सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३३

विकिस्रोतः तः
← अध्यायः २३२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३३
[[लेखकः :|]]
अध्यायः २३४ →

श्रीलक्ष्मीरुवाच-
नारायण महाविष्णो कृष्ण श्रीकमलापते ।
द्वारकामृत्तसंश्रावान्ममाऽऽनन्दः प्रजायते ।। १ ।।
कृतकृत्या कृता चाऽऽद्य कृपालुना त्वया प्रभो ।
त्रिस्पृशायास्तु माहात्म्यं स्वरूपं वापि मे वद ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! त्रिस्पृशायां माहात्म्यं कथयामि ते ।
यत्समं न व्रतं चान्यत् फलदं मोक्षदं तथा ।। ३ ।।
यत्फलं तु समाश्रुत्य मुच्यते कर्मबन्धनात् ।
मोक्षं याति व्रतादेशाद् व्रतात् हृष्यति माधवः ।। ४ ।।
तदहं ते प्रवक्ष्यामि सर्वसंकल्पपूरकम् ।
प्रत्यक्षमर्चितः कृष्णः कृतं येन व्रतं हि तत् ।। ५ ।।
त्रिस्पृशाया नामवक्ता पुरश्चरणपुण्यभाक् ।
न वेदैर्न पुराऽऽख्यानैर्न यज्ञैस्तीर्थराशिभिः ।। ६ ।।
अन्यैरसंख्यकृच्छ्रैश्च पूजितैर्देवतादिभिः ।
मुक्तिः स्यात्पद्मजे तस्य त्रिस्पृशा नार्जिता यदि ।। ७ ।।
ब्रह्मणाऽभिसमापृष्टश्चाहं संप्रोक्तवाँस्तदा ।
विषयार्त्तिजनव्राततारणाय महापथः ।। ८ ।।
त्रिस्पृशाव्रतमेवोक्तो नान्यः पन्थाः प्रमुक्तिदः ।
इन्द्रियवाजिमत्तानां स्थैर्यं न तपसा विना ।। ९ ।।
तपस्त्रिस्पर्शगा ह्येकादशी प्रोक्ता मया तदा ।
विषयाऽरण्यमग्नाश्च करिष्यन्ति यदि व्रतम् ।। 1.233.१ ०।।
त्रिस्पृशायास्तदा तेषां मुक्तिः शाश्वतकालिकी ।
सेयं मोक्षप्रदा कार्या कृता बहुसदुत्तमैः ।। १ १।।
कार्तिके शुक्लपक्षे सा यर्हि भवति योगतः ।
सोमयज्ञाऽयुतपुण्यप्रदा सा मुक्तिदोत्तरे ।। १२।
हत्याकोटिमहापापनाशयित्री महाबला ।
ब्रह्महत्यादिपापानि त्रिस्पृशाव्रतसंश्रयात् ।। १३।।
यान्ति प्रविलयं सद्यः पापेष्वन्येषु का कथा ।
न प्रयागे पुष्करे वा बदर्यां काशिकास्थले ।। १४।।
गोमत्यां नैव रेवायां रैवते नेन्द्रद्युम्नके ।
कुंकुमवाप्यां केदारे रामेश्वरे न माथुरे ।। १५।।
मुक्तिर्भवेन्महालक्ष्मि! त्रिस्पृशा यदि नो कृता ।
प्राणत्यागात्प्रयागे वा काश्यां कुशपुरे तथा ।। १६ ।।
गोमत्यां स्नानकरणात् या मुक्तिः शाश्वती मता ।
सा गृहे जायते मुक्तिस्त्रिस्पृशाया उपोषणात् ।। १७।।
अज्ञानां मुक्तिदा प्रोक्ता स्त्रीशूद्राणां विशेषतः ।
विज्ञानदा सदा पुण्या पवित्रा परमार्थदा ।। १८।।
कल्याणजननी सद्यो धर्मार्थकाममोक्षदा ।
जीवनी विष्णुभक्तानां नारीणां तु विशेषतः ।। १९।।
सर्वेषां पावनी पुण्या जननी वेदमातृवत् ।
पावनी कमलातुल्या रक्षिका रमया समा ।।1.233.२०।।
सांख्ययोगफलाधिक्यफलव्याप्तफलप्रदा ।
तीर्थकोटिशतैर्युक्ता जाह्नवीं स्नानकाम्यया ।।२१ ।।
गोमत्यां याति कृष्णस्य सन्निधौ शुद्धिहेतवे ।
