सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४०

विकिस्रोतः तः
← अध्यायः २३९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४०
[[लेखकः :|]]
अध्यायः २४१ →

श्रीलक्ष्मीरुवाच-
पौषकृष्णैकादशी च किंनाम्नी को विधिस्तथा ।
किं फलं का च लक्ष्मीश्च को देवः पूज्यते वद ।। १ ।।
श्रीनारायण उवाच-
कथयामि शृणु लक्ष्मि पौषैकादशिकाव्रतम् ।
एकादशीव्रतेनाहं तुष्टो भवामि सर्वथा ।। २ ।।
पौषस्य कृष्णपक्षीया सफला नामतो हि सा ।
तस्यां नारायणं संकर्षणाख्यं स्वामिनं प्रभुम् ।। ३ ।।
सुनन्दापत्निकायुक्तं पूजयेद् भावनायुतः ।
पूजायां मुनिपुष्पाणि नैवेद्ये गुडलड्डुकाः ।। ४ ।।
अत्राऽर्घ्ये चामृतफलं स्वर्णदानं च शस्यते ।
प्रागुक्तविधिना कार्या दशम्येकादशी तथा ।। ५ ।।
द्वादशीपारणं चैव कर्तव्यं चोक्तरीतितः ।
प्रातर्वै सर्वतोभद्रमण्डले व्रतवासरे ।। ६ ।।
घटं संस्थाप्य च हरिं फलैश्च विविधैर्व्रती ।
नारीकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ।। ७ ।।
जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः ।
लवंगैर्बदरैश्चैव तथाऽऽम्रैश्च विशेषतः ।। ८ ।।
यत्र यत्फललब्धिः स्यात् तत्तत्फलैः प्रपूजयेत् ।
षोडशोपसुवस्त्वाद्यैः पूजनं महदाचरेत् ।। ९ ।।
दीपदानं विशेषेण सफलायां प्रकारयेत् ।
धान्यदानं वस्त्रदानं स्वर्णदानं गवार्पणम् ।। 1.240.१ ०।।
रात्रौ जागरणं कुर्यान्मिलितैर्वैष्णवैः सह ।
यदि निमेषमात्रं यः कुर्याज्जागरणं निशि ।। ११ ।।
यज्ञाधिकं फलं सर्वतीर्थाप्लावनज फलम् ।
वर्षसहस्रतपसां फलाधिकफलं भवेत् ।। १२।
शृणु लक्ष्मि! कथा माहिष्मतस्य नृपतेः पुरा ।
सत्ययुगे समजाता सफलाव्रतसंश्रयात् ।। १३।।।
नर्मदायास्तटेऽरण्ये पर्वतप्रायभूतले ।
भारते दक्षिणे मध्ये पुरी माहिष्मती शुभा ।। १४।।
माहिष्मतस्य राज्ञस्तद्राज्यं चाभून्महत्तरम् ।
तस्य सौम्याः पञ्च पुत्रा ह्यासन् सर्वे कुमारकाः ।। १५।।
धीमान् श्रीमान् धृतिमांश्च कीर्तिमान् शक्तिमानिति ।
तेषां मध्ये तु धीमान् वै ज्येष्ठः पापरतोऽभवत् ।। १६।।
यौवनं प्राप्य मद्यादि पिबन् मांसं प्रभक्षयन् ।
वेश्यां च गमयन् दाराः परा अत्यभिमर्षयन् ।। १७।।
चौर्यं च परराष्ट्रेषु प्रसह्य कारयन् स्वकैः ।
पापातिपापदुष्टातिनिकृष्टाचारवानभूत् ।। १८।।
द्यूतं पानं च मृगया प्रमदा मांसमित्यमून् ।
