लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३१
[[लेखकः :|]]
अध्यायः २३२ →

श्रीनारायण उवाच -
शृणु लक्ष्मि! सिंहराशिगते बृहस्पतौ मुनिः ।
नारदो गौतमाश्रमं ययौ गोदावरीतटे ।। १ ।।
एकवर्षमुवासात्र दृष्ट्वाऽऽयातानि सर्वशः ।
तीर्थानि पावनान्येव वर्षकालं स्थितानि हि ।। २ ।।
वाराणसी कुरुक्षेत्रं मधुपुरी ह्यवन्तिका ।
माया कांची च साकेता गया कुंकुमवापिका । । ३ ।।
तिस्रो गया हरिहरक्षेत्रं च पुरुषोत्तमा ।
प्रभासादीन्यरण्यान्याश्रमा गंगा सरस्वती ।। ४ ।।
तापी पयोष्णी सरयू भीमरथी च गण्डकी ।
कृष्णा स्वर्णा च कावेरी सरांसि झरणा यमी । । ५ ।।
चतुर्दशसु लोकेषु भवन्ति यानि तानि वै ।
गिरयो भूस्तरा द्विपाः स्थिता गोदावरीतटे । । ६ ।।
सिंहे बृहस्पतौ तत्र वर्षमेकं प्रहर्षिताः ।
सिन्धवः पुष्कराद्याश्च मर्यादापर्वतास्तथा ।। ७ । ।
प्रयागं वेदशास्त्राणि सिद्धर्षिमुनिदेवताः ।
पितरोद्युसुराश्चापि भूसुरा योगिसाधवः ।। ८ । ।
साध्व्यो देव्यश्च देवाश्च वर्षमूषुः प्रहर्षिताः ।
गौतमो नारदो वीक्ष्य तान्यवसन् महर्षयः । । ९ । ।
क्षालायित्वा स्वपापानि तैर्थिकैरर्पितानि वै ।
गौतम्यां च ततो गन्तुमुद्युक्तानि तु तानि वै ।। 1.231.१०।।
तीर्थान्यासन् तदा गोदावरी नारदमब्रवीत् ।
एतानि सर्वतीर्थानि मत्प्रसंगेन नारद ।। १ १।।
निष्पापानि प्रजातानि पापानि प्रददुश्च मे ।
मया तत्पापभारं क्व क्षेप्तुं गन्तव्यमेव यत् ।। १२।।
अधुनाऽहं दह्यमाना तत्तत्पापाग्निभिः प्रभो ।
क्व यामि भो मुनेऽत्यर्थं दुःखिता किं करोम्यनु ।। १३।।
श्रुत्वा तन्नारदो ध्यात्वा क्षणं मौनं समास्थितः ।
तावच्च गौतमो योगी तत्रायातो मुनीश्वरः ।। १४।।
तीर्थान्याहुर्मुनिं तत्र त्वत्प्रसादेन गौतमी ।
भूतले यत्समायाता तथा वै पाविता वयम् ।। १५।।
तथा त्वस्मत्प्रपापानि गोदावर्याऽर्जितानि वै ।
पापमुक्ता जायते सा तत्तु गौतम चिन्त्यताम् ।। १६।।
गौतमोऽचिन्तयत् तादृक् तीर्थं पापविनाशकम् ।
तथापि तस्य प्रज्ञायां न भातं बलवत्तदा ।। १७।।
मौनमास्थाय श्रीकृष्णं चिन्तयामास गौतमः ।
तावदाकाशवाग्देवी हर्षयन्ती जगाद ताम् ।। १८।।
शृण्वन्तु तीर्थमुन्याद्याः कृपया संवदाम्यहम् ।
पश्चिमस्य समुद्रस्य तीरमाश्रित्य वर्तते ।। १९।।
द्वारकाक्षेत्रवर्यं च यत्रास्ते गोमती शुभा ।
पश्चिमाभिमुखो यत्र महाविष्णुः सदा स्थितः ।।1.231.२०।।
