लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२६
[[लेखकः :|]]
अध्यायः २२७ →

श्रीनारायण उवाच-
ततो गच्छेद् ब्रह्मकुण्डं तीर्थं पापप्रणाशनम् ।
कृष्णस्य दर्शनार्थं वै दैवतैः परिवारितः ।। १ ।।
ब्रह्माऽऽजगाम च पुर्यां द्वारवत्यां समुत्सवे ।
पाशीन्द्रयमवित्तेशाः सूर्याचन्द्रमसौ तथा ।। २ ।।
अन्ये च दिक्प्रपालाद्या दर्शनार्थं समागताः ।
तदा च ब्रह्मणा यत्र समाजः परिकल्पितः ।। ३ ।।
तत्स्थले वै महत्तीर्थं ब्रह्मकुण्डं च तत्तटे ।
ब्रह्मणा स्थापितः सूर्यः सर्वदा यश्च तिष्ठति ।। ४ ।।
सूर्यतीर्थं च तत्प्रोक्तं सर्वपापविनाशकम् ।
ब्रह्मतीर्थं सूर्यतीर्थं दृष्ट्वा चक्रे सरः शशी ।। ५ ।।
तडागं चन्द्रनाम्ना तत्प्रसिद्धं समजायत ।
सूर्यस्थानं मूलस्थानं श्राद्धपुण्यसहस्रदम् ।। ६ ।।
पितृतृप्तिकरं रम्यं कोटिपातकसंहरम् ।
माघे शुक्ले तु सप्तम्यां स्नात्वा लिप्त्वा स्थलं रवेः ।। ७ ।।
पूजयिष्यति सूर्यं यो पुष्पधूपनिवेदनैः ।
जलपत्रफलद्रव्यदक्षिणाभिश्च मानवः ।। ८ ।।
सर्वान् कामानत्र भुक्त्वा ब्रह्मलोकं गमिष्यति ।
ततश्च ब्रह्मणा सूर्यमन्दिरस्य च सन्निधौ ।। ९ ।।
सावित्र्या मन्दिरं कारयित्वा सूर्यरथे च ताम् ।
स्थापयित्वाऽऽयतने तां सावित्रीं नामतः स्वयम् ।। 1.226.१ ०।।
पद्मजः पूजयामास मूर्तौ देव्या विधानतः ।
चन्द्रसरस्तथा सावित्र्याश्च सन्मन्दिरं स्थलम् ।। १ १।।
तीर्थोत्तमं कृतं तेन वेधसा परमेष्ठिना ।
ब्रह्मा स्वयं तथा स्वस्य मूर्तौ निवासमाचरत् ।। १२।
प्रतिष्ठाविधिना स्वस्य प्रतिष्ठामकरोदजः ।
ब्रह्मतीर्थं च तज्जातं व्याध्याधिबलनाशकम् ।।१ ३।।।
ब्रह्माणं चापि सावित्रीं सूर्यं चन्द्रमसं तथा ।
पूजयिष्यन्ति ये दृष्ट्वा ते यास्यन्ति परां गतिम् ।। १४।।
ततश्च ब्रह्मणा तत्र गायत्री स्थापिता शुभा ।
स्वेनैव च प्रतिष्ठाया विधिस्तत्र कृतः शुभः ।। १५।।
गायत्रीतीर्थमित्येतत् ब्रह्मलोकप्रदं परम् ।
तांश्च देवाँस्तथा देवीः पुष्पार्घजलकुंकुमैः ।। १६।।
स्नापयेत्पूजयेद् भक्त्या वस्त्रनैवेद्यभोजनैः ।
भूषणैश्च तथा पात्रैः कर्पूरैलादिभिस्तथा ।। १७।।
ताम्बूलैः केसरैश्चैव पूजयेद् बहुभावतः ।
ध्यायेद्वन्देत च नमः कुर्याद् दण्डवदुत्सुकः ।। १८।।
दीपेन यज्ञसूत्रेण तुलस्या करवीरकैः ।
अन्यैः पुष्पै सुगन्धैश्चारार्त्रिकैः स्तुतिभिस्तथा ।। १९।।