दोषान् स पोषयन् द्रव्यं नाशयामास वै पितुः ।। १९।।
गमितं मणिरत्नादि स्वर्णादि पापकर्मभिः ।
बुभुक्षितस्ततो जातो मलिनो वेदनिन्दकः ।। 1.240.२० ।।
असद्भावो ब्राह्मणानां सतां धर्मस्य निन्दकः ।
वैष्णवानां च देवानां विशेषान्निन्दकोऽभवत् ।।२१।।
प्रजायां सर्वथा चोपद्रवं पिशाचवद्धि सः ।
नित्यं करोत्यतो राज्ञा त्वाहूतो लुम्भकाभिधः ।।२२।।
पित्रा च बान्धवैः सर्वैर्लुम्भकस्त्यक्त एव हि ।
निष्कासितश्च राष्ट्राद्वै प्रजाभिस्ताडनादिभिः ।।२३।।
यत्र गच्छति लुम्भोऽसौ तिरस्कारं स विन्दति ।
न च सौख्यमवाप्नोति न कोऽपि सत्करोति तम् ।।२४।।
निर्धनो गतसत्ताको वेश्ययापि विनिष्कृतः ।
पर्यटन् वनवृक्षेषु क्षुधातृषार्दितः स्वयम् ।।२५।।।
दुःखं तपःस्वरूपं वै घोरं सेहेऽतिदारुणम् ।
पश्चात्तापं करोति स्म मुहुः स्वार्जितकर्मणाम् ।।२६ ।।
त्यक्तोऽहं बान्धवैः पित्रा प्रजाभिर्वेश्यया तथा ।
राज्यान्निष्कासितश्चापि सर्वैश्चापि तिरस्कृतः ।।२७।।
वरं चात्र वने वासः परं वैरं न शाम्यति ।
वैरस्य यापनायैव वैरिणोऽहं निहन्मि वै ।। २८।।
पितुश्च नगरं सर्वं घातयिष्यामि सर्वथा ।
लोपयिष्यामि सौधाँश्च हरिष्यामि धनादिकम् ।। २९।।
शनैः शनैरिदं कार्यं धनं हर्तव्यमुत्तमम् ।
वने गुप्ते प्रवस्तव्यं स्यां न हस्तगतो यथा ।।1.240.३० ।।
इति पापमतिं कृत्वा दारुणे गहने वने ।
जीवघातरतो नित्यं स्तेयहिंसादिनिष्ठुरः ।।३ १।।
वसन् रात्रौ च नगरं गत्वा शस्त्रैर्जनान्बहून् ।
घातयित्वा धनं धान्यं वस्त्रं प्रभूतमित्यपि ।। ३२।।
नयति स्म महारण्ये खादति ह्लादते मुहुः ।
सर्वं च नगरं तेन मुषितं पापवृत्तिना ।। ३३।।
त्रासो महान् प्रजायां च वर्तते स्म निरन्तरम् ।
अकस्माद्धनहरणं प्रसह्य श्रेष्ठिनो जनान् ।।३४।।
करोति स्म क्वचिद् वक्रान् मारयत्यपि जीवतः ।
एकदा स गृहे राजमन्त्रिणः प्रविवेश ह ।।३५।।
धनं बहु हृतं तेन तथा खाद्यं च खादितम् ।
प्रमदाश्च तथा भुक्तास्तथा बालाश्च ताडिता । ।।३६ ।।
गृहं प्रज्वालितं तस्य कृतश्चोपद्रवो महान् ।
तावत्तत्र समायातैः राजभटैर्निशाचरैः ।।३७।।
गृहीतो निगडे बद्धो रश्मिभिर्हस्तयोर्धृतः ।
उवाच तान् सुतोऽहं वै राज्ञो माहिष्मतस्य वै ।।३८।।
मोचनीयोऽहमेवाऽत्र त्वन्यथा वः सुखं नहि ।
हरिष्ये भवतां प्राणान् नाशयिष्यामि शस्त्रकैः ।।३९।।
करिष्ये वो नाशमेव धनदारागृहार्थिनाम् ।