तत्सर्वं पापराशीनामुग्राणामपि दाहकम् ।
तद् गम्यतां च गौतम्याः पापदाहाय देवताः ।। २१ ।।
श्रुत्वा सर्वोत्तमं क्षेत्रं जगर्जुस्तीर्थदेवताः ।
जितं भो जितमस्माभिर्धन्या धन्यतमा वयम् ।। २२।।
इत्युक्त्वा निर्ययुः सर्वे द्वारकां कृष्णपालिताम् ।
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ।।२३।।
दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं तथा ।
द्वारकादर्शनं पुण्यं चास्माकं संभविष्यति ।। २४।।
नारदो गौतमो गोदावरी तीर्थानि देवताः ।
सर्वे चाभ्याययुर्द्वारावतीसीमान्तमादरात् ।। २५।।
पृष्ठवन्तो नारदं च मुदा तीर्थविधिं च ते ।
प्राह वै नारदस्ताँश्च विधिं च जानाति यादृशम् ।।२६।।
कृतस्नानस्तु गोमत्यां ततः सम्पूज्य गोमतीम् ।
कृष्णस्य दर्शनं कुर्यात् साधून् विप्रान् प्रभोजयेत् ।। १७।।
कृष्णप्रसादं संभुज्य शयीत भुवि तीर्थकृत् ।
प्रभाते च पुनः स्नात्वा सम्पूज्य परमेश्वरम् ।। २८।।
प्रदक्षिणं नमस्कृत्वा सद्गुरुम् प्रणिपत्य च ।
गीतं च कीर्तनं कुर्यात् भजनं श्रीहरेस्तथा ।। २९ ।।
ब्रह्मचर्यं प्ररक्षेच्च नियम्येतेन्द्रियाणि च ।
देवानां च सतां पादसंवाहनमथाऽऽचरेत् । । 1.231.३० । ।
दर्शनं पूजनं कुर्यान् दानं दद्याच्च शक्तितः ।
अपि स्वल्पं यथाशक्ति कृतं कोटिगुणं भवेत्। । । ३१ । ।
एकग्रासस्य दानस्य यावद्भूदानजं फलम् ।
एकस्मिन् भोजिते साधौ राजसूयाऽयुतं फलम् । । ३२। ।
उपानदन्नपानीयपादुकाछत्रकम्बलान् ।
वासांसि तोयपात्राणि दद्यात् कृष्णाय तुष्टये । । ३३ ।।
यस्य हस्तौ च पादौ च मनो जिह्वा जनीन्द्रियम् ।
संयतानि भवेत्तस्य तीर्थपुण्यमनन्तकम् ।। ३४। ।
परान्नं परपाकं च परवस्तु विवर्जयेत् ।
श्रोतव्या सत्कथा विष्णोर्जप्तव्यं नाम वै हरेः । । ३५ ।।
उत्सवश्च प्रकर्तव्यो गीतवादित्रनिःस्वनैः ।
आरार्त्रिकं फलं चापि नैवेद्यं चार्पयेत्तथा ।। ३६ ।।
षोडशवस्तुभिः कृष्णपूजनं कारयेत्तथा ।
न शक्यते फलं तस्य वक्तुं वै युगसंख्यया ।। ३७।।
एवं ते नारदेनोक्तास्तीर्थदेवमहर्षयः ।
चक्रुस्तीर्थे यथोक्तं तत्सर्वं भक्तिसमन्वितम् । । ३८ ।।
शृण्वन्ति तत्कथाः केचिद् वर्णयन्ति गुणान्तरे ।
गायन्ति च यशः केचित्स्मरन्ति श्रीहरिं परे । । ३९ ।।
केचिज्जपन्ति तन्नाम केचित् कुर्वन्ति दर्शनम् ।
उत्सवैश्च व्रजन्त्यन्ये नृत्यन्ति चापरे तदा । ।1.231.४० ।।
केचिद् गर्जन्ति युगपज्जयशब्दं हरेर्मुहुः ।
