लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२९
[[लेखकः :|]]
अध्यायः २३० →

श्रीनारायण उवाच-
श्रूयता च महालक्ष्मि! द्वारिका गोमती तथा ।
निर्मिता स्वर्गनिःश्रेणिः कलौ कृष्णेन गोमती ।। १ ।।
सुखदा सेविनां नित्यं स्नानमात्रेण मोक्षदा ।
शिलाश्चक्रांकिता यत्र गोमत्युदधिसंभवाः ।। २ ।।
दृष्टा अपि परं मोक्षं प्रापयन्ति तु दर्शकान् ।
यन्मृत्तिका मोक्षदाऽस्ति तां पुरीं को न सेवयेत् ।। ३ ।।
आवन्त्यो ब्राह्मणः कश्चित्सोमशर्मेतिनामकः ।
शिवभक्तो न जानाति तदन्यदेवताव्रतम् ।। ४ ।।
चतुर्दशीं करोत्येव विष्णुं तु मनुते नहि ।
प्रतिवर्षं करोति स्म सोमनाथस्य दर्शनम् ।। ५ ।।
सप्ताऽयुतं गतं तस्य वर्षाणां जर्जरो ह्यभूत् ।
सोमनाथस्य यात्रायां कोटिशो ह्यभवन् जनाः ।। ६ ।।
ते च सर्वे महत्तीर्थं कृत्वा गत्वा च रैवतम् ।
ततो गताश्च द्वारिकायात्रार्थं न गतो द्विजः ।। ७ ।।
सोमशर्मा ययौ नैजं गृहं सुष्वाप चैकलः ।
स्वप्ने च पितरस्तस्य पितामहाः समाययुः । । ८ । ।
प्रपितामहयुक्ताश्च बान्धवा वृद्धसन्ततेः ।
प्रेतरूपाः क्षुधाव्याप्ता रौद्राः शोकसमन्विताः । । ९ ।।
दृष्ट्वा तान् भयमापन्नश्चोवाच सः प्रकम्पितः ।
के यूयं रौद्ररूपाः स्थ कुतः कस्मात् समागताः ।। 1.229.१० ।।
प्रेताः प्राहुश्च तं पुत्रं ते स्मो वयं पितामहाः ।
दुःखिता क्षुधिताश्चात्र त्वत्समीपे समागताः ।। ११ । ।
पुत्रः प्राह मया दत्तं तप्तं हुतं च भोजितम् ।
भवतां तुष्टिलाभाय भवद्भिश्चापि तत्कृतम् ।। १२ ।।
कथं तिष्ठथ प्रेतत्वे ब्रूत कारणमत्र मे ।
प्रेता ऊचुः शृणु पुत्र विद्धो वै हरिवासरः ।। १३ ।।
कृतोऽस्माभिस्त्वया चापि क्रियते न हरेर्दिनम् ।
तेन दोषेण चास्माकं प्रेतत्वं दुःखदं वृतम् ।। १ ४।।
न चाप्युद्धार एवास्ति तव पापान्महत्तरात् ।
न त्वं कुरुषे भगवद्व्रतं यात्रां करोषि न । । १५ ।।
कृष्णं न मनुषे पुत्र द्वारिकां न च गच्छसि ।
केवलं शंकरं देवं भजसे निन्दसि प्रभुम् ।। १ ६। ।
तेन दोषेण प्रेतत्वं प्राप्तास्त्वमपि प्राप्स्यसि ।
न विष्णुद्वेषिणः शंभुः करिष्यति हि सद्गतिम् ।। १७।।
शंकरो विष्णुभक्तोऽस्ति वैष्णवाग्र्यः स वर्तते ।
कृष्णनिन्दाकरस्याऽयं पूजां गृह्णाति नैव च ।। १८ ।।
हरिभक्तिविहीनानां द्वादशीव्रतवर्जिनाम् ।
पापं नाशं न चायाति प्रेतत्वं न निवर्तते ।। १९ । ।
