लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३४
[[लेखकः :|]]
अध्यायः २३५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां चैकादश्या उत्पत्तिबोधिकाम् ।
पूर्वे कृतयुगे जातां नारायणविभाविताम् ।। १ ।।
तत्र सत्ये युगे जातस्तालजंघकुले महान् ।
अत्यद्भुतो महारौद्रो नाडीजंघाह्वयोऽसुरः ।। २ ।।
तस्य पुत्रौ मुरजंघोऽभवद् देवभयंकरः ।
तपस्तप्त्वाऽब्दसाहस्रं परं बलमवाप सः ।। ३ ।।
इन्द्रोऽपि निर्जितस्तेन सर्वे देवाश्च निर्जिताः ।
स्वर्गान्निष्कासिता देवा विचेरुर्भूमिमण्डले ।। ४ ।।
भीताः स्वास्थ्यविहीनास्ते ययुर्यत्र पुरन्दरः ।
पुरन्दरोऽपि दुखाढ्यो ययौ यत्र जनार्दनः ।। ५ ।।
शंकरश्च तथा ब्रह्मा ययुश्चान्ये सुरेश्वराः ।
जलमध्ये शयानं श्रीनारायणं प्रतुष्टुवुः ।। ६ ।।
नमस्ते देवदेवेश शरणागतवत्सल ।
दानवानां च दैत्यानामसुराणां विमर्दक ।। ७ ।।
शरणं त्वं सदाऽऽर्तानां दुःखहाः शरणार्थिनाम् ।
रक्षाऽस्मान् करुणासिन्धो दैत्याद्बलसमेधितात् ।। ८ ।।
त्वं गतिस्त्वं परं सौख्यं भक्तानां परमायनम् ।
त्वं माता रक्षकः स्वामी त्वं पिता पालकः प्रभुः ।। ९ ।।
त्वं सद्वाच्यं कारणं वै चोत्पत्तिः सृष्टिरित्यपि ।
त्वमेवाऽऽपूरकस्तत्र त्वमेव रूपवान् हरः ।। 1.234.१ ०।।
संहारकारको देवस्त्वमेव भोजनप्रदः ।
स्वाहा स्वधा वषट्कारस्त्वमेवाग्निस्त्वमोमिति ।। ११ ।।
अनिरुद्धश्च प्रद्युम्नः संकर्षणस्त्वमेव हि ।
ब्रह्मविष्णुमहेशानास्त्वमेव देवकोटयः ।। १२।।।
सूर्यश्चन्द्रस्त्वमेवासि व्योमाऽनिलाऽनलाऽऽब्भुवः ।
ततोऽवान्तरसृष्टिश्च त्वमेव पुरुषोत्तम ।। १३।।
वरदाता रक्षकश्च वरसंहारकृद् भवान् ।
स्थावरं जंगमं सर्वं भवत्येव प्रतिष्ठितम् ।। १४।।
दैत्यदानवरक्षोभिर्निर्जिताः सुरपुंगवाः ।
यदा भवन्त्यसुखास्ते शरणं यान्ति ते तदा ।। १५।।
वयं सर्वे स्वर्गभ्रष्टा दानवादिभिरर्दिताः ।
अटामोऽरण्यभूभागे रक्षामिच्छाम ईश्वर ।। १६।।
रक्षाऽस्मान् सर्वथा देव दानवान्मुरसंज्ञकात् ।
श्रुत्वा नारायणस्तेषां पप्रच्छ भक्तवत्सलः ।। १७।।
कीदृशो दानवः सोऽस्ति किंनामा किंबलं स्थितिः ।
सर्वं ब्रूत सुरेन्द्रा यच्छ्रुत्वा नाशाय चिन्तये ।। १८।।
इन्द्रः प्राह तदा देवं विष्णुं नारायणं प्रभुम् ।
ब्रह्मणो वंशजः सोऽस्ति कश्यपाद् दनुजोऽभवत् ।। १९।।
तालजंघो महाक्रूरस्तस्य नाडीप्रजंघकः ।
सुतोऽभवन्महापापस्तस्यास्ति पुत्र एव सः । ।1.234.२० ।।
मुरजंघ इति नाम्ना कृतवाँस्तप उग्रकम् ।
वर्षाणां वै सहस्रं यन्निराहारोऽभवत्तदा ।।२१ ।।
शतवर्षं भुवे पादांगुष्ठे स्थित्वाऽतपत् तपः ।
