लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३९
[[लेखकः :|]]
अध्यायः २४० →

श्रीलक्ष्मीरुवाच-
वन्देऽहं देवदेवेशं सर्वजीवसुखप्रदम् ।
अन्तर्यामिणमाराध्यं सर्वकामफलप्रदम् ।। १ ।।
पृच्छामि भगवन् विष्णो लोकानां क्षेमकाम्यया ।
पापिनां पापनाशाय सकामानां समृद्धये ।। २ ।।
मार्गशीर्षे सिते पक्षे किंनाम्न्येकादशी शुभा ।
किं फलं को विधिस्तस्याः को देवस्तत्पतिः प्रभुः ।। ३ ।।
विस्तरेण यथार्थं तत् समाचक्ष्व मम प्रभो ।
श्रुप्वैतच्छ्रीहरिः प्राह भक्तानां हितकृत्प्रभुः ।। ४ ।।
शृणु लक्ष्मि मार्गशीर्षसितैकादशिकाव्रतम् ।
अस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ।। ५ ।।
दशम्यां नक्तभोजी स्याद् रात्रौ भूशयनं चरेत् ।
ब्रह्मचारी भवेत् क्रोधादिकान् दोषान् परित्यजेत् ।। ६ ।।
एकादश्यां ब्राह्मसंज्ञे मुहूर्ते जाग्रतिं लभेत् ।
स्मरेद् दामोदरं कृष्णं मोक्षदायाः पतिं प्रभुम् ।। ७ ।।
सर्वपापहरा मोक्षप्रदा मोक्षाभिधानिका ।
मोक्षदा नामतः प्रोक्ता कृष्णेन निजवाञ्च्छया ।। ८ ।।
दामोदरस्वरूपेण स्वीकृता रैवताचले ।
दामोदरो ह्यतः पूज्यो भगवाँश्च तया सह ।। ९ ।।
प्रातः स्मरेद्धरिं दामोदरं सन्मोक्षदा प्रियाम् ।
संकल्पयेन्मया कार्यं व्रतं चैवाद्य मुक्तये ।। 1.239.१ ०।।
स्मृद्धये वापि सर्वस्मै कामायेति गृही जनः ।
ततः शौचादिशुद्धिं च कृत्वा स्नात्वा सुतीर्थके ।। १ १।।
आचम्य च हरेः पूजासामग्रीः समपादयेत् ।
मण्डलं सर्वतोभद्रं कारयेत् सप्तधान्यकैः ।। १२।।
सौवर्णं वाथ ताम्रस्य घटं मध्ये निधापयेत् ।
पंचपल्लववस्त्रादिपञ्चरत्नफलाब्भृतम् ।। १ ३।।
न्यस्येत्पात्रं तिलाज्यं च स्थालीं वा तत्र सद्धरे ।
मूर्तिं दामोदरमोक्षप्रदयोः स्वर्णनिर्मिताम् ।। १४।।
स्थापयेत्पूजयेत् षोडशोपचारैर्विधानतः ।
तुलस्या मञ्जरीभिश्च धूपदीपादिभिः शुभैः ।। १५।।
मालतीपुष्पमालाभिः श्रिया सह च केशवम् ।
अर्घ्यं फलं तु नारिंगं नैवेद्ये मोदकास्तथा ।। १६।।
सप्तधान्यानि देयानि विशेषफललब्धये ।
यवगोधूमधान्यानि तिलाः कंगूस्तथैव च ।। १७।।
श्यामाकं चीनकं चेति सप्तधान्यानि तानि वै ।
देयानि तु यथाशक्ति दाने श्रेष्ठानि सर्वथा ।। १८।।
श्रिया सह पतिं वै केशवं च प्रार्थयेत्तदा ।
मया व्रतमिदं मोक्षदायाः कृतं त्वदाप्तये ।। १९।।
यथाशक्ति मया पूजा कृता वै तव केशव ।