प्रदक्षिणैश्चतान् देवान् विष्णुना सह पूजयेत् ।
कृष्णं च पूजयेत्तत्र शालग्रामं च पूजयेत् ।।1.226.२० ।।
शंकरं पार्वतीयुक्तं सगणं पूजयेत् ततः ।
सम्पूज्य स्नापयेत् सावित्रीं च यात्राफलं भवेत् ।।२१ ।।
न वैधव्यं न दौर्भाग्यं न वन्ध्यात्वं भवेत् ततः ।
न वै मृतप्रजात्वं स्यान्नाऽप्रजात्वं कथंचन ।।२२।।
धनधान्यधरास्मृद्धिः पुत्रपौत्रादिसिद्धयः ।
भवन्ति रविप्रभृतिपूजकस्य दिने दिने ।।२३।।
परितुष्टो भवेत् कृष्णो यात्रा च सफला भवेत् ।
ततस्तत्र रुक्मिणीसहितं कृष्णं समर्चयेत् ।।२४।।
ब्रह्मणा च ततस्तत्र ब्रह्मलिंगसरः कृतम् ।
इन्द्रश्चक्रे तथा तत्र सरः परमशोभनम् ।।२५।।
ब्रह्माणं स्थापयामास महेन्द्रं च शचीयुतम् ।
तत्र चेन्द्रपदे स्नात्वा स्वर्गं सत्यं च विदन्ति ।।२६।।
ब्रह्मेश्वरं तथा चेन्द्रेश्वरं वृद्धीश्वरं तथा ।
स्नापयित्वा पूजयित्वा दृष्ट्वा च मुच्यते जनेः।।२७।।
अष्टम्यां च चतुर्दश्यां कृतमक्षयपुण्यदम् ।
पितॄणां शाश्वती तृप्तिर्जायते तत्र श्राद्धतः ।।२८।।
विशेषतस्तु सम्पूज्या मकरस्थे दिवाकरे ।
उत्तरायणसंक्रान्तिशिवरात्र्यादिषु प्रगे ।।।२९।।
स्नात्वा तत्तत्सरःस्वेव तत्तत्तीर्थानि सञ्चरेत् ।
पूजयित्वा च तद्देवान् मुक्तिभाङ् नात्र संशयः ।।1.226.३ ० ।।
शंकरश्च तथा सत्या सहितश्चाकरोत्सरः ।
तत्रापि च जले स्नात्वा पूजयेत् शंकरं सतीम् ।।३ १ ।।
ब्रह्मणा विष्णुना सार्धं स्नातस्तत्र पिनाकधृक् ।
महादेवसरोनामाऽभवत् तज्जगतीतले ।।३२।।।
पितॄणां तर्पणं श्राद्धं तत्राऽक्षयसुखप्रदम् ।
दर्शनात्पापनिर्मुक्तिर्महादेवसरोवरे ।।३३।
स्नानं दानं जपो होमः स्वाध्यायः सुरपूजनम् ।
सर्वं तदक्षयफलप्रदं भवत्यनुष्ठितुः ।।३४।।
न दौर्भाग्यं नरस्यास्ति नाऽप्रजात्वं स्त्रियस्तथा ।
स्नात्वा गौरीसरस्यत्र सर्वान्कामानवाप्नुयात् ।।३५।।
वरुणोऽपि च तान्येव दृष्ट्वा सर्वस्थलानि वै ।
स्वनाम्ना च सरो दिव्यं कारयामास तत्र च ।।३६।।।
तत्तीरे वारुणीं देवीं जलदेवीं तथा स्वकाम् ।
मूर्तिं च स्थापयामास पूजयामास चादरात् ।।३७।।
भाद्रस्य पूर्णिमायां तु कृत्वा वरुणदर्शनम् ।
श्राद्धं कुर्यात्तर्पणं च कुर्यात्तत्राऽक्षयं फलम् ।।३८।।।
प्रदद्यादुदकुंभाँश्च दध्योदनसुभोजनम् ।
गाश्च वासांसि रत्नानि पक्वान्नानि रसाँस्तथा ।।।३ ९ ।।
विष्णुर्मे प्रीयतामुक्त्वा दद्याच्छत्रादिकं तथा ।