शतवर्षं जलशायी घोरं तपश्चकार सः ।।२२।
शतवर्षं वायुभक्षी सूर्यद्रष्टा शतं समाः ।
शतवर्षं बाष्पभोजी तपस्तप्त्वाऽतिदारुणम् ।।।२३।।
पंचशतं च वर्षाणां समाधावतपत्तपः ।
तस्य देहोपरि तत्र वल्मीकः काचकान्वितः ।।२४।।
वृक्षवल्लीसमाक्रान्तो ह्यभवच्छृंगसदृशः ।
ततो धूमो विनिष्क्रान्तो दिवं यातोऽतिदारुणः ।। २५।।
तन्मूर्ध्नोऽभून्महानग्निर्येन जज्वाल द्यौरथ ।
भूश्च सत्यादिलोकाश्च देवास्त्रेसुश्च मानवाः ।।२६।।
ययुर्वै शरणं सर्वे ब्रह्माणं प्रपितामहम् ।
स्वेषां नापातिपातित्वं जगदुर्दुःखसागरम् ।। २७।।
कोऽयं वह्निः कथं जातः सर्वं प्रज्वालयत्यहो ।
रक्ष रक्ष प्रजानाथ शान्तिं कुरु जगत्प्रभो ।।२८।।
श्रुत्वैवं तद्वचो ब्रह्मा ससुरो मार्गणाय तत् ।
ययौ वह्निधूमलेखासृत्या मूलं भुवि स्थितम् ।।२९।।
दृष्ट्वा वृक्षादिकान् तत्र मुमोह सृष्टिकृत्तदा ।
अहो कश्चिन्न वै चात्र दृश्यते तापसो जनः ।। 1.234.३० ।।
कथं कस्मान्मया चात्र मार्गणीयो भवेद्धि सः ।
इति विचार्य ब्रह्मा वै निषसाद महीतले ।। ३ १।।
विष्णुस्तदा महाशंखनादं चकार वै मुहुः ।
तथापि न मुरस्तत्र प्रबुबोध तदा सुराः ।।३ २।।
हताशाः संस्थिताः सर्वे प्रम्लानान्तरकामनाः ।
तदा ३ विष्णुना तत्र समाधिः संयमः कृतः ।।३३।।
प्रवेशश्च कृतस्तत्र मुरदैत्यस्य वर्ष्मणि ।
शुष्ककाष्ठसमं शुष्कनाडीमांसास्थिपिण्डकम् ।।३४।।
साद्रं च सक्रियं कृत्वा वर्ष्म चाऽप्लावयत् त्वजः ।
कमण्डलोर्जलेनाऽभ्यसिञ्चन् मूर्ध्नि यदा पुनः ।।३५ ।।
तदा पल्लवतां याते वर्ष्मणि मुरदानवे ।
नेत्रे प्रोन्मीलिते जाते दृष्ट्वा स दानवः सुरान् ।।३६।।
नत्वा प्राह कथं यातास्तपोभंगविधित्सया ।
यात दूरं न मे कार्यं देवैः किञ्चिद्धि विद्यते ।।३७।।
ब्रह्मा प्राह तदा दैत्यं प्रसन्नास्तपसा तव ।
वयं प्राप्ता वरं दातुं यथेष्टं ब्रूहि पुत्रक ।।३८।।
मुरः प्राह न मे मृत्युस्तव सृष्ट्या कथंचन ।
विष्णुना वा हरेणापि भवेदिति प्रदेहि मे ।।३९।।
तथाऽस्त्विति वरं दत्वा ययुर्ब्रह्मादयस्ततः ।
मुरोऽपि प्रोत्थितो हृष्टो ययौ स्वस्थानमेव सः ।।1.234.४० ।।
मेरौ चन्द्रावतीं रम्यां राजधानीं कुलागताम् ।
पालयामास विधिना दानवैरधिवासिताम् ।।४ १ ।।
देवाश्च निर्जितास्तेन स्वर्गाच्चापि निराकृताः ।
इन्द्रस्थानं समाहृत्य दानवश्चेन्द्रकः कृतः ।।४२।।
वह्निस्थानं स्वकं कृत्वा वहिश्चान्यो विनिर्मितः ।
सूर्यचन्द्रौ कृतौ चान्यौ ग्रहनक्षत्रसंयुतौ ।।४३।।
दिक्प्रपालाः कृताश्चान्ये दानवाः स्वीयवर्णजाः ।
लोकपालाः कृताश्चान्ये देवान् जित्वा मुरेण वै ।।४४।।
