लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४१
[[लेखकः :|]]
अध्यायः २४२ →

श्रीलक्ष्मीरुवाच-
नारायण नमस्तुभ्यं पुराणपुरुषोत्तम ।
मोक्षकरं च जीवानां फलदं च व्रतं शुभम् ।। १ ।।
श्रावयसे येन पापराशयः प्रज्वलन्ति वै ।
पौषशुक्लस्य च या वै भवेदेकादशी शुभा ।। २ ।।
कथयस्व प्रसादेन किंनाम्नी को विधिस्तथा ।
को देवः पूज्यते तत्र फलं चापि कियन्मतम् ।। ३ ।।
श्रीनारायण उवाच-
लोकानां हितलाभाय कथयामि प्रिये च ताम् ।
पौषस्य शुक्लपक्षस्यैकादशी पुत्रदाऽभिधा ।। ४ ।।
सर्वपापहरा भक्तैः कर्तव्यैषा प्रयत्नतः ।
सानन्दापि च सा प्रोक्ता पुत्रानन्दप्रदायिनी ।। ५ ।।
नारायणोऽधिदेवोऽत्र पूज्यश्च पद्मया सह ।
सर्वसिद्धिप्रदो देवः पुत्रकामप्रपूरकः ।। ६ ।।
गुग्गुलपुष्पकैः पूज्यस्तथाऽन्यैः कालसंभवैः ।
चूर्णलड्डुकनैवेद्यं दद्याच्च परमात्मने ।। ७ ।।
अर्घ्यं च दाडिमफलं फलान्यन्यानि चापि वै ।
घृतपूर्णघटो. देयः श्रीपद्मापतये तथा ।। ८ ।।
दक्षिणाश्चापि दातव्या स्वर्णरूपा विशेषतः ।
दशम्यां नक्तभोजी यो व्रती पृथ्व्यां शयीत च ।। ९ ।।
एकादश्यां ब्राह्मकाले समुत्थाय हरिं स्मरेत् ।
स्नात्वा पूजोपचाराणि संगृह्य पूजयेद्धरिम् ।। 1.241.१० ।।
सत्पात्रे च समस्थाप्य पंचामृतेन वारिणा ।
स्नापयेद् देवदेवेशं वस्त्रभूषादि धारयेत् ।। ११ ।।
लेपयेद् द्रव्यगन्धादि पुष्पहारैश्च शोभयेत् ।
धूपदीपाऽक्षतपुष्पसामग्रीभिः प्रपूजयेत् ।। १ २।।
नैवेद्यं मिष्टभोज्यादि जलपानादिकं ददेत् ।
नीराजनस्तुतिप्रदक्षिणादिभिः प्रसादयेत् ।। १३।।
व्रतार्थं प्रार्थयेद् देवं नारायणं पुनः पुनः ।
पुत्रदाया व्रतं चाहं करोमि पूर्णता व्रजेत् ।। १४।।
इत्यभ्यर्थ्य ततः सप्तधान्यैश्च रचयेच्छुभम् ।
मण्डलं सर्वतोभद्रं कर्तव्यं तत्र वै घटः ।। १५।।
स्थापनीयः पल्लवादियुतस्तदुपरि स्थले ।
तिलपूर्णं शुभं पात्रं तत्र मूर्तिर्हरेस्तथा ।। १६।।
प्रतिष्ठाप्य षोडशभिर्वस्तुभिः पूजयेत्प्रभुम् ।
आरार्त्रिकं च पुष्पाणामंजलिं चार्पयेत् ततः ।। १७।।
प्रार्थयेत् फललाभाय तथा दानानि दापयेत् ।
मध्याह्नेऽपि तथा पूजानैवेद्यादि समर्पयेत् ।। १८।।
सायंकालोत्तरं चापि विशिष्टं पूजनं तथा ।
जागरणं प्रकुर्याच्च द्वादश्यां च तथाविधम् ।। १ ९।।
पूजनं वस्तुदानं च कुर्याद् व्रती ततो जनान् ।
द्विजान् साधूंश्च साध्वीश्च भोजयेत्पारणां स्वयम् ।।1.241.२०।।।
कुर्याच्चैव व्रतं पूर्णं फलं मोक्षादिकं भवेत् ।
पुत्रदाया व्रतमेव यः कुर्याद् भक्तिनो जनः ।।२१।।