विना केशवपूजां तु पूज्यमानेऽपि शंकरे ।
नारकं दुःखदं कष्टं पापं भवति गोवधम् ।। 1.229.२० ।।
प्रथमं केशवः पूज्यः पश्चाच्छ्रीशंकरोऽर्हति ।
पूजनं च ततो देवाः पूज्याश्चान्ये व्यवस्थितिः ।। २१ ।।
त्वया नास्तिकभावेन पूज्यते न हरिः स्वयम् ।
न पूजा रक्षति शैवी भास्करी न पितामही ।। २२।
प्रेतभावं नार्दयति विद्धवासरजं खलु ।
वैशाखे तु तृतीयां च विद्धां तिथिं करोति यः ।। २३ ।।
हव्यं देवा न गृह्णन्ति कव्यं नैव पितामहाः ।
कुरुते यदि मोहात्तां प्रेतत्वं तस्य वै ध्रुवम् ।। २४।।
द्वादशी पूर्णमासी च पित्रोः सम्वत्सरं दिनम् ।
पूर्वविद्धं प्रकुर्वाणो नरकं प्रतिपद्यते ।। २५।।
प्रणम्य सोमनाथं त्वं द्वारकां नैव गच्छसि ।
करोषि कृष्णसेवां न यात्रायास्ते फलं नहि ।।२६।।
तस्मात् सोमेश्वरं दृष्ट्वा गन्तव्यं द्वारकापुरीम् ।
दृष्ट्वा सोमेश्वरं देवं द्वारकां याति नैव यः ।।२७।।
स पतेन्नरके घोरे पितृभिः सह पुत्रक ।
तद्वयं पतिताः सर्वे पातिताश्च पुनस्त्वया ।।२८।।।
निर्गमो यमलोकाच्च तदस्माकं न दृश्यते ।
गोमतीनीरसम्पर्कात् कृष्णवक्त्रावलोकनात् ।।२९।।
गोपीसरःश्राद्धदानात् तरन्ति पितरः सुत ।
कृष्णस्य द्वारकां गत्वा पश्याननं हरेः प्रभोः ।। 1.229.३० ।।
श्राद्धं दानं समुद्रस्य गोमतीसंगमे कुरु ।
तर्पणं गोपिकाताले कुरु कृष्णसमर्पणम् ।। ३ १।।
तव पुण्यं भवेच्छुभ्रं चास्माकं च गतिर्भवेत् ।
पूजिते देवदेवेशे कृष्णे रुक्मिणीसेविते ।।३२ ।।
पूजिताश्च वयं पुष्टिं कुर्मः पुत्रपौत्रिकीम् ।
प्रेतयोनिविनिर्मुक्ता यास्यामः परमां गतिम् ।।३३।।
गोमतीनिरधौ तस्य न वै प्रेतत्वमस्ति हि ।
तत्र श्राद्धप्रदानेन पितृतृप्तिश्च मोक्षणम् ।।३४।।
तीर्थकोटिसहस्रैश्च तत्र श्राद्धैश्च यत्फलम् ।
तत्फलं लभ्यते सर्वं द्वारकायां जलार्पणात् ।।३५।।
यतीनां भोजनं कृष्णभोजने चापि यत्फलम् ।
तत्फलं प्राप्यते कोटिकल्पतृप्तिकरं शुभम् ।।३६।।
द्वारकावासिनां मुक्तिः शाश्वती सर्वथा मता ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।।३७।।
या नारी विधवा नित्यं कुरुते द्वारकाश्रयम् ।
सा तु लक्ष्मीर्भवत्येव कृष्णस्य प्रियकारिणी ।।३८।।
कृष्णं कृष्णपुरीं गत्वा योऽर्चयेत् तुलसीदलैः ।
प्राप्तं जन्मफलं तेन तारिताश्च पितामहाः ।।३९।।।