काराग्रहे देवगणा निगडेषु निपातिताः ।
देवलोकः कृतश्चान्यो दानवैः परिशोभितः ।।४६।।
सर्वं त्वन्यत् कृतं तेन पूर्वं वै परिवर्तितम् ।
यावन्नायाति लक्ष्म्यर्थं तावत्तं प्रजहि प्रभो ।।४६।।
यावच्चिरायते देवो हानिस्तावत्पले पले ।
तस्माच्छीघ्रं समुत्थाय तन्नाशाय मनः कुरु ।।४७।।
श्रुत्वैतदिन्द्रवचनं हरिः शेषायनः स्वयम् ।
समुत्थाय च विध्वंसे मुरस्याऽवाप निश्चयम् ।।४८।।
हरिश्च शंकरो ब्रह्मा तथा देवा महर्षयः ।
गता यत्राऽभवत्पुर्यां चन्द्रावत्यां महासुरः ।।४९।।
उपकंठे बहिः स्थित्वा शंखं दध्मौ हरिस्तदा ।
युद्धसम्बोधशब्दं स श्रुत्वाऽऽययौ पुराद्बहिः ।।1.234.५० ।।
ससैन्यो युद्धदानाय चकार रणमुल्बणम् ।
नैकरूपधरो वीरो मुरोऽस्त्रशस्त्रकोटिभिः ।।५ १ ।।
मन्त्रैर्मायाबलैश्चैन्द्रजालिकैः रूपकोटिभिः ।
संग्राममकरोद्घोरं देवसंहारकारकम् ।।५२।।
क्षता हता विनष्टाश्च देवा रूपान्तरात्मकाः ।
भग्नाश्च मूर्छिता नष्टा विप्राणाश्चेतनोज्झिताः ।।५३।।
असंख्यातसहस्रैरायुधैरसुरपुंगवैः ।
हन्यमानाः सुराः सर्वे दुद्रुवुश्च दिशो दश ।।५४।।
विष्णुं दृष्ट्वा मुरस्तं च तिष्ठ तिष्ठेति चाऽब्रवीत् ।
गदां गुर्वीं प्राहिणोत् मुकुन्दस्तां व्यपोथयत् ।।५५।।
स्वीयया गदया शीघ्रं प्राहिणोच्चक्रमुल्बणम् ।
वरदानप्रभावेण चक्रं विखण्डितं मुरे ।।५६।।
विष्णुस्त्वाश्चर्यमापन्न क्रोधसंरक्तनेत्रकः ।
द्वितीयं चक्रमादाय मुमोच सैन्यकोटिषु ।।५७।।
दानवा दैत्यमूर्धन्याः छिन्नशिरस एव ते ।
पतिताश्च मृताश्चान्ये मूर्छिता व्यसवोऽभवन् ।।५८।।
मेदिनी तत्र दैत्यादिमेदमासाद्य सार्थका ।
समभूद् रणभूमिः सा दानवारण्यसुप्तिका ।।९९।।
न वै तलमभूद् रिक्तं कबन्धेन विना क्वचित् ।
मुरस्ततो महाखेदमवाप सैन्यनाशतः ।।1.234.६०।।
एकाकी व्यचरन् शस्त्रैर्युयुधे विष्णुना तदा ।
विष्णोरायुधधुर्याणां विनाशस्तेन शत्रुणा ।।६ १।।
कृतंश्चास्त्राणि सर्वाणि प्रग्रस्तानि तदा पुनः ।,
अस्त्रशस्त्रविहीनश्च विष्णुर्जातो यदा तदा ।।६२।।
मुमुदिरे दैत्यगणाः प्रहर्षुश्चातिदानवाः ।
सुरा वै म्लानतां प्राप्ताः साशकाश्च प्रजीवने ।।६३।।
अथ विष्णुं विशस्त्रं वै ज्ञात्वा नीत्या मुरस्तदा ।
बाहुयुद्धं समकरोद् विष्णुना दारुणं ततः ।।६४।।
मायया मुरदैत्येन विष्णोर्बाहुः प्रधर्षितः ।
बाहुबन्धः कृतस्तेन जडीभूता भुजाः खलु ।।६५।।
चत्वारोऽप्यभवँस्तत्र देवा वै दुःखिनोऽभवत् ।
हाहेति करुण चाक्रुश्याऽऽसँस्त्रस्ता गताशयाः ।।६६।।
मुरस्याऽऽसीत्तदा सम्यग् विजयो देवकर्दने ।
चकार राज्यं रुचिरं विजित्वा सत्यलोकजम् ।।।६७।।।