राज्ञः सुतो न धर्तव्यः कदाचन सुखेप्सुभिः ।।1.240.४० ।।
धर्षणीयो न वै सर्पो विप्रः क्षत्रिय एव च ।
विनाशफलदास्ते वै रक्षकास्तु नताः सदा ।।४१।।
इति श्रुत्वा च तैर्मुक्तो गतोऽरण्ये पुनर्हि सः ।
आमिषं भक्षयन्नित्यं वार्क्षफलानि भक्षयन् ।।।४२।।
प्राणयात्रां स निर्वाहयति कन्दादिभिस्तथा ।
चौर्येणापि स्वनिर्वाहं करोति वनवासवान् ।।४३।।
वने तत्राऽभवज्जीर्णं विष्णुस्थानं विनिर्जनम् ।
अश्वत्थस्य च वृक्षस्याऽधोमूले नष्टभित्तिकम् ।।४४।।
नष्टद्वारं नष्टशालं नष्टच्छायं निराश्रयम् ।
तत्राऽनेन तु भग्नया मूर्तेर्विष्णोर्हि वेदिका ।४५।।
आश्रयार्थं स्वीकृताऽऽसीद् विश्रान्तिर्लभ्यतेऽत्र च ।
अश्वत्थोऽपि जीर्णशाखस्तम्बश्च बहुवार्षिकः ।।४६।।
देवभावेन वृक्षोऽयं विष्णुयोगाद्धि वर्तते ।
तत्र वासाल्लुम्भकस्य देविस्थानप्रतापतः ।।४७।।
बुद्धिस्तु सात्त्विकी जाता विचारं चाकरोद्धि सः ।
अहो मया कृतं पापं बहु यस्य न निष्कृतिः । ।४८।।
अथापि न मया कार्यं हिंसनं प्राणघातकम् ।
कन्दाद्यत्त्वा च निर्वाहं करिष्ये पिप्पलाश्रयः । ।४९।।
विष्णुश्चात्र वसत्येव मूर्तौ तु पिप्पले तरौ ।
करिष्यति मम श्रेयः पापं प्रज्वालयिष्यति ।।1.240.५०।।
इत्येवं कृतबुद्धिः सः शैत्यकालेऽपि भूतले ।
वृक्षस्तम्बाश्रये रात्रिं निर्गमयति कष्टतः ।।५१।।
तावत्तत्र समायाताश्चौराश्चान्ये वनाश्रयाः ।
लुम्भकस्य च वस्त्रादि प्रजह्रुः पौषकृष्णके ।।५२।।
पौषस्य कृष्णपक्षे तु दशम्यां प्रातरेव सः ।
फलान्याहृत्य बुभुजे कथंचिद् दिवसो गतः ।।।५३ ।।
रात्रौ त्वाकस्मिकं शैत्यं हिमाढ्यं प्रववर्ष ह ।
यत्राग्नितापनेनापि रक्षणं न यथा भवेत् ।।५४।।
तथा शीतप्रवाहस्य भोगभूतोऽभवद्धि सः ।
वस्त्रहीनो विवृत्ताक्षो मिलन्मुखोऽभवज्जडः ।।५५। ।
निद्रासुखं विनष्टं च गतप्राण इवाऽभवत् ।
मिलद्दशनजिह्वाऽऽस्यो हस्तपादजडत्ववान् ।।५६।।
शववत् स तदा जातः शैत्येन परिपीडितः ।
किन्तु प्राणा गता नैव गतचेष्टोऽभवद्धि सः ।।५७।।
आन्तरे स्मरति विष्णुं रक्षकं च मुहुर्मुहुः ।
प्रातर्जातं सफलाया एकादश्यास्तथापि सः ।।५८।।
भानूदयेऽपि शीतार्द्रो न लेभे चेतनां तदा ।
रवौ मध्यगते सोऽयं संज्ञां लेभे हि लुम्भकः ।।५९।।
इतस्ततो विलोक्यैव व्युत्थितो ह्यभवत्ततः ।
विष्णुं वृक्षं रविं नत्वा स्खलन् पद्भ्यां वने गतः ।।1.240.६० ।।