प्रसन्नो भव देवेश सर्वस्मृद्धिकरो भव ।।1.239.२०।।
मोक्षदो भव मे स्वामिन् संसारार्णवतारक ।
इति संस्तूय नैवेद्यं फलं वारि समर्प्य च ।।२१।।
ताम्बूलं च सुगन्धं च दद्यात्पश्चान्नमस्क्रियाम् ।
कुर्याच्चारार्त्रिकं चैवोत्तारयेद् वन्दनं स्तवम् ।।२२।।
प्रदक्षिणं दण्डवच्च पुष्पांजलिं समर्पयेत् ।
यानि कानि च पापानि ज्ञानाऽज्ञानकृतानि च ।।२३।।
विलयं यान्तु देवेश तव पूजाव्रतादिना ।
इत्युच्चार्य पुनर्नत्वा विसर्जनमथाचरेत् ।।२४।।
मध्याह्ने भोजनं मिष्टं देवाय संप्रदापयेत् ।
सायं निशामुखे पूजां षोडशाभिसुवस्तुभिः ।।२५।।
कारयेच्च ततो जागरणं भक्तैः प्रकारयेत् ।
द्वादश्यां च तथा प्रातः स्नात्वा सम्पूज्य केशवम् ।।२६।।
विसर्जयेच्च दानानि विविधानि प्रदापयेत्। ।
बहुद्रव्यादि गुरवे दद्याच्च भोजनादिकम् ।।२७।।
एवं व्रतप्रकर्ता स्याद् भुक्तिमुक्तिप्रतापवान् ।
पितॄणां तारकः स स्याच्छतवंशार्तिशालिनाम् ।।।२८।।
शृणु पूर्वकथां लक्ष्मि! मोक्षदायाः फलार्पणात् ।
अधोयोनिगताः सर्वे पितरो मुक्तिमागताः ।।२९।।
चम्पापूर्यां भूपतिश्च महान् वैश्वानराभिधः ।
महावैष्णवतां पश्चात्प्राप्तोऽभूत् पितृतारकः ।।1.239.३० ।।
प्रजाः पुत्रसमाः सर्वा रक्षति स्म स भूपतिः ।
वैष्णवा बहवो विप्रा वसन्ति स्म च तत्पुरे ।।३ १।।
वेदवेदांगविज्ञानाः सत्कर्मादिपरायणाः ।
स्मृद्धाश्च विभवैर्युक्ताः प्रजाश्च सम्पदादिभिः ।।३२।।
सुखपूर्णाः समासँश्च राज्ञो वैश्वानरस्य वै ।
यद्यपि पुण्यपुञ्जेन तपसा प्राक्कृतेन च ।।३३।।
राज्यं स्मृद्धं महल्लब्ध्वा सदा राज्यमदान्वितः ।
न करोति व्रतं दानं नास्तिकत्वेन भूपतिः ।।३४।।
न च श्राद्धं करोत्येव नान्नवार्यादिदानकम् ।
न पुण्यप्रदकार्यं वा कारयति स्म कर्हिचत् ।।३५।।
पुण्यं न जायते नव्यं पितरस्तेन दुःखिताः ।
अन्नवारिविहीनास्ते पितृलोकादधोगताः ।।३६ ।।
स्ववंशजं च राजानं श्राद्धादिहीनकर्मकम् ।
दृष्ट्वाऽतिदुःखिनो जाता उष्णश्वासातिदुर्बलाः ।।३७।।
निरये पतिता राज्ञो नास्तिकत्वादिपापतः ।
ते तु रात्रौ समागत्य स्वप्ने प्रत्यक्षतां गताः ।।३८।।
रुदन्तश्च श्वसन्तश्च रुग्णाः संक्षुधितास्तथा ।
तृषातिशुष्ककण्ठाश्चाऽशक्ता नष्टबलास्तथा ।।३९।।
तेजोहीनास्तथा शुष्कशिराः कृष्णाननास्तथा ।
क्रोशन्तोऽतिदरिद्राश्च दुःखिनो भिक्षुका इव ।।1.239.४० ।।