चतुर्दशभुवनानां सम्राडभून्मुरस्ततः ।
विष्णुस्त्रस्तो गतो बद्रिकाश्रमं हिमशैलगम् ।।६८।।
हिमालये गुहा सिंहवती नाम्नी महत्तरा ।
वर्तते योजनानां वै चत्वारो दीर्घविस्तरा ।।६९।।
द्वारमेकं च यस्यास्ते तस्यां गत्वा महाप्रभुः ।
सुप्तौ भयं दर्शयन् वै लोकानां हितकाम्यया ।।1.234.७० ।।
दानवत्सं मार्गयन् वै कदाचित्तत्र गह्वरे ।
ज्ञात्वा विष्णुं प्रसुप्तं स प्रविवेश गुहान्तरम् ।।७१।।
प्रसुप्तं श्रीहरिं दृष्ट्वा दानवेन्द्रो जगाद तम् ।
अहो त्रैलोक्यपूज्य त्वं कथमाश्रयसे गुहाम् ।।७२।।।
त्वदाश्रितानां रक्षां चापत्काले किं करोषि न ।
उत्तिष्ठ विष्णो भद्रं ते प्रोत्तिष्ठ युद्धमाचर ।।७३ ।।
त्वादृशानां शृगालानां स्वपनं किं निसर्गजम् ।
नयामि यमभवनं यद्वा त्वं मां समाश्रय ।।७४।।
कुरु दास्यं सदा मे त्वं देहि वैकुण्ठमेव मे ।
यद्वा युद्धं कुरु विष्णो शाठ्यं मा समये चर ।।७५।।
इत्येवं वदतस्तस्य मुरस्य नाशनाय वै ।
हरिः संचिन्तयामास सुप्त एव तदन्तरे ।।७६।।
महालक्ष्मीं प्रसस्मार दानवान्तकराय वै ।
स्मृत्वा ब्रह्मप्रदत्तं च वरं मुरस्य पूर्वजम् ।।७७।।
वेधःसृष्टिकृतान्नाशो मा भूदिति विचिन्त्य च ।
लक्ष्म्यंशात्मकसामर्थ्यं स्वैकादशेन्द्रियात्मकम् ।।७८।।
दिव्यं तपःस्वरूपं तत् प्राविश्चकार वै हरिः ।
तच्च मूर्तमभूत्तत्र कन्यारूपं सुसुन्दरम् ।।७९।।
कन्यका साऽतितेजोभिः प्रोज्ज्वला स्वर्णसन्निभा ।
चन्द्रकान्तिसमव्याप्तढीप्तिसन्दोहशीतला ।।1.234.८ ०।।
सर्वाकृतिसमायोग्या हरिरूपाऽतिसुन्दरी ।
दिव्यप्रहरणैर्युक्ता प्रोद्भिन्ननवसुस्तनी ।।८ १।।
किञ्चिदनंगरूपाभिभूता दृष्टिमनोहरा ।
सौभाग्यद्रव्यभूषाभिवस्त्रकुन्तलशोभना ।।८२।।
विद्युत्तेजःसमाक्रान्ताऽऽकर्णान्तदीर्घलोचना ।
महाबलसमाविष्टा मोहिनीव वपुष्मती ।।८२।।
स्वर्णाभूषणशोभाढ्या सुगन्धमुखमारुता ।
सुस्वरा सर्वलावण्यप्रसन्नमुखपंकजा ।।८४।।
चम्पकाभकरपादतलोऽङ्गुलिप्रभावती ।
कोमला कोमलांगी च सर्वशोभाधिवासिनी ।।८५।।
चक्षुर्हरा मनोहरा चात्महराऽतिकर्षणी ।
समुद्भूता महारम्याकृतिर्हास्यं करोति च ।।८६।।
दृष्टा मुरेण तत्रैव तेजोमध्ये विराजिता ।
मुरश्च मोहमासाद्य परिरब्धुं प्रचक्रमे ।।८७।।
कन्या प्राह महादैत्य सुज्ञोऽसि धर्मवानसि ।
विना वैवाहिकं कृत्यं त्वदर्थं नाहमुत्सहे ।।८८।।
विजित्य मां गृहाणाद्य पणोऽयं मम दानव ।
युद्धे जित्वा गृहाणेमां दासीभूतां मनस्विनीम् ।।८९।।
मुरस्तस्याः समाकर्ण्य विस्मृत्य विष्णुमेव च ।
सज्जोऽभूद् युद्धवृत्ताय शस्त्राऽस्त्रादिभिरन्वितः ।।1.234.९० ।।