खञ्जवत् सशनैर्गच्छन् क्षुत्क्षामः शक्तिहीनकः ।
वेपमानांगकश्चापि सत्फलान्याजहार सः ।।६ १।।
विष्णवे चार्पणीयानि ततो ग्राह्याणि वै मया ।
इत्याचिन्त्य समागत्य वृक्षमूले निधाय च ।।६२।।
यावत्तिष्ठति वृक्षाधो लुंभकोऽतीव निर्बलः ।
तावदस्तंगतः सूर्यः कष्टं शुशोच वै तदा ।।६३।।
अश्रूणि विनिमुच्यैव का भविष्यति मे दशा ।
शैत्यं च बाधते सम्यग् भवेत् पर्णैर्न रक्षणम् ।।६४।।
शैत्यप्रवारकं पुष्टं वल्कलादि न विद्यते ।
न गूहा न च तार्णं वा कटं चाप्यत्र विद्यते ।।६५।।
तथापि तृणपुंजेऽत्राश्रयं कृत्वा स्वपिम्यहम् ।
इति विचिन्त्य निकटे तृणान्यादातुमुत्सुकः ।।६६।।
फलानि विष्णुमूर्तेश्च समीपे विनिधाय च ।
उच्चार्य च फलैरेभिः श्रीपतिस्तुष्यतां हरिः ।।६७।।
ततो यातोऽतिनिकटे तृणाऽऽनयनहेतवे ।
किन्तु बलप्रहीणः सः वेदिकायाः समीपतः ।।६८।।
पुनर्मूर्च्छामवापैव नारायण इति स्मरन् ।
क्षणान्तरे समुत्थाय तृणान्यादाय पिप्पले ।।६९ ।।
स्तम्बाधारे स्वयं यावदागत्य च निषीदति ।
तावन्मूर्छा पुनर्जाता पुनश्चैतन्यमाप्तवान् ।।1.240.७०।।
विष्णुं स्मृत्वा लुम्भकः स निद्रां लेभे न शान्तिदाम् ।
प्रातः फलानि भोक्ष्याणीत्येवं निशां निनाय सः ।।७ १।।
एवं विवशतः प्राप्तं व्रताहं चाऽविदन्नपि ।
सोपवासं सजागरं कृतवान् शीतपीडितः ।।७२।।
तत्फलैः पूजनं मेने नैवेद्यं चापि केशवः ।
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः ।।७३।।
सफलाया व्रतं मेने तपः स्वाश्रयजं तथा ।
विष्णुः प्रसन्नतां प्राप्तो दयालुर्दीनवत्सलः ।।७४।।
लुम्भकस्याऽकरोद् भाग्यं पुण्याढ्यं शाश्वतं शुभम् ।
अकस्माद्व्रतमेवैतत्कृतवान् वै स लुम्भकः ।।७५।।।
द्वादश्यां च तदा प्रातः फलान्यत्त्वा हरेः पुरः ।
स्तुतिं चकार देवस्य संसाराद्रक्षणं प्रति ।।७६।।
सूर्यस्योदयनं यावत् तावद्विष्णुश्चतुर्भुजः ।
संकर्षणस्वरूपेण प्राविर्बभूव तत्पुरः ।।७७।।
दिव्यावयवशोभाढ्यो दिव्यभूषणभूषितः ।
दिव्यमन्दप्रसन्नास्यहास्यलासादिशोभितः ।।७८।।।
दक्षहस्तेन लुम्भं तं स्पृष्ट्वा च मस्तकेऽवदत् ।
राज्यं प्राप्स्यसि भक्त त्वं सफलायाः प्रभावतः ।।७९ ।।
गच्छ स्वनगरं तत्र ते पिता निधनं गतः ।
अन्ये परस्परं पुत्रा विरुद्ध्यन्त्यभिषेचने ।।1.240.८०।।
परस्परं विरुद्धास्ते राज्यमुकुटवञ्चिताः ।
राज्यं च नाप्नुवन् मन्त्रिप्रजाभिरनधिकृताः ।।८ १ ।।