पुत्रपुत्रीगजगोऽश्वधान्यक्षेत्रादिकं शुभम् ।
प्राप्नुयाच्चापि मुक्तिं च श्रीहरेः कृपया व्रती ।। २२।।
अत्रार्थे शृणु लक्ष्मि! ते प्रवक्ष्यामि कथानकम् ।
पुत्रदाफललाभात्मस्मृद्धिदं सुखदं परम् ।।२३।।
पुरा युगे तु सौराष्ट्रे भद्रावत्यभिधे पुरे ।
राजाऽऽसीत् केतुमाँस्तस्य राज्ञी चुम्पाऽभिधाऽभवत् ।।२४।।
वार्धक्यातिसुनैकट्यं गतस्यापि च भूपतेः ।
पुत्रो नाऽभूद् यतोऽपुत्रः शोचत्यनुदिनं नृपः ।।२५।।
कालो याति न चाशास्ति पुत्रार्थे स्वस्त्रिया अपि ।
ताभ्यां प्रचिन्तितं पुत्रप्राप्तिदं दानपूजनम् ।।२६।।
कृतं च विविधं यादृग् विप्रैर्वै दर्शितं तथा ।
बहुभिर्बहुधा प्रोक्तं कृतं तद् विविधं शुभम् ।।।२७।।
नैवात्मजं नृपो लेभे वंशकर्तारमप्यथ ।
किं करोमि क्व गच्छामि वार्धक्यं दृश्यते पुरः ।।२८।।
कथंचित्प्रान्तकालेपि सुतप्राप्तिर्यथा भवेत्। ।
तथोपायाः प्रकर्तव्या निश्चित्येति नृपः पुनः ।।२९।।
याति बहुस्थलप्रख्यान् सामर्थ्याढ्यान् सतो जनान् ।
आशीर्वादाँश्च गृह्णाति विफलाश्च भवन्ति ते ।।1.241.३ ० ।।
न राष्ट्रस्य न राज्यस्य सुखं लेभे सुकेतुमान् ।
साध्व्या रात्र्या समं नित्यं दुःखितो वर्तते भृशम् ।।३ १। ।
चिन्ताशोकपराभ्यां च ताभ्यां दत्तं जलादिकम् ।
श्राद्धे तु पितरः सर्वे कवोष्णमुपभुंजते. ।।३२। ।
केतुमति मृते पश्चाद् वंशजं तर्पणाय नः ।
पश्यामो नहि किं कुर्मो योऽस्माकं तर्पयिष्यति । । ३३।।
इत्येवं दुःखिता सर्वे पितरो यान्ति निःसुखाः ।
न च बन्धुजना मित्रजना अमात्यमन्त्रिणः ।।३४।।
सुहृदश्च प्रजा दासा दास्यः समृद्धयो गजाः ।
रोचयन्त्यस्य राज्ञो वै स्वप्नेऽपि दुःखकारिणः । । ३५।।
नित्यं तस्य मनोऽस्वस्थं नैराश्येन विदूयते ।
अपुत्रस्य जनस्यात्र खलु तत्रापि भूपतेः ।।३६।।
स्मृद्धस्य राज्यभर्तुर्वै नास्त्येव जन्मनः फलम् ।
अपुत्रस्य गृहं दाराः स्मृद्धिः शून्यं हि दृश्यते ।। ३७।।
सुतं विना ऋणं पितृदेवर्षीणां न मुच्यते ।
औरसं सुतमासाद्याऽनृणत्वं पैत्रदैवतम् । । ३८।।
लभ्यते च यशस्त्वत्र परलोके शुभा गतिः ।
पुत्रेण जायते तस्मात् सुतमुत्पादयेज्जनः ।।३९।।
पुत्रस्तु पुण्यकर्तॄणां जायते सुखदः सदा ।
आयुष्यारोग्यसम्पत्तिधनधान्यप्रवर्धकः ।।1.241.४० ।।
हरेः कृपां तथा पुण्यं विना पुत्रजनिर्न वै ।
न च पुण्यकृतां लोकप्राप्तिश्चापि सुतं विना ।।४१।।
पुत्रो धनं महत्प्रोक्तं पुत्रो वै सम्पदुच्यते ।
पुत्रो गृहं सुतः सम्बन्धोऽपि लोकेषु गीयते ।।४२।।
सुतं विना न सम्बन्धो न तं विना कुटुम्बिता ।
