लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३२
[[लेखकः :|]]
अध्यायः २३३ →

श्रीनारायण उवाच-
विशेषेण महालक्ष्मि! सिंहराशिस्थिते गुरौ ।
द्वारकातीर्थकर्तॄणां दह्यन्ति पापराशयः ।। १ ।।
प्रतिवर्षं प्रकुर्वन्ति द्वारकागमनं तु ये ।
तेषां पादरजः स्पृष्ट्वा मुक्तिं प्रयान्ति मानवाः ।। २ ।।
दिलीपेन वशिष्ठाय पृष्ठं पूर्वं वदामि तत् ।
अन्यक्षेत्रे कृतं पापं नश्यति तीर्थसेवनात् ।। ३ ।।
तीर्थक्षेत्रजपापानां वज्रलेपत्वमुच्यते ।
वज्रलेपायतोऽघस्य क्वाऽप्यस्ति मोक्षणं न वा! ।। ४ ।।
यत्र पापप्ररोहो न तत्क्षेत्रं कथ्यतां मुने! ।
श्रुत्वा तद् दिव्यचक्षुष्को वशिष्ठः प्राह भूपतिम् ।। ५ ।।
मायानन्दो यतिः कश्चिद् त्रिदण्डी काशिकास्थितः ।
युवत्यां खलु मातंग्यां सुरूपायां विमोहितः ।। ६ ।।
राजसेन च भावेन चाकृष्टो मद्यमांसकम् ।
युयुजे भोजने कामगर्वेण मतिमोहितः ।। ७ ।।
चाण्डालतां वहन् रात्रौ चौर्यं करोति लोभतः ।
पापानि वर्धितान्यस्य मातंग्याः संगतेर्मुहुः ।। ८ ।।
काश्यां कालवशात्सोऽपि मृतस्तिर्यग्वृकोऽभवत् ।
ततो व्याघ्रो मर्कटः श्वा शृगालः शूकरोऽभवत् ।। ९ ।।
पापं जन्मसहस्रैस्तन्नाऽनश्यदथ चोषरे ।
निर्जने राक्षसो जातिस्मरोऽभूत्काशिकाबलात् ।। 1.232.१ ०।।
अटन्नरण्यशैलाँश्च विन्ध्याद्रिं प्राप राक्षसः ।
तत्राऽभूत् तस्य साश्चर्यं मोक्षणं पापयोनितः ।। ११ ।।
द्वारावत्यां महायात्रां कृत्वा च कृष्णदर्शनम् ।
स्नात्वा च गोमतीनीरे पीत्वा कृष्णामृतं जलम् ।। १२।।
कश्चिद् विप्रो गयावासी गच्छन् गृहं पथि स्थितः ।
विन्ध्याद्रौ वृक्षसुस्तम्बे विश्रान्त्यर्थं क्षणं सदा । । १३ ।।
तमूर्ध्वतिलकं विप्रं भक्तं तुलसीमालिकम् ।
गोमतीनीरसंपूतं तत्र ददर्श राक्षसः ।। १४।।
तस्य दर्शनमात्रेण वज्रलेपोऽघसञ्चयः ।
भाविदुःखप्रदोऽप्यस्य भस्मसादभवत् क्षणात् ।। १५।।
रेजे पुण्यप्रकाशेन कृष्णपान्थिकदर्शनात् ।
ततोऽभिमुखमभ्येत्य द्वारकाकृष्णपान्थिकम् ।। १६।।
नत्वा स्तुत्वा च तं प्राह तवाऽद्य दर्शनान्मम ।
वज्रलेपोऽघसंभारो दग्धो मुक्तोऽस्मि सर्वथा ।। १७। ।
ततः पान्थोऽव्रजत् स्वस्य गृहं चाप्यथ राक्षसः ।
सम्प्राप्तो द्वारकां तत्र ज्ञात्वा तीर्थबलं महत्। ।। १८।।
गोमत्यां स्वतनुं त्यक्त्वा प्राप्तश्च वैष्णवं पदम् ।
न प्ररोहन्ति पापानि यस्या यात्रालुदर्शनात् । । १९।।
द्वारावत्यास्तदा साक्षाद् योगे वाच्यं नु किं फलम् ।
वज्रलेपाऽतिलेपानां पापानां दाहकं महत् । ।1.232.२०।।।
सर्वक्षेत्रप्रमूर्धन्यं क्षेत्रं गोलोकजं परम् ।
द्वारकाक्षेत्रमेवास्ति कृष्णेन स्थापितं भुवि ।। २१ । ।
श्रुत्वा चापि दिलीपोपि तीर्थार्थं द्वारकां ययौ ।
कृष्णं च गोमतीं दृष्ट्वा परां सिद्धिमुपाययौ । ।२२।
द्वारकायां स्थिताश्चतुर्भुजाः नराश्च योषितः ।
गोलोकस्था भवन्त्येव तान्पश्यन्ति दिवौकसः । ।२३ ।।
अपि कीटपतंगाद्या जडाश्च स्थावरास्तथा ।
द्वारकावासमापन्ना दिव्या गोलोकमूर्तयः । ।२४। ।
गतिर्द्वारवतीस्थानां दुर्लभा चोर्ध्वरेतसाम् ।
द्वारकायां हुतं जप्तं दत्तं स्नातं तपः कृतम् ।।२५ । ।