तवाऽऽगमं प्रतीक्षन्ते प्रजास्ते भाग्यवर्धनात् ।
कालोऽयं ते पुनर्यातो ह्येकादशीफलोदयात् । ।८२। ।
यैः पूर्वं ताड्यते तिरस्क्रियते कालवेगतः ।
तैरेव पुनरिष्यते ह्यहो कालबलं महत् । ।८३।।
भाग्यहानेर्महत्कष्टं सुखं भाग्योदये पुनः ।
भाग्योदयो वृताद्यैश्च जायते कार्यमेव तत् ।।८४।।
तस्माद् गच्छ स्वकं राज्यं गृहाण मा चिरं कुरु ।
इत्युक्त्वा भगवान् विष्णुस्तत्र त्वन्तर्जगाम ह ।।८५।।
लुम्भकः पिप्पले विष्णुं नत्वा तेजो ह्यवाप्तवान् ।
दिव्यरूपस्वरूपः सन् भूत्वा स्वनगरीं ययौ ।।८६।।
मन्त्रिप्रजाग्रगैः सम्मानितः स्वागतवर्धितः ।
दिव्याभरणशोभाभिरलंकृतोऽथ वैष्णवः ।।८७।।
भूत्वा राज्याभिषेकं स्वपितृपरम्परागतम् ।
प्राप्तो हरेः प्रसादेन सफलाया व्रतेन च ।।८८।।
भाग्योदयेन राजा स लेभे राज्यमकण्टकम् ।
शुभं राज्यं प्रजारक्षापालनादिविधानतः ।।८९।।
शतवर्षं च तद्राज्यं कृत्वाऽऽराध्य हरिं तथा ।
प्रजाशीर्वादमासाद्य पुत्रं मानजिताह्वयम् ।।1.240.९० ।।
राज्येऽभिषिच्य च वनं यातो यत्राऽभवत्पुरा ।
विष्णुमाराध्य च तत्र निर्माय विष्णुमन्दिरम् ।।९१ ।।
हरेरर्चां प्रतिष्ठाप्य सेवित्वा च तथाऽन्वहम् ।
तपसा योगसाम्येन क्षपयित्वाऽऽन्तराशयान् ।।९२।।
गतः कृष्णस्य सान्निध्यं विमानेन सुतेजसा ।
पार्षदाश्च हरेस्तत्र विमाने तं प्रगृह्य च ।।९३।।
ययुर्धाम हरेर्दिव्यं यत्र गत्वा न शोचति ।
तत्र गोलोकसंज्ञे वै धाम्नि लुम्भकभूपतिः ।।९४।।
श्रीकृष्णं सेवते नित्यं पार्षदैरभिपूजितः ।
एवं यः कुरुते लोके सफलाव्रतमुत्तमम् ।।९५।।
इह लोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ।
धन्यास्ते मानवा लोके सफलाव्रतकारिणः ।।९६।।
तेषां तु सफलं जन्म सफलं च धनादिकम् ।
सफलाया व्रतं यैस्तु कृतं वै भावपूर्वकम् ।। ९७।।
सफलैकादशी राज्यलक्ष्मीरूपफलप्रदा ।
मुक्तिदा चेति सा कार्या भुक्तिमुक्तिसमीप्सुभिः ।।९८।।
पठनाच्छ्रवणाच्चैव व्रतस्य करणात्तथा ।
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ।। ९९।।
पुत्रान् पौत्रान् धनं स्मृद्धिं सम्पद्ं राज्यमित्यपि ।
विद्यां पुष्टिं तथाऽऽरोग्यं मुक्तिं च लभते व्रती ।। 1.240.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पौषकृष्णसफलैकादशीव्रतविधिपापिलुम्भकनृपकुमार-
राज्यप्राप्त्याख्यानादिनिरूपणनामा चत्वारिंशदधिकद्विशततमोऽध्यायः ।।२४०।।