लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४२
[[लेखकः :|]]
अध्यायः २४३ →

श्रीलक्ष्मीरुवाच-
महाविष्णो हरे वासुदेव लक्ष्मीपते प्रभो ।
अनुग्रहं परं कृत्वा वद माघाऽसिते दले ।। १ ।।
एकादशी च किंनाम्नी कश्चाधिपतिरीश्वरः ।
विधिः फलं च दानानि वैशेषिकं च यद्भवेत् ।। २ ।।
श्रीनारायण उवाच-
शृणु प्रिये माघकृष्णैकादशी षट्तिलाभिधा ।
नाम्नास्ति तत्पतिर्वासुदेवः श्रीप्रियया सह ।। ३ ।।
पूजनीयः स्थलपद्मैर्गुलाब्जैः कोमलैस्तथा ।
नैवेद्ये घृतपूराश्च प्रार्घ्यं द्राक्षाफलानि च ।। ४ । ।
ऊर्णावस्त्राणि देयानि कम्बलादीनि भावतः ।
मेथिकापाकभक्ष्याणि माषलड्डुकभोजनम् ।। ५ । ।
अन्यत्पुष्टिकरं द्रव्यं शीतहारककंचुकम् ।
एवमादीनि देयानि पूजादानादिकर्मसु । । ६ । ।
तिलदेयं समाख्याता सर्वपापप्रणाशिनी ।
दाल्भ्यं प्राह पुलस्त्यः प्राग् व्रतमस्याः सुखप्रदम् ।। ७ ।।
मनुष्या यौवनोपेता दारिद्र्यदुःखकर्षिताः ।
जीविकार्थं च पापानि कुर्वन्ति त्ववशाश्च ये । । ८ ।।
ब्रह्महत्याबालहत्यास्त्रीहत्यागोवधादिकम् ।
हिंसनं परद्रव्यापहारं च व्यसनानि च ।। ९ ।।
स्वदारेष्वप्रसकिं च परस्मृद्धिविनाशनम् ।
प्रसह्य दुःखदायित्वं गुरूनिन्दाऽनृतानि च । । 1.242.१ ०।।
दुष्टकर्मप्रजीवित्वं कन्याविक्रयणं तथा ।
रसाऽनिष्टविमिश्रत्वं विश्वासघातवञ्चनम् । । ११ । ।
एवमादीनि पापानि नरेषु यानि रागतः ।
भवन्ति चाथ जायन्ते तेषां नाशकरं व्रतम् ।। १२।।
तिलदैकादशीरूपं सर्वपापप्रदाहकम् ।
प्रबलं माघमासे तद्व्रतं कृष्णे दले कृतम् ।। १३ । ।
शोधयेच्चान्तरं जन्तोः पापानि क्षालयेत्तथा ।
नैतादृशं व्रतं चान्यद् द्रागेव जन्तुशोधकम् ।। १४।।
माघस्नायी व्रती माघे कृष्णे दशमीवासरे ।
एकभुक्तो भवेत् पश्चाद् रात्रौ पृथ्व्यां शयीत च । । १५।।
ब्रह्मचारी भवेच्चैवैकादश्यां ब्राह्मसंज्ञके ।
मुहूर्ते च समुत्थाय स्मरेन्नारायणं हृदि । । १६। ।
गृह्णीयाच्च वरीष्ठानां सतां च सात्वतां तथा ।
नामानि च हरेर्नामभजनं क्षणमाचरेत् ।। १७।।
तालिकां वादयित्वा च मूर्तिं स्मृत्वा पुनः पुनः ।
हरे राम घनश्याम स्वामिन् नारायण प्रभो ।। १८।।
तवास्मि नित्यदा भक्ते मयि तिष्ठ प्रमोक्षद ।
इति स्तुत्वा ततो यायाच्छौचार्थं बहिरेव च ।। १ ९।।
