लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२५
[[लेखकः :|]]
अध्यायः २२६ →

श्रीनारायण उवाच-
सन्निधौ मयसरसः सरस्त्वन्यच्चकार सः ।
तच्च गोपीसरःख्यातं महत्तीर्थं हि पद्मजे ।। १ ।।
सेवितं यदुनारीभिस्तथा यदुकुमारकैः ।
कारणाद् गोपिकानां च कृष्णेन कारितं शुभम् ।। २ ।।
गोवचःवाचको शब्दो भवतीभिर्मया सह ।
गोप्रचारेति वै नाम गोपीसरइतिप्रथम् ।। ३ ।।
गोपीतडागइत्येवं ख्यातं लोके भविष्यति ।
अर्घं दत्वा विधानेन स्नानं कुर्याद् विचक्षणः ।। ४ ।।
गां प्रदद्यात् सवत्सां च वस्त्रालंकारभूषिताम् ।
यथोक्तदक्षिणोपेतां ब्राह्मणाय कुटुम्बिने ।। ५ ।।
पृथ्वीदानफलं चात्र गोदानेन हि लभ्यते ।
स्नानमात्रेण गोदानफलं वै लभते जनः ।। ६ ।।
यावत्पदानि मनुजो गच्छति गोपिकासरः ।
कुलानि दिवि तावन्ति मोदन्ते हरिमन्दिरम् ।। ७ ।।
कृष्णकीर्तनकर्तारो ये गच्छन्ति सरोवरम् ।
न मातुर्जठरे तेषां पुनर्वासो भवेदिह ।। ८ ।।
गोपीसरस्तीरतीर्थं यः करोति जनः स तु ।
सर्वान्कामानवाप्नोति वैष्णवं लोकमाप्नुयात् ।। ९ ।।
श्राद्धं कुर्यात्तथा पितॄन् तर्पयेद्वै विशेषतः ।
ताम्बूलं कज्जलं स्वर्णं दाने दद्याच्च वस्त्रकम् ।। 1.225.१० ।।
दम्पत्योर्वाससी दद्याद् भूषणानि धनानि च ।
कन्याभ्यो भोजनं दद्याद् वस्त्रभूषाधनादिकम् ।। ११ ।।
गोप्यस्तेन प्रसन्नाः स्यु सौभाग्यस्मृद्धिदाः सदा ।
गावो देयाश्च वृषभा गजाश्चाश्वाश्च कन्यकाः ।। १२।।
यद्यत् कामयते लोकस्तत्तद् दद्यान्मिलेत्पुनः ।
यावल्लोका भविष्यन्ति तावत् स्थास्यति वै सरः ।। १३ ।।
गोप्यश्च पतिभावेन ब्रह्मभावेन वा पुनः ।
चिन्तयानाः परं कृष्णं वसाना द्वारिकापुरे ।। १४।।
सेवयमाना नित्यं ताः कृतार्था ह्यभवंस्ततः ।
कृष्णाज्ञया नमस्कृत्य कृष्णं संसेव्य तृप्तितः ।। १५।।
उद्धवेन सह याता गोकुलं स्वगृहं शुभम् ।
कृष्णेन गोपिकानां तत्तीर्थं श्रेष्ठं भुवि कृतम् ।। १ ६।।
गोपीसरोरजो दिव्यं दिव्या धूली च पिंगला ।
दिव्यं जलं तथा दिव्या वृक्षवल्ल्यस्तटस्थिताः ।। १७।।
दिव्या वसतयस्तस्य पशुपक्ष्यादिचेतनाः ।
दिव्या गोलोकधाम्नस्ते ह्यधिकारिण एव वै ।। १८।।
गोपीचन्दनलिप्तांगो गोपीधूल्यूर्ध्वपुण्ड्रकः ।
गोपीमृत्कणिकाऽऽस्यश्च मुक्तो भवति मानवः ।। १९ ।।
गोपीचन्दनबिन्दुयुक्ललाटं यस्य दृश्यते ।
दृष्ट्वा तं यमदूताश्च दूरं यान्ति हि पद्मजे ।। 1.225.२० ।।
गोपीचन्दनतिलकं वैष्णवं देवताः सदा ।
पश्यन्ति नित्यदा प्रातर्लयं पापानि यान्ति च ।। २१ ।।
गोपीचन्दनबिन्दुर्वै कण्ठे वाथ ललाटके ।
भुजयोर्वा कृतो येन मुक्तिस्तस्य न संशयः ।। २२।।
गोपीधूलीकृतचन्द्रा नारी या सधवाऽथवा ।
विधवा वाथ कन्या च कुमारी विधुराऽथवा । ।२३।।
गणिका किंकरी दासी शरणाऽऽप्ता च साश्रिता ।
निराश्रिताऽथवा व्यग्रा विचित्ता बहुगामिनी । । २४।।
स्मृद्धा रंका च विदुषी मूर्खा च कूटिनी तथा ।
यादृशी तादृशी चौरा कामुकी वासनावती ।। २५।।
सद्यः शुद्ध्यति पापेभ्यो युज्यते पुण्यकोटिभिः ।
