लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२७
[[लेखकः :|]]
अध्यायः २२८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! द्वारपालान् प्रतिदिक्षु वसन्ति ये ।
द्वारकां परितः स्थित्वा रक्षन्ति कृष्णदेशतः ।। १ ।।
पूर्वे जयन्त इन्द्रस्य पुत्रस्तिष्ठति सर्वदा ।
तस्य शिष्या दनुजाश्च तिष्ठन्त्याज्ञावहास्तथा ।। २ ।।
वज्रनाभः सुनाभश्च वज्रवाहुर्महाहनुः ।
वज्रदंष्टो वज्रधारी वज्रहा वज्रलोचनः ।। ३ ।।
श्वेतमूर्धा श्वेतमाली नरनाथो विनायकः ।
सूर्यश्च मातरः सप्त शंभुश्चापि च तक्षकः ।। ४ ।।
कार्तिकेयो राजसश्च दीर्घरोमाख्यदानवः ।
विश्वावसुश्च गन्धर्वो मेनका चाप्सरास्तथा ।। ५ ।।
सनत्कुमारो वशिष्ठो न्यग्रोधश्च महावटः ।
अथाग्निदिशि तिष्ठन्ति ज्वालामुखोऽरुणाक्षकः ।। ६ ।।
कुशः श्मशाननिलयो मांसाशी रुधिराशनः ।
कृष्णः कृष्णजटाधारी त्रासनो भञ्जनस्तथा ।। ७ ।।
अग्निस्थाली चाप्सरा च गन्धर्वोऽमावसुस्तथा ।
अथ दक्षिणकाष्ठायां दण्डपाणिर्महास्वरः ।
पाशहस्तस्त्रिनेत्रश्चातिवर्तो मारणस्तथा ।। ८ ।।
दुन्दुभिस्वरकः खरस्वरो घर्घरवस्तथा ।
मौनप्रियो मल्लिकश्च दुर्दर्शश्च विनायकः ।। ९ ।।
महिषीकश्च सूर्यश्च भूषणश्चतुरस्तथा ।
चित्रांगदः सुगन्धश्चाप्सरोर्वश्यभिधानिका ।। 1.227.१ ०।।
गोरजो दानवश्चैव शालो महाद्रुमस्तथा ।
सनातनर्षिरगस्त्यो दक्षिणद्वाररक्षकाः ।। ११ ।।
अथ नैर्ऋतकाष्ठायां गोमुखो मुण्डनस्तथा ।
नग्नश्च कम्बली चैव रोदनो हसनश्च वै ।। १२।।
लम्बग्रीवो भ्रूविकारो द्विजंभकश्च सूर्यकः ।
मुशली मेनका चापि रक्षन्ति नैर्ऋतीं दिशाम् ।। १ ३।।
अथ पश्चिमकाष्ठायां स्वस्तिकः शंखमस्तकः ।
शुभास्यो नीलवासाश्च पादहस्तो मूलाऽऽकरः ।। १४।।
एकपाद एकनेत्रः स्थूलजंघो महच्छिराः ।
पुष्पदन्तो गणेशश्च सूर्यः सत्राजितेश्वरः ।। १५।।
तुम्बुरुश्च घृताची च महोदरसरीसृपः ।
घटोत्कचः पंचजनः काश्यपश्च कपालिनी ।। १६।।
अश्वत्थद्रुः कपिलश्च रक्षन्ति पश्चिमां दिशम् ।
अथ वायव्यकाष्ठायां भंजनो भैरवस्तथा ।। १७।।
घटोदरश्च कालिको दण्डको मर्दनो रुरुः ।
षङ्गः सर्वभुजो घृणी सुपार्श्वो वायुदिग्भवाः ।। १८।।
अथोत्तरे मूलस्थानः सूर्य इन्द्रेश्वरः शिवः ।
कण्ठेश्वरी खंजनश्च वासुकिः कूर्मदानवः ।। १९।।
सनकश्च गोलकाख्यराक्षसो नारदस्तथा ।
रंभाऽप्सराः प्लक्षवृक्षो रक्षन्ति चोत्तरां दिशम् ।। 1.227.२० ।।