तीर्थकोटिसहस्राणि तिष्ठन्ति गोमती स्थले ।।२२।।
सापि व्रतं त्रिस्पृशायाः करोति पापशुद्धये ।
ब्रह्महत्या सुरापानं गोवधः प्रमदावधः ।।२३ ।।
ब्रह्मदेवस्वहरणं मातापित्रोश्च ताडनम् ।
गुरुद्रोहो हरेद्रोहस्तथा चाऽभक्ष्यभक्षणम् ।।२४।।
अगम्यागमनं हिंस्त निन्दनं च सतां सदा ।
अन्यानि क्रूरकर्माणि यानि पापानि चाप्यथ ।।२५।।
व्यपोहत्येव सा लक्ष्मि त्रिस्पृशा पावनोत्तमा ।
सरस्वत्यधिका या वै तीर्थाऽर्बुदाऽतिपूजिता ।।।२६।।
कोटियज्ञाधिका होमदानपुण्याधिका च या ।
जपकोट्यधिका पुण्या पुरुषार्थाऽधिका तथा ।।।२७।।।
सांख्ययोगाधिका चात्मज्ञानमूर्धन्यपूजिता ।
त्रिस्पृशा व्रतरूपा वै कार्या मोक्षप्रदायिनी ।।२८।।-
एकादशी सूर्ययोगे पश्चाच्च द्वादशी तथा ।
त्रयोदशी निशाशेषे त्रिस्पृशैकादशी तु सा ।। २९।।
अरुणोदयवेलायां सूर्योदयस्य प्राग् यदि ।
दशमी वर्तते चेत् स दशमीवेध उच्यते ।।1.233.३ ०।।
दशमीवेधजं दोषं न क्षमामि मम प्रिये । ।
दशमीवेधसहिता न ह्यपोष्या क्वचिद्धि सा ।।३ १।।
यथा रजस्वलादोषाद् दुष्यत्यपि च तत्पतिः ।
तथैव दशमीविद्धैकादशी दोषदायिनी ।।३२।।
दशम्येकादशी भद्रा दिनैक्ये तु यदा भवेत् ।
तदापि त्रिस्पृशा सा त्वासुरी वर्ज्या प्रयत्नतः ।।३३।।
दशमीमिश्रितं येन कृतं चैकादशीव्रतम् ।
भुक्तं हालाहलं तेन कृतं पापं न तद्व्रतम् ।।३४।।
जन्मकोटिकृतं पुण्यं सन्तानं याति संक्षयम् ।
पतति स्वकुलं स्वर्गाद् याति वै रौरवं ततः ।।३५।।
तस्माद् वै दशमीयुक्तं मद्दिनं वर्ज्यमेव यत् ।
वृद्धौ त्याज्या वेधवती कर्तव्या द्वादशीयुता ।।३६।।
मोहिन्यै दशमीवेधे वासो दत्तोऽस्ति वेधसा ।
महत्पापं ततो बोध्यं दशमीवेधयुग्वते ।।३७।।
वृद्धौ क्षये च वा तद्वत् सन्देहे समुपस्थिते ।
ममाऽऽज्ञया सदा कार्या द्वादशी वल्लभा मम ।।३८।।
शृणु लक्ष्मि! प्रवक्ष्यामि त्रिस्पृशाव्रतसद्विधिः ।
पलेन वा पलार्धेन तदर्धेनापि पद्मजे ।। ३९।।
प्रतिमा मम सौवर्णी कारणीया यथावसु ।
ताम्रपात्रे तिलपूर्णे घटो रत्नजलादियुक् ।।1.233.४०।।
पत्रपुष्पश्वेतवस्त्रकर्पूरादियुतस्तथा ।
स्थाप्यो वै सर्वतोभद्रमण्डले धान्यनिर्मिते ।।४१।।
घटे स्थाल्यां काञ्चनी सा मूर्तिः स्थाप्या मम प्रिये ।
लक्ष्मीः स्थाप्या मम पार्श्वे ततः पूजां समाचरेत् ।।।४२।।
आवाहनं चासनं च पाद्यं चार्घ्यं समर्पयेत् ।
तत आचमनीयं च जलस्नानं समर्पयेत् ।।।४३।।।
दुग्धस्नानं दधिस्नानं घृतस्नानं तदुत्तरम् ।
कारयेच्छर्करास्नानं मधुस्नानं समर्पयेत् ।।।४४।।
अभिषेकं जलैस्तैर्थैः कारयेन्मार्जयेत् पटैः ।
धौत्रं च शाटिकां चांगरक्षकं कंचुकीं तथा ।।।४५।।
उत्तरीयं तथा शाटीं यज्ञोपवीतमित्यपि ।
दद्यान्मंगलसूत्रं च कौस्तुभं तन्तिकामपि ।।४६।।