सर्वं कोटिगुणं लक्ष्मि! ह्यनन्तं कृष्णसन्निधौ ।
द्वारकायां स्थिताः सर्वे नरा नार्यश्चतुर्भुजाः ।।२६ ।।
द्वारकायां न वै पापं प्ररोहति हरेर्बलात् ।
सुपुण्याः पांसवो यस्याः पापिनां मुक्तिकारकाः ।।२७।।
कुशावर्तात् समारभ्य यावच्च सागरान्विता ।
गोमती भवति तत्र सिंहराशिगते गुरौ । ।२८।।
स्नानं तु द्विषष्टिगोदावरीस्नानाधिकं फलेत् ।
द्वारकां गोमतीं गोपीसरः श्रींकृष्णमेव च ।।२९।।
स्मरन्ति प्रत्यहं ये तु सहस्रयोजनस्थिताः ।
तेऽपि द्वारावतीतीर्थपूर्णफलप्रभागिनः । ।1.232.३०।।
मित्रधुग्भ्रातृहा गोघ्नः परदाररतश्च यः ।
मातृहा पितृहाभ्रूणब्रह्महा गुरुतल्पगः ।।।३ १ ।।
सर्वपापैः प्रमुच्यन्ते द्वारकाकृष्णदर्शनात् ।
विशेषेण तु वैशाख्यां जयन्त्यां विष्णुवासरे ।।३२।।
माघे च फाल्गुने चैव चैत्रे चापि विशेषतः ।
पौर्णमास्याममायां चैकादश्यां संगमे तथा ।।३३।।
द्वादश्यां च प्रतिपक्षं रोहिण्यां श्रवणे तथा ।
पुष्ये पुनर्वसौ चैव व्यतीपाते दिनक्षये ।।३४।।
सपुष्यतिथिनक्षत्रे ग्रहणे चन्द्रसूर्ययोः ।
श्रीकृष्णदर्शनं द्वारावत्यामनन्तपुण्यदम् ।।३५।।
यस्यां सत्रं प्रपां सौधं प्रासादं मठमेव वा ।
यतिसाधुवासशालां साध्वीशालां च मन्दिरम् ।।३६।।
वापीं कूपं तडागं च जीर्णोद्धारं च जीविकाम् ।
मूर्तेर्विष्णोः प्रतिष्ठां च राजभोगादिकं तथा ।। ३७।।
कारयित्वा नरो नारी भुक्त्वा भोगान् दिवि स्थितान्।
वैराजान् वैकुण्ठभोगान् प्राप्नुयात् कृष्णसाम्यताम् ।।३८।।
स्थापयेद् द्वारवत्यां यो मूर्तिं दारुशिलामयीम् ।
सार्वभौमत्वमाप्त्वैव श्रीविष्णोः साम्यतां व्रजेत् ।।३९।।
द्वारिकातीर्थसंयाताः कुलमेकोत्तरं शतम् ।
तारयन्त्येव गोत्राणां सप्तानां कृष्णयोगतः ।।1.232.४०।।
एकैकस्मिन्पदे दत्ते पुरीं द्वारावतीं प्रति ।
पुण्यं क्रतुसहस्राणां कलौ भवति देहिनाम् ।।४१। ।
पाषाणश्चक्रचिह्नोऽपि दृष्टो येन स मुक्तिभाग् ।
सुदर्शनश्चैकचक्रो लक्ष्मीनारायणावुभौ ।।४२।।
त्रिभिश्चैवाऽच्युतश्चैन्द्रश्चतुःचक्रो जनार्दनः ।
पञ्चभिर्वासुदेवः सः षड्भिः प्रद्युम्न एव सः ।।४३।।
सप्तभिर्बलदेवः स चाष्टभिः पुरुषोत्तमः ।
सर्वात्मा नवचक्रश्च दशचक्रो दशप्रभुः ।।४४।।
एकादशैर्महाविष्णुद्वादशात्मा तु मोक्षदः ।
अतऊर्ध्वमनन्तोऽसौ भुक्तिमुक्तिप्रदायकः ।।४५।।
वृषोत्सर्गे प्रकुर्वन्ति वैशाख्यां चैव कार्तिके ।
द्वारकायां पिशाचत्वं मुक्त्वा मुक्ताः पितामहाः ।।४६।।
कुलकोटिसहस्राणि कुलकोटिशतानि च ।
वसन्ति तत्पदं विष्णोस्त्रिस्पृशाकृष्णदर्शनात् ।।४७।।
सुकर्मस्था विकर्मस्था यान्ति श्रीकृष्णमन्दिरे ।
सप्तषष्टिषु तीर्थेषु स्नानात् किं वै मम प्रिये ।।४८।।
सम्प्राप्ते मानुषे देहे द्वारकां न गतो यदि ।
द्वारकास्था जना दिव्याः शोचन्त्येनं वृथाजनिम् ।।४९।।
इति ते कथितं लक्ष्मि! मम क्षेत्रस्य सर्वथा ।
माहात्म्यं श्रवणाद् यस्य मुक्तिः करगता मता ।।1.232.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारकामाहात्म्ये काशीस्थमायानन्दयतेर्वज्रलेपपापनाशकद्वारकायात्रालुमहिमकथनादिनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ।।२३२।।