परस्परं कथयन्तो दुःखानि दुःसहानि वै ।
अहो राज्ये स्थितश्चास्मद्वंशजोऽपि स नास्तिकः ।।४१।।
न श्राद्धं कुरुते चायं वैश्वानरोपि वारि वा ।
ददात्येव न वै काले पितृपक्षे मनागपि ।।४२।।
पिण्डान्नैव ददात्येव जलं नैव ददाति च ।
तर्पणं न करोत्येव कारयत्येव नैव च ।।४३।।
तेन दुःखेन सन्तप्ता दुःखिनः सर्वदा वयम् ।
अधोगतिं गताः सर्वे निरये पतितास्तथा ।।४४।।
राजायं नास्तिको जातः किं तेन कुसुतेन वै ।
वरं निर्वंशता यद्वा वरं त्वास्तिकपुत्रता ।।४५।।
वरं मोक्षगतिश्चापि न वरा तु कुपुत्रता ।
अन्ये नैव प्रदास्यन्ति पुत्रो नैव ददाति च ।।४६।।
कथं कस्मात् कुतः प्राप्यमन्नं वारि च वा मनाक् ।
यदि चायं जलं पिण्डान् दद्यात् स्यामः सुखान्विताः ।।४७।।
इत्युक्त्वाऽन्तर्हिताः सर्वे राजाऽभूद् विस्मयान्वितः ।
कथयामास प्रातस्तद्वृत्तान्तं स्वप्नजं द्विजान् ।।४८।।
मया स्वपितरः स्वप्ने दृष्टा निरयपातिताः ।
उक्तवन्तश्च पुत्र त्वं तारयाऽस्मानधोगतान् ।।४९।।
एवं ब्रुवाणाः सश्वासं रुदन्तश्च विक्रन्दनम् ।
दृष्टा मया च तान् स्मृत्वा सुखं मे न भवत्यपि ।।1.239.५०।।
अद्य मे राज्यमृद्धं च तथा राज्ञी गजाऽश्वकम् ।
न किञ्चित् सुखदं भाति रोचते मे न भोजनम् ।।५१।।
शश्वज्ज्वलत्यान्तरं मे पुत्राघं रोचते नहि ।
किं करोमि हृदयं मे दूयते पितृजाग्निना ।।५२।।
क्व गच्छामि समुद्धारायैव तेषां द्विजोत्तमाः ।
मुच्यन्ते येन पितरस्तत्तपो व्रतमुच्यताम् ।।५३।।
योगो यज्ञोऽथवाऽन्योऽपि दानजाद्युत्सवो महान् ।
यत्किंचिद्वा महत्स्वल्पं समुद्धारकमुच्यताम् ।।५४।।
पुत्रे योग्ये समर्थे च जीवति पितरौ यदि ।
दुःखिनो निरये घोरे फलं सुतस्य किं तदा ।।५५।।
तेषामुद्धार एवात्र त्वेष्टव्यो मम सर्वथा ।
मा संकोचं प्रकुर्वन्तु द्विजाः सत्यं वदाम्यहम् ।।५६।।
श्रुत्वा राज्ञः सुवचनं द्विजा हृष्टा भृशं तदा ।
प्रोचुस्तं पितृकल्याणप्रयत्नं ब्राह्मणाश्रितम् ।।५७।।
राजन्नस्मत्सु मध्येऽयं समर्थो हि महामुनिः ।
भूतं भव्यं विजानाति जैगीषव्योऽतियोगवान् ।।५८ ।
स च ते सर्वमाज्ञाय समाधौ दिव्यदृष्टिमान् ।
निवेदयिष्यति द्राक् सत् पितरोऽधोगताः कथम् ।।५९ ।।
जैगीषव्योऽभ्यर्थितश्च पितॄन् ध्यात्वा क्षणं ततः ।
उवाच तं नृपं तत्र जैगीषव्यो महामुनिः ।।1.239.६० ।।
राजन्न केवलं चास्ति नास्तिकत्वं तु कारणम् ।