केशप्रसाधनं कुर्यात् तैलपुष्पादि धारयेत् ।
कबरीं साधयेत् चूडां गन्धयेद् ग्रन्थयेत्तथा ।।४७।।
कज्जलं नेत्रयोर्दद्याद् भाले पुण्ड्रं सचन्द्रकम् ।
चन्दनं कस्तुरीयुक्तं कर्पूराढ्यं समर्चयेत् ।।४८।।
नासानत्थीं चिबुकं च टिबकीं गण्डकेऽर्पयेत् ।
कुण्डले चैरने कर्णभूषणे शृंखले तथा ।।४९।।
सिन्दूरं कुंकुमं दद्यादोष्ठयोः रंगरंजनम् ।
कुर्याद् दद्यात् तुलस्याश्च हारान्पौष्पान्सुगुच्छकान् ।।1.233.५० ।।
स्वर्णरत्नमणिहारान् शृंखलाः कटकाँस्तथा ।
ऊर्मिका रशनां दद्यात् किंकिण्याढ्यसुनूपुरान् ।।५१।।
पादुके नक्तके यष्ट्यौ दद्यादत्तरकेसरान् ।
मुकुटं शेखरान् कर्णपूरान् संधारयेत्तथा ।।५२।।
व्यजनं पादुके दद्याद् राजयोग्यस्वलंकृतीन् ।
तुलसीमालिके दद्याल्लक्ष्मीनारायणाय मे ।।५३।।
गुलालाऽबीररक्तनि चाऽक्षतान् कुसुमानि च ।
धूपं दीपं च नैवेद्यं दद्यात् श्रीविष्णवे जनः ।।५४।।
नैवेद्यानि मनोज्ञानि मिष्टान्नानि बहून्यपि ।
फलानि सुमधुराणि दद्याद्वै शीतलं जलम् ।।५५।।
सुगन्धं शान्तिदं चेष्टं जलपानं समर्पयेत् ।
ताम्बूलं बहुद्रव्याढ्यं दद्यान्मुखस्य शुद्धये ।।५६।।
दद्याच्च मुद्रिकां स्वर्णां दक्षिणां केशवाय वै ।
तद्यत्त्वपेक्षितं तत्र पूजायां तत् समर्पयेत् ।।५७।।
नीराजनं नवाऽऽवत्तं पञ्चवर्तिप्रकाशितम् ।
कुर्यात् ततः शुभ्रवस्त्रामार्जनं त्रिः पुनः पुनः ।।५८।।
आननाग्रे ततः कुर्याच्छंखभ्रामणमित्यथ ।
जलं त्वार्द्राम्बरं मूर्ध्न उत्तारयेत् सुभावतः ।।।५९।।
दण्डवच्च स्तुतिं कुर्यात् प्रदक्षिणं पुनः पुनः ।
नमस्कारान् बहून् कुर्यात् क्षमायाचनमित्यपि ।।1.233.६० ।।
पुष्पाञ्जलिं विकीर्यैव प्रार्थयेत्परमेश्वरम् ।
नेत्रे सम्मील्य तन्मूर्तिं ध्यायेत् तिष्ठँस्तदग्रतः ।।।६ १ ।।
दामोदराय वै पादौ जानुनी माधवाय च ।
गुह्यं कामस्वरूपाय कटिं वामनमूर्तये ।।६२।।
पद्मनाभाय नाभिं वै जठरं विश्वहेतवे ।
हृदयं ज्ञानदेहाय कण्ठं वैकुण्ठवासिने ।।६३।।
सहस्रबाहवे बाहू चक्षुषी योगमूर्तये ।
सहस्रशीर्षा शिरसि सर्वांगं स्वामिने तथा ।।६४।।
ध्यायामि व्यस्तरूपं वै समस्तं चान्तरे मम ।
ध्यानगम्यो महाराज! पापं नाशयसि द्रुतम् ।।६५।।
स्मृतो हरसि पापानि दुःस्वप्नं दुर्विचिन्तितम् ।
दुर्निमित्तं भयं याम्यं दुःखं दुर्गतिसंभवम् ।।६६।।
अन्यच्च यद्भवेद् दैह्यं चैहिकं पारलौकिकम् ।
रक्ष तस्माच्च सर्वस्मादपराधाच्च दुःखदात् ।।६७।।
सदा भक्तिस्त्वयि चास्तु लक्ष्मीनारायण प्रभो! ।
देहि त्वच्चरणे दास्यं नय वैकुण्ठमेव माम् ।।६८।।
त्रिस्पृशायाः स्वयं धाता स्वामी नारायणः पतिः ।
भवानेव हरिर्मह्यं मोक्षं ददातु माधवः ।।६ ९।।
इति स्तुत्वा ततो नृत्यं गीतवादित्रसंयुतम् ।
