लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२८
[[लेखकः :|]]
अध्यायः २२९ →

श्रीनारायण उवाच-
कलौ कृष्णस्य माहात्म्यं ये शृण्वन्ति पठन्ति च ।
तेषां वैकुण्ठगोलोकधाम्नोर्वासो मतः सदा ।। १ ।।
नित्यं कृष्णकथा यस्य प्राणादपि गरीयसी ।
न तस्य दुर्लभं चात्र परत्रापि यथेप्सितम् ।। २ ।।
मन्वन्तरसहस्रेण काशीवासस्य यत्फलम् ।
तत्फलं द्वारवत्यां तु पञ्चदिवसवासतः ।। ३ ।।
श्वपचोपि वसन्नत्र यतीनां गतिमाप्नुयात् ।
द्वारकां प्रति यातस्य पुण्यं स्यात्तु पदे पदे ।। ४ ।।
कुरुक्षेत्रे रविग्रहस्नानस्येत्याह पद्मजः ।
चन्द्रग्रहे भवेद् यश्च फलं तदत्र दर्शने ।। ५ ।।
पुष्करे कार्तिकस्नानफलं यद्वर्षकोटिभिः ।
तत्फलं द्वारकावासे नित्यं भवति देहिनः ।। ६ ।।
अवन्त्यां यत्फलं मनुशतेन भवति प्रिये ।
तत्फलं द्वारकायां तु दिनैकवासतो भवेत् ।। ७ ।।
कृष्णदर्शनपुण्यं तु मतं कोटिव्रताऽधिकम् ।
रुक्मिणीकृष्णसेवायाः फलं गोलोकमोक्षणम् ।। ८ ।।
धन्यास्ते कृतकृत्यास्ते दृष्टं यैः कृष्णमण्डलम् ।
द्वादश्यां कृष्णपूजा च करोति यस्तु भावतः ।। ५ ।।
क्षीरस्नानं कारयति शताश्वमेधजं फलम् ।
दुग्धाद् दशगुणं दर्भाद् घृतात्तस्माद् दशोत्तरम् ।। 1.228.१० ।।
घृताद्दशगुणं क्षौद्रं शंखेन तद्दशोत्तरम् ।
पुष्पोदकं च दर्भोदं वर्धते तद्दशोत्तरम् ।। १ १।।
मन्त्रोदकं च गन्धोदं ततोऽपि च दशोत्तरम् ।
स्नानमिक्षुरसेनापि शतवाजिमखैः समम् ।। १ २।।
तीर्थनीरेण संस्नानं ततो दशगुणं स्मृतम् ।
सकामस्त्वाप्नुयात्स्वर्गं निष्कामो मुक्तिमाप्नुयात् ।। १३ ।।
कृष्णस्नानार्द्रगात्रं यो वस्त्रेण मार्जयेज्जनः ।
तस्य जन्मान्तरलक्षपापं भवति मार्जितम् ।। १ ४।।
स्नापयित्वा हरिं तस्मै पुष्पहारं ददाति यः ।
तस्य पुण्यं स्वर्णनिष्काकोटिदानफलं भवेत् ।। १५।।
स्नानकाले कृष्णनाम्नां जातस्तु सहस्रकम् ।
प्रत्यक्षरं मिलेत्पुण्यं कपिलाशतगोप्रदम् ।। १६।।
स्नानकाले च कृष्णाग्रे नर्तनं गायनं च वा ।
करोति स तु कृष्णस्य गोलोके जायते प्रियः ।। १७।।
स्नानकाले हरे जय कृष्णा जयेतिवादिनः ।
तालिका वादयतश्च न योनियन्त्रनिर्गमः ।। १८।।
वस्त्रैर्धूपेन सौवर्णभूषणैः पूजयन्ति ये ।
शतमन्वन्तरं वासो वैकुण्ठे च ततः परम् ।। १९।।
गोलोके शाश्वतो वासो भवति कृष्णसेवने ।