अथेशान्यां किलीकश्च दुर्धरो भैरवाननः ।
दीर्घास्यो मेघवक्त्रश्च करालो विकचस्तथा ।।२ १ ।।
मूकश्च बलिभुक् चैव बलिप्रियश्च मांसभुक् ।
एते सर्वे दिशां पालास्तत्रत्याः संति पद्मजे ।। २२।।
जयन्तः सर्वमूर्धन्यो नागो रक्षति पत्तलम् ।
एतान्प्रपूज्य कृष्णस्य कार्यं वै पूजनं महत् ।।।२३ ।।
अथ रुक्मिगणेशस्य पूजनं दर्शनं तथा ।
कर्तव्यं विधिना कृष्णाज्ञया द्वारव्यवस्थितेः ।। २४।।
कृष्णाय रुक्मिणीं दातुं भीष्मकश्च कृतोत्सवः ।
रुक्मी विरुद्धमतगो तद्वाक्यं नाऽन्वमन्यत ।।२५।।
भगवांश्च हरिः कृष्णो रुक्मिणीमम्बिकास्थलात् ।
जहार च यदा रुक्मी प्रतिज्ञामकरोत्तदा ।। २६ ।।
कृष्णं चाऽविनिहत्वाऽहं निवर्तिष्ये रणान्नहि ।
इति वेगाद् गतो युद्धं कर्तुं कृष्णेन रुक्मकः ।।२७।।
कृष्णेनाऽऽबद्ध्य सोऽप्यर्धश्मश्रुनिकृन्तनः कृतः ।
अवमानेन मरणे कृतनिश्चय एव सः ।। २८।।
रक्षितः श्रीभगवता रुक्मिण्याः प्रियकारणात्। ।
पूजितश्च गणानां वै नायकश्चापि निर्मितः ।।२९।।।
ततस्तस्य सदा पूजा कार्या कृष्णस्य तुष्टये ।
ततो दुर्वाससं चैव बलदेवं प्रपूजयेत् ।।1.227.३०।।।
श्रीकृष्णं पूजयेत्तस्य मन्दिरे धामसन्निभे ।
सर्वयज्ञफलं सर्वदक्षिणाफलमित्यपि ।। ३१ ।।
सर्वयोगफलं ज्ञानफलं गंगाफलं तथा ।
सर्वदानफलं मोक्षफलं लभ्येत पूजनात् ।।३ २।।
ततस्त्रिविक्रमं देवं पूजयेद्वामन्ं मुदा ।
एकदा तु बलेः राज्ञो राज्यं चाऽभून्महीतले ।।३३ ।।
तदा दुर्वासकश्चक्रतीर्थे स्नातुं समागतः ।
तत्र दैवैर्जानुभिर्मुष्टिभिश्चातीव ताडितः ।। ३४।।
निवारयामास ताँश्च रुरुर्नाम महासुरः । -
रक्षितश्चापि दुर्वासाः कैलासं संययौ तदा ।। ३५।।
एतस्मिन्नन्तरे राजन् वामनो भगवान्स्वयम् ।
जिगाय त्रिपदैर्भूमिं बलिद्वारे व्यवस्थितः ।। ३६।।
दुर्वासाश्च तदा चिन्तामकरोत् सुखकारिणीम् ।
वामनं प्रति शरणं जगाम बलिसेवितम् ।। ३७।।
आयान्तमृषिमालोक्य बलिर्दैत्यपतिस्तदा ।
प्रत्युत्थायाऽर्हणां चक्रे चासने सन्न्यवेशवत् ।। ३८ ।।
प्रोवाच प्रणतो ब्रूहि चात्राऽऽगमनकारणम् ।
दुर्वासाश्च बलेर्द्वारे दृष्ट्वा विष्णुं चतुर्भुजम् ।। ३९ ।।
रुदन् श्वसन् मुहुर्वेगात् त्राहि त्राहीत्यभाषत ।
ब्राह्मणं दुःखितं दृष्ट्वा दयालुः प्राह माधवः ।। 1.227.४० ।।
किं कस्माद् दुःखमापन्नं वद शीघ्रं तु मे मुने ।