तुलसीदलमालां च कृष्णोत्तीर्णां तु यो वहेत् ।
पत्रे पत्रेऽश्वमेधानां दशानां जायते फलम् ।।1.229.४० ।।
तुलसीमालया युक्तः श्राद्धं दानं समाचरेत् ।
पितॄणां देवतानां च स्वल्पं कोटिगुणं भवेत् ।।४१ ।।
तुलसीकाष्ठमालां तु दृष्ट्वा द्रवन्ति यामकाः ।
यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथाऽऽर्द्रकम् ४२।।
भवते तद्गृहे नैव पापसंक्रमणं क्वचित् ।
तस्मात्पुत्र तुलस्याश्च मालां धृत्वा च वैष्णवः ।।४३।।।
भूत्वा गच्छ हरेः सौम्यां द्वारकां श्राद्धमावह ।
तर्पणं च कुरु तीर्थजलैश्चातः प्रमोक्षय ।।४४।।
उन्मोलनी च शयनी त्रिःस्पृशा पक्षवर्धिनी ।
त्वया पुत्र प्रकर्तव्या जयन्ती विजया जया ।।।४५।।
कृष्णाष्टमी प्रकर्तव्या सर्वपापप्रणाशिनी ।
सर्वसम्पत्प्रदा मोक्षप्रदा गच्छ सुखान् कुरु ।।४६।।
इति श्रुत्वा च पितॄणां प्रेतानां द्वारकां द्विजः ।
चन्द्रशर्मा ययौ नित्यगोलोकधामसदृशीम् ।।४७।।
यत्र श्रीरुक्मिणीकृष्णः तीर्थानि सन्ति सर्वदा ।
यज्ञाश्च देवता यत्र तिष्ठन्ति मुनयोऽमलाः ।।४८।।
किन्नरैः सिद्धगन्धर्वैः सेव्यते या च द्वारका ।
स्वर्गारोहणनिःश्रेणिर्वर्तते यत्र गोमती ।। ४९।।
यस्याः सीमप्रविष्टस्य नश्यन्ति पापपर्वताः ।
सा पुरी द्विजवर्येण दृष्टा निर्मलनेत्रतः ।।1.229.५० ।।
मुदं प्राप्तो द्विजस्तत्र गोमतीं कृष्णमन्दिरम् ।
कृष्णं च सागरं द्वारावतीं ननाम भावतः ।।५१ ।।
मेने च कृतकृत्यं स्वं धन्यं भाग्योदयान्वितम् ।
तीर्थकोटिसहस्राणां नाऽद्याऽस्ति मे प्रयोजनम् ।।।५२।।
शुक्ला वैशाखमासस्य सम्प्राप्ता मधुसूदनी ।
द्वादशी त्रिःस्पृशा नाम कोटिपापनिकृन्तनी ।।५३।।
अहौ पुण्योदयो जातो मया दृष्टाऽद्य द्वारका ।
इति कृत्वा त्वपः स्पृष्ट्वा स्नात्वा सन्तर्प्य देवताः ।।५४।।
चक्रतीर्थं समासाद्याऽऽनर्च चक्रांकितां शिलाम् ।
कृष्णस्य दर्शनं षोडशोपचारश्च पूजनम् ।।५५।।
शिवस्य पूजनं चैव चक्रे भावसमन्वितः ।
पितॄणां पिण्डदानं च जलं दत्वा विधानतः ।।५६।।
हरेः स्नापनं दुग्धेन चन्दनेन विलेपनम् ।
धूपं दीपं च नैवेद्यं नवान्नं कन्दमूलकम् ।।५७।।
ताम्बूलं कर्पूरं वस्त्रं फलमारार्त्रिकं तथा ।
प्रदक्षिणं नमस्कारं स्तवनं कुसुमाञ्जलिम् ।।५८।।
दण्डवच्च क्षमायाञ्चां कृत्वा जागरणं तथा ।
रात्रौ यामत्रयेऽतीते प्रार्थना स चकार वै ।।५९।।