गृहं हरेर्मार्जयन्ति रटन्ति वैष्णवं मनुम् । । ४१ । ।
प्रेममग्नाः प्रहसन्ति स्पृशन्ति साधुपत्कजम् ।
कुर्वन्ति गुणगानं मिलिता पथि सर्वथा ।। ४२। ।
मण्डलीभूय तीर्थानि कुर्वन्ति तैर्थिकं विधिम् ।
तान् दृष्ट्वा ब्रह्महाः शुद्धये सत्यं सत्यं वदामि ते । । ४३ ।।
एते वै वैष्णवाः सर्वे नरनारी स्वरूपिणः ।
प्रयागादीनि तीर्थानि क्षेत्राणि शैलसागराः । । ४४।।
नररूपधराः सर्वे संघं कृत्वा प्रयान्ति वै ।
गंगाद्याः सरितो देव्यो नारी रूपैर्ययुस्तदा । । ४५ । ।
कुंकुमवापिका स्वस्यास्तीर्थान्यादाय संययौ ।
चतुर्दशस्तरस्थानां संघो दिव्यो ह्यभूत्तदा ।।४६ ।।
वादनं कीर्तनं संघे सर्वे कुर्वन्ति वै तदा ।
द्वारिकाया महायात्रा कृता संघेन वै तदा ।। ४७।।
गोमत्यां च कृतं स्नानं कृष्णस्य दर्शनं कृतम् ।
यात्राविधिः कृतः सर्वः पापं सर्वं विनाशितम् ।।४८।।
गोदावरी संघयुक्ता चातिशुद्धाऽभवत्तदा ।
तत्कालीनं रजस्तेषां पथि वै गच्छतां च यत् ।
स्पृष्टं स्यादश्वमेधानां पुण्यदं वर्णयामि किम् ।।४९।।
एकैकस्मिन्पदे दत्ते द्वारकापथि गच्छताम् ।
पुण्यं क्रतुसहस्राणां प्रत्येकरजसा भवेत् ।।1.231.५०।।
नारद प्राह सर्वांस्तान् दिव्याँस्तैर्थिकसंघगान् ।
राशयः पुण्यपुञ्जानां युष्माकं वै सहस्रशः ।।५१।।
यैः कृतं गोमतीतीर्थं दर्शनं श्रीहरेस्तथा ।
यूयं सर्वाणि तीर्थानि क्षेत्राण्यपि च कृत्स्नशः ।।।५२।।
धन्यान्यत्र भवद्भिश्च दृष्टा कृष्णपुरी यतः ।
इमां पश्यति तीर्थानि! यूयं सर्वाः सरिद्वराः! ।।५३।।
द्वारका नश्च पापानां हन्त्री तीर्थोत्तमोत्तमा ।
ब्रह्माण्डस्य कीर्तिकरी द्वारका कृष्णवल्लभा ।।५४।।
गोमती कृष्णदेवश्च रुक्मिणी च हरिप्रिया ।
गोलोकसदृशी चेयं राजते सर्वतोऽधिका ।।५५।।
भू वैकुण्ठमिति बोध्या वैकुण्ठप्रतिमा न्वियम् ।
नारदेन प्रशंसायां वर्णितायां तदा स्वयम् ।।५६।।
द्वारका गोमती मूर्तिमती स्वागतकांक्षया ।
समागता तदा देवैस्तीर्थैश्चापि नमस्कृता ।।५७।।
नारदश्च तदा प्राह द्वारकां गोमतीं तथा ।
नमस्कुर्वन्ति ते पादौ गौतमी च प्रयागराट् ।।।९८।।
गंगा च नर्मदा सूर्यपुत्री प्राची सरस्वती ।
चन्द्रभागा च सरयूः क्षिप्रा कुंकुमवापिका ।।५९।।
सिन्धुः शोणा गण्डकी च विपाशा तपती तथा ।
कृष्णा भीमरथी स्वर्णा पयोष्णी त्वां नमन्ति वै ।।1.231.६०।।
इयं वाराणसी ते वै पादयोर्नमति ध्रुवम् ।
कुरुक्षेत्रं मथुरा चावन्तिका त्वां नमन्ति वै ।।६ १ ।।