मृदा जलेन शुद्धिं च कृत्वा गण्डूषकाँश्चरेत् ।
तिलचूर्णं ततो देहे सम्यगुद्वर्तयेद् व्रती ।।1.242.२०।।
सतिलसलिलेनाथ स्नायान्नाम हरेर्गृणन् ।
तिलहोमं प्रकुर्याच्च तिलवारि पिबेत्तथा ।।२१ ।।
तिलदानं प्रकुर्याच्च तिलभोजनमाचरेत् ।
तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी ।।२२।।
तिलदाता तिलभोक्ता षटतिला पापनाशिनी ।
तिलप्ररोहाज्जायन्ते यावच्छाखास्तिलानि च ।।२३।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
कृष्णतिला मताः श्रेष्ठाः स्नाने दाने प्रपूजने ।।२४।।
स्नात्वा व्रती तिलदायाः प्रातरेव प्रपूजयेत् ।
वासुदेवं श्रिया युक्तं नवैः षोडशवस्तुभिः ।।२५।।।
पुष्पांजलिप्रदाने च प्रार्थयेच्छट्तिलाव्रतम् ।
करिष्ये नाथ निर्विघ्नं मे तदस्तु फलप्रदम् ।।२६।।
तव कृपाकणेनापि व्रतसम्पूर्णता भवेत् ।
कामक्रोधाद्यहंलोभपैशुन्यादि न मेऽस्तु वै ।।२७।।
इत्यभ्यर्थ्य गुरुं नत्वा स्मृत्वा श्रीहरिमेव च ।
प्रातश्च सर्वतोभद्रमण्डलं कारयेद् व्रती ।।।२८।।
तन्मध्ये स्वर्णजं यद्वा ताम्रजं घटमुत्तमम् ।
पञ्चपल्लवसद्रत्नजलाद्यैः संप्रपूरितम् ।।२९।।
स्थापयेत्तं च वस्त्रेण सूत्रेणापि च वेष्टयेत् ।
पूजयेत्तं ततस्तस्योपरि कृष्णतिलभृतम् ।।1.242.३० ।।
स्थालीपात्रं स्थापयेच्च तत्र मूर्तिं सुवर्णजाम् ।
विन्यस्येद् वासुदेवस्य श्रीप्रियाषट्तिलायुताम् ।।३ १।।
पञ्चामृतजलैस्तां च स्नापयेदभिषेचनैः ।
वस्त्रादि च विभूषादि त्वलंकाराँश्च धारयेत् ।।३२।।
गुलालकुंकुमाऽबीरचन्दनाऽक्षतहारकैः ।
धूपदीपसुनैवेद्यजलताम्बूलसत्फलैः ।।३३।।
कूष्माण्डैर्नारिकेलैश्चाऽमृतैश्च बीजपूरकैः ।
प्रदक्षिणादण्डवत्सुनमस्कारस्तवादिभिः ।।३४।।
पूजयेच्छ्रीवासुदेवं क्षमापयेत्पुनः पुनः ।
नैवेद्यं भोजयेत्पाने सलिलं मिष्टमर्पयेत् ।।३५।।
ताम्बूलं कर्पूरगन्धैलात्वङ्लवंगयुक् ददेत्। ।
पर्यंकं सोपकरणं दर्पणं व्यजनं तथा ।।३६।।
चामरं पुष्पगुच्छांश्च भक्तितः प्रसमर्पयेत् ।
नीराजयेन्नववारं ततो नत्वा च केशवम् ।।३७।।
स्वव्यावहारिकं कुर्याद् व्रते विघ्नं यथा न वै ।
मध्याह्ने हरये दद्यान् मिष्टं शुभं सुभोजनम् ।।३८।।
जलं दद्यात् फलं दद्यान्मुखशुद्धिकलीटिकाम् ।
सुगन्धसारं गन्धाढ्यस्थलपद्मार्कवारि च ।।३९।।