साधवे ब्रह्मदेवाय साध्व्यै वा चाक्षयं फलम् ।।1.226.४० ।।
दातुर्ब्रह्मगतिश्चास्ति यत्र गत्वा न शोचति ।
वारुणं च सरो दृष्ट्वा कुबेरश्चाऽकरोत्सरः ।।४१।।
कुबेरसर इत्येवं नाम्ना ख्यातो ततोऽभवत् ।
कुबेरदर्शनं स्नात्वा तीरे कृत्वा च भोजयेत् ।।४२।।
विप्रान् साधूँस्तथा साध्वीर्दक्षिणां चापि धूपयेत् ।
सुवर्णदानं दद्याच्च धनेशस्तुष्यति द्रुतम् ।।४३।।
लक्ष्मीवृद्धिं करोत्येषः सहस्रगुणितं फलेत्। ।
रजतं च सुवर्णं च ताम्रं वा पित्तलं त्रपु ।।४४।।
हीरकं वाथ रत्नं वा मणिं वा चाम्बरादिकम् ।
धनं धान्यं तथा गाश्च महिषीश्चापि कन्यकाः ।।४५।।
वस्त्रं खट्वा गेन्दुकादि कलशं पात्रमित्यपि ।
पुष्पं फलं च मिष्टान्नं तैलं सुगन्धमेव वा ।।४६।।
कपूरं चापि शृंगारद्रव्यं च चन्दनादिकम् ।
उपानहौ तथा छत्रं चामरं वाहनं तथा ।।४७।।
यानं नारीं सुतं भृत्यं पशुं स्वं शकटं तथा ।
पेटिकां भूषणं चान्यद् भक्ष्यं पेयं च भोजनम् ।।४८।।
यद्यद् दद्यान्मार्जनीं वा कण्डनीं पेषणीं तथा ।
चुल्लीं गर्गरिकां स्थालीं सर्वं सहस्रदं भवेत्। ।।४९।।
कृष्णं स्मृत्वा कुबेरं च सूर्यं शिवं विचिन्त्य च ।
रुक्मिण्यादिमहादेवीः स्मृत्वा दद्यादनन्तदम् ।।1.226.५०।।
महापुण्यं महास्वर्गं तथा चान्ते हरेः पदम् ।
प्राप्नोत्येव च कुबेरतीर्थकृन्मानवोऽव्ययम् ।।५१ ।।
ततः पञ्चनदं तीर्थं गच्छेद्वै पावनं परम् ।
गोमतीं च तथा लक्ष्मीगंगां द्वारावतीं तथा ।।५५२।।
गोपीतालं तथा चान्यसरांसि प्रविलोक्य च ।
प्रजानां पतयस्तीर्थं चक्रुः पञ्चनदात्मकम् ।।५३।।
पञ्चनद्यः समाहूतास्तत्राऽऽजग्मुस्त्वरान्विताः ।
मरीचिगोमतीमत्रिर्लक्ष्मणामाजुहाव वै ।।५४।।
अङ्गिराश्चन्द्रभागां च पुलहश्च कुशावतीम् ।
क्रतुर्जाम्बवतीं तत्र नदीं समाजुहाव च ।।५५।।
तासु स्नाता ब्रह्मपुत्राः स्नाताश्च सर्वदेवताः ।
पञ्चनदीसमाख्यातं तीर्थं तन्मोक्षदं परम् ।।५६।।
स्नातव्यं तत्र विधिवत् दातव्यमर्घमित्यपि ।
गृह्णन्त्वर्घमिमं नद्यो भवन्तु स्वर्गमोक्षदाः ।।५७।।
स्नानं कुर्याज्जलं पेयात् पितॄन् सन्तर्पयेत्तथा ।
पञ्चरत्नानि धान्यानि सप्त दद्याद् द्विजातये ।।५८।।
दीनान्धकृपणेभ्यश्च दद्याद्वस्तु स्वपेक्षितम् ।
सर्वान् कामानवाप्नोति विष्णुलोकं च गच्छति ।।।५९।।।
पुत्रपौत्रसमायुक्तः परं सौख्यमवाप्नुयात् ।
प्रेताश्च पितरः सर्वे मुक्तिं यास्यन्ति तत्स्थले ।।1.226.६ ०।।