दुर्वासाः प्राह भगवन् ज्ञात्वा तीर्थं तु मुक्तिदम् ।। ४१ ।।
चक्रतीर्थं गतः स्नातुं चाऽकृतस्नान एव च ।
गले गृहीतो दैत्यैश्च मुष्टिभिश्चातिताडितः ।। ४२।।
बलाद् गृहीत्वा वासांसि कुशाँश्चैवाऽक्षतांस्तथा ।
निष्कासितश्चाक्रुष्ट हनिष्यामो यद्यागतः ।।४३ ।।
स्नात्वा च चक्रतीर्थेऽहं करिष्ये भोजने ततः ।
तस्माद् स्नापय गोविन्द रक्ष मां शरणागतम् ।। ४४।।
विररामेत्यभिधाय दुर्वासाः क्रोधनो मुनिः ।
ब्रह्मण्यदेवो भगवान् ब्राह्मणं तमुवाच ह ।। ४५।।
हत्वा दैत्यान् स्नापयिष्ये समागच्छ मया सह ।
त्रिविक्रमश्च भगवान् आययौ मुनिना सह ।।४६।।
कृष्णश्च प्राह स्नानं त्व कुरु शान्त्या मुने ह्यथ ।
दुर्वासास्तद्वचः श्रुत्वा स्नानं चक्रे त्वरान्वितः ।।४७ ।।
सन्ध्यादिकं नित्यकर्म कर्तुमारभत द्विजः ।
दुर्मुखो दानवस्तत्र क्रोधाऽऽसंरक्तलोचनः ।।४८ ।।
समाययौ तथा दुर्वाससं हन्तुमियेष वै ।
कृष्णश्चक्रेण दुर्मुखशिरश्चिच्छेद लीलया ।।४९।।
ततो दैत्याः समाजग्मुर्युद्धार्थं शस्त्रकोविदाः ।
विष्णुः संकर्षणः कृष्णो वामनश्चेति सर्वशः ।।1.227.५ ० । ।
मार्गणैरस्त्रशस्त्रैश्च रणे दैत्यान् निजघ्निरे ।
दुःसहं कूर्मपृष्ठं च गोलकं वेददूषकम् ।।५ १ ।।
यज्ञघ्नं यज्ञहन्तारं धर्मान्त च निजघ्निरे ।
कुशस्तदा समायातो युद्धाय कृतनिश्चयः ।।५२।।
अनीकं दशसाहस्रं नागानामयुतं तथा ।
अयुते द्वे रथानान्तु चाश्वानां च दशाऽयुतम् ।। ।५३ ।।
वक्रगो दीर्घनखश्च निघसः प्रसवस्तथा ।
ऊर्ध्वबाहुर्वक्रशिराः कंचुकश्च शिलोन्मुखः ।। ५४।।
यज्ञध्नश्च तथा राहुर्बबरको महाहनुः ।
सुनामा वसुनामा च दैत्या युद्धाय निर्ययुः ।। ५५।।
कुशस्तदा महादेवं पुपूज जयवाञ्च्छया ।
ययौ खड्गं करे धृत्वा केशवं प्रति वेगतः ।।५६ ।।
उवाच यदि जेष्यामि कीर्तिर्मे ह्यतुला भवेत् ।
पतितोऽहं त्वया यद्वा यास्यामि परमां गतिम् ।।५७।।
इत्युक्त्वा धावमानस्य शिरश्चिच्छेद लीलया ।
पतितः शिवसान्निध्ये पुनर्जीवित उत्थितः ।।९८।।
उवाच विष्णुमानम्य दैत्येस्तेऽपकृतं च किम् ।
दुर्वाससं स्नापयित्वा यथेच्छसि तथा कुरु ।।५९।।
कृष्णः प्राह भवद्भिश्च तीर्थं रुद्धं हि सर्वथा ।
तस्मात् सर्वान् हनिष्यामि दानवान्नात्र संशयः ।।1.227.६०।।
युयुधे च तदा कुशः कृष्णेन सह वेगतः ।
भगवान् क्रोधसंयुक्तश्चक्रेणाऽपातयच्छिरः ।।६१ ।।
तदा दैत्यैः कुशदेहो मस्तकं च शिवालये ।