तां विना न यशो लोके तद्विना न स्वरव्ययम् ।।४३।।
रात्रिंदिवा स्वयं राजा चिन्तयन् लभते न शम् ।
आत्मनाशं चेत् करोमि त्वात्मघातेऽतिदुर्गतिः ।।४४।।
अनशनेऽपि लोकेऽत्र हाहाकारश्च दुर्गतिः ।
तस्मान्मया च किं कार्यं विचार्यैवं दिवानिशम् ।।४५।।
वरं तपसा देहस्य क्षपणं चेतिमानसः ।
रात्रावश्वं समारुह्य जगामारण्यमेकलः ।।४६।।
न जानन्ति प्रजाश्चास्य गृहदारादयस्तथा ।
क्व गतोऽयं महाराज इत्यभूवन् विचिन्तिताः ।।४७।।
चिन्तापराऽतिदुःखास्ते ययुस्तन्मार्गणाय वै ।
अश्वपादप्रविन्यासान् दृष्ट्वा दृष्ट्वा ययुर्वनम् ।।४८।।
शाद्वलेऽतिघने देशे वाजिपादावलेखनम् ।
यदा दृष्टं न तैर्भूमौ तदा ते स्वपुरं प्रति ।।४९।।
आययुः शोकचिन्ताश्च प्रेषयामासुराश्रितान् ।
वन्यान् वने मार्गणाय तैरप्याप्तो न भूपतिः ।।1.241.५० ।।
वनादन्यवनं राजा ततोपि गहनं वनम् ।
दूरं दूरं सिंहहस्तिसेवितं प्रविवेश ह ।।५१।।
भाग्ययोगान्न वै कैश्चिद्धिंसैर्व्यापादितो नृपः ।
नाश्वोऽपि मरणं प्राप्तो दैवयोगाद्धि जीवतः ।।५२।।
वनवृक्षान्वटान् बिल्वान्कदम्बान्पनसान्धवान् ।
खर्जूरान् पिप्पलान्स्वर्णचम्पकाँश्च विलोकयन् ।।१९३।।
तथा तालान्सर्जतरूँस्तमालाँसूतिलकान् वटान् ।
बकुलान्सप्तपर्णांश्च तिन्तिडीश्च विलोकयन् ।।५४।।
इङ्गुदीर्बदरीश्चैव जम्बूँश्च करमर्दकान् ।
वंशानशोकान्कदलीनार्यंगान्नारिकेलकान् ।।५५।।
पश्यन् ययौ वनं घोरं पश्यन्सिंहान्मृगान्खगान् ।
अनलान्हंसकारण्डबकाँश्चमरीगोशशान् ।।५६।।
व्याघ्राँश्च भल्लुकान् गेन्डान्शृंगमृगाँश्च शल्लकाम् ।
गजाँश्च गवयान्वन्यमहिषान्भुजगाँस्तथा ।।५७।।
पश्यन्नाश्चर्यसंयुक्तोऽदृष्टपूर्वांश्च देहिनः ।
शृण्वन्नुलूकजम्बूकर्क्षमृगादिरुतानि सः ।।५८।।
वन्यानि भक्षयन् पुष्पफलानि च ययौ नृपः ।
तृषितश्चिन्तयामास सः शुष्कगलकन्धरः ।।५९।।
मार्गयामास सलिलाशयं पक्षिरुतानुगः ।
तत्र दिव्यजलं सुष्ठु सरो दृष्ट्वा निसर्गजम् ।।1.241.६ ०।।
अश्वपट्टइतिख्यातं रैवताद्रेः प्रपूर्वगम् ।
मीनमकरमत्स्यादिशोभितं कमलैर्युतम् ।।६१ ।।
हंसैः कारण्डवैश्चक्रवाकैश्चानलपक्षिभिः ।
शोभितं परिदृष्ट्वैव ययावानन्दमुत्तमम् ।।६२।।
जगाम त्वरितो भूपो जलपानार्थमुत्सुकः ।
तदा नेत्रं करो वक्षः प्रास्फुरद् दक्षिणं शुभम् ।।६३।।
जले तु स्नानकर्तॄन् स दिव्यान्देवान्व्यलोकयत् ।
गत्वा तत्र ननामासौ हयादुत्तीर्य चाग्रगः ।।६४।।।
पृथक्पृथग्ववन्देऽसौ देवान्मुनिस्वरूपिणः ।
जपतः श्रीहरेर्जापान्व्रतकर्षितविग्रहान् ।।६५।।