ततो गच्छेन्महत्तीर्थं सिद्धेश्वरमिति ध्रुवम् ।
सनकाद्यैश्चतुःसिद्धैः स्थापितं लिंगमेव तत् ।।६१।।
समीपे च तथा कूपो मिष्टोदः खनितश्च तैः ।
ऋषितीर्थमिति ख्यातं जलपानाद् विमुच्यते ।।।६२।।
भक्तितः स्नानमात्रेण ब्रह्मलोकमवाप्यते ।
असन्तो निन्दकाश्चाथ वंचकाश्च शठा जनाः ।।६३।।
स्नानमात्रेण शुद्ध्यन्ति ऋषितीर्थे न संशयः ।
विषुवे च मनूनां च तिथिषु युगरंभणे ।।६४।।
माघकृष्णे शिवरात्र्यां सिद्धेशं यः प्रपूजयेत् ।
ऋषितीर्थे वसन् जपन् परंब्रह्म सनातनम् ।।६५।।
स्नात्वा देवं पूजयित्वा नमन् कुर्याच्च तर्पणम् ।
श्राद्धं कुर्यात्तथा दद्याद् दानानि विविधानि च ।।६६ ।।
तस्य हस्तगता मुक्तिर्भवत्येव न संशयः ।
दातव्यानि रसवन्ति फलान्यत्र विशेषतः ।।६७।।
देयौ श्यामाकनीवारौ विद्रुमश्च तिला अपि ।
शालयः सप्तधान्यानि सक्तवः शर्करायुताः ।।६८।।
घृतं माल्यानि ताम्बूलं गन्धो वस्त्राणि गोपयः ।
देयान्येवं दीनरंकविप्रसाधुभ्य एव च ।।६९।।
सिद्धेश्वरं च दुग्धेन स्नापयेत् मोक्षभाग्भवेत् ।
सिद्धेश्वरमहादेवदर्शने सति मानवाः ।।1.226.७० ।।
अपुत्राः पुत्रिणः पौत्रिणश्च भवन्ति सर्वथा ।
निर्धना धनवन्तश्च भवेयुः सुखवेदिनः ।।७१।।
कन्यकाः सत्पतिं प्राप्नुयुश्च सौभाग्यसम्पदः ।
दुष्कृतं विलयं याति सुकृतं चापि वर्धते ।।७२।।
ततो गच्छेन्महालक्ष्मि! गदातीर्थमनुत्तमम् ।
यत्र स्नानेन मनुजश्चाग्निष्टोमफलं लभेत् ।।७३।।
तत्र बाराहरूपं वै भगवन्तं प्रणम्य च ।
नत्वा स्तुत्वा पूजयित्वा विष्णुलोके महीयते ।।७४।।
तत्राद्ये युगसंयोगे वाराहो भगवान् स्वयम् ।
समागत्य विशश्राम गदां निहितवान् क्षणम् ।।७५।।
ततो गच्छेन्नागतीर्थं कृष्णस्य दर्शनेच्छया ।
नागाः पातालतो याता द्वारकायां क्षणं स्थिताः ।।७६।।
यत्र स्नात्वा परंब्रह्म प्राप्नुयान्नात्र संशयः ।
ततो गच्छेन्महत्तीर्थं चन्द्रभागाभिधं परम् ।।७७।।
तत्र स्नात्वा नरो भक्त्या वाजपेयफलं व्रजेत् ।
चन्द्रभागा शक्तिहस्ता खड्गखेटकधारिणी ।।७८।।
कंसादिदैत्यभयदा स्वसा या रामकृष्णयोः ।
यस्या दर्शनमात्रेण सर्वान् कामानवाप्नुयात् ।।७९।।
ततो गच्छेन्मुक्तिद्वारनामकं तीर्थमित्यपि ।
वशिष्ठेन समानीता गोमती यत्र संस्थिता ।।1.226.८० ।।
तज्जलं मस्तके धृत्वा स्वर्गलोकमवाप्नुयात् ।
ततो गच्छेच्च कालिन्दीसरस्तीर्थमनुत्तमम् ।।८ १।।