किन्तु ते जनकस्यास्ति नास्तिकत्वं च कारणम् ।।६ १ ।।
शृणु तथ्यं कथयामि मा क्रुद्धो भव शं भज ।
जानेऽहं तव पितॄणां सर्वं पूर्वं विचेष्टितम् ।।६२।।
तव पितुः कथयामि शृणु चावहितो भव ।
राज्ये त्वासीद् यदा सोऽयं तदा नास्तिकभावतः ।।६३ ।।
वृत्तिं जहार देवस्य या दत्ता पूर्वजैत्तव ।
शास्त्रधर्मं तथा चासौ गणयामास नैव च ।।६४।।
राज्यस्य मदमासाद्य पुंश्चलीषु प्रवर्तते ।
ग्रामान्तरे गतः सोऽयं पुंश्चल्या वारयोषिता ।।६५।।
ऋतुकालेऽपि ते मातुर्नाऽऽयातो निजमन्दिरम् ।
न दत्तं तव मातुश्च ऋतुदानं तु धार्मिकम् ।।६६।।
एवं मुहुर्वर्तयित्वा पापलिप्तोऽभवद् बहु ।
श्राद्धकाले तथा श्राद्धं न कृतं धर्मलोपिना ।।६७।।
तेन पापप्रभावेण पातयित्वा स्वकान् पितॄन् ।
नरके वासयित्वा च नास्तिक्यभावपूरितः ।।६८।।
अन्तिमम् ऋतुदानं च तव मातुर्विधाय च ।
कालेन निधनं प्राप्तः पतितो निरयेऽपि सः ।।६ ९।।
पितृभिर्निजपापेन सहितो निरयेऽपतत् ।
स्वपत्न्यर्तुप्रदानं च पुंश्चलीगमनं तथा ।।1.239.७० ।।
नास्तिकत्वं च पितॄणां श्राद्धाद्यकरणं तथा ।
स्वर्गलोकान्महासौख्यात् पितृपातनहेतवः ।।७१।।
त इमे पतिताश्चैवेहन्ते तूद्धरणं सुतात् ।
सुतोऽपि त्वं तथोत्पन्नो निषेकान्नास्तिकस्य वै ।।७२।।
निषेके यादृशी वृत्तिः पुत्रे भवति तादृशी ।
नास्तिकेन समुत्पन्नो ह्यधार्मिकेण यद्भवान् ।।७३।।
अतस्त्वं नास्तिको जातः श्राद्धं नैव करोषि च ।
देववृत्तिहरस्तातस्तेऽभूत् तस्य प्रतिक्रिया ।।७४।।
प्रायश्चित्तं न चैवास्ति कल्पकोटिशतैरपि ।
देववृत्तिर्न वै हार्या पूर्वैर्दत्ता नृपैः क्वचित् ।।७५।।
तेन पापेन नरके दुःखस्याऽन्तो न जायते ।
देववृत्तिहरस्याऽत्र पदयोः रज इत्यपि ।।७६।।
स्याद् यस्योपरि पतितं सप्तकल्पाः स नारकी ।
इत्युक्तं प्राङ् महेन्द्राय चाण्डाल्या गच्छते पुरः ।।७७।।
एकदा काचिदबला चाण्डाली तु श्मशानके ।
ग्रामशूकरवक्षोऽस्थिकृतचूल्ल्याः उपर्यथ ।।७८।।
नृमुण्डं पाकपात्रं च धृत्वा तत्र श्वमांसकम् ।
मदिरात्मजले क्षिप्त्वा रन्धयति चिताग्निना ।।७९।।
तावत्तत्पार्श्वतस्तत्र महेन्द्रो निर्गतो यदा ।
पाकपात्रं तथा शीघ्रं छादितं समुपानहा ।।1.239.८०।।
विशंक्य तु तदा हीन्द्रस्तां पप्रच्छ पटीयसीम् ।
शुनो मांसं सुरापक्वं नृमुण्डेऽत्र चिताग्निना ।।८ १।।
सर्वं चाशुद्धमेवैतत् चर्मणा छादितं कथम् ।