कन्यया रणसंग्रामे प्रवर्तिते महासुरे ।
कर्तितः कण्ठदेशाद्वै मस्तकं भस्मितं तदा ।।९१ ।।
देहश्चूर्णीकृतस्तस्य गदया पल्लतादिभिः ।
मुरश्च निहतस्तस्य योद्धारोऽपि हतास्तया ।।९२।।
महाकोलाहलं श्रुत्वा विष्णुर्निद्रां विहाय च ।
अबुध्यत मृतं दृष्ट्वा मुरं विस्मयमागतः ।।९३।।
अहोऽनया कन्यया वै हतो महाबलोऽसुरः ।
मया यो न जितः पूर्वं जितो हतोऽनया हि सः ।।९४।।
महालक्ष्मीर्महाशक्तिर्महामाया न्वियं खलु ।
समर्था दुःखनाशाय देवानां हितकारिणी ।।९५।।
उपकारः कृतः सर्वो देवानां मम चापि वै ।
निहतो दानवो दुष्टो देवासुरभयंकरः ।।९६।।
इति प्रसन्नतां प्राप्य तदा पप्रच्छ कन्यकाम् ।
का त्वं कथं हतो दैत्य किं ते मनसि वर्तते ।।९७।।
कन्या प्राह हरिं विष्णोरहमेकादशी मता ।
सर्वशत्रुक्षयकर्त्री सर्वपापविनाशिनी ।।९८।।
सर्वतेजोमयी चास्मि सर्वपुमर्थदायिनी ।
तवास्मि विग्रहाज्जाता तवेन्द्रियबलोद्भवा ।।९९।।
तव चैतन्यसंपृक्ता तवास्मि पुत्रिका प्रभो ।
प्रसुप्तं पितरं दैत्यो हन्तुमत्र समागतः ।। 1.234.१०० ।।
चिच्छक्तिश्चाऽसुरं वीक्ष्याऽहमुद्भूतेन्द्रियादिभिः ।
एकादशेन्द्रियतेजोमयी चाहं भवामि ते ।। १० १।।
तस्मादेकादशीनाम्ना सर्वपुण्यप्रदा हरे ।
असुरस्य विनाशाय समुद्भूताऽस्मि माधव ।। १ ०२।।।
विनाशितो मया दैत्यो देवानां दुःखदो महान् ।
इति श्रुत्वा सुतावाक्यं हरिः प्राह च तां सुताम् ।। १ ०३।।
वरं वरय कल्याणि कृतं कार्यं महन्मम ।
प्रसन्नोऽस्मि च भद्रं ते सर्वं दास्ये मनोगतम् ।। १०४।।
नाऽदेयं विद्यते देवि त्वया देवाः सुरक्षिताः ।
धर्मः संस्थापनां प्राप्तो व्रतं दैवं च लक्षितम् ।। १ ०५।।
कल्याणमार्गः सततं जनानां कारितस्त्वया ।
तस्मात् स्वस्य च यावद्वै सर्वं देयं हि ते कृते ।। १ ०६।।
श्रुत्वैतद्भगवद्वाक्यमेकादशी जगाद यत्। ।
अहमेकादशी नाम्ना ह्यधिष्ठात्री व्रतात्मिका ।। १ ०७।।
एकादशीदिनस्याऽस्मि स दिनो मामको मतः ।
शुक्लः कृष्णश्च मे दिव्यो दिवसो व्रतमेव सः ।। १०८।।
महापुण्यः पवित्रोऽयं सर्वपुण्येषु पुण्यकृत् ।
अतो मद्दिवसः पाल्यो व्रतोपोषणजागरैः ।। १ ०९।।
इन्द्रियाणां तदाऽऽहारा वर्जनीयाः प्रयत्नतः ।
मानवो मद्दिने योऽत्र ह्युपवासं करोति सः ।। 1.234.११ ०।।
अश्वमेधसमं पुण्यं प्राप्नोत्येव न संशयः ।
एकभक्तेन नक्तेनोपवासेन फलेन वा ।। १११ ।।
जलेनापि व्रतं कुर्यात् स यायान्माधवालयम् ।
रात्रौ जागरणं कुर्याद्धरेस्ते च प्रपूजनम् ।। ११ २।।
पुष्पैर्धूपैश्च दीपैश्च विविधैश्च सुवस्तुभिः ।
पूजनं कारयेन्मे ते ह्युद्यापनं समाचरेत् ।। ११ ३।।