कृष्ण कृष्ण हरे कृष्ण नारायण नमोऽस्तु ते ।
दीनान्धदुःखमग्नानां त्वमेव शरणं सुखम् ।।1.229.६ ० ।।
तव पादप्रसेवायाः फलं नित्यं महासुखम् ।
दुःखं सर्वं विनश्येद्वै तव द्वादशीसेविनाम् ।।६ १ ।।
दशमीवेधजं पापं यत्कृतं मम पूर्वजैः ।
तत्सर्वं विलयं यातु मोक्षं यान्तु च पूर्वजाः ।।६२।।
यथा प्रेतत्वशून्याः स्युर्मम पूर्वपितामहाः ।
मुक्तिं प्रयान्ति देवेश तथा कुरु जगत्पते ।।६३।।
मया शिवप्रभक्तेन तवापि हेलनं कृतम् ।
पूजनं वन्दनं तीर्थं मे दर्शनं नैव यत् कृतम् ।।६४।।
तज्जन्यं यन्महतपापं विलयं यातु मे सदा ।
न कृता द्वारकायात्रा न कृष्णोऽत्र प्रसेवितः ।।६५।।
न स्नाता गोमती यच्च दोष मार्जय तद्धरे ।
अद्यप्रभृति दासोऽस्मि वैष्णवस्तव केशव ।।६६।।
तव पूजा तव व्रतं तव पाठं च सेवनम् ।
लेपनं कीर्तनं स्तोत्रं करिष्ये वन्दनं तव ।।६७।।
श्रवणं ते कथायाश्च पादोदकस्य धारणम् ।
नैवेद्यभक्षणं ते च करिष्यामि हरे सदा ।।६८।।
प्रसन्नो भव भगवन् पापं प्रज्वालय मम ।
मुक्तिं कुरु च पितॄणां प्रार्थनां स्वीकुरु प्रभो ।।६९।।
श्रुत्वैतद्वचनं देवः श्रीकृष्णः प्राविरास वै ।
चन्द्रचर्यन् तव भक्त्या तुष्टोऽस्मि पितरश्च ते ।।1.229.७०।।
त्वं च पापानि निर्धूय गन्तारो मम धाम यत् ।
उक्त्वा कृष्णस्तिरोऽभूच्च पितरः समुपस्थिताः ।।७१ ।।
प्रोचुः पुत्र तव यत्नान्मुक्तिं प्राप्ता न संशयः ।
गोमती नीरदानेन पिण्डदानेन दर्शनात् ।।७२।।
प्रेतयोनिविनिर्मुक्ता गच्छामः परमां गतिम् ।
धन्यास्ते पितरो लोके यत्कुले द्वारकां सुतः ।।७३।।
गत्वा तु तारयेत् पितॄन् कृष्णसेवादिभिः सदा ।
धन्या सा विधवा नारी कृष्णयात्रां करोति या ।।७४।।
तारयत्येव जनकं स्वामिनं च कुलं शतम् ।
श्वपचोऽपि यदि तीर्थं करोति कृष्णमानसः ।। ७५।।
स याति परमां मुक्तिं पितृभिः परिवारितः ।
यस्मात् सर्वाणि तीर्थानि सर्वदेवास्तथा मखाः ।।७६।।
द्वारकायां समायान्ति त्रिकालं कृष्णसन्निधौ ।
फलं समग्रतीर्थानां ततोऽत्र लभते जनः ।।७७।।
दृष्ट्वा सोमेश्वरं यस्तु द्वारकां नैव पश्यति ।
धिक् सुतं च कुलं तस्य पितरो नरके स्थिताः ।।७८।।
ब्रह्मा रुद्रस्तथा सूर्यो महेन्द्राद्याश्च देवताः ।
मानवाश्च नृपा विप्राः सर्पा नागाश्च पत्तलाः ।।७९।।
नदा नद्यश्च शैलाश्च वनान्युपवनानि च ।
पुर्यो ग्रामा नगर्यश्च सागराश्च सरांसि च ।।1.229.८० ।।
