लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२१
[[लेखकः :|]]
अध्यायः २२२ →

श्रीनारायण उवाच-
ततो गच्छेन्महालक्ष्मि! गोमत्युदधिसंगमे ।
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ।। १ ।।
गंगासागरसंयोगे सिन्धुसागरसंगमे ।
फलं यत् तल्लभ्यतेऽत्र गोमत्युदधिसंगमे ।। २ ।।
पापं प्रणश्यते स्नात्वा ह्यर्घ्यं दद्याद्विधानतः ।
कुशांश्च करयोर्धृत्वा नारिकेलफलं तथा ।। ३ ।।
अर्घं दद्यान्नमस्कृत्य श्रीकृष्णपरमात्मने ।
तीर्थराज नमस्तुभ्यं त्राहि संसारसागरात् ।। ४ ।।
रत्नाकर गृहाणाऽर्घं गोमत्या सह ते नमः ।
अर्घं दत्वा शिखां बध्वा स्मृत्वा च जलशायिनम् ।। ५ ।।
कुर्यात् स्नानं प्राङ्मुखश्च पितॄन् संतर्पयेत् ततः ।
पितृश्राद्धं तथा कृत्वा दद्याच्च दक्षिणां शुभाम् ।। ६ ।।
सुवर्णं वाससी दद्यात् कञ्चुकोष्णीषमित्यपि ।
महादानानि दद्याच्च यदीच्छेत् क्षेममात्मनः ।। ७ ।।
लक्ष्म्याः सह हरिः साक्षाद्विष्णुर्मे प्रीयतामिति ।
उक्त्वा दद्याद् विविधानि दानानि भोजनानि च । । ८ ।।
तुलापुरुषदानं च कुर्यात्सागरसंगमे ।
सप्त द्वीपनृपो भूत्वा वैकुण्ठं याति मानवः ।। ९ ।।
तुलया तोलयेत् स्वं यः सुवर्णरजतादिभिः ।
वस्त्रकुंकुमकर्पूरशर्कराफलसद्रसैः ।। 1.221.१० ।।
सोत्र भोगान् सुखान् भुक्त्वा मोक्षं याति सुरार्चितः ।
स्वर्णदानं वाजपेयं स्नानं गोमतीवारिणी ।। ११ ।।
कन्यादानं भूमिदानं विद्यादानं विधानतः ।
गोमत्याः संगमे कुर्यात् याति ब्रह्मपदं हि सः ।। १ २।।।
स्वर्णधेनुं घृतधेनुं तिलधेनुं प्रदाय वै ।
वस्त्रादिशर्कराधेनुं दत्वा याति परं पदम् ।। १ ३।।।
युगादितिथिमुख्यासु पञ्चकास्वष्टकासु च ।
वैधृतौ च व्यतिपाते गजच्छायाह्वये तथा ।। १४।।
षष्ठ्यमैकादश्यष्टमीद्वादशीश्राद्धसद्व्रते ।
स्नात्वा नीरनिधौ तद्वत् गोमतीचक्रतीर्थयोः ।। १५।।
गोमत्युदधिसंयोगे स्नात्वा ब्रह्मपदं लभेत् ।
अमावास्यादिने श्राद्धं कार्यं गोमतिसंगमे ।। १६।।
पक्षश्राद्धकृतं पुण्यं दिनैकेन लभेज्जनः ।
श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ।। १७।।
द्रव्यहीनं कालहीनं मनऐकाग्र्यवर्जितम् ।
परिपूर्णममाश्राद्धं पितॄणामुदधौ भवेत् ।। १८।।
गोमती कमला चन्द्रभागा तदोदधौ वसेत् ।
गयायां पिण्डदानेन प्रयागे चास्थिपातनात् ।। १९।।
अमायां श्राद्धदानेन शाश्वतं पुण्यमाप्यते ।
यदीच्छेत् सर्वतीर्थेषु स्नानं व्रतधरः पुमान् ।।1.221.२०।।।
स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसंगमे ।
अपुत्रा मृतपुत्रा वा काकवन्ध्या स्रवत्सुता ।।२१ ।।
दोषैः प्रमुच्यते नारी गोमत्युदधिसंगमे ।
श्राद्धं दानं तथा पितृतर्पणं जलदर्शनम् ।।।२२।।
व्रतं स्नानं तथा पुण्यं जपो होमश्च कीर्तनम् ।
शाश्वतीतृप्तिकृत्पुण्यं गोमत्युदधिसंगमे ।।।२३ ।।
मातृपक्षाः पितृपक्षा भगिनीपक्षकास्तथा ।
पुत्रीपक्षाः श्वश्रूपक्षास्तथा श्वशुरपक्षकाः ।।।२४।।
पितृस्वसृपक्षगाश्च स्नुषापक्षास्तथा जनाः ।
सपत्नीपक्षगाश्चापि रक्षिकापक्षगा अपि ।।२५।।