सायं चापि हरेः सम्यक् पूजनं त्वाचरेद् व्रती ।
आरार्त्रिकादिकं सर्वे भोजनं चापि कारयेत्। ।।1.242.४० ।।
पूर्वं दशदिनेभ्यश्च व्रती स्नातो जनः स्वयम् ।
भूम्यपतितं संगृह्य गोमयं तत्र स व्रती ।।४१।।
तिलान्प्रक्षिप्य कार्पासं पिण्डिकाश्चैव कारयेत् ।
अष्टोत्तरशतसंख्याः यतः शुष्का भवन्ति ते ।।४२।।
अथ माघे कृष्णपक्षस्यैकादश्यां च मूलभे ।
आर्द्रायां वा निशि होमं हरेर्नामत्रिराचरेत् ।।४३।।
रात्रौ जागरणं कुर्याद् विष्णुपद्यानि गापयेत् ।
द्वादश्यां प्रातरुत्थाय स्नात्वा पूजनमाचरेत् ।।४४।।
वस्तुभिः षोडशविधैर्दानं श्रीगुरवेऽर्पयेत् ।
कुंभं स्वर्णमयीं मूर्तिं मुद्राः स्वर्णाश्च राजतीः ।।।४५।।।
तिलपात्रं च शय्यां च वस्त्राणि धान्यसद्रसान् ।
छत्रोपानहपात्राणि दद्यान्मे प्रीयतां हरिः ।।४६।।
कृष्णा धेनुः प्रदातव्या तिलपात्रं प्रपूरितम् ।
गुरवेऽर्पणमत्रोक्तं विप्राय वा कुटुम्बिने ।।४७।।
स्वर्गादौ त्वन्नपानादि लभ्यते तिलदानतः ।
मोक्षेऽपि शाश्वती तृप्तिर्जायते मुक्तिभागिनः ।।४८।।
कृतं सर्वं न कृतं चेदन्नदानं तिलार्पणम् ।
तदाऽमुत्र मिलेत् सर्वमन्नं नैव मिलेत्ततः ।।४९।।
तिलान्नादि प्रदातव्यं सर्वं दातव्यमेव च ।
यद्यत् त्वपेक्ष्यते चात्र स्त्रीपुत्रगृहवाटिकाः ।।1.242.५० ।।
उद्यानानि गोमहिष्यो गजाऽश्वाजादयस्तथा ।
वाहनानि विमानानि गृहोपकरणानि च ।।५१ ।।
दैहानि साधनान्यत्र धर्मार्थकामनादयः ।
स्वर्णभूषाश्च भोज्यानि पेयानि विविधानि च ।।५२।।
दृश्यान्यथापि भोग्यानि श्रव्याणि रंजनानि च ।
देयान्येकादशीलाभे दानानि विविधानि च ।।५३।।
तानि लक्षगुणान्येव प्राप्स्यन्तेऽमुत्र पुण्यतः ।
तस्मादेकादशीकर्त्ता दातव्यानि विशेषतः ।।५४।।
शृण्वत्रार्थे कथां प्राच्यां ब्राह्मण्या रोमहर्षणाम् ।
पुरा कृतयुगे नाम्ना कपिला ब्राह्मणी सती ।।५५।।
विद्यावती कुमारी सा ब्रह्मचर्यपरायणा ।
आत्मज्ञानवती देवपूजाप्रीतिमती सदा ।।५६।।
स्वर्गादिफलवाञ्च्छाढ्या वर्तते स्माऽपरिग्रहा ।
शरीरं क्लेशितं चैव तयोपोषणसद्व्रतैः ।।५७।।
यद्यदुपार्ज्यते विद्याज्ञानाद्यैश्च गृहादिकम् ।
तत्तत्समर्प्यते दाने सत्पात्रे समये शुभे ।।५८।
देवानां ब्राह्मणानां च कुमारीणां सतां तथा ।
साध्वीनां ब्रह्मनिष्ठानां प्रददाना गृहाणि सा ।।५९।