एवं व्रतप्रकर्ता ते धाम यायान्पराक्षरम् ।
गर्भवासं न चाप्नुयान्निष्पापः स्याच्च सर्वथा ।। १ १४।।
ममाऽहनि तु भक्तानां नैर्मल्यं जायतां सदा ।
भक्तिश्च वर्धतां देवे तथा श्रद्धा च मद्व्रते ।। १ १५।।
मा क्षुधा पीडयेद्भक्तं व्रतिनं प्रमदाजनम् ।
इत्येवं वरदानानि मे देयानि यदि प्रभो ।। १ १६।।
दातव्यानि हरे मह्यं तथाऽन्यन्मे शृणु प्रभो ।
हरिः पिता हरिर्माता बान्धवोऽपि हरिः सदा ।। १ १७।।
हरिर्भर्ता हरिः कर्ता पोष्टा हर्ता हरिः स्वयम् ।
तस्माद् रूपान्तरैः कृष्ण पतिर्मे भव सर्वदा ।। १ १८।।
अहं षड्विशतिरूपा पत्नी ते स्यां तथा कुरु ।
येनाऽसंस्कारदोषो मे विनश्येत् संविवाहतः ।। १ १९।।
पातिव्रत्यपरा नित्यं सेविष्ये त्वां पतिं प्रियम् ।
वरं देहि तथा नाथ सौभाग्यं मे प्रवर्धय ।। 1.234.१२०।।।
श्रुत्वा प्राह हरिर्भद्रे भवताद् वाञ्च्छितं तव ।
व्रतं भवतात् पुण्यं ते रूपाण्यपि भवन्तु ते ।। १२१ ।।
पतिर्भवामि ते रूपान्तरैः श्रेयःप्रदा भव ।
धर्मार्थ काममोक्षाणां सम्प्रदा भव सर्वथा ।। १ २२।।
एकादशीव्रतपूता यान्तु मे वैष्णवं पदम् ।
ऐहिकं सत्फलं प्राप्य चान्ते मोक्षमवाप्नुयुः ।। १२३।।
इति ते वरदानानि वितरामि मम प्रिये ।
ओमित्युक्त्वा स्वयं चैकादशी वै बहुधाऽभवत् ।। १२४।।।
हरिस्तदा स्वमूर्तेश्च षड्विंशतिस्वरूपकैः ।
जग्राह विधिवत् पत्नीरूपामेकादशीं तदा ।। १२५ ।।
पुत्रीरूपं विलीयैव पत्नीरूपैश्च वर्तते ।
वर्षे द्वादशमासानां द्वेऽधिकस्यापि वै तथा ।। १२६ ।।
मिलित्वैकादशिकाः षड्विंशतिसंख्यका मताः ।
एकादशी त्वहोरात्रं दशमी घटिकाऽपि चेत्। ।। १२७।।
सा तिथिः परिहर्तव्या ह्युपोष्या द्वादशी शुभा ।
एकादशी तु सम्पूर्णा द्वादशी वृद्धिगामिनी ।। १२८।।
तस्यां शतगुणं पुण्यं त्रयोदश्यां तु पारणा ।
एवं व्रतं जनः कुर्यात् फलभाङ् मोक्षभाग्भवेत् ।। १२९ ।।
न गंगा न गया नैव काशी पुष्करमेव वा ।
न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन वै ।। 1.234.१३० ।।
इति कृत्वा प्रशंसां च पत्नीं नीत्वा ययौ हरिः ।
यत्र चन्द्रावती राजधानी मुरकृतास्ति वै ।। १३१ ।।
तत्र निगडबन्धस्थान् देवान् व्यमोचयद्धरिः ।
स्वर्गं देवात्मसात्कृत्वा वैकुण्ठं प्रययौ प्रभुः ।। १ ३२।।
इति ते कथितं लक्ष्मि! व्रतमाहात्म्यमुत्तमम् ।
एकादश्यास्त्रिस्पृशायाः किमन्यच्छ्रोतुमिच्छसि ।। १३३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मुरदानवयुद्धनिमित्तकैकादश्युत्पत्तिव्रतादिवरदाननिरूपणनामा चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ।।२३४।।