यक्षा गणाश्च गन्धर्वाः सिद्धा विद्याधरास्तथा ।
अप्सरसश्च पर्यश्च धनदो दैत्यराक्षसाः ।।८१।।
ऋषयो मुनयो योगाः सनकाद्याश्च साधवः ।
साध्व्यश्च योगिनीचक्रं सांख्ययोगिन्य इत्यपि ।।८२।।
गृहनक्षत्रयोगाश्च ध्रुवश्च लोकपालकाः ।
यत्किंचित्तु त्रिलोक्यां वै वर्तते स्थाणुजंगमम् ।।।८३ ।।
श्रीकृष्णसन्निधौ नित्यं तिष्ठते प्रत्यहं हि तत् ।
न त्यजति पुरीं पुण्यां द्वारकां कृष्णमण्डिताम् ।।८४।।
सा त्वया सेविता पुत्र वयं च कृष्णदर्शनात् ।
प्रेतयोनिप्रमुक्ताः स्मो गच्छामः परमां गतिम् ।।८५ ।।
स्वस्ति तेऽस्तु न गच्छामो गोलोकं दिव्यधाम तत् ।
प्राप्तं कृष्णपदं पुत्र त्वं च गन्ताऽसि धाम तत् ।।८६।।
न कलौ फलदा वेदा न दानानि मखा न च ।
गोमती फलदा स्वर्गमोक्षदा सर्वथा मता ।।८७।।
कलौ काशी च मथुरा ह्यवन्ती रेवताचलः ।
अयोध्या कुंकुमवापी कांची च पुरुषोत्तमा ।।८८।।
शालग्रामा नदी माया बदरी च तथा गया ।
कुरुक्षेत्रं भृगुक्षेत्रं पुष्करं शुक्लतीर्थकम् ।।८९।।
प्रयागश्च प्रभासश्च हाटकेश्वर इत्यपि ।
गंगाद्वारं च वाराहं गंगासागरसंगमः ।।1.229.९ ०।।
नैमिषं दण्डकारण्यं तथा वृन्दावनं सुत ।
सिन्धुक्षेत्रं चार्बुदं च सर्वारण्यानि यानि च ।।९ १ ।।
वनान्यायतनान्येव तथोपराणि यानि च ।
शैला शैलेयतीर्थानि हिमानि च वनानि च ।।९२।।
सरितः सागराः सर्वे कृष्णसेवनलालसाः ।
पापनाशप्रकामाश्च दिव्यानन्दाभिलाषुकाः ।।९३।।
तिष्ठन्ति गोमतीनीरे द्वारकायां कलौ युगे ।
नास्ति वै त्रिषु लोकेषु पुरी तु द्वारकासमा ।।९४।।
तवाऽऽयुःपूर्णताप्राप्तौ मृत्युर्दिव्यो भविष्यति ।
त्रिःस्पृशावासरे शुक्ले वैशाखे बुधवासरे ।। ९५।।
ब्रह्मरन्ध्रेण ते यानं भविष्यति हरेर्गृहे ।
इत्युक्त्वा पितरस्तस्य चतुर्भुजस्वरूपिणः ।।९६।।
दिव्यविमानसंस्थाश्च याता गोलोकधाम तत् ।
सोमशर्मा ययौ स्वस्य गृहं भूत्वा च वैष्णवः ।।९७।।
आयुषोऽन्त तु सम्प्राप्ते गत्वा द्वारवतीं पुरीम् ।
प्राणान् कृष्णोपदेशेन त्यक्त्वा मोक्षं जगाम सः ।।९८।।
शृण्वतां पठतां चैव माहात्म्यं द्वारकाभवम् ।
जायते वै फलं सर्वं चान्ते मोक्षो भवेद् ध्रुवः ।।९९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शिवभक्तस्य सोमशर्मणः पितॄणां द्वारकायात्रादिना मोक्षणनिरूपणनामैकोनत्रिंशदधिकद्विशततमोऽध्यायः ।।२२९।।