अन्यान्युपकरणानि प्रददाना महासती ।
वर्तते सर्वदा देवपूजौ सुखकाम्यया ।।1.242.६० ।
अतितृष्णामहामोहव्याप्ता नारीस्वभावतः ।
आत्मज्ञानं च कुरुते सुखेच्छां न जहाति सा ।।६१।
अन्नं तु सुलभं ज्ञात्वा ददात्यन्नं न भिक्षुके ।
साधवस्तर्पिता नैव बालका न च भोजिताः ।।६२।
अन्यत्सर्वं प्रदत्तं वै न दत्तं त्वन्नमण्वपि ।
न दत्ता भिक्षुके भिक्षा केवलाऽज्ञानलेशतः ।।६३ ।
एकदा मम भक्तायास्तस्या मेऽभूत् सुचिन्तनम् ।
शुद्धमत्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः ।।६४।
पूजितश्च हरिर्देवो बहुभिर्वस्तुभिर्मुहुः ।
अर्चितो वैष्णवो लोकः कायक्लेशेन तत्त्वतः ।।६५।
सर्वं कृतं सकामं सकामनयाऽनया शुभम् ।
स्वर्गं तस्याः कृते त्वस्ति परन्त्वत्राऽनया क्वचित् ।।६६।।
न कृतं त्वन्नदानं हि निर्मूल्यं विगणय्य च ।
ततोऽस्याः स्वर्गलोकेषु भवेन्नान्नमुपस्थितम् ।।६७।।
अन्नदानेन भोज्यं चामृतं स्वर्गे ह्यवाप्यते ।
दत्तं वै प्राप्यते तत्र येन तृप्तिः परा भवेत् ।।६८।।
तस्मान्मया स्वभक्तायाः सौख्यार्थं तत्र सर्वथा ।
भिक्षुकस्य स्वरूपेण याचनीयं हि भोजनम् ।।६९।।
अन्नं दास्यति मह्यं सा स्वर्गे तत्फलमाप्स्यते ।
एवं लक्ष्मि! विचिन्त्याऽहं मर्त्यलोकमुपागतः ।।1.242.७०।।
कपिलस्वामिरूपेण भिक्षार्थं तद्गृहं गतः ।
भवती भिक्षां देहीति भिक्षां याचितवानहम् ।।७१ ।।
सा मन्मूर्तेश्च मध्याह्ने पूजायां व्यापृताऽभवत् ।
विघ्नं ज्ञात्वाऽथ पूजायां भिक्षाफलशतोज्झिता ।।७२।।
रोषवेगाच्च तत्काले नावोचत् किंचिदेव हि ।
पुनरेव मया प्रोक्ता देहि भिक्षां तु सुन्दरि! ।।७३।।
पूजाप्रसत्तया तत्र तुलसीमृत्तिका तथा ।
गृहीता जलसिक्ता च पिण्डरूपा स्वभावतः ।।७४।।
ततः कोपेन महता मृत्पिण्डस्ताम्रभाजने ।
मम पात्रे तया क्षिप्तो न दत्तं त्वन्नमण्वपि ।।७५।।
मयाऽन्नं भिक्षितं नाम्ना नार्पितं तु तथापि मे ।
गालीदानादिना चाहं तया निष्कासितो बहिः ।।७६।।
गतोऽहं स्वस्य वैकुण्ठं मृता कालेन तापसी ।
ब्रह्मचर्यप्रभावेण गृहदानादिना तु सा ।।७७।।
देवी भूत्वा गता स्वर्गं देवीभिः सत्कृता दिवि ।
मृत्पिण्डिकाप्रदानस्य फलं प्राप्तं गृहं शुभम् ।।७८।।
सर्वस्मृद्धिभरं किन्तु धान्यराशिविवर्जितम् ।