केतक्या चाथ तुलसीमंजर्या कुसुमैस्तथा ।।1.228.२० ।।
मालत्या रुक्मिणीपतिं पूजयन्ति च या स्त्रियः ।
क्रीडन्ति सप्तसु स्वर्गभूमिषु पतिना सह ।।२१ ।।
मन्वन्तरशतपूर्णं ततो गोलोकमाप्नुयुः ।
योगिनां यज्ञिनां चैव दानिनां तीर्थसेविनाम् ।। २२।।
पितृमातृप्रभक्तानां द्वादशीव्रतिनां तथा ।
एकादश्यां जागरणं कुर्वतां नृत्यतां तथा ।।२३।।
गायतां स्मरतां वेदघोषणां कुर्वतां तथा ।
विष्णुनाम्नां सहस्रं च पठतां चापि यत्फलम् ।। २४।।
तत्फलं कृष्णपूजायां तुलस्यर्पणतो भवेत् ।
रुक्मिणीकृष्णपूजायाः फलं चापि ततोऽधिकम् ।।२५।।
यथा लक्ष्मीः प्रिया विष्णोः तुलसी च ततोधिका ।
यत्र क्वापि तुलस्या वै पूजितो भवति हरिः ।।२६ ।।
तत्र तस्य द्वारकायास्तीर्थयात्राफलं भवेत् ।
केतक्याऽप्यर्चयेत् कृष्णं प्रतिपुष्पाऽश्वमेधजम् ।।२७।।
फलं वै प्राप्यते चान्ते गोलोकगतिराप्यते ।
मालत्या पूजयेत् कृष्णं प्राप्यते च हरेः पदम् ।।२८।।
यथाप्तपत्रपुष्पैर्वा पूजयेच्छ्रीपतिं हरिम् ।
दिव्याँश्च मानुषान् भोगान् भुक्त्वा याति हरेः पदम् ।।२९।
अष्टाक्षरोऽयं मन्त्रस्तु 'श्रीकृष्णः शरणं मम' ।
तं जपन् पूजयेत्कृष्णं चन्दनेन सुगन्धिना ।।1.228.३० ।।
कर्पूरेण च कस्तूर्या स चेयात् कृष्णतुल्यताम् ।
आज्येन गुग्गुलेनापि धूपं कुर्याच्च यो हरेः ।।३ १ ।
पातकं प्रविधूयाऽसौ सुरूपो जायतेऽक्षरे ।
कृष्णायने दीपमालां कारयति दिने दिने । । ३२।।
सप्तद्वीपनृपः स्याद्वै दीपे दीपे फलं हि तत् ।
नैवेद्यानि विविधानि कृष्णाय यो निवेदयेत् ।।३३। ।
तस्य वै पितरस्तृप्ताः शाश्वतीं मुक्तिमाप्नुयुः ।
ताम्बूलं कर्पूरयुतं पूगादिचूर्णिकान्वितम् ।। ३४।।
कृष्णाय यच्छतो नास्ति पुनर्जन्मात्र मायिके ।
नीरं शीतं सुगन्धाढ्यं देयं कृष्णाय तृप्तये । ।३५।।
नित्या तृप्तिर्भवेत् तस्य नित्याऽमृतादिपानतः ।
फलानि चारुमिष्टानि पक्वान्यर्पयतस्तथा । ।३६।।
अन्यदपि मुखस्यैव शुद्ध्यर्थं ददतस्तथा ।
गोलोके नित्यतृप्तिः स्यात् सुगन्धश्वासवान्भवेत् ।।३७।।
श्रीकृष्णस्य प्रक्रमणं कर्तुर्वैराजधिष्ण्यकम् ।
श्रीकृष्णमन्दिरे पुष्पोद्यानं यः कारयेत्परि ।।३८।।
स पुष्पकविमानेन क्रीडति देवकोटिभिः ।
चामरैर्व्यजनैर्वायुं कृष्णाय या प्रयच्छति ।। ३।।।
तस्या धाम्नि स्वयं कृष्णश्चूम्बति मुखपंकजम् ।