दिव्या भवति गोपीवत् व्रजेत् कृष्णांकयोग्यताम् ।।२६ ।।
स्वर्गे भोगानक्षयाँश्च भुक्त्वा कोटियुगानि सा ।
देवैश्च वन्दिता यायादन्ते गोलोकधाम सा ।। २७।।
तत्र राधासमा गोपी भूत्वा कृष्णेन मोदते ।
गोपीसरोवरे यच्च कीटपतंगमक्षिकम् ।। २८ ।।
पशुपक्षिसरीसृपपिपीलिकामृगादिकम् ।
मृतिं यास्यति तत्सर्वं गोलोकं यास्यति ध्रुवम् ।। २९ ।।
कृष्णमृत्तिकया स्नातो गोपीमृत्तिकयाऽऽप्लुतः ।
प्रेमसरोवरे मग्नो गोलोकाधिकृतोऽस्ति सः ।। 1.225.३० ।।
न यज्ञैर्न च दानैर्न जपैः स्वाध्यायतापनैः ।
प्राप्यते तादृशं स्थानं गोपीधूल्याप्यते यथा ।। ३१ ।।
गोमती गोपिकातालो गोपालकृष्ण एव च ।
गोपीधूली गवां दानं गकाराः पञ्च मोक्षदाः ।। ३२ ।।
गकराः पञ्च यैः प्राप्ताः प्राप्तं सर्वं च तेन वै ।
प्राप्तः कृष्णो हरिर्येन किं तस्याऽत्राऽवशिष्यते ।। ३३ ।।
मरणे यस्य कस्यापि मुखे च कणिका पतेत् ।
गोपीधूल्यास्ततः सोपि मुक्तिं याति न संशयः ।। ३४ ।।
गोमत्याः गोपिकातालस्याग्रे वा सन्निधौ मृतेः ।
गोलोकं धाम तस्यार्थे निश्चितं विष्णुपार्षदैः ।। ३५ ।।
आकाशमार्गतो याता पक्षिणोऽपि दिवं गताः ।
भवन्ति गोपिकातालोपरितः किमुताऽऽप्लवे ।। ३६ ।।
हरये न च नैवेद्यं धृतं वा जलमित्यपि ।
गोपीचन्दनमिश्रं चेत् प्रसादस्तद्भवेत्खलु ।। ३७।।।
देशकालादिवैषम्ये हरेः प्रासादिकं यदि ।
मिलेन्नैव तदा भोज्ये पेये वा कणिकां क्षिपेत् ।। ३८ ।।
ततो भुञ्ज्याच्च वै पेयात् प्रसादस्तद्धि जायते ।
नाऽनिवेदितभोज्यस्य प्रत्यवायो भवेत् खलु ।। ३ ९।।
भूतप्रेतपिशाचानामावेशदुःखवान् जनः ।
कण्ठे वै धारयेद् गोपीचन्दनगूटिकां शुभाम् ।।1.225.४० ।।
भक्षयेद् गोपिकास रोरजः स्नायाच्च तज्जले ।
चन्द्रकं भालमध्ये च कुर्यान्नित्यं समाहितः ।।४ १ ।।
एवंकृते पिशाचाद्यावेशो नश्यति वै ध्रुवम् ।
स्वस्थो भवति पुण्यात्मा पूतो भवति सर्वथा ।।४२ ।।
दरिद्रस्यापि भाग्यं वै वर्धते स्मृद्धिस म्प्रदम् ।
रोगनाशो भवेत् दुःखनाशश्चापि भवेत्तथा ।।।४३।।
कृष्णस्य दिव्यमूर्तेश्च सम्बन्धाद्दिव्यतां गताः ।
मृत्तिकाश्च तथा ह्याप्ता निर्गुणा मुक्तिदा मताः ।।४४।।
कृष्णयोगात् कृष्णरूपा गावो गोमतीगोपिकाः ।
स्वप्रसंगाऽऽगतान् जन्तून्नयन्ति निर्गुणात्मताम् ।।४५।।
कृष्णसम्बन्धसम्बद्धा निर्गुणा जडचेतनाः ।
मोक्षयन्ति तथा चान्यान् कृष्णवत् कृष्णमानसाः ।।४६ ।।
कामो लोभस्तथा क्रोधो मानो मोहश्च म त्सरः ।
दोषत्वं स्वं परिहाय गुणत्वं यान्ति कृष्णके ।।४७।।
नार्यो नराश्च पशवोऽसुराः शस्त्राणि वाहनम् ।
वस्त्रं भोज्यं तथा पेयं सर्वं निर्गुणतां व्रजेत् ।।४८।।
मायापि निर्गुणा दिव्या यत्सम्बन्धाद् भवत्यपि ।
किम्वन्यत् तत्र वक्तव्यं निर्गुणकृष्णसंगतम् ।।४९।।
धन्यं वै गोपजातीयं धन्यं गोजातिकं तथा ।
धन्यं गोलोकजातीयं यत्कृष्णानन्दसंभृतम् ।।1.225.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोपीचन्दनमहिमकथननामा पंचविंशत्यधिकद्विशततमोऽध्यायः ।। २२५ ।।