गृहं दिव्यं पश्यति स्म भोज्यं किञ्चिन्न दृश्यते ।।७९। ।
गृहात्तस्माद्विनिष्क्रान्ता चागता मम मन्दिरम् ।
जलोपरि द्वितीयं यद्वैकुण्ठं मेऽस्ति तत्र वै । ।1.242.८० ।।
ब्रह्मचर्यप्रभावा सा कपिला सूर्यसदृशी ।
क्रोधाविष्टा ह्यवोचन्मां भोज्यं किन्न गृहे मम ।।८ १।।
अन्नहीनो महासौधो लब्धो दिव्यस्त्रिविष्टपे ।
यत्र नास्त्यमृतं किञ्चित् खाद्यं पेयं न विद्यते । ।८२।।
भोगस्थले महास्वर्गे जीवितव्यं मया कथम् ।
तस्माद् देहि महाविष्णो भक्तायै भोजनं प्रभो । ।८३।।
अन्यथा न मया स्थेयं श्मशानसदृशे गृहे ।
मयोक्तं च तदा तस्यै नाऽन्नं दत्तं त्वया क्वचित् । ।८४।।
ब्राह्मणेभ्योऽथवा सद्भ्यः साध्वीभ्यो वा न चार्पितम् ।
मया भिक्षाऽर्थिता त्वत्तो मृत्पिण्डस्त्वर्पितस्त्वया । ।८५।।
स्मर्यते वा नवा साध्वि! तत्फलं नाऽन्नमाप्यते ।
कर्मभूमौ कृतं दत्तं फलं स्वर्गे त्ववाप्यते ।।८६।।
त्वयाऽन्नं न प्रदत्तं वै प्रपद्येत कुतो दिवि ।
तथापि भक्ता त्वं ह्यनुग्राह्या सदा मया ।।८७।।
मृत्तिकादानतो भिक्षा फलं ते मृत्तिकाऽपि वै ।
अन्नरूपेण भवतु सदा भुंक्ष्यामृत फलम् ।।८८।।
त्वया व्रतैश्च कृच्छ्रैश्च सूपवासैरनेकशः ।
पूजाभिरर्चितश्चाहं तत्फलं ते गृहेऽमृतम् ।।८९।।
भवतान्मा गृहं शून्यं सदा मे भवतु प्रिया ।
गच्छ स्वर्गं नूतनां त्वां द्रष्टुं कौतुहलान्विताः ।।1.242.९० ।।
आगमिष्यन्ति देव्यश्च षट्तिलाव्रतकारिकाः ।
द्वारं नोद्घाटनीयं च त्वया स्थेयमदर्शने ।।९ १ ।।
यदि तासामाग्रहश्चेत् तव दर्शनकारणे ।
वाच्यं ताभ्यस्तदा देव्यो यदि दर्शनमिष्यते ।।९२।।
ददत षट्तिलापुण्यं भवतीभिस्तु प्राक्कृतम् ।
उद्घाटयामि द्वारं च मां पश्यन्तु हरिप्रियाम् ।।९३।।
ताभिर्दत्तं तदा पुण्यं षट्तिलैकादशीभवम् ।
उद्घाटितं ततो द्वारं दृष्टा ताभिर्हरिप्रिया ।।९४।।
न देवी न च गान्धर्वी नासुरी न च पन्नगी ।
नान्यापि तादृशी दिव्या स्वर्गेऽभूत् कपिला यथा ।।९५।।
हरेर्योगान्महालक्ष्मि! त्वत्समा साऽभवद् दिवि ।
रूपकान्तिसमायुक्ता वैष्णवी मम वल्लभा ।।९६ ।।
षट्तिलाफललाभेन सौधोऽन्नामृतसंभृतः ।
समभवत्तदा द्राक्च नान्यत्राऽतोऽधिकं ह्यभूत् ।।९७।।
भवनं बहुसम्पन्नं षट्तिलापुण्यलाभतः ।
धनधान्यसुवस्त्रादिस्वर्णरूप्यादिसंभृतम् ।।९८।।