सुस्वरं सुसमदृश्यं कुर्याद् देवस्य सन्निधौ ।।1.233.७०।।
एवं प्रातः प्रभुं कृष्णं पूजयित्वा सुवर्णजाम् ।
मूर्तिमेकादशीरूपां लक्ष्मीरूपां विधानतः ।।७१।।
नमस्कृत्य ततो गच्छेत् कथायां सत्समागमे ।
कीर्तनेन तथा भक्त्या भजनेन जपेन च ।।७२।।
श्रवणेन स्मरणेन सेवनेनापि सर्वथा ।
अर्चनेनाऽथवा सम्यग्वन्दनेन दिनं नयेत् ।।७३।।
निराहारो जलाहारो नक्तभुक् चैकभोजनः ।
शक्तोऽशक्तो व्रतं कुर्यात् स्वेष्टसम्पत्फलप्रदम् ।।७४।।
मध्याह्नसमये दद्यात् ताम्बूलं भोजनं फलम् ।
जलं दद्यात्तथा शय्यां मञ्चगेन्दुकपार्श्वकाम् ।।७५।।
सायं जलं पुनर्दद्यादारार्त्रिकं विधानतः ।
पूजनं षोडशवस्तुवर्यैः कुर्याच्च भावतः ।।७६ ।।
एवं गुरुं च सम्पूज्य कुर्याज्जागरणं निशि ।
गीतनृत्यसमाचारकीर्तनाद्यभिसंयुतम् ।।७७।।
ततो निशान्ते हरये दत्त्वा चार्घं विधानतः ।
स्नानादिकां क्रियां कृत्वा साधून् विप्रान् सुभोजयेत् ।।७८ ।।
साध्वीश्च भोजयेद् बालान् दद्याद्दानानि दक्षिणाः ।
एवं च द्वादशीभागे त्रयोदश्यामथापि वा ।। ७९।।
पारणार्थं प्रसादं वै भुंजीत भक्तसंयुतः ।
मण्डलं सर्वतोभद्रं घटं चापि हरिं तथा ।।1.233.८० ।।
विसर्जयेद् विधानेन फलं मोक्षमवाप्नुयात् ।
त्रिस्पृशाया व्रताख्यानं श्रुत्वाऽस्य तत्फलं मिलेत् ।।८ १।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कृतान्येव कृतं येन त्रिस्पृशासमुपोषणम् ।।।८२।।
त्रिस्पृशाव्रतकृदष्टोत्तरं शतं कुलानि वै ।
मातापितृप्रपक्षाणि तारयत्येव सर्वथा ।।८३।।
तैः सर्वैः सह संयुक्तो विष्णुलोके महीयते ।
तीर्थकोटिक्षेत्रकोटिफलभाक् त्रिस्पृशाव्रती ।।८४।।
नरा नार्यः सर्ववर्णा मुक्तिमायान्ति तद्व्रताः ।
ब्रह्मणा सा कृता पूर्वं पश्चान्महर्षिभिः कृता ।।८५।।
सेयं कार्या सदा भक्तैः सकामैः कामवर्जितैः ।
गंगावगाहने वर्षकोटिभिर्यत्फलं भवेत् ।।८६।।
ततोऽप्यधिकं सत्पुण्यं त्रिस्पृशाव्रतिनो भवेत् ।
यत्फलं कुरुक्षेत्रे स्यात्सूर्यग्रहणकोटिभिः ।।८७।।
हेमभारशतदाने प्रत्यहं तत्र यत् फलम् ।
कोटिगोदानजं पुण्यं त्रिस्पृशाव्रतिनो भवेत् ।।८८।।
पापकोटिसहस्राणि हत्याकोटिशतानि च ।
विनश्यन्त्युपवासेनैकादश्यास्त्रिस्पृशेर्व्रते ।।८९।।
प्रकाशयति यश्चेदं व्रतं सोऽप्यर्जयेत् फलम् ।
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ।।1.233.९०।।
पितरोऽज्ञातकर्माणः प्रेतत्वं ये गता अपि ।
कुलजस्त्रिस्पृशां कृत्वा तारयेत्तानधोगतान् ।।९१।।
किमु वक्तव्यमेवाऽत्र त्रिस्पृशा मुक्तिदायिनी ।
सम्पत्प्रदायिनी चात्र परत्र मोक्षदा हि सा ।।९२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने त्रिस्पृशैकादशीव्रतफलपूजनादिकथननामा त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ।।२३३।।