निक्षिप्तो तावदेवाऽयं प्रसादाच्छंकरस्य वै ।।६२।।
उपस्थितः सहसा धृत्वा गदां योद्धुमुपस्थितः ।
महादेवेन तुष्टेन यतोऽमरः स वै कृतः ।।६३।।
पुनश्च हरिणा स्वस्य गदया भिन्नमस्तकः ।
कुशो गर्ते तदा क्षिप्तो मृत्पाषाणैश्च भारितः ।।६४।।
तदुपरि शिवलिंगं स्थापितं विष्णुना तदा ।
जीवितोऽपि पुनर्नाऽयमुत्थितोऽभूदुवाच च ।।६५।।
शिवलिंगं त्वया विष्णो स्थापितं यन्ममोपरि ।
मम नाम्ना भवत्वेतत् कुशेश इतिविश्रुतम् ।।६६।।
कुशस्थल्यां कुशेशश्च तीर्थं कृतं महत्तथा ।
कृष्णेन तत्तथाऽस्त्विति कुशानुग्रहकारणात् ।।६७।।
ततोऽन्यदानवान्सर्वान् नाशयामास माधवः ।
रसातलगताः केचित्केचिद् भृत्यतया स्थिताः ।।६८।।
वामनश्च तथा विष्णुरनन्तः क्रोधनो मुनिः ।
एतेऽन्येपि द्वारवत्यां स्थानं कृत्वा सदा स्थिताः ।।६९।।
द्वितीयेन च रूपेण तानि तीर्थानि सन्ति वै ।
कृष्णं विष्णुं वामनं च संकर्षणं दुर्वाससम् ।।1.227.७०।।
तीर्थकृत्पूजयेद् गन्धैः पुष्पनैवेद्यभूषणैः ।
वस्त्रैः फलैश्च ताम्बूलाऽक्षतचन्दनकुंकुमैः ।।७१।।
आरार्त्रिकेण धूपेन दीपवादित्रकीर्तनैः ।
प्रदक्षिणादक्षिणाभिः स्तुतिभिर्वन्दनैस्तथा ।।७२।।
सर्वार्पणैश्च सम्पूज्य कुर्याज्जागरणं निशि ।
भाद्रेष्टम्यां द्वादश्यां च पूजयित्वा तु तान्सुरान् ।।७३।।
गोलोकं धाम चाप्नोति यत्र गत्वा न शोचति ।
स्नापयित्वा हरिं कृष्णं पूजयित्वा विधानतः ।।७४।।
तुलसीं पूजयित्वा चार्चयेद् दुर्वाससं ततः ।
गणेशं वैनतेयं च पूजयेच्च ततः परम् ।।७५।।
रुक्मिणीं पूजयेच्छक्त्या षोडशोपसुवस्तुभिः ।
ग्रहपीडा न जायेत व्याधयो न भवन्ति च ।।७६ ।।
भूतप्रेतादिपीडा च नश्येद् रुक्मिणीकाऽर्चनात् ।
रुक्मिणीं स्नापयेद् दध्ना क्षीरेण मधुना तथा ।।७७।।
शर्करया घृतेनापि गन्धैः सुगन्धिचन्दनैः ।
उतरैः श्रेष्ठतैलैश्च ततोऽभिषेकसज्जलैः ।।७८ ।।
श्रीखण्डकुंकुमेनापि कस्तूरीकेसरैस्तथा ।
विलेपयेयेन्महालक्ष्मीं रुक्मिणीं चातिभावतः ।। ७९ ।।
अपुत्रस्य भवेत्पुत्रोऽधनश्च धनमाप्नुयात् ।
दासान् भृत्यान् पशून् गाश्च प्राप्नुयाद् भोगवैभवान् ।। 1.227.८० ।।
पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः ।
करवीरैर्मल्लिकाभिस्तुलसीराजचम्पकैः ।।८ १ ।।
करवीरैः केतकैश्च धूपैर्वस्त्रैर्धनैस्तथा ।
भूषणैर्भूषयेद् देवीं मणिरत्नैर्विभूषणैः ।।८ २।।
एवं पूजयमानस्य न कुले निर्धनः क्वचित्। ।