भुक्तं च कल्पपर्यन्तं ततः कपिलया तया ।
नित्ये लये समायाता कपिला मम मन्दिरम् ।।९९।।
चतुर्भुजाभवत्तत्र रमारूपा मम प्रिया ।
भजते मां सखी ते सा सेवनान्मेऽतिभावतः ।। 1.242.१० ०।।
ततो यैस्तु कृतं साक्षात् षट्तिलाव्रतमुत्तमम् ।
किं किं तेन न चाप्येत सर्वं प्राप्येत सर्वथा ।। १०१ ।।
लभेद् भुक्तिं च मुक्तिं च मद्योगात्तिलदाव्रती ।
वित्तशाठ्यं न कर्तव्यं लोभः कार्यो न तु क्वचित् ।। १ ०२।।।
दानं सर्वविधं देयं दत्तं प्राप्येत भाविनि ।
आत्मवित्तानुसारेण तिलान् धान्यानि दापयेत् ।। १ ०३।।
वस्त्रान्नवाहनयानगृहवार्युपसाधनम् ।
नैरोग्यं लभतेऽमुत्र ददते योऽत्र जन्मनि ।। १ ०४।।
न दारिद्र्यं न च कष्टं न दौर्भाग्यं न शून्यताम् ।
न भिन्नत्वं व्रजेद् भक्तः षट्तिलाया उपोषणात् ।। १ ०५।।
तस्माद् व्रतं प्रकर्तव्यं तिलदानं विधानतः ।
पातकैर्मुच्यते भुक्तिं मुक्तिं च लभतेऽतिगाम् ।। १ ०६।।
य इदं शृणुयाद् यद्वा श्रावयेच्च पठेच्च वा ।
तस्य पुण्यं षट्तिलाया व्रतजं भवति प्रिये ।। १ ०७।।
नाशुभं शिष्यते किंचित्परत्राऽत्र विरोधकृत् ।
आत्मपुण्यं व्रजेद्विप्रो विजयं क्षत्रियो व्रजेत् ।। १०८।।
धनस्मृद्धिं व्रजेद् वैश्यः सुखं चान्यो लसेत्परम् ।
धर्मं प्राप्नोति धर्मार्थी कामार्थी प्रमदां लभेत् ।। १ ०९।।
धनार्थी धनमाप्नोति पुत्रार्थी सत्सुतं लसेत् ।
यशोविपुलमाप्नोति ज्ञातिमूर्धन्यमित्यपि ।। 1.242.११ ०।।
अचंचला श्रियं लब्ध्वा श्रेयः परमवाप्नुयात् ।
भयनाशो भवत्यस्य तेजोवीर्यं च विन्दति ।। ११ १।।
षट्तिलाव्रतसम्पन्ना नारी प्रियपतिं लसेत् ।
पुत्रपौत्रधनधान्याऽखण्डसौभाग्यमाप्नुयात् ।। १ १२।।
लब्ध्वा कामसुखं चात्र दिवि देवी प्रमोदते ।
वैष्णवी च रमा भूत्वा हरेः शय्यासु मोदते ।। १ १३।।
वैकुण्ठे चाथ गोलोके यौवनार्थसुखानि ३ ।
अश्नुते स्वपतिकृष्णहरिणा सह सर्वदा ।। १ १४।।
षट्तिलायाः समं चान्यद् व्रतं नास्ति सुखप्रदम् ।
पद्मया च कृतं पूर्वं सा त्वं लक्ष्मीर्ममाऽसि वै ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माघकृष्णषट्तिलैकादशीव्रतमाहात्म्यं व्रतपुण्यात् कपिलानार्या देवीत्वं रमात्वं चेत्यादिनिरू-
पणनामा द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४२ ।।