मायाऽयोध्या गया कांची विशाला त्वां नमन्ति च ।
शालग्रामं महाक्षेत्रं प्रभासं पुरुषोत्तमम् ।।६ २।।
सप्ताब्धयो धेनुकं च दशारण्यं च दण्डकम् ।
अर्बुदं च कुरुक्षेत्रं धर्मारण्यं च कालकम् ।।६३ ।।
नारायणसरश्चापि पुष्करं गोकुलं तथा ।
मानसं मेरुकैलासौ मन्दरो हिमवाँस्तथा ।।६४।।
विन्ध्यो नमन्ति ते पादौ द्वारिके! कृष्णसेविते! ।
वदतो नारदस्यैवं द्वारका हृष्टमानसा ।।६५ ।।
उवाच ललितां वाचं करैः संस्मृत्य गोमतीम् ।
यूयं धन्याः समायाता मम् लाभो महानयम् ।।६६।।
सर्वेषां स्वागतं कुर्वे भुञ्जन्तां कृष्णभोजनम् ।
पिबत कृष्णचरणाऽमृतं तिष्ठत चात्र वै ।।६७।।
कृष्णयोगान्मम स्पर्शात् पापानि भवतां खलु ।
प्रज्वलितानि सर्वाणि कृपया श्रीहरेर्हि वः ।।६८।।
इति स्वागतसंलापैः सर्वानानन्दयत्तदा ।
अदृश्यन्त च वै व्योम्नि ब्रह्माद्या देवतागणाः । ६९।।
शिवा शिवौ गणैर्युक्तौ यक्षगन्धर्वकिरणैः ।
मरुतो लोकपालाश्च सिद्धा विद्याधरास्तथा ।।1.231.७० ।।
विश्वादित्याः ग्रहाः सर्वे भृग्वाद्याः ऋषयस्तथा ।
महर्षयः सनकाद्या वैराजाश्चाप्यधीश्वराः ।।७ १।।
पत्नीव्रताश्च नृत्यन्ति चाऽवतेरुः प्रहर्षिताः ।
क्ष्मायां स्नात्वा च गोमत्यां ते चक्रुः कृष्णदर्शनम् ।।७२।।
प्रसादं च जलं पीत्वा दृष्ट्वा संघं च तैर्थिकम् ।
परमाश्चर्यमापन्नास्तीर्थानि जयतेति च ।।७३।।
चक्रुर्वै घोषणां वारंवारं हृष्टा हृदन्तरे ।
द्वारिकया च तेषां वै स्वागतं माननं कृतम् ।।७४।।
गोमत्यापि च सर्वेषां पापप्रक्षालनं कृतम् ।
प्रणेमुर्युगपत्सर्वे देवास्तीर्थानि भावतः ।।७५।।
देवसंघस्तीर्थसंघः परस्परं प्रणेमतुः ।
प्रणेमुर्युगपत् सर्वे प्रहृष्टाश्चाऽभवँस्ततः ।।७६।।
ज्ञात्वा श्रैष्ठ्यं द्वारकाया गोमत्याः श्रैष्ठ्यमित्यपि ।
कृष्णकृष्णेतिकृष्णेति जय कृष्णेति वादिन ।।७७ ।1
गोमत्या द्वारकायाश्च श्रियः कृष्णस्य ते तदा ।
पूजनं दिव्यवस्त्रैश्च दिव्यगन्धानुलेपनैः ।।७८।।
सुदिव्याभरणैर्भक्त्या सद्रत्नहीरकादिभिः ।
दिव्यमाल्यविभूषाभिः कर्पूराऽगुरुचन्दनैः ।।७९।।
तुलस्या केसरैर्धूपैर्नीराजनप्रदक्षिणैः ।
नैवेद्यैर्विविधैर्दिव्यैर्मिष्टैर्मिष्टान्नपानकैः ।।1.231.८०।।
ताम्बूलैः स्वादुचूर्णैश्च प्रियैश्चोपायनैस्तथा ।
महामांगल्यसद्द्रव्यैश्चामरव्यजनादिभिः ।।८ १ ।।
सम्पूज्य कृतकृत्यास्ते ननृतुः पुरतो हरेः ।
तदा कृष्णः स्वयमाविर्भूतस्तान्प्राह संहसन् ।।८२।।