सूर्यपुत्री यमी चात्राऽऽगत्य तिष्ठति सर्वथा ।
कृष्णसेवापरा नित्या स्नानान्मुक्तिमवाप्नुयात् ।।८२।।
साम्बतीर्थं ततो गच्छेत्तीर्थं परमपावनम् ।
अम्बया सहितः शंभुः कृष्णपुत्रोऽभवत्पुरा ।।८३ ।।
तस्य स्थलं महत्तीर्थं साम्बतीर्थं सुमुक्तिदम् ।
तत्र स्नात्वा जनो भक्त्याऽऽप्नुयाद् रूपं सुवर्णकम् ।।८४।।
 लक्ष्मीनदीं ततौ गच्छेन्नायणसमाश्रिताम् ।
लक्ष्मीस्तत्र जलरूपा ह्यवसत् कृष्णलालसा ।।८५।।
यस्याः स्पर्शनमात्रेण मुच्यते सर्वपातकैः ।
कम्बुसरस्ततो गच्छेन्निर्मलं जलमापिबेत् ।।८६।।
नारायणेन शंखस्य जलं यत्रास्ति वै धृतम् ।
तत्र तद्वै सरोरूपं जातं शंखश्च संस्थितः ।।८७।।
शरवतीर्थं च तत्प्रोक्तं स्नात्वा मुक्तिमवाप्नुयात् ।
जालेश्वरं ततस्तीर्थं गच्छेद्वै लोकपावनम् ।।८८।।
कण्वर्षिणा पुरा यदोः शप्ताश्चात्र कुमारकाः ।
विनाशाय यदोः कुलस्यैवेति शापजालतः ।।८९।।
जालेश्वरो महादेवः स्थापितस्तत्र बालकैः ।
शान्त्यर्थं तस्य शापस्य तत्तीर्थं सुखदं परम् ।।1.226.९० ।।
सम्पूजयित्वा जालेशं शिवलोकमवाप्नुयात् ।
ततो गच्छेज्जरत्कारुतीर्थं परमपावनम् ।।९१।।
यत्र वै नागकन्यैका जरत्कार्वीति वर्तते ।
विवाहिता जरत्कारुऋषिणा पितृतारणे ।।।९२।।
पुत्रलाभेन पितर उद्धृतास्तेन सर्वथा ।
तच्च तीर्थं पितॄणां वै तारकं स्नानदानतः ।।९३।।
आनकदुन्दुभितीर्थं ह्यक्रूरतीर्थमित्यपि ।
बलतीर्थमुग्रसेनतीर्थं चार्जुनतीर्थकम् ।।९४।।
देवकीतीर्थमेवाद्यं रोहिणीतीर्थमित्यपि ।
सुभद्रातीर्थमेवापि कर्दमतीर्थमित्यपि ।। ९५।।
कृष्णपार्षदतीर्थानि पत्नीतीर्थानि चैव ह ।
भक्ततीर्थानि चाप्यत्र चमत्कारकृतानि च ।।९६।।
प्रसिद्धानि च लुप्तानि तीर्थानि सन्ति कोटिशः ।
साक्षाद्यत्र तु गोलोकं वर्तते तत्र किं नहि ।।९७।।
सर्वतीर्थानि सन्त्येव पदे पदे न संशयः ।
प्लावितानि च सामुद्रजलेन पांशुना मुहुः ।।९८।।
रजोपि मोक्षदं यस्य पवनः पापनाशनः ।
जलं दित्यतनुदातृ कृष्णयोगान्न संशयः ।।९९।।
मोक्षद्वारं स्वर्गद्वारं सुखद्वारं च द्वारिका ।
लक्ष्मि! तद्वै सदा सेव्यं तीर्थं तु द्वारिकाह्वयम् ।। 1.226.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारकायां ब्रह्मकुण्डसूर्यवरुणकुबेरप्रभतिदेवसरोवरादि पञ्चनद्यादिषड्त्रिंशत्तीर्थप्रदर्शननामा षड्-
विंशत्यधिकद्विशततमोऽध्यायः ।। २२६ ।।