकार सः ।।७८।।
यावद् ब्राह्ममुहूर्तं च जातं तावत्स्वयं पुनः ।
स्नात्वा चकार देवस्य पूजनं प्रणयान्वितः ।।७९।।
चकार प्रार्थनां देव! विजयाया व्रतेन मे ।
विप्रस्याऽनतिशक्तस्य स्वभावमृदुलस्य च ।।1.244.८० ।।
क्रूरकापथगेनैव क्षत्रेण सह योधने ।
विजयो भवतात् कृष्ण ह्यक्षतोऽधृष्य एव च ।।८१ ।।
शिक्षितुं कापथस्थं वै क्षत्रं कालोऽयमागतः ।
मम मिषेण भगवान् कुरु त्वं विजयं स्वयम् ।।८२।।
यावदभ्यर्थयत्येवं तदा विष्णुश्चतुर्भुजः ।
प्रादुर्भूय तमुवाच विजयस्तेऽस्तु सर्वथा ।।८३।।
विजयाया व्रतेनाऽहं प्रसन्नोऽस्मि द्विजोत्तम ।
मम रूपोऽसि विप्रेन्द्र! नारायणांश एव ह ।।८४।।
विजयैकादशिकायाः फलेन विजयस्तव ।
भवताद् भूमिपालानां शिक्षणं त्वन्निमित्तकम् ।।८५।।
शास्तृणां क्षितिपानां चेत्कुपये वै गतिर्भवेत् ।
तदा तेषां प्रशास्तारो ब्राह्मणास्तु मया कृताः ।।८६।।
क्षत्रियाणां बलं धर्माद् विप्राणां ब्रह्मजं बलम् ।
अधार्मिकाणां क्षत्राणां शासनं विप्रसात्कृतम् ।।८७।।
तस्माद् विप्रेन्द्र युद्ध्यस्व शाधि क्षत्रं विगर्वगम् ।
विजयाया व्रतेनात्र भूलोके विजयस्तव ।।८८।।
मां विहायाऽस्तु त्रैलोक्ये विजयस्तेऽभितो दिशि ।
इत्युक्त्वा भगवान् विष्णुस्तत्र चादृश्यतां गतः ।।८९।।
पर्शुरामोऽपि परशुं तीक्ष्णधारं धनुस्तथा ।
बाणान् खङ्गं चर्मशक्तिं चक्रं चादाय चैकलः ।।1.244.९०।।
ययौ यत्र कार्तवीर्यो माहिष्मत्याः पतिर्नृपः ।
सहस्रार्जुननामाऽसौ सहस्रकरशोभितः ।।९१ ।।
विराजते स्वभवने तत्र त्वाक्षिप्य भूपतिम् ।
रामः प्राह महादुष्ट! कामधेनुप्रहारक! ।।९२।।
प्राणग्लहार्थं निर्गच्छ कुर्वास्वादं स्वकर्मणः ।
प्राणान्देहि रणं देहि कामधेनुं प्रदेहि मे ।।९३।।
यद्वा पराजयं देहि रामवाक्यं हि शाश्वतम् ।
श्रुत्वैवं क्रोधमापन्नो युयोधातिबलोऽर्जुनः ।।९४।।
किन्तु बाहुसहस्रं वै छिन्नमस्य प्रमूलतः ।
तीक्ष्णया दिव्यया युद्धे रामपरशुधाराया ।।९५।।
बह्व्योऽक्षौहिण्य एवास्य विदारिता द्विजेन वै ।
नाशितास्तस्य पुत्राश्चाऽर्जुनोऽपि मारितस्तदा ।।९६ ।।
कामधेनुं पुनः प्राप्य ततो दिवं ययौ स्वयम् ।
क्षत्रियाणां विनाशाय पृथिव्यां विचचार ह ।।९७।।
एकविंशतिकृत्वः सः क्षत्रियाऽन्तकरोऽभवत् ।
विजयैकादशीव्रतबलेन विजयी भुवि ।।९८।।
समभूद्विप्रवर्योऽसौ रामो राजीवलोचनः ।
प्राप्ता धेनुर्जितं क्षत्रं ह्यर्जुनो निहतो रणे ।। ९९।।
इह लोके जयः प्राप्तो रामेण विजयाव्रतात् ।
विष्णोः सुदर्शनचक्रावतारोऽर्जुन आस ह ।। 1.244.१०० ।।
तथापि निहतः पर्शुरामेण कापथव्रतः ।
पठनाच्छ्रवणाश्चापि वाजपेयफलं भवेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने फाल्गुनकृष्णविजयैकादशीव्रतमाहात्म्ये सहस्रार्जुननाशार्थं तपसा पर्शुरामविजयश्चैत्यादिनिरूपणनामा चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४४ ।।