प्रत्युवाच तदा सा वै चाण्डाली शृणु देवराट् ।।८२।।
देवद्विजगवां वृत्तिं हरन्ति हारयन्ति ये ।
तेषां पादरजोभीत्या चर्मणा छादितं न्विदम् ।।८३।।
यदि त्वं तादृशोऽभूश्चेन्मे पाकोऽशुद्धतां व्रजेत् ।
न मे भोज्यं भवेत् तद्वै वृत्तिघ्नाऽघप्रदूषितम् ।।८४।।
इन्द्रः प्राह कथं योषित् पातकं चेदृशं महत् ।
चाण्डाली प्राह मद्वाक्यं निबोध च यथार्थतः ।।८५।।
देवा वै पितरः प्रोक्ता मातरो देवतास्तथा ।
देवाश्च वृष्टिदातारो देवाः संरक्षकाः सदा ।।८६।।
योगक्षेमप्रकर्तारो लोकानां सर्वदेवताः ।
जीविकावृत्तिहा जीवहन्ता वै प्रोच्यते खलु ।।८७।।
विना वृत्तिं जीवनं न विना वृत्तिं मृतो भवेत् ।
देववृत्तिहरस्तस्मात् पितृहा मातृहा तथा ।।८८।।
देवहा धर्महा तद्वदात्महा स्वर्गहा हि सः ।
वृष्टिहा लोकहा चैव गोघाती ब्रह्मघातकः ।।८९।।
देवघाती वृष्टिघाती सर्वघाती भवेद्धि सः ।
तस्य पादरजश्चापि महापापकरं मलम् ।।1.239.९० ।।
तत् श्वमांसे पतितं चेन्न मे भोज्यं मलं हि तत् ।
तस्मान्मया तु पात्रं तच्चर्मणा छादितं हि यत् ।।९ १ ।।
यदि त्वं देववृत्तीनां दाता कर्ताऽसि चेद्यदि ।
तदा ते पदधूल्याऽत्र पावितं पललं भवेत् ।।।९२।।।
न मेऽस्त्याच्छादने भीतिर्गच्छ पूज्य यथासुखम् ।
इन्द्रोऽपि स्वसभायां च सुरर्षिपितृमानवैः ।।९३।।
शोभितायां तदुक्तं च वृत्तिघ्ना मा भवन्त्विति ।
वृत्तिहारस्य न चास्ति निष्कृतिः कथिता क्वचित् ।।९४।।
तदारभ्य त्रिलोकेषु वृत्तिदानं प्रशस्यते ।
तस्माद् राजँस्तव पित्रूद्धारकं कर्म नास्ति वै ।।९५।।।
येनोद्धारो भवेत्तेषां हरेः सम्बन्धमन्तरा ।
हरेश्चापि सुसम्बन्धो व्रतेनैवोपजायते ।।९६।।
मोक्षदाया व्रतं मोक्षप्रदं प्रभावतो हरे ।
अगतीनां गतिः प्रोक्तं निष्कृतिर्वज्रपापिनाम् ।।९७।।
सर्वं च निर्जलं कार्यं पितृभ्यो दीयतां फलम् ।
मोक्षदैकादशीजन्यव्रतपुण्यैः प्रमोक्षणम् ।।९८।।
भविष्यतीति तत्सर्वं गृहीत्वा चाभिपूज्य च ।
सत्कृत्य साधून् विप्राँश्च गृहान् गन्तुं न्यवेदयत् ।।९९।।
मार्गशीर्षेऽथ सम्प्राप्ते सिते चैकादशी च या ।
राज्ञा चोपोषिता पूजा हरेर्विधानतः कृता ।। 1.239.१०० ।।
सर्वतोभद्रकं कृत्वा सैकादशीहरि च सः ।
पूजयामास विधिना ददौ दानानि भूरिशः ।। १० १।।
जागरणं च कृतवान् प्रातःस्नानादिकं तथा ।
कृत्वा च पुण्यमेवैतद् दत्वा पितृभ्य इत्यपि ।। १ ०२।।