नाऽपुत्रो नाऽप्यसद्भाग्यो न नीचसेवको भवेत् ।।८ ३ ।।
नैवेद्यं भक्ष्यभोज्यादि ततो दद्यात् प्रियं प्रियम् ।
ताम्बूलं च सकर्पूरं भावेन विनिवेदयेत् ।।८४।।
फलं जलं तथाऽर्घं च दद्यादारार्त्रिकं ततः ।
नीराजनं कर्पूरेण कृत्वा शंखजलं ततः ।।८५।।
भ्रामयेत् सर्वतो रक्षाकरं शिरसा धारयेत् ।
दण्डवत् प्रणमेद् भूमौ नमः कृष्णप्रिये! वदन् । ।८६।।
विप्रपत्न्यै ततो दद्याद् दानानि विविधानि च ।
सिन्दूरहारवस्त्राणि गन्धकुसुमकुंकुमम् ।। ८७।।
कज्जलं चापि ताम्बूलं भक्ष्यं भोज्यं नवं नवम् ।
अथैवं सत्यभामां च देवीं जाम्बवन्तीं तथा ।।८८ ।।
मित्रविन्दां च कालिन्दीं भद्रामग्निजितीं तथा ।
पूजयित्वा षोडशभिस्तर्पयित्वा च पायसैः ।।८९।।
सर्वान् कामानवाप्नोति परत्रेह च पूजकः ।
तस्मात्सर्वप्रयत्नेन राज्ञ्यश्च कृष्णवल्लभाः ।। 1.227.९० ।।
तोषणीयाश्चातिभक्त्या भवेयुः स्वर्गमोक्षदाः ।
सफलं जीवितं तेषां सफलाश्च मनोरथाः ।। ९१ ।।
माघे मासि सिताऽष्टम्यां चैत्रस्य द्वादशीदिने ।
वैशाखे चापि ज्येष्ठस्याऽष्टम्यां भाद्रे च कार्तिके ।। ९२।।
द्वादश्यां सितपक्षे सा पूजिता कृष्णसंयुता ।
दद्याद्वै चिरजीवित्वं चाक्षयां पुत्रसन्ततिम् ।। ९३ ।।
कारयेत् सुदृढं यश्च रूक्मिणीकृष्णमन्दिरम् ।
तस्य गोलोकधाम्न्येव वासः कृष्णस्य मन्दिरे ।। ९४।।
नित्यनैवेद्यसम्पूर्णव्यवस्था कारयेच्च यः ।
तस्य धाम्नि हरेर्नित्यं प्रसादप्रापणं भवेत् ।।९५।।
वस्त्रव्यजनसच्छत्रचामरकलशादिकम् ।
अर्पयेद् यः श्रीकृष्णाय तस्य तद्धाम्न्यनन्तकम् ।।९६।।
कृष्णलक्ष्मीचरणानां सेवकस्य सुस्मृद्धयः ।
सदा दिव्या भवन्त्येव नार्याश्च कृष्णभोग्यता ।।९७।।
स्नायाच्च सर्वतीर्थेषु दानं शक्त्या ददाति यः ।
सर्वयज्ञफलं नैव कलौ कृष्णश्रियोऽर्चनात् ।। ९८।।
मुक्त्वा द्वारवतीं पुण्यां मुक्तिर्नान्यत्र वै कलौ ।
लभ्यते च महालक्ष्मि क्षेत्रं दिव्यं च मेऽस्ति तत् ।।९ ९ ।।
इति ते कथितं मुख्यं तीर्थमाहात्म्यमुत्तमम् ।
जनः श्रुत्वा पठित्वा च तत्तीर्थफलमाप्नुयात् ।। 1.227.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारिकाक्षेत्ररक्षकाणां नामानि दुर्वाससः स्नाननिमित्तं कुशादिदैत्यानां नाशः कुशेश्वरादितीर्थानि वामनादितीर्थानि पट्टराज्ञीतीर्थादीनि चेत्यादिनिरूपणनामा सप्तविंशत्यधिकद्विशततमोऽध्यायः ।।२२७।।