बद्धांजलिर्गद्गदोऽभूद्दण्डवत्प्रचकार च ।
आशीर्वादैः प्लावितोऽयं नृपः पप्रच्छ तान्सुरान् ।।६६।।
के भवन्तोऽत्र गहने निर्जलेऽरण्यके जले ।
स्नातुं समागताः सन्ति यत्र वासो न मानुषः ।।६७।।
याथातथ्यं वदन्त्वत्र येन मेऽपि शुभं भवेत् ।
दुःखिनो दुःखनाशाय सतां वै दर्शनं मतम् ।।६८।।
इति पृष्टाश्च ते देवाः प्राहुस्तं भाग्यसन्मुखम् ।
विश्वेदेवा वयं राजन् देवाः स्वर्गनिवासिनः ।।६९।।
मुनिस्वरूपैश्चाऽऽयाताः स्नानार्थं पुत्रदाव्रते ।
अद्यैवैकादशी चास्ति पुत्रदानामनामतः ।।1.241.७०।।
तत्र स्नातुं वयं याता तीर्थेऽस्मिन् रैवताचलात् ।
स्नात्वा स्वर्गं गमिष्यामो व्रतं चाद्यास्ति वै महत् ।।७१।।
कथं भवान्समायातो निर्जने गहने वने ।
श्रुत्वा राजातिसंहृष्टो क्षुत्तृड्भ्यां दुःखितोऽपि सन् ।।७२।।
स्वानुकूलं सुखं मत्वा जलं नैव पपौ तदा ।
व्रतं नैसर्गतो जातं मत्वा पुत्रफलप्रदम् ।।७३।।
उवाच तान्मुनीन् राजा ह्यपुत्रोऽहं सुतेच्छया ।
कृतवान्बहुपुण्यानि सुतं तथापि नाऽलभम् ।।७४।।
ततः शोकपरीतांगस्तपसेऽत्र समागतः ।
करिष्ये च तपश्चात्र पुत्रार्थं कृपयात्र वः ।।७५।।
मुनयश्च तदा प्राहुर्भूपते पुत्रदाव्रतात् ।
पुत्रप्राप्तिकरं पुण्यं जातं ते मा तपः कुरु ।।७६।।
रात्रौ जागरणं कुर्याः प्रातः सम्पूज्य केशवम् ।
जलस्य पारणां कृत्वा पत्रपुष्पादिना तथा ।।७७।।
याहि गृहं च ते पुत्रो भविष्यति नराधिपः ।
इत्येवं दैवयोगेन व्रतस्य करणात्तथा ।।७८।।
आशीर्वादाँश्च देवानामुपलब्ध्वा गृहागतः ।
राज्ञी गर्भं दधौ काले पुत्रो जातोऽतिभाग्यवान् ।।७९। ।
दीर्घजीवी प्रजापालो बभूव स नराधिपः ।
नाम्ना च कुंकुमान् यस्य सौराष्ट्रं कंकसंज्ञया ।।1.241.८०।।
राज्यं ख्यातमभूत्तस्य वंशोपि वैष्णवो ह्यभूत् ।
तस्माल्लक्ष्मि! प्रकर्तव्यं पुत्रदैकादशीव्रतम् ।।८ १ । ।
लोकानां च हितार्थाय मयैतत् कथितं तव ।
येऽत्र जनाः करिष्यन्ति पुत्रदाया व्रतं शुभम् ।।८२। ।
पुत्रान्प्राप्येह लोके ते स्वर्गं यास्यन्ति वै मृताः ।
धनं धान्यं पशून् पुत्रान् दीर्घमायुष्यमित्यपि ।।८३।।
पत्नीं शुभां पतिं सौम्यं क्षेत्रं स्मृद्धिं महत्तमाम् ।
प्राप्स्यन्त्यवश्यमेवैतद्व्रतस्य करणाज्जनाः । ।८४।।
अस्याश्च पठनाल्लक्ष्मि! श्रवणात्स्मरणात्तथा ।
पुत्रप्राप्तिफलं तद्वच्चाग्निष्टोमफलं भवेत् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने पौषशुक्लपुत्रैकादशीव्रतमाहात्म्यकेतुमाद्राजर्षिपुत्र-लाभनिरूपणनामैकचत्वारिंशदधिकद्विशततमो-
ऽध्याय ।।२४१।।