भ्रातृजायापक्षगाश्च स्वसृपुत्र्यादिपक्षगाः ।
पितृभ्रातृसुतापत्नीप्रभतिपक्षका अपि ।।।२६।।
मित्रबान्धवभृत्यानां येऽपि सम्बन्धधारकाः ।
जन्मान्तरगता ये च नारकाः खनिगर्भगाः ।।२७।।
ते सर्वे संस्मृताः श्राद्धे गोमत्युदधिसंगमे ।
स्नाने दाने संस्मृताश्च तृप्तिं यान्ति तु शाश्वतीम् ।।।२८।।
सर्वपापैः प्रमुच्यन्ते मुक्तिं यान्ति न संशयः ।
श्रावणद्वादशीयोगे समभ्यर्च्य तु वामनम् ।।२९।।
परमं लोकमाप्नोति स्नात्वा गोमतिसंगमे ।
पीताम्बरधरो भूत्वा दिव्याभरगभूषितः ।। 1.221.३०।।
चतुर्भुजधरश्चैव वनमालाविभूषितः ।
सेव्यमानः सुरस्त्रीभिर्विमानकृतवाहनः ।।३ १ ।।
संस्तूयमानः ऋषिभिः श्रीहरेरर्चको जनः ।
गोमतीसंगमे पूतो याति विष्णोः परं पदम् ।।३२।
गोमतीसागरे स्नात्वा गच्छेत् सप्तप्रकुण्डकान् ।
सर्वैराराधितः कृष्णो हरिराविर्बभूव ह ।। ३३ ।।
सह लक्ष्म्या हरिं दृष्ट्वा सनकाद्या महर्षयः ।
सप्तमिष्टजलगर्तान् कृत्वा सिषिचुरिन्दिराम् ।।३४।।
ततो लक्ष्मीह्रदा एते कलौ ते रुक्मिणीह्रदाः ।
भृगुणा सेविताश्चैते भगुतीर्थमिति स्मृतम् ।।३५।।
तत्र प्रक्षाल्य चरणौ तथाऽऽचम्य कुशाँस्ततः ।
संगृह्य प्राङ्मुखो भूत्वाऽर्घं गृह्णीत्वाऽक्षतादिभिः ।। ३६।।
हस्तौ च मस्तकोपरि समुन्नीय फलादिभिः ।
अर्घं दातव्यमेवात्र ह्रदे रुक्मिणिसंज्ञिते ।।३७।।
स्नानं कुर्यात्ततो ध्यात्वा तीर्थानि पितृदेवताः ।
देवमानवपितॄँश्च सन्तर्प्य हरिभावतः ।।३८।।
विप्रानाहूय च श्राद्धं प्रकुर्वीत च भक्तितः ।
दक्षिणां रजतं स्वर्णे फलं मिष्टान्नमम्बरम् ।।।३९।।
भोजनं चापि दम्पत्योर्दद्याच्च भूषणादिकम् ।
शाटीं च कंचुकीं श्रेष्ठां घर्घरीं कर्पटादिकम् ।।1.221.४० ।।
पितृपंक्तीश्च संपूज्य नारीश्चान्याः कुमारिकाः ।
सम्पूज्य दद्याद् दानानि रुक्मिणी प्रीयतामिति ।।४ १ ।।
वसते च सदा लक्ष्मीस्तस्य गेहे न संशयः ।
स्मृद्धिं सर्वां समाप्नोति लक्ष्मीस्तस्य प्रसीदति ।।।४२।।
सप्तस्वपि हृदेष्वेव दानं दद्यात् पृथक् पृथक् ।
तत्सर्वं चाऽक्षयं विन्देल्लक्ष्मीलोके सुखप्रदम् ।।४३।।।
अलक्ष्मीर्नश्यति तस्य लक्ष्मीर्यस्य प्रसीदति ।
पशुपुत्रगृहवाटीक्षेत्रभवनशालयः ।।४४।।
भवन्ति सततं श्रेष्ठा लक्ष्मीर्यस्य प्रसीदति ।
स्वर्णादिवर्धनं तस्य लक्ष्मीस्तुष्टा तु यं प्रति ।।४५।।
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ।
सप्तह्रदेषु लक्ष्म्यात्मनारीणां भोजनं वरम् ।।४६।।
दानं च पूजनं चैव सम्मानं भूषणादिकम् ।
शृंगारं वाहनं यानं देहोपकरणादिकम् ।।४७।।
पृथक् पृथक् प्रदद्याद्वै लक्ष्मीर्मे प्रीयतामिति ।
वसत्येव सदा गेहे लक्ष्मीस्तस्य न संशयः ।।४८।।
हीनभाग्यो न च भवेन्न भवेत्परयाचकः ।
अग्र्यो भवति सर्वेषु यः स्नाति रुक्मिणीह्रदे ।।४९।।
पुनरागमनं न स्याद् वैकुण्ठं याति मानवः ।
सपत्नीकश्चतुर्भुजः शाश्वतं सुखमश्नुते ।।।1.221.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीसागरसंगमतीर्थलक्ष्मीसप्तह्रदतीर्थविधाननिरूपणनामैकविंशाधिकद्विशततमोऽध्यायः ।। २२१ ।।