भो तीर्थानि तथा देवा देव्यः शैला महर्षयः ।
प्रीतोऽहं भवतां तीर्थविधानेन च वोऽस्तु शम् ।।८३।।
तीर्थाद्याश्च तदा प्राहुस्तारिताः परमात्मना ।
प्राप्तः कामवरोऽस्माभिर्भवतः कृपया बिभो ।।८४।।
भूयात् तव पदाम्भोजे भक्तिर्नो ह्यनपायिनी ।
तथा स्याच्च हि सर्वेषां वन्द्येयं द्वारका सदा ।।८५।।
इत्युक्त्वा च तदा संघौ द्वावपि द्वारकां तथा ।
गोमतीं सर्वतीर्थानामाधिपत्येऽभ्यषिञ्चताम् ।।८६।।
दिव्योपचारकैः पूजां चक्राते प्राञ्जली मुहुः ।
तदाऽऽयाता महादिव्याः पुरुषाः पार्षदा हरेः ।।८७।।
ऊचुश्च तीर्थराजानां महाराज्ञी त्वियं शुभा ।
द्वारका सेवनीया वै स्थीयन्तां स्वेच्छया सदा ।।८८।।
तदा प्रदक्षिणं कृत्वा द्वारकां प्रणिपत्य च ।
आवासाञ्चक्रिरे तत्र क्षेत्रतीर्थसुरादयः ।।८९।।
पञ्चाशत्कोटितीर्थानि स्थितान्युत्तरतः प्रिये! ।
नद्यस्तु पूर्वदिग्भागे तीर्थैः षष्टिप्रकोटिभिः ।।1.231.९०।।
दक्षिणस्यां तीर्थशैलाऽरण्यादीनि सरांसि च ।
स्थितानि स्वकुटुम्बैश्च नवनवतिकोटिभिः ।।९ १।।
सागराद्याश्च सप्ताद्याः पश्चिमायां दिशि स्थिताः ।
विदिशासु च सर्वासु तीर्थसंख्या न विद्यते ।।।९२।।।
शतकोटिप्रतीर्थानि वसन्त्युदधिसंगमे ।
वाराणसी च हीशाने ह्यवन्ती पूर्वदिक्स्थिता ।।९३।।
आग्नेय्यां कुंकुमवापी कांची दक्षे तु माथुरी ।
नैर्ऋत्यां च स्थिता माया ह्ययोध्या पश्चिमे स्थिता ।।९४।।
वायव्यां कुरुक्षेत्रं च हरिक्षेत्रं तथोत्तरे ।
तीर्थक्षेत्रादिभिः प्रथमाऽऽवरणं प्रपालितम् ।।९५।।
प्रजेश्वरैर्द्वितीयं तु तृतीयं देवनायकैः ।
चतुर्थमृषिसिद्धौघैर्गंगाद्याभिश्च पंचमम् ।।९६।।
षष्ठं चावरणं तीर्थैः काश्याद्याभिश्च सप्तमम् ।
अष्टमं क्षेत्रमुख्याद्यैर्नवमं चाऽऽश्रमादिभिः ।।९७।।
मेर्वाद्यैर्दशमं दिव्यदृशः पश्यन्ति तानि वै ।
इति वै पार्षदा देवा स्तीर्थानि चान्यपावना ।।९८।।
निवासं चक्रिरे स्वेषां द्वितीयैर्वै स्वरूपकैः ।
विदायं ते समगृह्य श्रीकृष्णाद् गोमतीवरात् ।।९९।।
तीर्थं कृत्वा ययुः सर्वे तीर्थदेवादिपार्षदाः ।
आयान्ति प्रतिवर्षं च सिंहराशिस्थिते गुरौ ।। 1.231.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारकामाहात्म्ये सिंहराशिस्थबृहस्पतौ गोदावरीसहितसर्वतीर्थसर्वदेवसर्वपार्षदादीनां द्वारिकातीर्थे संघशः समागमनं तत्र वासश्चेत्यादिनिरूपणनामैकत्रिंशदधिकद्विशततमोऽध्यायः ।।।२३ १।।