शय्याकर्त्र्याश्च शय्यायां सह स्वपिति केशवः ।।1.228.४० ।।
श्रीकृष्णमण्डपं कदलीस्तंभैः कारयेत्तु यः ।
तस्य सेवामप्सरसः कुर्वन्ति कदलीसमाः ।।४१ ।।
कृष्णालये पताकाभिः शोभां करोति यो जनः ।
सूर्यलोके तस्य वासो सदा भवति सूर्यवत् ।।४२।।
धूपचन्दनसौगन्ध्युत्तरैश्च वासयेद् हरेः ।
मन्दिरं तस्य भवनं दिवि वै वासितं भवेत् ।।४३।।
कृष्णपादप्रसंवाहं या करोति हृदा सदा ।
कृष्णेन सह गोलोके रमा भूत्वा प्रमोदते ।।४४।।
भोजनं नूतनं कृत्वा श्रीकृष्णं संप्रभोजयेत् ।
सा वै लक्ष्मीः सदा भूत्वा वैकुण्ठे श्रीहरिं भजेत् ।।४५।।
श्रीकृष्णस्य सदा सेवां ये कुर्वन्ति जना भुवि ।
देवकन्यावृताः स्वर्गे सेव्यन्ते चाप्सरोगणैः ।।४६ ।।
श्रीकृष्णशिखरे यश्च ध्वजमारोपयेच्छुभम् ।
तस्याऽक्षरे परे धाम्नि सध्वजं भवनं भवेत् ।।४७।।
श्रीकृष्णमन्दिरे चित्रकार्यं कारयते तु यः ।
तस्य चित्रमयं धाम्नि विमानं भवति ध्रुवम् ।।४८।।
दर्पणं यश्च कृष्णाग्रे दद्यात्स सोमलोकगान् ।
भोगानाकल्पमाभुक्त्वा गोलोकं शाश्वतं व्रजेत् ।।४९।।
छत्रं बहुशलाकं सक्षौमं दद्यात्तु शार्ङ्गिणे ।
स वै वैराजलोकेषु सम्राट् भूत्वा हरिं व्रजेत् ।।1.228.५०।।
दद्याद् यानं विमानं वा वाहं खट्वां बृसीं कटम् ।
कुबेरः कल्पपर्यन्तं भूत्वाऽन्ते यान्ति मोक्षणम् ।।५१ ।।
आरार्त्रिकं हरेः कुर्यात् बहुवर्त्तिघृतादिभिः ।
तस्याऽरार्त्रिकमन्वहं क्रियते देवकोटिभिः ।।५२।।
केशवोपरि सजलं शंखं च भ्रामयेत्तु यः ।
स क्षीरे सागरे कृष्णसन्निधौ वासभाग् भवेत् ।।५३।।
कृष्णप्रदक्षिणां कुर्यात् पृथ्वीदानफलं पदे ।
कुर्याद् दण्डनमस्कारं चाश्वमेधफलं भवेत् ।।५४।।
कीर्तनं श्रीहरेः कुर्यात् सामवेदफलं लभेत् ।
नृत्यं कुर्याद्धरेरग्रे कोटिपापविनाशनम् ।।५५।।
वसतां द्वारकां गोलोकधामाऽऽवासजं फलम् ।
गोमतीनीरपानं च यः कुर्यात्तस्य मोक्षणम् ।।५६।।
गंगाद्वारे प्रयागे च गंगायां कुरुजांगले ।
पुष्करे च प्रभासे च श्रीस्थले शुक्लतीर्थके ।।५७।।
चान्द्रायणसहस्रस्य फलं त्वेकदिनेऽत्र वै ।
द्वारिकागोमतीकृष्णगोपीतालप्रसेविनः ।।५८।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने द्वारिकावासकृष्णपूजनमाहात्म्यफलादिनिरूपणनामाऽष्टाविंशत्यधिकद्विशततमोऽध्यायः ।।२२८।।