पारणां कृतवान् वैश्वानरो राजा विधानतः ।
मोक्षदैकादशीपुण्यदानेन पितरस्तदा ।। १० ३।।
स्वपित्रा सहिताः सर्वे शीघ्रं वै मोक्षमाविशन् ।
पुण्ये दत्ते च पितॄणां मुक्तौ वैमानिकाः सुराः ।। १ ०४।।
चक्रुः कुसुमवृष्टिं च प्रोचुः पुण्या गिरस्तथा ।
स्वस्ति स्वस्ति च पुत्रस्ते वयं देवाः समागताः ।। १ ०५।।
एकादश्याः पुण्यदानात् पितरस्तारितास्त्वया ।
ते सर्वे मोक्षमापन्ना प्राहुर्वै पितरोऽपि ते ।। १०६।।
वयं मोक्षं समापन्नाः पुत्र ते कुशलं भवेत् ।
सुखी भव सदा सौख्यप्रदाता भव देहिनाम् ।। १ ०७।।
श्राद्धकर्ता यज्ञकर्ता देवानां पूजको भव ।
मातापितृप्रसेवादिकर्ता भव सदाऽनघ ।। १०८।।
दीर्घजीवी चास्तिकस्त्वं पत्नीव्रतपरो भव ।
देववृत्तिप्रदाता च ब्राह्मणानां प्रपूजकः ।। १० ९।।
सतां सेवा प्रकर्ता च साध्वीनां व्रतरक्षकः ।
गोभूरक्षाकरो नित्यं स्मृद्धः स्याः सर्वदा सुत ।। 1.239.११ ०।।
इत्येवमाशीर्वादैश्च संयुज्य पितरः सुराः ।
प्रशंसन्तो मोक्षदाया व्रतपुण्यप्रभावकम् ।। ११ १।।
गता यथामतं स्थानं ब्रुवन्तः स्वस्ति वै मुहुः ।
राजापि पापनाशेन मोक्षदायाः प्रभावतः ।। १ १२।।
महाभागवतो जातः सकुटुम्बः समास्तिकः ।
यज्ञयागकरो नित्यं विप्रसाधुप्रपूजकः ।। ११ ३।।
देवपूजाकरश्चैव धर्मवान् दोषवर्जितः ।
तस्याऽभूच्च महान् धार्मिर्वैष्णवो हुतभुक् सुतः ।। १ १४।।
राज्यं सुताय दत्त्वा सः परं मोक्षमवाप्तवान् ।
हुतभुक् चापि जठरे प्राणिनां देवतात्मकः ।। १ १५।।
महाँश्च वैष्णवो भूत्वा वह्निरूपेण तिष्ठति ।
मोक्षदाया व्रतैश्वर्यं बोध्यं तद्देवभावदम् ।। १ १६।।
एवं यः कुरुते लक्ष्मि मोक्षामेकादशीं शुभाम् ।
तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात् ।। १ १७।।
नातः परतरं किञ्चिद् वज्रपापविनाशकम् ।
मोक्षदं चाऽभवत् किंचिन्नारायणप्रभाववत् ।। १ १८।।
अस्या न पुण्यसंख्यास्ति प्रियं त्वेतद्व्रतं मम ।
चिन्तामणिसमा मोक्षप्रदा सा मे बहुप्रिया ।। १ १९।।
पठनाच्छ्रवणाच्चापि व्रततुल्यफलप्रदा ।
पुत्रस्मृद्धिप्रदा भुक्तिमुक्तिदा मम वल्लभा ।। 1.239.१२०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मार्गशीर्षशुक्लपक्षीयमोक्षदैकादशीव्रतविधाने वैश्वानर-
नृपतिवृत्तान्ततत्पित्रुद्धारादिनिरूपणनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २३९ ।।